Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.106

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.106.1

अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः ।
पाञ्चालाः कुरुभिः सार्धं किमकुर्वत स़ञ्जय ॥ ७.१०६.१ ॥

桑almost:桑阇耶啊,当阿周那前往信度王处时,被婆罗堕遮之子德罗纳包围的般遮罗人与俱卢人一起做了什么?

7.106.2

अपराह्णे महाराज सङ्ग्रमे रोमहर्षणे ।
पाञ्चालानां कुरूणां च द्रोणद्यूतमवर्तत ॥ ७.१०६.२ ॥

大王啊,午后,在令人毛骨悚然的战斗中,般遮罗人与俱卢人之间展开了一场与德罗纳相关的如同掷骰子般的较量。

7.106.3

पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः ।
अभ्यमुञ्चन्त गर्जन्तः शरवर्षाणि मारिष ॥ ७.१०६.३ ॥

尊者啊,般遮罗人一心想杀死德罗纳,心怀喜悦,高声吼叫,射下如雨的箭。

7.106.4

ततस्तुल तुमुलस्तेषां सङ्ग्रामोऽवर्तताद्भुतः ।
पाञ्चालानां कुरूणां च घोरो देवासुरोपमः ॥ ७.१०६.४ ॥

于是,般遮罗人与俱卢人之间爆发了一场喧嚣、奇异而可怕的战斗,如同天神与阿修罗之战。

7.106.5

सर्वे द्रोणरथं प्राप्य पाञ्चालाः पाण्डवैः सह ।
तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन् ॥ ७.१०६.५ ॥

所有般遮罗人与般度五子一同来到德罗纳的战车前,欲刺穿那支军队,展示了大神兵。

7.106.6

द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः ।
कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम् ॥ ७.१०६.६ ॥

车战武士们登上各自的战车,直抵德罗纳战车的边缘,以中等速度震撼着向前推进。

7.106.7

तमभ्ययाद्बृहत्क्षत्रः केकयानां महारथः ।
विमुञ्चन्निशितान्बाणान्महेन्द्राशनिसन्निभान् ॥ ७.१०६.७ ॥

柯迦耶族的大车将布里哈特克沙特拉向他冲去,射出如因陀罗霹雳般锐利的箭矢。

7.106.8

तं तु प्रत्युद्ययौ शीघ्रं क्षेमधूर्तिर्महायशाः ।
विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः ॥ ७.१०६.८ ॥

然而名声显赫的刹摩德胡提迅速迎上前去,成百上千地射出锐利的箭矢。

7.106.9

धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः ।
त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्रमिव शम्बरः ॥ ७.१०६.९ ॥

车底族的雄牛持律伽图被巨大的力量激起,迅速冲向德罗纳,如同商跋罗扑向因陀罗。

7.106.10

तमापतन्तं सहसा व्यादितास्यमिवान्तकम् ।
वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् ॥ ७.१०६.१० ॥

大弓手维罗顿文见他突然扑来,如张口的死神,急忙迎上前去。

7.106.11

युधिष्ठिरं महाराजं जिगीषुं समवस्थितम् ।
सहानीकं ततो द्रोणो न्यवारयत वीर्यवान् ॥ ७.१०६.११ ॥

勇猛的德罗纳随即阻拦了坚定立于军中、渴望胜利的大王坚战。

7.106.12

नकुलं कुशलं युद्धे पराक्रन्तं पराक्रमी ।
अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो ॥ ७.१०६.१२ ॥

主公啊,你的儿子毗迦尔纳前去迎战善于作战、勇猛推进而来的那腊昆罗。

7.106.13

सहदेवं तथाऽऽयान्तं दुर्मुखः शत्रुकर्शनः ।
शैररनेकसाहस्रैः समवाकिरदाशुगैः ॥ ७.१०६.१३ ॥

同样,折磨敌人的杜尔穆卡以成千上万支迅疾的箭覆盖了前来的萨诃德瓦。

7.106.14

सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत् ।
शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः ॥ ७.१०६.१४ ॥

然而,跋耶格拉达塔以极其锋利的利箭一次又一次地使人中之虎萨蒂亚奇震颤,并阻挡了他。

7.106.15

द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान् ।
संरब्धान्रथिनः श्रेष्ठान्सौमदत्तिरवारयत् ॥ ७.१०६.१५ ॥

索摩达提之子阻挡了德劳帕迪之子——人中之虎——他们正射出上好的箭,以及愤怒的诸位最优秀的车战者。

7.106.16

भीमसेनं तदा क्रुद्धं भीमरूपो भयानकः ।
प्रत्यवारयदायान्तमार्श्यशृङ्गिर्महाबलः ॥ ७.१०६.१६ ॥

