摩诃婆罗多 · 章 7.109
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.109.1
किरन्तं शरवर्षाणि रोषाद्दोणं महाहवे ।
वित्रासयन्तं तां सेनां कौन्तेयानां महीपते ॥ ७.१०९.१ ॥
噢,大地之主!德罗纳在大战中愤怒地倾泻箭雨,使那支俱卢族army of the sons of Kuntī感到恐惧……
7.109.2
दृष्ट्वा ततो महेष्वासो निघ्नन्तं च रथान्भृशम् ।
घटोत्कचो महाबाहू रणायाभिजगाम ह ॥ ७.१०९.२ ॥
于是伟大的弓箭手、臂力强大的迦托特迦,见德罗纳猛烈摧毁战车,便向战斗进发。
7.109.3
पिशाचवदनैर्युक्तं रथं काञ्चनभूषितम् ।
समास्थाय महाराज नानाप्रहरणैर्युतः ॥ ७.१०९.३ ॥
大王啊,他登上一辆驾着鬼脸骏马、以黄金装饰的战车,配备了各式各样的兵器。
7.109.4
दंशितस्तपनीयेन कवचेन सुवर्चसा ।
भूषणैराचिताङ्गश्च नदन्निव च तोयदः ॥ ७.१०९.४ ॥
身披金色耀眼的铠甲,肢体饰以珠宝,他如同咆哮的雨云。
7.109.5
हैडिम्बेयः सुसङ्क्रुद्धो द्रोणमभ्यद्रवद्बली ।
तमभ्यधावदायान्तं क्रद्धरूपलम्बुसः ॥ ७.१०९.५ ॥
希迭姆巴之子极为愤怒,强大的他冲向德罗纳。前来的他,遭以愤怒之形的兰布萨迎面冲击。
7.109.6
ऋक्षचर्मपरिक्षिप्तं रथमास्थाय दंशितः ।
रक्तोष्ठः सधनुष्पाणिः प्रांशुः कल्प इव स्थितः ॥ ७.१०९.६ ॥
他登上覆以熊皮的战车,身披铠甲,红唇,手持弓箭,身材高大,屹立如劫末之时。
7.109.7
क्षिपञ्छतघ्नीर्विपुला मुसलोपमतोमरान् ।
मुसण्ठीर्बहुलाश्चैव त्रिशूलानपि पट्टसान् ॥ ७.१०९.७ ॥
投掷巨大的百杀器、如木杵的长矛、许多木槌状兵器、三叉戟和短剑。
7.109.8
कर्पराञ्छतधारांश्च पिनाकान्विविधांस्तथा ।
चक्राणि च क्षुरप्राणि क्षेपणीश्च कटङ्कटान् ॥ ७.१०९.८ ॥
投掷卡帕拉、百刃兵器、各种毗那迦弓、飞轮、剃刀箭、投掷器和卡坦卡塔。
7.109.9
नारायान्विविधानस्यन्सकङ्कोलूकवायसान् ।
चिक्षेप धनुरादाय निनदन्भैरवान्रवान् ॥ ७.१०९.९ ॥
他放出那罗遮箭和各种箭,箭形如鹤、鸮、乌鸦,怒吼着拿起弓掷出。
7.109.10
तं रौद्रं क्रूरमायान्तं दृष्ट्वा कालमिवागतम् ।
प्राद्रवद्भयसंविग्ना राजन्पाण्डववाहिनी ॥ ७.१०९.१० ॥
大王啊,看见那可怖残暴者来临,仿佛死神降临,般度军队惊恐万分,四散逃逸。
7.109.11
सात्यकिस्तु रथव्याघ्रो दृष्ट्वा तं राक्षसं युधि ।
अभ्ययादमरप्रख्यो भ्रामयित्वा महद्धनुः ॥ ७.१०९.११ ॥
然而,战车武士中的猛虎萨提奇,在战场上看见那罗刹,如天神一般,挥舞大弓向前迎去。
7.109.12
अभ्यद्रवच्च तद्रक्षस्तिष्ठतिष्ठेति चाब्रवीत् ।
अलम्बुसं राक्षसेन्दरं सोऽस्त्रवर्षैरवाकिरत् ॥ ७.१०९.१२ ॥
他冲向那罗刹,喊道:“站住,站住!”并以箭雨覆盖了罗刹王阿兰布沙。
7.109.13
ततः पाण्डवसैन्यानि विद्रुतान्यथ भारत ।
निरीक्ष्याभ्यद्रवत्तूर्णं त्वरमाणो घटोत्कचः ॥ ७.१०९.१३ ॥
