摩诃婆罗多 · 章 7.11
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.11.1
शृणु दिव्यानि कर्माणि वासुदेवस्य सञ्जय ।
कृतवान्यानि गोविन्दो यथा नान्याःपुमान्क्वचित् ॥ ७.११.१ ॥
桑闍耶啊,请听婆苏提婆的神圣事迹,那是牧主所作,其他任何人从未做到。
7.11.2
संवर्धता गोपकुले बालेनैव महात्मना ।
विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु सञ्जय ॥ ७.११.२ ॥
桑闍耶啊,他在牧人族中成长,年纪尚幼,这位大心者便使他双臂的力量在三界中闻名。
7.11.3
पूतनां शकटं हत्वा केशिनं चैव वाजिनम् ।
ऋषभं धेनुकं चैव अरिष्टं च महाबलम् ॥ ७.११.३ ॥
他杀了富娜、车魔,以及马形的凯希,也杀了公牛里舍跋、德努迦,以及大力的阿利什陀。
7.11.4
दावान्मुक्त्वा महाबाहुर्धृत्वा गोवर्धनं निगिम् ।
चाणूरं मुष्टिकं चैव रङ्गमध्ये निहत्य च ॥ ७.११.४ ॥
他从林火中解救众生,举起戈瓦尔达纳山,也(制服)蛇王尼吉;又在摔跤场中央杀了强力者遮那罗与穆什提迦,那位大臂者。
7.11.5
प्रलम्बं नरकं जम्भं पीठं चापि महासुरम् ।
मुरुं चान्तकसङ्काशमवधीत्पुष्करेक्षणः ॥ ७.११.५ ॥
普罗兰巴、那罗迦、占婆、皮陀,以及如同死神般的大阿修罗穆卢,都被莲花眼者所杀。
7.11.6
तथा कंसो महातेजा जरासन्धेन पालितः ।
विक्रमेणैव कृष्णेन सगणः पातितो रणे ॥ ७.११.६ ॥
同样,受至尊者(JARĀSANDHA)护佑的大光明者坎萨,与其随从一起,在战场上因黑天的勇武而倒下。
7.11.7
सुनामा रणविक्रान्तः समग्राक्षौहिणीपतिः ।
भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान् ॥ ७.११.७ ॥
苏那摩,战场上的勇士,全部一个阿克绍黑尼军的统帅,婆闍王的中兄,迦陈娑的勇武之弟。
7.11.8
बलदेवद्वितीयेन कृष्णेनामित्रघातिना ।
तरस्वी समरे दग्धः ससैन्यः शूरसेनराट् ॥ ७.११.८ ॥
与持明犁为第二的、摧毁敌人的克里希纳,在战场上使勇猛的须罗婆那王连同其军队被焚毁。
7.11.9
दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः ।
आराधितः सदारेण स चास्मै प्रददौ वरान् ॥ ७.११.९ ॥
名为杜尔婆萨的婆罗门仙人,极易发怒,与其妻一同被供奉,于是他赐给了他恩惠。
7.11.10
तथा गान्धारराजस्य सुतां वीरः स्वयंवरे ।
निर्जित्य पृथिवीपालानावहत्पुष्करेक्षणः ॥ ७.११.१० ॥
同样,那位莲花眼的英雄,在选婿大会上战胜了护持大地的诸王,娶了犍陀罗王之女为妻。
7.11.11
अमृष्यमाणा राजानो यस्य जात्या हया इव ।
रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः ॥ ७.११.११ ॥
那些不能忍受的国王,因其出身如马匹一般被套在他的婚车上,被鞭子刺伤。
7.11.12
जरासन्धं महाबाहुमुपायेन जनार्दनः ।
परेण घातयामास समग्राक्षौहिणीपतिम् ॥ ७.११.१२ ॥
闍那陀那以计谋,使另一人杀死了大臂的、拥有一个完整阿克绍黑尼军的主帅迦罗桑陀。
7.11.13
चेदिराजं च विक्रान्तं राजसेनापतिं बली ।
