マハーバーラタ · 章 7.110
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.110.1
भारद्वाजं कथं युद्धे युयुधानो न्यवारयत् ।
सञ्जयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ॥ ७.११०.१ ॥
サンジャヤよ、戦いでユユダーナはバーラドヴァージャ(ドローナ)をどのように防いだのか。真実を語れ。私はひどく知りたい。
7.110.2
शृणु राजन्महाप्राज्ञ सङ्ग्रामं रोमहर्षणम् ।
द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः ॥ ७.११०.२ ॥
王よ、大いなる賢者よ、聞け。ユユダーナを先頭とするパーンダヴァたちとドローナの身の毛もよだつ戦いを。
7.110.3
वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष ।
अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम् ॥ ७.११०.३ ॥
尊き者よ、ユユダーナによって軍が打ち倒されるのを見て、ドローナ自ら真の勇者サーティヤキへ突進した。
7.110.4
तमापतन्तं सहसा भारद्वाजं महारथम् ।
सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥ ७.११०.४ ॥
突然襲いかかってきた大戦車兵バーラドヴァージャ(ドローナ)を、サーティヤキは二十五本の小さな矢で射た。
7.110.5
द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः ।
अविध्यत्पञ्चभिस्तूर्णं हेमपुङ्खैः शरैः शितैः ॥ ७.११०.५ ॥
戦で勇猛なドローナも落ち着いて、金の羽根をもつ鋭い五本の矢で、すぐにユユダーナを射抜いた。
7.110.6
ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः ।
अभ्ययुर्धरणीं राजन्वल्मीकमिव पन्नगाः ॥ ७.११०.६ ॥
敵の肉を喰らうその矢は、堅固な鎧を貫き、王よ、蟻塚に蛇が入るように大地へ入っていった。
7.110.7
दीर्घबाहुरभिक्रुद्धस्तोत्रार्दित इव द्विपः ।
द्रोणं पञ्चाशताऽविध्यन्नाराचैरग्निसन्निभैः ॥ ७.११०.७ ॥
長腕のサートヤキは激怒し、刺し棒に苦しめられた象のように、火のごとき五十本の鉄矢でドローナを射抜いた。
7.110.8
भारद्वाजो रणे विद्धो युयुधानेन सत्वरम् ।
सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत ॥ ७.११०.८ ॥
戦場でユユダーナに速やかに射られたバーラドヴァージャの子ドローナは、奮闘するサートヤキを多くの矢で射た。
7.110.9
ततः क्रुद्धो महेष्वासो भूय एव महाबलः ।
सात्वतं पीडयामास व्रातेन नतपर्वणाम् ॥ ७.११०.९ ॥
そこで激怒した大弓使いで大力のドローナは、再びサートヴァタ(サートヤキ)を、折れ曲がった節の矢の群れで苦しめた。
7.110.10
स वध्यमानः समरे भारद्वाजेन सात्यकिः ।
नान्वपद्यत कर्तव्यं किञ्चिदेव विशाम्पते ॥ ७.११०.१० ॥
民の主よ、戦場でバーラドヴァージャの子ドローナに射られたサートヤキは、なすべきことを何一つ見いだせなかった。
7.110.11
विषण्णवदनश्चापि युयुधानोऽभवन्नृप ।
भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान् ॥ ७.११०.११ ॥
王よ、戦場でバーラドヴァージャの子ドローナが鋭い矢を放つのを見て、ユユダーナ(サートヤキ)の顔も曇った。
7.110.12
तं तु सम्प्रेक्ष्य ते पुत्राः सैनिकाश्च विशाम्पते ।
प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः ॥ ७.११०.१२ ॥
民の主よ、それを見たあなたの息子たちと兵士たちは喜んだ心で、獅子のように幾度も吠えた。
7.110.13
तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम् ।
युधिष्ठिरोऽब्रवीद्राजा सर्वसैन्यानि भारत ॥ ७.११०.१३ ॥
その恐ろしい咆哮を聞き、マーダヴァ(サーティヤキ)が苦しめられていると知って、王ユディシュティラは全軍に語った、バーラタよ。
7.110.14
एष वृष्णिवरो वीरः सात्यकिः सत्यविक्रमः ।