婆罗多啊,于是般度之子的军队溃散逃走。看到这情景,迦托迦查急速冲了上去。
7.109.14
चिक्षेप च गदाशक्तीस्तोमरानथ पट्टसान् ।
हेमचित्रत्सरूनुग्रान्खङ्गानाकाशसप्रभान् ॥ ७.१०९.१४ ॥
他投掷了棍棒、长矛、投枪和剑,还有饰以黄金的凶猛长枪,以及如天空般闪耀的弯刀。
7.109.15
अन्योन्यमरादालोक्य राक्षसौ तौ महाबलौ ।
भैरवं नदतुर्नादान्सतोयाविव तोयदौ ॥ ७.१०९.१५ ॥
二位大力罗刹远远望见彼此,发出可怖的吼声,宛如两朵满载雨水的云。
7.109.16
ततः प्रववृते युद्धं घोरं राक्षससिंहयोः ।
यादृगेव पुरा वृत्तं रामरावणयोर्मृधे ॥ ७.१०९.१६ ॥
于是两位如狮子般的罗刹之间爆发了可怕的战斗,正如往昔罗摩与罗波那在战场上的那一场。
7.109.17
स शक्तीश्च पिनाकांश्च वज्रान्खङ्गान्परश्वथान् ।
अन्योन्यमभिसङ्क्रुद्धौ तदा व्यसृजतामुभौ ॥ ७.१०९.१७ ॥
此时两人都怒不可遏地互相投掷长矛、弓、雷杵、剑和斧。
7.109.18
आकृष्यमाणे धनुषि तयोर्बाहुबलेन च ।
यन्त्रेणेव तदा राजन्भृशं नादान्प्रचक्रतुः ॥ ७.१०९.१८ ॥
大王啊,二人以臂力拉开弓弦,弓弦发出极为可怖的声响,宛如机械所发。
7.109.19
अलम्बुसस्ततश्चक्रं कृतान्तज्वलनप्रभम् ।
घटोत्कचाय चिक्षेप यत्नमास्थाय वीर्यवान् ॥ ७.१०९.१९ ॥
于是勇猛的阿兰步沙竭力将一个如死亡之火般炽烈的轮盘掷向迦陀迦。
7.109.20
तद्भैमसेनिः सम्प्रेक्ष्य चक्रं वेगवदन्तरे ।
गदया ताडयामास तद्दीर्णं शतधाऽभवत् ॥ ७.१०९.२० ॥
比玛塞那之子见那迅疾的轮盘飞近,便以金刚杵击之,轮盘碎裂成百片。
7.109.21
ततोऽग्निचूर्णैः सहसा चक्रघातविनिःसृतैः ।
दंशकैरिव सा सेना पतद्भिर्भृशसंकुला ॥ ७.१०९.२१ ॥
于是,那支军队突然被轮盘撞击迸出的火星所笼罩,火星如蚊蚋般纷纷坠落,使军队拥挤不堪。
7.109.22
ततः प्रतिहते चक्रे स वीरो रोषसंकुलः ।
प्राहिणोत्तरसा शूलं शक्तीर्दशशतं तदा॥। ॥ ७.१०९.२२ ॥
那时轮盘被击退,那位英雄怒火填膺,立即投出一柄长矛和百支投枪。
7.109.23
ज्वलन्तीश्च किरन्तीश्च ज्वालामालाः समन्ततः ।
युगान्तोल्कानिभास्तीक्ष्णा हेमदण्डा महास्वनाः ॥ ७.१०९.२३ ॥
炽热燃烧,四面撒落火焰花环,锋利如劫末的流星,金柄,发出巨响。
7.109.24
ताश्चापतन्तीः सम्प्रेक्ष्य राक्षसस्य घटोत्कचः ।
अर्धचन्द्रैः प्रचिच्छेद नाराचैः कङ्कपत्रिभिः ॥ ७.१०९.२४ ॥
罗刹迦陀迦见它们向自己飞来,便以新月形箭和羽饰鹤羽的铁箭将其一一斩断。
7.109.25
ततो रोषपरीताङ्गः प्रमुमोच स राक्षसः ।
शरवर्षं महाघोरं घटोत्कचरथं प्रति ॥ ७.१०९.२५ ॥
于是那罗刹怒火攻心,向迦托迦之车倾泻出极为可怖的箭雨。
7.109.26
तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः ।
कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव ॥ ७.१०९.२६ ॥
那两头罗刹中的雄狮之间的战斗彼此都令人恐惧,如同因陀罗与商婆罗施展种种幻术而战。