अर्घे विवदमानं च जघान पशुवत्तदा ॥ ७.११.१३ ॥
那强者便如屠宰牲畜一般,杀死了车底国王、王军的勇猛统帅,以及为阿尔迦之礼争执的人。
7.11.14
सौभं दैत्यपुरं खस्थं शाल्वगुप्तं दुरासदम् ।
समुद्रकुक्षौ विक्रम्य पातयामास माधवः ॥ ७.११.१४ ॥
摩图之后以勇力将悬于空中、被沙尔瓦守护、难以接近的阿修罗城索巴,坠入大海的怀抱之中。
7.11.15
अङ्गान्वङ्गान्कलिङ्गंश्च मागधान्काशिकोसलान् ।
वात्स्यगार्ग्यकरूषांश्च पौण्ड्रांश्चाप्यजयद्रणे ॥ ७.११.१५ ॥
他又在战场上征服了盎伽、旁伽、羯陵伽、摩揭陀、迦尸与憍萨罗、筏蹉、伽尔伽、迦卢沙与波文陀罗等国。
7.11.16
आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्दशेरकान् ।
काश्मीरकानौरसिकान्पिशाचांश्च समुद्गलान् ॥ ७.११.१६ ॥
他又征服了阿梵提人、南方人、山居的十舍罗迦人、迦湿弥罗人、奥罗西迦人、毗舍遮人与三穆德伽罗人。
7.11.17
काम्भोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च सञ्जय ।
त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान् ॥ ७.११.१७ ॥
桑闪耶啊,他又征服了迦until波闍、伐陀陀那、朱罗、般茶、三阿多、摩罗婆与达罗陀等极难征服的人。
7.11.18
नानादिग्भ्यश्च सम्प्राप्तान्खशांश्चैव शकांस्तथा ।
जितवान्पुण्डरीकाक्षो यवनं च सहानुगम् ॥ ७.११.१८ ॥
那莲花眼者又征服了从四方而来的凯莎人与塞迦人,以及连同其随从的希腊人。
7.11.19
प्रविश्य मकरावासं यादोगणनिषेवितम् ।
जिगाय वरुणं सङ्ख्ये सलिलान्तर्गतं पुरा ॥ ७.११.१९ ॥
他进入摩迦罗的居所,那里有众多水族出没,在战斗中战胜了昔日藏身水中的伐楼那。
7.11.20
युधि पञ्चजनं हत्वा दैत्यं पातालवासिनम् ।
पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान् ॥ ७.११.२० ॥
在战斗中杀死了居于地下世界的恶魔般遮阇那,希利舍说获得了神圣的贝壳般遮阇尼亚。
7.11.21
खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम् ।
आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः ॥ ७.११.२१ ॥
在坎达瓦,他与帕尔塔一同取悦火神,这位大力者获得了不可战胜的火神之箭和轮盘。
7.11.22
वैनतेयं समारुह्य त्रासयित्वाऽमरावतीम् ।
महेन्द्रभवनाद्वीरः पारिजातमुपानयत् ॥ ७.११.२२ ॥
他骑上毗娜达之子(迦楼罗),惊扰了阿玛拉瓦蒂,这位英雄从大因陀罗的宫殿中取来了波利耶多树。
7.11.23
तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम् ।
राज्ञां चाप्यजितं कंचित्कृष्णेनेह न शुश्रुम ॥ ७.११.२३ ॥
因陀罗知道他的勇武,因而忍受了此事。我们在此未曾听闻任何未被克里希那征服的国王。
7.11.24
यच्च तन्महदाश्चर्यं सभायां मम सञ्जय ।
कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति ॥ ७.११.२४ ॥
萨阇耶啊,我的朝堂中,莲花眼者所做的那件大奇迹——除他之外,此间还有谁配做此事呢?