ग्रस्यते युधि वीरेण भानुमानिव राहुणा।
अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते ॥ ७.११०.१४ ॥
ヴリシュニ族の最良の英雄、真の勇猛さをもつサーティヤキは、戦いでラーフが太陽を呑むように、ある英雄に捕らえられようとしている。サーティヤキが戦っている所へ急ぎ駆けつけよ。
7.110.15
अभिद्रवत गच्छद्वं सात्यकिर्यत्र युध्यते ।
धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिपः।
द्रोणं वारय सुक्षित्रं सात्यकिं मावधीद्द्विजः ॥ ७.११०.१५ ॥
サーティヤキが戦っている所へ急ぎ駆けつけよ。そして人の主はパーンチャーラのドリシュタデュムナにこう言った。ドローナを止めよ、あの婆羅門がサーティヤキを殺さぬように。
7.110.16
अभिद्रव द्रुतं द्रोणं किमु तिष्ठसि पार्पत ।
न पश्यसि भयं द्रोणाद्धोरं नः समुपस्थितम् ॥ ७.११०.१६ ॥
ドローナに速やかに襲いかかれ。なぜ立っているのか、パールシャタよ。ドローナから我らに迫る恐ろしい危険が見えないのか。
7.110.17
असौ द्रोणो महेष्वासो युयुधानेन संयुगे ।
क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा ॥ ७.११०.१७ ॥
あの大弓手ドローナは、紐でつながれた鳥で子供が遊ぶように、戦場でユユダーナ(サーティヤキ)と戯れている。
7.110.18
तत्रैव सर्वे गच्छन्तु भीमसेनपुरोगमाः ।
त्वयैव सहिताः सर्वे युयुधानरथं प्रति ॥ ७.११०.१८ ॥
全員そこへ向かえ、ビーマセーナを先頭にして。そしておまえとともに、全員がユユダーナの戦車へ進め。
7.110.19
पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः ।
सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम् ॥ ७.११०.१९ ॥
私は軍勢とともに後ろからあなたに従おう。今日、ヤマの牙の間に入ったサーティヤキを救え。
7.110.20
सञ्जय उवाच ।
एवमुक्त्वा ततो राजा सर्वसैन्येन भारत।
अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात् ॥ ७.११०.२० ॥
こう言って、王は全軍を率いて、ユユダーナのために戦場でドローナへ突撃した、バーラタよ。
7.110.21
तत्रारावो महानासीद्द्रोणमेकं युयुत्सताम् ।
पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः ॥ ७.११०.२१ ॥
そこでは、ドローナ一人と戦おうとするパーンダヴァとスリンジャヤの大きな喧騒が起きた。あなたに幸いあれ。
7.110.22
ते समेत्य नरव्याघ्रा भारद्वाजं महारथम् ।
अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः ॥ ७.११०.२२ ॥
その人中の虎たちは集まり、大戦車兵バーラドヴァージャの子に、鶴と孔雀の羽をつけた鋭い矢を雨のように浴びせた。
7.110.23
स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम् ।
अतिथीनागतान्यद्वत्सलिलेनासनेन च ॥ ७.११०.२३ ॥
しかしドローナは微笑みながら、その勇士たちを自ら迎えた。到着した客を水と座席で迎えるように。
7.110.24
तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः ।
आतिथेयं गृहं प्राप्य तर्प्यन्तेऽतिथयो यथा ॥ ७.११०.२४ ॥
その弓の名手、バーラドヴァージャの子の矢によって彼らは満たされた。ちょうど客人が饗応の家に着いて満たされるように。
7.110.25
भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम् ।
मध्यन्दिनमनुप्राप्तं सहस्रांशुमिव प्रभो ॥ ७.११०.२५ ॥
主よ、彼らは誰もバーラドヴァージャ(ドローナ)を直視できなかった。正午に昇った千光の太陽を見られないように。
7.110.26
तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः ।
अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान् ॥ ७.११०.२६ ॥