7.109.27
अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत् ॥ ७.१०९.२७ ॥
阿兰布沙极为愤怒,击打了迦托迦。
7.109.28
तयोर्युद्धं समभवद्रक्षोग्रामणिमुख्ययोः ।
यादृगेव पुरा वृत्तं रामरावणयोः प्रभो ॥ ७.१०९.२८ ॥
这两位罗刹首领之间展开的战斗,正如往昔罗摩与罗波那之间的战斗一样,啊主上。
7.109.29
घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे ।
अलम्बुसमथो विद्धा सिंहवद्व्यनदन्मुहुः ॥ ७.१०९.२९ ॥
然而迦托迦以二十支那罗遮箭射穿阿兰布沙的胸膛,如狮子般一次次地咆哮。
7.109.30
तथैवालम्बुसो राजन्हैडिम्बिं युद्धदुर्मदम् ।
विद्व्वा विद्वृऽनदद्वृष्टः पूरयन्खं समन्ततः ॥ ७.१०९.३० ॥
同样,啊国王,阿兰布沙射穿了沉醉于战斗狂热的海丁波(迦托迦),并如暴雨般咆哮,充满四方的天空。
7.109.31
तथा तौ भृशसङ्क्रुद्धौ राक्षसेन्द्रौ महाबलौ ।
निर्विशेषमयुध्येतां मायाभिरितरेतरम् ॥ ७.१०९.३१ ॥
如此,那两位极其愤怒、大力的罗刹王,以幻术彼此相战,毫无高下之分。
7.109.32
मायाशतसृजौ नित्यं मोहयन्तौ परस्परम् ।
मायायुद्धेषु कुशलौ मायायुद्धमयुध्यताम् ॥ ७.१०९.३२ ॥
那二人不断制造数百种幻术,彼此迷惑,精通幻术之战,展开了幻术之战。
7.109.33
यांयां घटोत्कचो युद्धे मायां दर्शयते नृप ।
तां तामलम्बुसो राजन्माययैव निजघ्निवान् ॥ ७.१०९.३३ ॥
大王啊,无论迦托特迦在战斗中展示何种幻术,阿兰布沙便以同样的幻术将他击杀。
7.109.34
तं तथा युध्यमानं तु मायायुद्धविशारदम् ।
अलम्बुसं राक्षसेन्द्रं दृष्ट्वाऽक्रुध्यन्त पाण्डवाः ॥ ७.१०९.३४ ॥
看到那精通幻术之战、如此作战的罗刹王阿兰布沙,般度诸子勃然大怒。
7.109.35
त एनं भृशसंविग्नाः सर्वतः प्रवरा रथैः ।
अभ्यद्रवन्त सङ्कुद्धा भीमसेनादयो नृप ॥ ७.१०९.३५ ॥
大王啊,那些杰出的勇士,以毕摩森那为首,极度不安且愤怒,乘战车从四面八方向他冲去。
7.109.36
त एनं कोष्ठकीकृत्य रथवंशेन मारिष ।
सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम् ॥ ७.१०९.३६ ॥
先生啊,他们以战车之列将他围成栅栏,从四面八方向他射出箭雨,正如人们用火把围住大象一般。
7.109.37
स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया ।
तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः ॥ ७.१०९.३७ ॥
他以幻化的箭术之力击退了他们的箭势,像从林火中逃脱的象一样,从战车群中脱身而出。
7.109.38
स विष्फार्य अनुर्धोरमिन्द्राशनिसमस्वनम् ।
मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः ॥ ७.१०९.३८ ॥
他拉开那发出如因陀罗霹雳般响声的弓,以二十五支箭射中风神之子(毗摩),以五支箭射中毗摩先之子。
7.109.39
युधिष्ठिरं त्रिभिर्विद्धा सहदेवं च सप्तभिः ।