那时,相貌可怖、令人恐惧、大力的鹿角仙人阻挡了愤怒前来的怖军。

7.106.17

तयोः समभवद्युद्धं नरराक्षसयोर्मृधे ।
यादृगेव पुरावृत्तं रामरावणयोर्नृप ॥ ७.१०६.१७ ॥

国王啊,他们二人之间,人与罗刹之间,发生了一场如往昔罗摩与罗波那之间那样的战斗。

7.106.18

ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम् ।
आजघ्ने भरतश्रेष्ठः सर्वमर्मसु भारत ॥ ७.१०६.१८ ॥

于是,婆罗多族中最优秀的坚战以九十支弯曲关节的箭射中德罗纳的所有要害之处。婆罗多啊!

7.106.19

तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे ।
रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना ॥ ७.१०६.१९ ॥

德罗纳愤怒地用二十五支箭射中他的胸膛正中,婆罗多中最优秀者啊,这是被光荣的昆提之子所射。

7.106.20

अदृश्यं समरे चक्रे राजानं सायकोत्तमैः ।
साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् ॥ ७.१०६.२० ॥

在所有弓箭手注视下,德罗纳用上好的箭使国王在战场上消失不见,连同他的马匹、御者和旗帜。

7.106.21

ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः ।
अवारयत धर्मात्मा दर्शयन्पाणिलाघवम् ॥ ७.१०६.२१ ॥

然而正法之魂的般度子,展示手上的敏捷,以箭雨挡住了德罗纳射出的那些箭。

7.106.22

ततो द्रोणो भृशं क्रुद्धो दर्मराजस्य संयुगे ।
चिच्छेद समरे धन्वी धनुस्तस्य महात्मनः ॥ ७.१०६.२२ ॥

于是德罗纳大怒,作为弓手,在与正法之王的战斗中,将那位大德者的弓在战斗中斩断。

7.106.23

अथैनं छिन्नधन्वानं त्वरमाणो महारथः ।
शरैरनेकसाहस्रैः पूरयामास सर्वतः ॥ ७.१०६.२३ ॥

于是那位大车战士急忙以数千支箭从四面八方射向弓已断的他。

7.106.24

अदृश्यं वीक्ष्य राजानं भारद्वाजस्य सायकैः ।
सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम् ॥ ७.१०६.२४ ॥

众生看到国王被跋罗堕遮之子的箭所遮蔽而不见,都以为坚战确已被杀。

7.106.25

केचिच्चैनममन्यन्त तथैव विमुखीकृतम् ।
हृतो राजेति राजेन्द्र ब्राह्मणेन महात्मना ॥ ७.१०६.२५ ॥

有人认为他也被这样转过身去;啊,王中之王,有人认为国王已被那位大德婆罗门劫走。

7.106.26

स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः ।
त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे।
आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम् ॥ ७.१०६.२६ ॥

法王坚战陷入极大的困境;在战斗中,婆罗堕阇之子斩断了他的弓,他便弃之,拿起另一把能承受重力、更为迅捷的神弓。

7.106.27

ततस्तान्सायकांस्तत्र दोणनुन्नान्सहस्रशः ।
चिच्छेद समरे वीरस्तदद्भुतमिवाभवत् ॥ ७.१०६.२७ ॥

于是那位英雄在战斗中斩断了德罗纳射出的那成千上万支箭,那情景如同奇迹。

7.106.28

छित्त्वा तु ताञ्शरान्राजक्रोधसंरक्तलोचनः ।
शक्तं जग्राह समरे गिरीणामपि दारिणीम्।
स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम् ॥ ७.१०६.२८ ॥

斩断那些箭后,双眼因愤怒而通红的国王,在战斗中抓起一把能劈开甚至群山的长矛;矛杆为金制,极其可怖,有八个铃铛,令人恐惧。

7.106.29

समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली ।
नादेन सर्वभूतानि त्रासयन्निव भारत ॥ ७.१०६.२९ ॥

他高高举起它,欣喜的大力勇士发出雷鸣般的吼声;婆罗多啊,那吼声仿佛令一切众生都为之恐惧。

7.106.30

शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे ।
स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन् ॥ ७.१०६.३० ॥

众生见法王在战斗中举起长矛,忽然都说:“愿德罗纳平安!”