武器を持つ者の中で最上のドローナは、太陽が光線で照らすように、矢の雨でそれら偉大な弓手たちをすべて焼き尽くした。
7.110.27
वध्यमाना महाराज पाण्डवाः सृञ्जयास्तथा ।
त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ॥ ७.११०.२७ ॥
大王よ、殺されていく パーンダヴァとスリンジャヤは、泥にはまった象のように、守り手を見いだせなかった。
7.110.28
द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः ।
गभस्तय इवार्कस्य प्रतपन्तः समन्ततः ॥ ७.११०.२८ ॥
ドローナの大矢が太陽の光線のように四方に飛び交い、焼き尽くすのが見えた。
7.110.29
तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः ।
महारथाः समाख्याता धृष्टद्युम्नस्य सम्मताः ॥ ७.११०.२९ ॥
その戦いで、ドローナによって殺されたのは、名高くドリシュタデュムナに愛された二十五人のパーンチャーラの大戦車戦士であった。
7.110.30
पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च ।
द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान् ॥ ७.११०.३० ॥
パーンダヴァとパーンチャーラの全軍で、誰もが勇猛なドローナが優れた者の中の優れた者たちを次々と打ち倒すのを見た。
7.110.31
केकयानां शतं हत्वा विद्राव्य च समन्ततः ।
द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः ॥ ७.११०.३१ ॥
大王よ、ドローナはケーカヤ族の百人を殺し、四方へ追い散らして立った。口を開けた死神のように。
7.110.32
पाञ्चालान्सृञ्जयान्मत्स्यान्केकयांश्च नराधिप ।
द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः ॥ ७.११०.३२ ॥
人の王よ、大腕のドローナは、パーンチャーラ、スリンジャヤ、マツヤ、ケーカヤを数百、数千と打ち破った。
7.110.33
तेषां समभवच्छब्दो विद्धानां द्रोणसायकैः ।
वनौकसामिवारण्ये व्याप्तानां धृमकेतुना ॥ ७.११०.३३ ॥
ドローナの矢に射抜かれた者たちの叫びが起こった。森で火に囲まれた林の生き物の叫びのように。
7.110.34
तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप ।
एते द्रवन्ति पाञ्चालाः पाण्डवाश्च ससैनिकाः ॥ ७.११०.३४ ॥
そこで神々はガンダルヴァや祖霊とともに言った。王よ、このパーンチャーラとパーンダヴァは軍勢とともに逃げている。
7.110.35
तं तथा समरे द्रोणं निघ्नन्तं सौमकान्रणे ।
न चाप्यभिययुः केचिदपरे नैव विव्यधुः ॥ ७.११०.३५ ॥
戦場でソーマカ族を殺していたドローナに、近づく者もなく、打ちかかる者さえいなかった。
7.110.36
वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षये ।
अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निःस्वनम् ॥ ७.११०.३६ ॥
その恐ろしい、英雄の中の英雄たちの殺戮が続いているとき、プリター の子は突然パーンチャジャニヤの法螺貝の音を聞いた。
7.110.37
पूरिते वासुदेवेन शङ्खराजे महात्मना ।
युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु ॥ ७.११०.३७ ॥
偉大なるヴァースデーヴァが法螺貝の王を吹き鳴らし、シンドゥ王の護衛の勇士たちが戦っていたとき、
7.110.38
नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति ।
गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः ॥ ७.११०.३८ ॥
ドリタラーシュトラの子らがヴィジャヤの戦車へ吠え、ガーンディーヴァの弦音があたり一面で消えたとき、
7.110.39
कश्मलाभिहतो राजा चिन्तयामास पाण्डवः ।
न नूनं स्वस्ति पार्थाय यथा नदति शङ्खराट् ॥ ७.११०.३९ ॥
迷いに打たれたパーンドゥの王は思った。「パールタには確かに無事がない、法螺貝の王が吠えているのだから。」
7.110.40
कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः ।
व्यक्तमद्य विनश्यन्ति सर्वलोकमहारथाः ॥ ७.११०.४० ॥
喜んだクル族は幾度も叫ぶ。明らかに今日、全世界の大戦車兵たちが滅びるのだ。
7.110.41
एवं सञ्चिन्तयित्वा तु व्याकुलेनान्तरात्मना ।
अजताशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत ॥ ७.११०.४१ ॥
このように考え、動揺した心でクンティーの子アジャータシャトルは、サートヴァタに語りかけた。
7.110.42
बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः ।
कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुङ्गवम् ॥ ७.११०.४२ ॥
涙に詰まった声で、幾度も惑いながら、次になすべきことを求め、シニの最上の者シャイネーヤに語りかけた。
7.110.43
यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः ।
साम्पराये सुहृत्कृत्ये तस्य कालोऽयमागतः ॥ ७.११०.४३ ॥
昔、善き人々が見た法は永遠である、シャイネーヤよ。今、戦いにおいて友の務めの時が来たのだ。
7.110.44
सर्वेष्वपि च योधेषु चिन्तयञ्शिनिपुङ्गव ।
त्वत्तः सुहृत्तमं कञ्चिन्नाभिजानामि सात्यके ॥ ७.११०.४४ ॥
すべての戦士を思い巡らしても、シニ族の最良の者よ、サーティヤキよ、私はあなたより親しい友を知らない。
7.110.45
यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः ।
स कार्ये साम्पराये तु नियोज्य इति मे मतिः ॥ ७.११०.४५ ॥
いつも心喜び、常に従う者こそ、戦いの任務に任命されるべきだと私は思う。
7.110.46
यथा च केशवो नित्यं पाण्डवानानं परायणम् ।
तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः ॥ ७.११०.४६ ॥
ケーシャヴァがいつもパーンダヴァの拠り所であるように、ヴリシュニの子孫よ、あなたもクリシュナに等しい武勇を持つ。
7.110.47
सोऽहं भारं समाधास्ये त्वयि तं वोढुमर्हसि ।
अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि ॥ ७.११०.४७ ॥
ゆえに私はその重荷をあなたに託す。あなたはそれを担うにふさわしい。そして私の意向を決して無駄にしてはならない。
7.110.48
स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे ।
कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ ॥ ७.११०.४८ ॥
人中の牡牛よ、あなたは戦いにおいて兄弟のため、友のため、師のためにも、そして苦難にあるアルジュナを助けるために、そうせよ。
7.110.49
त्वं हि सत्यव्रतः शूरो मित्राणामभयङ्करः ।
लोके विख्यायसे वीर कर्मभिः सत्यवागिति ॥ ७.११०.४९ ॥
汝は真実の誓いを守る勇士であり、友に恐れなき安心を与える者。勇者よ、汝は行いによって世に真実を語る者として名高い。
7.110.50
यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम् ।
पृथिवीं च द्विजातिभ्यो यो दद्यात्स समो भवेत् ॥ ७.११०.५० ॥
シャイネーヤよ、友のために戦いつつ身を捨てる者と、再生族に大地を施す者とは等しい。
7.110.51
श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः ।
दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि ॥ ७.११०.५१ ॥
我らは、この大地全体を定めに従いバラモンに施して天界へ去った多くの王のことを聞いている。
7.110.52
दीयमाना च बहुभिर्दास्यते च मुहुर्मही ।
न हि कश्चिद्रणे प्राणान्मित्रार्थे त्यक्तवानिह ॥ ७.११०.५२ ॥
この大地は多くの人々によって幾度も施されており、これからも施されるだろう。しかし、友のために戦場で命を捨てた者は、ここには一人もいない。
7.110.53
एवं त्वामपि धर्मात्मन्प्रयाचेऽहं कृताञ्जलिः ।
पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो ॥ ७.११०.५३ ॥
かくのごとく、義を帯びし者よ、私は合掌して汝に請う。偉大なる者よ、その果報は大地の布施に等しく、あるいはそれ以上であろう。
7.110.54
एक एव सदा कृष्णो मित्राणामभयङ्करः ।
रणे सन्तजति प्राणान्द्वितीयस्त्वं च सात्यके ॥ ७.११०.५४ ॥
友に恐れなき安心を与えるクリシュナただ一人が、常に戦場で命を捨てる。サーティャキよ、汝はその第二の者だ。
7.110.55
विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः ।
शूर एव सहायः स्यान्नेतरः प्राकृतो जनः ॥ ७.११०.५५ ॥
戦いで名声を求める勇猛な英雄の助力者は、勇士でなければならず、凡人ではない。
7.110.56
ईदृशे तु परामर्दे वर्तमानस्य माधव ।
त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते ॥ ७.११०.५६ ॥
マーダヴァよ、このような大殺戮に身を投じる者にとって、戦いで勝利を守る者は君をおいて他にいない。
7.110.57
श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः ।
मम सञ्चनयन्हर्षं पुनः पुनरकीर्तयत् ॥ ७.११०.५७ ॥
パーンダヴァは君の幾百もの功績を称賛し、私の心に喜びを呼び起こしながら、幾度も語った。
7.110.58
लघुहस्तश्चित्रयोधी तथा लघुपराक्रमः ।
प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संयुगे ॥ ७.११०.५८ ॥
手が素早く、技の妙なる戦士、勇猛で素早く、賢明で、あらゆる武器に通じた勇士は、戦いで決して惑わない。
7.110.59
महास्कन्धो महोरस्को महाबाहुर्महाहनुः ।
महाबलो महावीर्यः स महात्मा महारथः ॥ ७.११०.५९ ॥
広い肩、広い胸、強大な腕、大きな顎を持ち、大きな力と大きな威力を具えた、その大人物こそ大戦車兵である。
7.110.60
शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे ।
युयुधानः सहायो मे प्रमथिष्यति कौरवान् ॥ ७.११०.६० ॥
ユユダーナは私の弟子、友、そして助力者である。私は彼に愛され、彼は私に愛されている。ユユダーナはクル族を打ち破るだろう。
7.110.61
अस्मदर्थं च राजेन्द्र सन्नह्येद्यदि केशवः ।
रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः ॥ ७.११०.६१ ॥
王の中の王よ、我らのためにケーシャヴァが鎧をまとうなら、あるいはラーマ、アニルッダ、大戦車兵プラディユムナが。
7.110.62
गदो वा मारणो वापि साम्वो वा सह वृष्णिभिः ।
सहायार्थं महाराज सङ्ग्रामोत्तममूर्धनि ॥ ७.११०.६२ ॥
あるいはガダ、マーラナ、サーンバがヴリシュニ族と共に、大王よ、最上の戦いの先頭で助けとなるなら。
7.110.63
तथाप्यहं नरव्याघ्रं शैनेयं सत्यविक्रमम् ।
साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्योहि तत्समः ॥ ७.११०.६३ ॥
それでも私は真の武勇の人中の虎シャイネーヤ(サーティヤキ)を助けに任じよう。私にとって彼に並ぶ者は他にいないのだから。
7.110.64
इति द्वैतवने तात मामुवाच धनञ्जयः ।
परोक्षे त्वद्गुणांस्तथ्यान्कथयन्नार्यसंसदि ॥ ७.११०.६४ ॥
愛しい子よ、双林でダナンジャヤはこう私に語った。貴人の集会で、お前がその場にいない時に、お前の真の徳を述べながら。
7.110.65
तस्य त्वमेवं सङ्कल्पं न वृथा कर्तुमर्हसि ।
धनञ्जयस्य वार्ष्णेय मम भीमस्य चोभयोः ॥ ७.११०.६५ ॥
ゆえにお前は彼の決意を無駄にしてはならない、ヴァールシュネーヤよ。ダナンジャヤの、私の、そしてビーマの、我ら両者の決意を。
7.110.66
यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति ।
तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान् ॥ ७.११०.६६ ॥
さらに、聖地を巡り歩いていた私はドヴァーラカーへ向かい、そこで私もお前がアルジュナに寄せる信心を見た。
7.110.67
न तन्सौहृदनन्येपु मया शैनेय लक्षितम् ।