नकुलं च त्रिसप्तत्या द्रोपदेयांश्च मारिष।
पञ्चभिःपञ्चभिर्विद्ध्वा घोरं नादं ननाद ह ॥ ७.१०९.३९ ॥
他以三箭射中坚战,以七箭射中偕天,以七十三箭射中无种;又以每五箭射中德劳帕蒂的诸子,发出可怕的吼声。
7.109.40
तं भीमसेनो नवभिः सहदेवस्तु पञ्चभिः ।
युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत।
नकुलस्तु चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः ॥ ७.१०९.४० ॥
毗摩先以九箭射中那罗刹,偕天以五箭,坚战以一百箭;无种以六十四箭,德劳帕蒂的诸子各以三箭射中。
7.109.41
हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः ।
पुनर्विव्याध सप्तत्या ननाद च महाबलः ॥ ७.१०९.४१ ॥
希狄姆芭之子(迦托迦)在战中以五十箭射中那罗刹,又以七十箭再次射中,这位大力者随即吼叫。
7.109.42
तस्य नादेन महता कम्पितेयं वसुन्धरा ।
सपर्वतवना राजन्सपादपजलाशया ॥ ७.१०९.४२ ॥
随着他那巨大的吼声,大地震动了,大王啊,连同山岳、森林、树木与水池。
7.109.43
सोऽतिविद्धो महेष्वासैः सर्वतस्तैर्महारथैः ।
प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः ॥ ७.१०९.४३ ॥
他被那些大弓箭手和大战车武士从四面八方深深射中,便以每人五支箭回射了他们所有人。
7.109.44
तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः ।
हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः ॥ ७.१०९.४४ ॥
婆罗多族中最优秀者啊,那罗刹在战斗中愤怒,而同样愤怒的海丁婆之子罗刹以七支箭射中了他。
7.109.45
सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः ।
व्यसृजत्सायकांस्तूर्णं रुक्मपुङ्खाञ्शिलाशितान् ॥ ७.१०९.४५ ॥
被强大的罗刹深深射中后,那位大力的罗刹王迅速射出以金羽为尾、在石上磨利的箭。
7.109.46
ते शऱा नतपर्वाणो भैमसेनिविनिर्भिदः ।
रुषिताः पन्नगा यद्वद्योधमुख्यानुपागमन् ॥ ७.१०९.४६ ॥
那些节部弯曲、刺穿毗摩之子的箭,如同愤怒的毒蛇一般飞向主要的战士们。
7.109.47
ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान् ।
प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः ॥ ७.१०९.४७ ॥
于是,大王啊,般度诸子与希丁婆之子骄多迦焦急地从四面八方射出锐利的箭。
7.109.48
स विध्यमानः समरे पाण्डवैर्जितकाशिभिः ।
नाभ्यपद्यत कर्तव्यमार्श्यशृङ्गिर्महाबलः ॥ ७.१०९.४८ ॥
尽管在战斗中被自认为胜利者的般度诸子射中,那位大力的阿尔希亚什林伽并未放弃他的职责。
7.109.49
घटोत्कचं महाराज शरवर्षैरवाकिरत् ।
दग्धाद्रिकूटसदृशं तमञ्जनचयोपरमम् ॥ ७.१०९.४९ ॥
大王啊,他以箭雨覆盖了迦托特伽车;迦托特伽如烧焦的山峰,黑如一堆眼膏。
7.109.50
घटोत्कचोऽप्यसम्भ्रान्तः शरवर्षं महत्तरम् ।
अलम्बुसवधप्रेप्सुर्मुमोचाग्निरिव ज्वलन् ॥ ७.१०९.५० ॥