7.11.25
यच्च भक्त्या प्रसन्नोऽहमद्राक्षं कृष्णमीश्वरम् ।
तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमम् ॥ ७.११.२५ ॥
我因虔诚而使自在主黑天欢喜并见到他,这一切我都清楚,仿佛亲眼所见。
7.11.26
नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः ।
कर्मणां शक्यते गन्तुं हृषीकेशस्य सञ्जय ॥ ७.११.२६ ॥
具备勇武与智慧的希利史吉舍的业绩,无法穷尽,桑遮耶啊。
7.11.27
तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः ।
अगावहोऽनिरुद्धश्च चारुदेष्णः ससारणः ॥ ७.११.२७ ॥
还有迦达、三婆、普罗颂那,随后是毗杜罗陀、阿伽瓦诃、阿尼卢陀、遮卢提舍那与萨罗那。
7.11.28
उल्मुको निशठश्चैव झिल्ली बभ्रुश्च वीर्यवान् ।
पृथुश्च विपृथुश्चैव शमीङ्कोऽथारिमेजयः ॥ ७.११.२८ ॥
乌勒穆迦、尼沙陀、质利、勇武的跋卢、普利图、毗普利图、舍弥迦与阿利美阁耶。
7.11.29
एतेऽन्ये बलवन्तश्च वृष्णिवीराः प्रहारिणः ।
कथंचित्पाण्जवानीकं श्रयेयुः समरे स्थिताः ॥ ७.११.२९ ॥
这些以及其他强大的伐须尼勇士,在战阵中作战者,或许会以某种方式投奔般度军队。
7.11.30
आहूता वृष्णिवीरेण केशवेन महात्मना ।
ततः संशयितं सर्वे भवेदिति मतिर्मम ॥ ७.११.३० ॥
被伐须尼英雄、大德的羯舍婆所召唤者,那时都会陷入疑虑,这是我的看法。
7.11.31
नागायुतबलो वीरः कैलासशिखरोपमः ।
वनमाली हली रामस्तत्र यत्र जनार्दनः ॥ ७.११.३१ ॥
無論闍那爾陀那在哪裡,那裡也有英雄羅摩——力敵萬頭象,如同凱拉薩峰,佩戴林中花環,手持犁杖。
7.11.32
यमाहुः सर्वपितरं वासुदेवं द्विजातयः ।
अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय सञ्जय ॥ ७.११.३२ ॥
被再生者称为一切之父的婆苏提婆,啊,桑闍耶,他会为般度之子而战吗?
7.11.33
स यदा तात सन्नह्येत्पाण्डवार्थाय सञ्जय ।
न तदा प्रतिसंयोद्धा भविता तत्र कश्चन ॥ ७.११.३३ ॥
親愛的桑闍耶,當他為般度之子披甲之時,那時將再無人能與他交戰。
7.11.34
यदि स्म कुरवः सर्वे जयेयुर्नाम पाण्डवान् ।
वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम् ॥ ७.११.३४ ॥
即使所有俱盧人都能战勝般度之子,婆利施尼之子也會為了他們而執起最高的武器。
7.11.35
ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे ।
कौरवांश्च महाबाहुःकुन्त्यै दद्यात्स मेदिनीम् ॥ ७.११.३५ ॥
那時,這位人中之虎、大臂者,在戰場上殺盡諸王與俱盧人之後,將把這片大地交給貢蒂。
7.11.36
यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः ।
रथस्य तस्य कः सङ्ख्ये प्रत्यनीको भवेद्रथः ॥ ७.११.३६ ॥
誰人之車以歡喜主為御者、以財勝為戰士,於戰場上還有哪輛戰車能與之對抗呢?