यथा त्वमस्मान्भजसे वर्तमानानुपप्लवे ॥ ७.११०.६७ ॥
シャイネーヤよ、この災難にある我々に対するお前のような友情を、私は他の者に見たことがない。
7.110.68
सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च ।
सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव ॥ ७.११०.६८ ॥
マーダヴァよ、高貴な生まれ、信愛、友情、師としての務め、厚情、武勇、そして高い家柄によって、お前はそのような者である。
7.110.69
सत्यस्य च महावाहो अनुकम्पार्थमेव च ।
अनुरूपं महेप्वास कर्म त्वं कर्तुमर्हसि ॥ ७.११०.६९ ॥
大腕の者よ、真実のため、そして慈悲のために、大弓手よ、お前にふさわしい行いをなすべきだ。
7.110.70
सुयोधनो हि सहसा गतो द्रोणेन दंशितः ।
पूर्वमेवानुयातास्ते कौरवाणां महारथाः ॥ ७.११०.७० ॥
ドローナに駆り立てられたスヨーダナは突然去った。クル族の大戦車兵たちは既に彼に従っていた。
7.110.71
सुमहान्निनदश्चैव श्रूयते विजयं प्रति ।
स शैनेय जवेनाशु गन्तुमर्हसि मानद ॥ ७.११०.७१ ॥
勝利の方角から大きな鬨の声が聞こえる。ゆえに、シャイネーヤよ、誉れを与える者よ、お前は速やかにそちらへ向かうべきだ。
7.110.72
भीमसेनो वयं चैव संयत्ताः सहसैनिकाः ।
द्रोणमावारयिष्यामो यदि त्वां प्रतियोत्स्यते ॥ ७.११०.७२ ॥
ビーマセーナと我々は軍勢とともに備えている。もしドローナがお前と戦うなら、我々はドローナを食い止めるだろう。
7.110.73
पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे ।
महान्तं चरणे शब्दं दीर्यमाणां च भारतीम् ॥ ७.११०.७३ ॥
シャイネーヤよ、戦場で逃げ惑う軍勢を見よ、引き裂かれるバーラタ族の大いなる叫びを聞け。
7.110.74
महामारुतवेगेन समुद्रमिव पर्वसु ।
धार्तराष्टबलं तात विक्षिप्तं सव्यसाचिना ॥ ७.११०.७४ ॥
親愛なる者よ、大風の勢いで満月の海のように、ドリタラーシュトラの息子たちの軍勢はサヴィヤサーチンによって散らされた。
7.110.75
रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह ।
सैन्यं रजःसमुद्भूतमेतत्सम्परिवर्तते ॥ ७.११०.७५ ॥
戦車と兵と馬が四方に駆け回り、この軍勢は塵を巻き上げて旋回している。
7.110.76
संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः ।
अत्यन्तोपचितैः शूरैः फल्गुनः परवीरहा ॥ ७.११०.७६ ॥
シンドゥ族とソーヴィーラ族の爪と槍を持つ戦士たちに囲まれ、よく養われた勇猛な者たち、敵の英雄を倒すパルグナ……
7.110.77
नैतद्बलमसंवार्यं शक्यो जेतुं जयद्रथः ।
एते हि सैन्धवस्यार्थे सर्वे सन्त्यक्तजीविताः ॥ ७.११०.७७ ॥
この軍は押しとどめられないものではない。ジャヤドラタは打ち破れる。これらの者はみなサインダヴァのために命を捨てたのだから。
7.110.78
शरशक्तिध्वजवरं हयनागसमाकुलम् ।
पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम् ॥ ७.११०.७८ ॥
ドリタラーシュトラの息子たちのこの軍を見よ。矢と槍と旗に富み、馬と象に満ち、近づくことは極めて難しい。
7.110.79
शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान् ।
सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा ॥ ७.११०.७९ ॥
ドゥンドゥビの轟き、無数のホラ貝の音、獅子の咆哮、そして戦車の車輪の響きを聞け。
7.110.80
नागानां शृणु शब्दं च पत्तीनां च सहस्रशः ।
सादिनां द्रवतां चैव शृणु कम्पयतां महीम् ॥ ७.११०.८० ॥
象の声を聞け、幾千の歩兵、騎兵、駆ける者、大地を揺るがす者の声も聞け。
7.110.81
पुरस्तात्सैन्धवानीकं द्रोणानीकं च पृष्ठतः ।
बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत् ॥ ७.११०.८१ ॥