迦托特伽亦不慌乱;他欲杀阿兰布沙,便放出极大的箭雨,如熊熊烈火。
7.109.51
अलम्बुसवधाच्चोग्राद्धटोत्कचवधादपि ।
शराः प्रादुर्भवन्ति स्म द्विरेफा इव शाखिनः ॥ ७.१०९.५१ ॥
因欲杀阿兰布沙与杀迦托特伽的猛烈意愿,箭矢如树枝上的蜜蜂一般纷纷出现。
7.109.52
अभ्रच्छायेव रचिता बाणैस्तत्र नरेश्वर ।
न स्म विज्ञायते किञ्चिदन्धकारे कृते शरैः ॥ ७.१०९.५२ ॥
在那里,人主啊,由箭矢所成的黑暗如云影般弥漫;在箭矢造成的黑暗中,什么也看不见。
7.109.53
तत आकर्णमुक्तेन भल्लेन च घटोत्कचः ।
अलम्बुसस्य चिच्छेद शिरो यन्तुर्महाबलः ॥ ७.१०९.५३ ॥
于是大力的迦托特伽以拉至耳边射出的剑形箭(bhalla),斩下了阿兰布沙车夫的头。
7.109.54
ततोऽपरैर्वेगवद्भिः क्षुरैस्तस्य घटोत्कचः ।
अक्षमीषां युगं चैव चिच्छेद युधि ताडयन् ॥ ७.१०९.५४ ॥
于是迦托特伽以其他迅疾的刃箭(kṣura)在战中击打,也斩断了他的车轴、辕与轭。
7.109.55
अवस्कन्द्य रथात्तूर्णं कैर्मीरः क्रोधमूर्च्छितः ।
तस्मिन्मायामयं घोरमस्त्रवर्षं ववर्ष ह ॥ ७.१०९.५५ ॥
于是愤怒昏迷的凯米罗迅速跃下战车,向他降下由幻术所化的可怕武器之雨。
7.109.56
घटोत्कचोऽप्याशु रथात्प्रस्कन्द्य स तमेव च ।
मायास्त्रेणैव मायास्त्रं व्यधमत्समरे रिपोः ॥ ७.१०९.५६ ॥
迦托迦也迅速跃下战车,以同样的幻术武器在战斗中击退了敌人的幻术武器。
7.109.57
हैडिम्बेनार्द्यमानस्तु युधि सोऽलम्बुसोऽद्रवत् ।
अन्तर्हितो महाराज घटोत्कचमयोधयत् ॥ ७.१०९.५७ ॥
然而阿兰布沙在战斗中被海迪姆巴所逼,逃走了;大王啊,他隐身不见,与迦托迦战斗。
7.109.58
अन्तर्धानगतं दृष्ट्वा तत्रतत्र घटोत्कचः ।
गदया ताडयामास वेगवत्या महाबलः ॥ ७.१०९.५८ ॥
大力的迦托迦看见他时隐时现,便用迅猛的大棒击打他。
7.109.59
उत्पपात ततो व्योम्नि प्रहारपरिपीडितः ।
अलम्बुसो राक्षसेन्द्रः सहसा पक्षिराडिव ॥ ७.१०९.५९ ॥
于是罗刹王阿兰布沙被打击所伤,突然如鸟中之王一般飞上天空。
7.109.60
घटोत्कचोऽप्यसम्भ्रान्तः खङ्गपाणिरथोत्पतत् ।
ततो वेगेन महता विवर्षिषुरिवाम्बुदः ॥ ७.१०९.६० ॥
迦托迦毫不慌乱,手持利剑也跃起;随后他以极大的速度升起,如同将要降雨的乌云。
7.109.61
तमापतन्तं सम्प्रेक्ष्य कैर्मीरी राक्षसोत्तमः ।
अभिदुद्राव वेगेन सिंहः सिंहमिव स्थितम् ॥ ७.१०९.६१ ॥
罗刹中最优秀的卡伊尔米利见他冲来,便迅猛地扑向他,如同狮子扑向站立的狮子。
7.109.62
दक्षिणेनासिमुद्यम्य वक्षः प्रच्छाद्य वर्मणा ।
अभिदुद्राव वेगेन वेगवन्तं घटोत्कचः ॥ ७.१०९.६२ ॥
右手高举利剑,以甲胄护住胸膛,迦托特迦迅猛地冲向那迅捷者。
7.109.63
तावुभौ वेगसंरब्धावलम्बुसघटोत्कचौ ।
अन्योन्यस्य तथैवोरू समाजघ्नतुरञ्जसा ॥ ७.१०९.६३ ॥
这二人,阿兰布沙与迦托特迦,因速度而愤怒,径直互相击打对方的大腿。
7.109.64