7.11.37
न केनचिदुपायेन कुरूणां दृश्यते जयः ।
तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत ॥ ७.११.३७ ॥
无论用什么办法,都看不到俱卢族的胜利。因此请把一切告诉我,战斗是如何进行的。
7.11.38
अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः ।
अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती ॥ ७.११.३८ ॥
阿周那是钥舍婆的自我,黑天也是戴冠者的自我。阿周那身上永远有胜利,黑天身上有永恒的荣誉。
7.11.39
सर्वेष्वपि च लोकेषु बीभत्सुरपराजितः ।
प्राधान्येनैव भूयिष्ठममेयाः केशवे गुणाः ॥ ७.११.३९ ॥
在所有世界中,毗菩蹉不可战胜。而在钥舍婆身上,尤其充满无量的德性。
7.11.40
मोहाद्दुर्योधनः कृष्णं यो न वेत्तीह केशवम् ।
मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः। ॥ ७.११.४० ॥
杜尔yodhana因迷惑而不认识此处的黑天钥舍婆;被天命所迷,他被死亡之索牵引而行。
7.11.41
न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम् ।
पूर्वदेवौ महात्मानौ नरनारायणावुभौ ॥ ७.११.४१ ॥
他不认识达沙尔诃族的黑天,也不认识般度之子阿周那。这二人是原初之神,伟大灵魂的那罗与那罗衍那。
7.11.42
एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि ।
मनसापि हि दुर्धर्षौ सेनामेतां यशस्विनौ ॥ ७.११.४२ ॥
这二人虽同一自我,在世间却被世人看作分为两体。即使以心意,他们也难以抵挡;这二位名闻天下的,[……]这支军队。
7.11.43
नाशयेतामिहेच्छन्तौ मानुषत्वाच्च नेच्छतः ।
युगस्येव विपर्यासो लोकानामिव मोहनम् ॥ ७.११.४३ ॥
此二人在此欲毁灭,因为是人而非所愿;如同时代的颠倒,如同诸界的迷惑。
7.11.44
भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः ।
न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च ॥ ७.११.४४ ॥
孩子啊,毗湿摩与大德德罗纳之死——即使以梵行,或以诵读吠陀,也无法阻止。
7.11.45
न क्रियाभिर्न चास्त्रेण मृत्योः कश्चिन्निर्वायते ।
लोकसम्भावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ ॥ ७.११.४५ ॥
无论以祭祀还是兵器,无人能逃脱死亡;那两位在世上受敬重、精通武艺、沉醉于战斗之勇的英雄。
7.11.46
भीष्मद्रोणौ हतौ श्रुत्वा किन्नु जीवामि सञ्जय ।
यां तां श्रियमसूयामः पुरा दृष्ट्वा युधिष्ठिरे ॥ ७.११.४६ ॥
闻知毗湿摩与德罗纳已被杀,sañjaya啊,我怎还能活着?那昔日我们在坚战身上见到的荣光,我们曾嫉妒过。
7.11.47
अद्य तामनुजानीमो भीष्मद्रोणवधेन ह ।
मत्कृते चाप्यनुप्राप्तः कुरूणामेष सङ्क्षयः ॥ ७.११.४७ ॥
今日,因毗湿摩与德罗纳之死,我们确已舍弃那荣光;而因我之故,这毁灭降临到俱卢族身上。
7.11.48
पक्वानां हि वधे सूत वज्रायन्ते तृणान्युत ।
अनन्तमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः ॥ ७.११.४८ ॥
御者啊,杀戮那些成熟的强者时,连草叶也化作雷霆;而这无边的权势,坚战已在世间获得。
7.11.49
यस्य कोपान्महात्मानौ भीष्मद्रोणौ निपातितौ ।
प्राप्तः प्रकृतितो धर्मो न धर्मो मामकान्प्रति ॥ ७.११.४९ ॥
因其愤怒,伟大的毗湿摩与德罗纳被击倒——那达磨依其本性而来;对我的人而言,这并非达磨。
7.11.50
क्रूरः सर्वविनाशाय कालोऽसौ नातिवर्तते ।
अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः।
अन्यथैव प्रपद्यन्ते दैवादिति मतिर्मम ॥ ७.११.५० ॥
那残酷的时间是为了毁灭一切,无法超越。亲爱的,即便是智者所谋划的目的,也因命运而以别的方式实现——这是我的看法。
7.11.51
तस्मादपरिहार्येऽर्थे सम्प्राप्ते कृच्छ्र उत्तमे ।
अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे ॥ ७.११.५१ ॥
因此,在这无法避免、陷入极大困境、难以跨越、甚至难以思量的事情上,请你把它如实地告诉我。
7.11.53
क्षत्रञ्जयः क्षत्रदेवः क्षत्रवर्मा च मानदः ।
धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन् ॥ ७.११.५३ ॥
刹陀阇耶、刹陀提婆、刹陀跋摩与曼陀——德利修陀衍摩之英勇诸子——谁将他们从德罗纳处阻止?