前方はサインダヴァの軍、後方はドローナの軍です。人中の虎よ、その多さは神々の王インドラをさえ苦しめるでしょう。
7.110.82
अपर्यन्ते बले मग्नो जह्यादपि च जीवितम् ।
तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः ॥ ७.११०.८२ ॥
果てしない軍勢に沈んだ者は命さえ捨てるかもしれない。あの戦いで彼らが討たれたなら、私のような者がどうして生きられようか。
7.110.83
सर्वथा समनुप्राप्तः सुकृच्छ्रं त्वयि जीवति ।
श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः ॥ ७.११०.८३ ॥
お前が生きていてさえ、我らはあらゆる面で大きな苦難に陥っている。色黒で若く、髪の濃い、美しいパーンダヴァ(アルジュナ)よ。
7.110.84
लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्यात भारतीम् ।
सूर्योदये महाबाहुर्दिवसश्चातिवर्तते ॥ ७.११०.८४ ॥
素早く武器を操り、驚くべき戦士である彼は、すでにバーラタの軍勢に入っただろう。日の出の頃、あの大腕の者は一日を越えていく。
7.110.85
तन्न जानामि वार्ष्णेय यदि जीवति वा न वा ।
कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् ॥ ७.११०.८५ ॥
ヴリシュニの末裔よ、彼が生きているかどうか私は知らない。海のように大きいクル族の軍勢もまた同様である。
7.110.86
एक एव च बीभत्सुः प्रविष्टस्तात भारतीम् ।
अविपह्यां महाबाहुः सुरैरपि महाहवे ॥ ७.११०.८६ ॥
愛しい者よ、ただ一人、かのビーバトサ(アルジュナ)、大力の英雄が、バーラタの軍勢に入った。大戦では神々でさえ彼を防げない。
7.110.87
न हि मे वर्तते बुद्धिरद्य युद्धे कथञ्चन ।
द्रोणोऽपि रभसो युद्धे मम पीडयते बलम् ॥ ७.११०.८७ ॥
今日の戦いでは、私の心は少しも定まらない。猛る将ドローナでさえ、私の力を苦しめているのだから。
7.110.88
प्रत्यक्षं ते महाबाहो यथाऽसौ चरति द्विजः ।
युगपच्च समेतानां कार्याणां त्वं विचक्षणः।
महार्थं लघुसंयुक्तं कर्तुमर्हसि मानद ॥ ७.११०.८८ ॥
大力の者よ、あのバラモン(ドローナ)がどのように動いているかは、お前が目の当たりにしている。同時に起こる仕事に、お前は長けている。名誉を与える者よ、この大いなる目的の務めを軽やかに成し遂げるのがお前にふさわしい。
7.110.89
तस्य मे सर्वकार्येषु कार्यमेतन्मतं महत् ।
अर्जुनस्य परित्राणां कर्तव्यमिति संयुगे ॥ ७.११०.८९ ॥
私の全ての務めの中で、これこそが大いなるものと考えられる——戦いにおいてアルジュナを守ることこそが果たすべきことだ。
7.110.90
नाहं शोचामि दाशार्हं गोप्तारं जगतः पतिम् ।
स हि शक्तो रणे तात त्रीँल्लोकानपि सङ्गतान् ॥ ७.११०.९० ॥
ダーシャールハ(クリシュナ)、世界の守護者にして主のためには、私は嘆かない。親愛なる者よ、彼は戦いにおいて、結集した三界にさえ立ち向かうことができるのだから。
7.110.91
विजेतुं पुरुषव्याघ्रः सत्यमेतद्ब्रवीमि ते ।
किम्पुनर्धार्तराष्ट्रस्य बलमेतत्सुदुर्बलम् ॥ ७.११०.९१ ॥
人中の虎よ、真実を言おう。ドリタラーシュトラの子のこの極めて弱い軍勢を打ち破ることさえ、あなたには容易である。ましてや。
7.110.92
अर्जुनस्त्वेष वार्ष्णेय पीडितो बहुभिर्युधि ।
प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम् ॥ ७.११०.९२ ॥
ヴリシュニの末裔よ、アルジュナは戦いで多くの者に苦しめられている。彼は戦場で命を捨てるかもしれない。だから私は苦悩している。
7.110.93
तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा ।
तादृशस्येदृशे काले मादृशेनाभिनोदितः ॥ ७.११०.९३ ॥
あなたは彼の道を行け。あなたのような人が行くように。このような時に、私のような者に促されて、彼のような者の道を歩め。
7.110.94
रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ ।