अन्योन्यस्याभिघातेन तयो राक्षससिंहयोः ।
शैलेनाभिहतस्येव शैलस्याभून्महास्वनः ॥ ७.१०९.६४ ॥
这两头罗刹之狮相互击打的撞击声中,发出巨大的响声,仿佛一座山被另一座山撞击。
7.109.65
ततोऽपसृत्य सहसा पुनरापेततुर्भृशम् ।
चरन्तावसिमार्गांस्तान्विविधान्राक्षसोत्तमौ ॥ ७.१०९.६५ ॥
随后二人忽然退开,那两位罗刹中的至尊又猛烈地交锋,在刀剑的种种路线间往来游走。
7.109.66
तयोर्गात्रेषु पतितावसी भिन्नौ निपेततुः ।
वेगोत्सृष्टे मघवता वज्रे शैलतटेष्विव ॥ ७.१०९.६६ ॥
二剑落在他们身上,断裂而坠地,如同因陀罗奋力掷下的金刚杵落在山坡上一般。
7.109.67
ततः सैन्यानि ददृशुस्तद्युद्धमतिदारुणम् ।
युद्धं तयो राक्षसयोरामिषे श्येनयोरिव ॥ ७.१०९.६७ ॥
于是两军看见了那场极为可怖的战斗,那两个罗刹的搏斗如同两只争夺肉食的鹰。
7.109.68
ततो लोहितरक्ताक्षावुभौ तौ राक्षसोत्तमौ ।
तथैक्ष्येतां तु शार्दूलौ सन्ध्यारक्ताविवाम्बुदौ ॥ ७.१०९.६८ ॥
于是那两位眼睛血红的罗刹中的上首,如两只老虎,又如被晚霞染红的两朵云。
7.109.69
चक्राते श्येनवच्चैव मण्डलानि सहस्रशः ।
उभौ निस्त्रिंशहस्तौ तौ सपक्षाविव पक्षिणौ ॥ ७.१०९.६९ ॥
二人手持利剑,如鹰一般盘旋数千次,宛如两只有翼的飞鸟。
7.109.70
भ्रामयित्वा तु तं खङ्गं पाण्डोः किर्मीरनन्दनः ।
चिक्षेपास्य शिरो हर्तुं स च तस्य घटोत्कचः ॥ ७.१०९.७० ॥
于是般度家族的吉尔米罗之子挥舞那把剑,投掷出去要砍他的头;而那位罗刹(迦托特迦查)也如此。
7.109.71
तावसी युगपद्दीप्तौ समेत्य विपुलौ भुवि ।
पतितौ तौ तु बाहुभ्यां राक्षसौ समसज्जताम् ॥ ७.१०९.७१ ॥
那两把巨大闪耀的剑同时相撞,落在地上;那两个罗刹则用双臂互相抱住。
7.109.72
शीर्षाघातांसधातैश्च परस्परमथाहतौ ।
पुनर्विमिश्रितौ वीरौ व्यायुध्येते मुहुर्मुहुः ॥ ७.१०९.७२ ॥
两位英雄以头撞、肩击互相打击之后,又再次纠缠在一起,一次又一次地赤手空拳搏斗。
7.109.73
भैमसेनिरथोत्क्षिप्य समाविध्य पुनः पुनः ।
निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि ॥ ७.१०९.७३ ॥
毗摩之子举起他,反复旋转,随即迅速将他摔碎在地上,如同将满罐砸在石上。
7.109.74
बललाघवसम्पन्नः सम्पन्नो विक्रमेण च ।
भैमसेनिरथ क्रुद्धः सर्वसैन्यस्य पश्यतः ॥ ७.१०९.७४ ॥
毗摩之子既有力量与敏捷,又充满勇武,怒气冲冲,在全军注视之下。
7.109.75
असृक्क्षरितसर्वाङ्गश्चूर्णितास्थिविभूषणः ।
घटोत्कचेन निष्पिष्टो हतः सालकटङ्कटः ॥ ७.१०९.७५ ॥
萨拉卡坦卡塔全身流血,骨骼粉碎如同饰物,被迦托德迦击碎而死。
7.109.76
पाण्डवानां ततः सेना तं दृष्ट्वा विनिपातितम् ।
ननाद सुमहानादं हर्षवेगसमाप्लुता ॥ ७.१०९.७६ ॥
此时般度之子的军队见他倒下,被喜悦的浪潮所充满,发出了巨大的吼声。
7.109.77
ततस्तु निपपाताशु गतासुर्भुवि राक्षसः ।