7.106.31

सा राजभुजनिर्मुक्ता निर्मुक्तोरगसन्निभा ।
प्रज्वालयन्ती गगनं दिशः सप्रदिशस्तथा।
द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा ॥ ७.१०६.३१ ॥

如同从国王臂中射出的蜕皮之蛇,点燃天空、四方与四隅,宛如口中燃烧的蛇女,抵达德罗纳身前。

7.106.32

तामापतन्तीं सहसा दृष्ट्वा द्रोणो विशाम्पते ।
प्रादुश्चक्रै ततो ब्राह्ममस्त्रमस्त्रविदां वरः ॥ ७.१०६.३२ ॥

人主啊,德罗纳见那箭突然向自己飞来,便是精通兵器者中最优秀的他,随即唤出了梵天神箭。

7.106.33

तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम् ।
जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः ॥ ७.१०६.३३ ॥

那神箭将那可怖外形的标枪化为灰烬,随即迅速飞向名声显赫的般度之子的战车。

7.106.34

ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम् ।
अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव मारिष ॥ ७.१०६.३४ ॥

于是,极具智慧的国王坚战,啊,尊者,以梵天神箭本身平息了德罗纳高举的那件武器。

7.106.35

विद्व्वा तं च रणे द्रोणं पञ्चभिर्नतपर्वभिः ।
क्षुरप्रेण सुतीक्ष्णेन चिच्छेदास्य महद्धनुः ॥ ७.१०६.३५ ॥

在战场上,他以五支弯曲节的箭射中德罗纳,并以极其锋利的剃刀头箭,斩断了德罗纳的大弓。

7.106.36

तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः ।
गदां चिक्षेप सहसा धर्मपुत्राय मारिष ॥ ७.१०६.३६ ॥

德罗纳抛开那张断弓,这位摧毁刹帝利的人,啊,尊者,突然将铁杵掷向法之子。

7.106.37

तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः ।
गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परन्तप ॥ ७.१०६.३७ ॥

尤毗什提尔见那铁杵突然向自己飞来,愤怒地抓起这同一铁杵掷出,啊,焚灭敌人者。

7.106.38

ते गदे सहसा मुक्ते समासाद्य परस्परम् ।
सङ्घर्षात्पावकं मुक्त्वा समेयातां महीतले ॥ ७.१०६.३८ ॥

两根铁杵骤然掷出,彼此相撞;碰撞中迸出火焰,落于地面。

7.106.39

ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष ।
चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः ॥ ७.१०६.३९ ॥

于是德罗纳大怒,啊,贤者,以四支锋利、尖锐的上好箭射倒了法王的马。

7.106.40

चिच्छेदैकेन भल्लेन धनुश्चेन्द्रध्वजोपमम् ।
केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः ॥ ७.१०६.४० ॥

他以一支月牙头箭斩断了那如同因陀罗旗的弓,又以一箭斩落旗幡,并以三箭射伤了般度之子。

7.106.41

हताश्वात्तुल रथात्तूर्णमवप्लुत्य युधिष्ठिरः ।
तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ ॥ ७.१०६.४१ ॥

马匹被杀,尤毗什提尔迅速从车上跳下,婆罗多族的雄牛啊,这位无兵器的国王举起双臂站立。

7.106.42

विरथं तं समालोक्य व्यायुधं च विशेषतः ।
द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो ॥ ७.१०६.४२ ॥

德罗纳见他无车,尤其无兵器,便令敌人和全军迷乱,啊,大能者。

7.106.43

मुञ्चंश्चेषुगणांस्तीक्ष्णाँल्लघुहस्तो दृढव्रतः ।
अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः ॥ ७.१०६.४३ ॥

他放出一阵阵锐利的箭矢,手法敏捷,誓愿坚定,如猛狮扑向鹿一般,冲向那位国王。

7.106.44

तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना ।
हाहेति सुमहाञ्शब्दः पाण्डूनां समजायत ॥ ७.१०६.४४ ॥

众般若见杀敌的德罗纳向他冲来,般度子弟中骤然响起一片“哎呀”的巨大哀号。

7.106.45

हृतो राजा हृतो राजा भारद्वाजेन मारिष ।
इत्यांसीत्सुमहाञ्शब्दः पाण्डूसैन्यस्य सर्वतः ॥ ७.१०६.४५ ॥

“国王被擒了!国王被婆罗堕遮之子擒住了,尊者啊!”般度军中四面八方响起一片巨大的喧嚷。

7.106.46

ततस्त्वरितमारुह्य सहदेवरथं नृपः ।
अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः ॥ ७.१०६.४६ ॥

于是,贡蒂之子国王坚战急忙登上偕提婆的战车,驾着迅捷的马匹逃走了。