प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः ॥ ७.११०.९४ ॥
戦いにおいて、ヴリシュニの英雄たちの中で大戦車兵と記憶されるのは二人だけである。大腕のプラデュムナと、名高いサートヴァタよ、あなただ。
7.110.95
अस्त्रे नारायणसमः सङ्कर्षणसमो बले ।
वीरतायां नरव्याघ्र धनञ्जयसमो ह्यसि ॥ ७.११०.९५ ॥
武器においてはあなたはナーラーヤナに等しく、力においてはサンカルシャナに等しい。人中の虎よ、勇気においてはあなたは確かにダナンジャヤ(アルジュナ)に等しい。
7.110.96
भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम् ।
त्वामेव पुरुषव्याघ्रं लोके सन्तः प्रचक्षते ॥ ७.११०.९६ ॥
ビーシュマとドローナさえも凌ぎ、あらゆる戦いに熟達したあなたこそ、人中の虎よ、世の善き人々が最高とたたえる者だ。
7.110.97
सदेवासुरगन्धर्वान्सकिन्नरमहोरगान् ।
योधयेच्च जगत्सर्वं विजयेत रिपून्बहून् ॥ ७.११०.९७ ॥
神々、アスラ、ガンダルヴァ、キンナラ、大蛇たちと共に全世界と戦い、多くの敵を打ち破るがよい。
7.110.98
इति ब्रुवन्ति लोकेषु जनास्तव गुणांस्तथा ।
समागमेषु सर्वेषु पृथगेव च सर्वदा।
नाशक्यं विद्यते लोके सात्यकेरिति माधव ॥ ७.११०.९८ ॥
世の人々は、あらゆる集会で、個別にも常にも、あなたの徳をこのように語る。マーダヴァよ、世にサーティャキにできぬことはない。
7.110.99
तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महाबल ॥ ७.११०.९९ ॥
ゆえに大力の者よ、私が告げることを実行せよ。
7.110.100
सम्भावना हि लोकस्य मम पार्थस्य चोभयोः ।
नान्यथा तां महाबाहो सम्प्रकर्तुमिहार्हसि ॥ ७.११०.१०० ॥
これは世界の、私の、そしてパルタの、二人の期待である。大腕の者よ、ここでそれを実現すべきであり、別の道ではない。
7.110.101
परित्यज्य प्रियान्प्राणान्रणे चर विभीतवत् ।
न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम् ॥ ७.११०.१०१ ॥
愛する命を捨て、恐れなき者のように戦場を進め。シャイネーヤよ、ダーシャールハは戦場で己の命を守らぬ。
7.110.102
अयुद्धमनवस्थानं सङ्ग्रामे च पलायनम् ।
भीरूणामसतां मार्गे नैष दाशार्हसेवितः ॥ ७.११०.१०२ ॥
戦わぬこと、踏みとどまらぬこと、戦場から逃げること——これは臆病者と卑劣な者の道であり、ダーシャールハはこの道を歩まない。
7.110.103
तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुङ्गच ।
वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः ॥ ७.११०.१०३ ॥
親愛なる者よ、シニ族の雄牛よ。正義の魂アルジュナは君の師であり、ヴァスデーヴァもまた君の師である。賢明なプリターの子の師でもある。
7.110.104
कारणद्वयमेतद्धि जानंस्त्वामहमब्रुवम् ।
मावमंस्था वचो मह्यं गुरुस्तव गुरोर्ह्यहम् ॥ ७.११०.१०४ ॥
この二つの理由を知っているからこそ、私は君に話したのだ。私の言葉を軽んじてはならない。私は君の師であり、君の師の師でもあるのだから。
7.110.105
वासुदेवमतं चैव मम चैवार्जुनस्य च ।
सत्यमेतन्मयोक्तं ते याहि यत्र धनञ्जयः ॥ ७.११०.१०५ ॥
これはヴァスデーヴァの考えであり、私とアルジュナの考えでもある。私が君に言ったことは真実だ。ダナンジャヤのいる場所へ行け。
7.110.106
एतद्वचनमाज्ञाय मम सत्यपराक्रम ।
प्रविशैतद्बलं तात धार्तराष्ट्रस्य दुर्मतेः ॥ ७.११०.१०६ ॥
私のこの言葉を理解して、真の勇者よ、親愛なる者よ、ドゥフシュマティ(愚かな者)であるドリタラーシュトラの子のこの軍勢に入れ。
7.110.107
प्रविश्य च यथान्यायं सङ्गम्य च महारथैः ।
यथार्हमात्मनः कर्म रणे सात्वत दर्शय ॥ ७.११०.१०७ ॥
定めに従って突入し、大戦車兵と出会ったならば、サートヴァタの末裔よ、戦場で自分にふさわしい武勇を示せ。