शिखरं पर्वतस्येव वज्रवेगेन पातितम् ॥ ७.१०९.७७ ॥
那罗刹立刻失去生命,迅速倒地,如同被雷霆之力击落的山峰。
7.109.78
पतता तेन महता रथिनां दन्तिनां दश ।
तव सैन्ये महाराज निहताः सुबृहत्तया ॥ ७.१०९.७८ ॥
大王!他庞大的身躯倒下时,你的军中有许多车兵与象兵,成群地被杀死。
7.109.79
ततो घटोत्कचो हत्वा तद्रक्षो वृत्रसन्निभम् ।
पुनः स रथमास्थाय विजिगीषुर्ननादह ॥ ७.१०९.७९ ॥
于是,瞿陀迦杀死了那个如同弗栗多的罗刹,重新登上战车,渴望胜利而咆哮。
7.109.80
ततः सुमनसः पार्था हते तस्मिन्निशाचरे ।
चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह ॥ ७.१०९.८० ॥
那夜行者被杀之后,心怀喜悦的普利塔之子们发出狮子般的吼声,并挥动衣衫。
7.109.81
तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम् ।
अलम्बुसं तथा शूरा विशीर्णमिव पर्वतम्।
हाहाकारमकार्षुश्च सैन्यानि भरतर्षभ ॥ ७.१०९.८१ ॥
你的战士们看见强大的罗刹王阿兰布沙如破碎的山峰般被杀,便发出哀叹之声,啊,婆罗多族的雄牛。
7.109.82
जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः ।
यदृच्छया निपतितं भूमावङ्गारकं यथा ॥ ७.१०९.८२ ॥
众人怀着好奇,望着那罗刹躺在地上,如同偶然落下的炭火。
7.109.83
घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम् ।
मुमोच बलवन्नादं बलं हत्वेव वासवः ॥ ७.१०९.८३ ॥
瞿陀迦杀死了那位最强者中的罗刹之后,发出了震天的咆哮,如同因陀罗击溃大军之时。
7.109.84
स पूज्यमानः पितृभिः सबान्धवै… ।
र्घटोत्कचः कर्मणि दुष्करे कृते।
रिपुं निहत्याभिननन्द वै तदा ।
ह्यलम्बुसं पक्वमलम्बुषं यथा ॥ ७.१०९.८४ ॥
瞿陀迦受到父亲与亲族的尊崇,完成了艰难的功业、杀死了敌人,于是欢喜起来,如同采摘熟果而喜悦;……阿兰布沙如熟果一般……
7.109.85
ततो निनादः सुमहान्समुत्थितः ।
सशङ्खनानाविधबाणघोषवान्।
निशम्य तं प्रत्यनदंस्तु पाण्डवा… ।
स्ततो ध्वनिर्भुवनमथाऽस्पृशद्भृशम् ॥ ७.१०९.८५ ॥
于是大声喧哗升起,夹杂着海螺与各式箭矢的声响。潘达瓦们听到后,也齐声怒吼回应,那声音震动了整个世界。
7.109.86
ततोऽभिगम्य राजानं धर्मपुत्रं युधिष्ठिरम् ।
स्वकर्मावेदयन्मूर्ध्ना प्राञ्जलिर्निपपात ह ॥ ७.१०९.८६ ॥
随后,他走近国王、法之子坚战,禀报了自己的功绩,合掌以头俯身拜倒。
7.109.87
मूर्ध्न्युपाघ्राय तं ज्येष्ठः परिष्वज्य च पाण्डवः ।
प्रितोऽस्मीत्यब्रवीद्राजन्हर्षादुत्फुल्ललोचनः ॥ ७.१०९.८७ ॥
大王啊,长兄般遮瓦(坚战)亲吻他的头,拥抱他,因喜悦而睁大双眼说道:“我很欢喜。”
7.109.88
घटोत्कचेन निष्पिष्टे हते सालकटङ्कटे ।
बभूवुर्मुदिताः सर्वे हते तस्मिन्निशाचरे ॥ ७.१०९.८८ ॥
当萨拉卡坦卡塔被迦托特卡查碾碎杀死,那夜行罗刹已死,众人皆欢喜。