7.11.54
शताद्विशिष्टं यं युद्धे सममन्यन्त वृष्णयः ।
चेकितानं महेष्वासं कस्तं द्रोणादवारयत् ॥ ७.११.५४ ॥
谁将大弓手车吉陀那——在战中被伐利西尼族视为胜过百人者——从德罗纳处阻止?
7.11.55
वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि ।
अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत् ॥ ७.११.५५ ॥
谁将在战中掠取羯陵伽少女的伐陀刹科弥,以及心志无畏的阿那陀利湿提——从德罗纳处阻止?
7.11.56
भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः ।
इन्द्रगोपकसङ्काशा रक्तवर्मायुधध्वजाः ॥ ७.११.५६ ॥
凯刻耶的五位兄弟,正直而真正勇猛,宛如因陀罗戈巴甲虫,身披红甲,手持兵器与旗幡。
7.11.57
मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः ।
तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन् ॥ ७.११.५७ ॥
那些为求胜利而来杀害德罗纳的、般度族姨母的英勇之子,被哪些英雄阻挡了?
7.11.58
यं योधयन्तो राजानो नाजयन्वारणावते। ॥ ७.११.५८ ॥
在婆罗那伐多作战的诸王也未能征服的那位。
7.11.59
धनुष्मतां वरं शूरं सत्यसन्धं महाबलम् ।
द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं पर्यवारयत् ॥ ७.११.५९ ॥
谁阻挡了德罗纳——那位最优秀的射手、英雄、守信、大力、人中猛虎的游优城?
7.11.60
यः पुत्रं काशिराजस्य वाराणस्यां महारथम् ।
समरे स्त्रीषु गृध्यन्तं भल्लेनापाहरद्रथात् ॥ ७.११.६० ॥
他以月牙箭从战车上射落了迦尸王之子、瓦拉纳西的大车将,此人在战中贪恋女色。
7.11.61
धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम् ।
युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च ॥ ७.११.६१ ॥
持明,大弓手,般度之子的谋士,为难敌而任命,并被派去杀害德罗纳。
7.11.62
निर्दहन्तं रणे योधान्दारयन्तं च सर्वतः ।
द्रोणाभिमुखमायान्तं के शूराः पर्यवारयन् ॥ ७.११.६२ ॥
当他在战场上焚烧战士、四面撕裂他们,向德罗纳迎面而来时,哪些英雄阻挡了他?
7.11.63
उत्सङ्ग इव सम्वृद्धं द्रुपदस्यास्त्रवित्तमम् ।
शैखण्डिनं शस्त्रगुप्तं के द्रोणादवारयन् ॥ ७.११.६३ ॥
哪些英雄从德罗纳手中保护了在德鲁帕达膝下长大、精通武器、受武器护卫的湿坎丁?
7.11.64
य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् ।
महता रथघोषेण मुख्यारिघ्नो महारथः ॥ ७.११.६४ ॥
他像皮革一样包裹了整个大地,以战车的巨大轰鸣杀死了主要的敌人,这位大车勇士。
7.11.65
दशाश्वमेधानाजहे स्वन्नपानाप्तदक्षिणान् ।
निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः ॥ ७.११.६५ ॥
他举行了十次马祭,其中大量供给食物、饮料和布施;所有祭祀都顺利进行,他像爱护儿子一样保护臣民。
7.11.66
विसृष्टा दक्षिणा यस्य गङ्गाजलमवारयत् ।
गङ्गास्रोतसि यावत्यः सिकता अप्यशेषतः।
तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे ॥ ७.११.६६ ॥
他的祭礼布施甚至阻挡了恒河之水;恒河水流中有多少沙粒,这位乌纸那罗之子英雄便在祭祀中布施了多少头牛。
7.11.67
न पूर्वे नापरे चक्रुरिदं केचन मानवाः ।
इतीदं चुक्रुशुर्देवाः कृते कर्मणि दुष्करे ॥ ७.११.६७ ॥
无论前人还是后人,没有任何人做过此事;当这项艰难的功业完成时,诸天神便如此高声喊道。
7.11.68
पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु ।
जातं चापि जनिष्यन्तं द्वितीयं चापि साम्प्रतम् ॥ ७.११.६८ ॥
我们在三界之中,在静止与运动的众生中,看不到像他这样已生、将生或当今第二的人。
7.11.69
अन्यमौशीनराच्छेब्याद्धुरो वोढारमित्युत ।
गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः ॥ ७.११.६९ ॥
除乌什那罗族的沙伊比亚之外,还有另一位担当重任者,世间居住的人们都不会走他的道路。
7.11.70
तस्य नप्तारमायान्तं शैब्यं कः समवारयत् ।
द्रोणायाभिमुखं यत्तं व्यात्ताननमिवान्तकम् ॥ ७.११.७० ॥
当他的孙子沙伊比亚前来,像张开大口的死神般向德罗纳冲去时,是谁阻挡了他?
7.11.71
विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः ।
प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन् ॥ ७.११.७१ ॥
在战斗中想要抵达德罗纳的人,即毗罗吒的战车军队和摧毁敌人的摩茨亚王的军队,是哪些英雄将他包围阻挡的?
7.11.72
सद्यो वृकोदराज्जातो महाबलपराक्रमः ।
मायावी राक्षसो वीरो यस्मान्मम महद्भयम् ॥ ७.११.७२ ॥
刚刚由狼腹(毗摩)所生的,有大力量和勇气的,善于幻术的罗刹英雄;我因他而大为恐惧。
7.11.73
पार्थानां जयकामं तं तं पुत्राणां मम कण्टकम् ।
घटोत्कचं महात्मानं कस्तं द्रोणादवारयत् ॥ ७.११.७३ ॥
谁阻挡了德罗纳,使那位希望般度之子获胜、是我诸子之刺的大德瓶首(Ghaṭotkaca)?
7.11.74
एते चान्ये च बहवो येषामजितं युधि ।
त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि ॥ ७.११.७४ ॥
这些人和其他许多人,在战斗中未曾被征服,却在激战中舍弃了性命。那么他们在战场上的不败又有何用?
7.11.75
येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः ।
लोकानां गुरुरत्यर्थं लोकनाथः सनातनः। ॥ ७.११.७५ ॥
对于他们而言,庇护者是人中之虎、持沙尔嘎弓者,是诸世界至高的导师、世界之主、永恒者。
7.11.76
नारायणोरणे नाथो दिव्यो दिव्यात्मकः प्रभुः ।
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः। ॥ ७.११.७६ ॥
那罗延,战场上的主宰,神圣者,具神圣本性的主,智者宣说其神圣的业绩。
7.11.77
तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः ॥ ७.११.७७ ॥
我将以虔敬之心叙述这些事迹,以稳定我自己的心。
7.11.88
षण्मासानपि संरब्धा जिघांसन्तो युधां पतिं ॥ ७.११.८८ ॥
即使六个月之久,愤怒不已,渴望杀死战士之主。