Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.112

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.112.1

धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः ।
स पार्थाद्भयमाशंसन्परित्यागान्महीपतेः ॥ ७.११२.१ ॥

闻听法王之言,尸尼族的雄牛(萨谛奇)因担心来自般度之子的危险,又因地上之王被弃,

7.112.2

अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः ।
न मां भीतमिति ब्रूयात्प्रयान्तं फल्गुनं प्रति ॥ ७.११२.२ ॥

特别为了保护自己免受耻辱与世人之议,不要有人说,我在前往法尔古那时心怀恐惧。

7.112.3

निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः ।
नातिव्यक्तमिवाभाष्य धर्मराजं महायशाः ॥ ७.११२.३ ॥

他如此多方思量之后,好战自豪、名声显赫的萨谛奇,对法王说话仿佛不甚明白。

7.112.4

शोकगद्गदया वाचा शोकोपहतचेतनः ।
यथेदानीमिति ध्यात्वा धर्मराजमथाब्रवीत् ॥ ७.११२.४ ॥

他以悲痛哽咽的声音,心神为忧伤所伤,想着「就让它如今这样吧」,便对法王说。

7.112.5

कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशाम्पते ।
अनुयास्यामि बीभत्सुं करिष्ये वचनं तव ॥ ७.११२.५ ॥

若你认为已为你做好了保护,愿你平安,人民之主。我将追随毗跋察(阿周那),遵从你的命令。

7.112.6

न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते ।
यो मे प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते ॥ ७.११२.६ ॥

大王,三界之中,没有比般度之子们更让我珍爱的人。这话是真的,我对你说。

7.112.7

तस्याहं पदवीं यास्ये सन्देशात्तव मानद ।
त्वत्कृते न च मे किञ्चिदकर्तव्यं कथञ्चन ॥ ७.११२.७ ॥

尊贵的施予者啊!遵从你的使命,我将走上他的道路;为了你,对我来说没有任何事是做不到的。

7.112.8

यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर ।
तथा तवापि वचनं विशिष्टतरमेव मे ॥ ७.११२.८ ॥

人中之最优秀者啊!我的师尊之言对我而言至为尊贵,而你的话对我来说更为尊贵。

7.112.9

प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ ।
तयोः प्रिये स्थितं चैव विद्धि मां राजपुङ्गव ॥ ७.११२.९ ॥

你所亲爱的是两位兄弟,黑天与般度之子;人中之王啊,请知道我也深为他们二人所爱。

7.112.10

तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो ।
भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरपुङ्गव ॥ ७.११२.१० ॥

主上啊,我将你的命令顶在头上,为了般度之子,我将冲破这难以攻破的军队前进,人中之最优秀者啊。

7.112.11

द्रणानीकं विशाम्येष क्रुद्धो झष इवार्णवम् ।
तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः ॥ ७.११२.११ ॥

如同愤怒的鲨鱼闯入大海,我将冲入德罗纳的军队;国王啊,我将前往那位国王胜车所在之处。

7.112.12

यत्र सेनान्तमाश्रित्य भीतस्तिष्ठति पाण्डवात् ।
गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः ॥ ७.११२.१२ ॥

他在军阵边缘栖身,因惧怕般度之子而驻留,由最优秀的车战勇士德罗尼之子、迦尔纳、克里帕等人护卫。

7.112.13

इतिस्त्रियोजनं मन्ये तमध्वानं विशाम्पते ।
यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः ॥ ७.११२.१३ ॥

人主啊,我想那段路有三由旬,那位普利塔之子正站在那里,决意诛杀胜车。

7.112.14

त्रियोजनगतस्यापि तस्य यास्याभ्यहं पदम् ।
आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना ॥ ७.११२.१४ ॥

大王啊,即使他远在三由旬,我也将以坚定的心念前往他所在之处,直至杀死信度王。

7.112.15

अनादिष्टस्तु गुरुणा को नु युध्येत मानवः ।
आदिष्टस्तु यथा राजन्को न युध्येत मादृशः ॥ ७.११२.१५ ॥

若未受师长之命,人中谁会去作战?大王啊,若受命,像我这样的人谁会不战?

7.112.16

अभिजानामि तं देशमितः पूर्णं त्रियोजनम् ।
यत्र तिष्ठति राजाऽसौ सैन्धवो बालघातकः ॥ ७.११२.१६ ॥

我知道那个地方,离此整整三由旬,那位杀害孩童的信度王正站在那里。

7.112.17

सागरप्रतिमं सैन्यं गर्जन्तमिव सागरम् ।
हलशक्तिगदाप्रासचर्मखङ्गर्ष्टितोमरम्।
इष्वस्त्रवरसम्बाधं क्षोभयित्वा व्रजाम्यहम् ॥ ७.११२.१७ ॥

那支如海洋般的军队,如大海般咆哮,满是犁、枪、棍、矛、盾、剑、剑矛与投枪,密布上等箭矢与兵器;我将搅动它而前进。

7.112.18

यदेतत्कुञ्जरानीकं सहस्रमनुपश्यसि ।
कुलमाञ्जनकं नाम यत्रैते वीर्यशालिनः ॥ ७.११२.१८ ॥

你所见的这支千象之军名为“族之涂饰”,那里正有这些勇猛的战士。

7.112.19

आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः ।
नागा नगनिभा राजन्क्षरन्त इव तोयदाः ॥ ७.११२.१९ ॥

大王啊,这些象群载着许多善战而勇于击杀的蛮夷,如山岳一般,仿佛倾泻雨水的云朵。

7.112.20

नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः ।
अन्यत्र हि वधादेषां नास्ति राजन्पराजयः ॥ ७.११२.२० ॥

大王啊,这些受象骑者派遣的人永不退却;除非被杀,他们没有失败。

7.112.21

अथ यान्रथिनो राजन्सहस्रमनुपश्यसि ।
एते रुक्मरथा नाम राजपुत्रा महारथाः ॥ ७.११२.२१ ॥

大王啊,你现在所见的那数千名车战者,是名为金车的王子们,大车战士。

7.112.22

रथेष्वस्त्रेषु निपुणा नागेषु च विशाम्पते ।
धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः ॥ ७.११२.२२ ॥

人主啊,他们精通车战与兵器,也精通象战;已达到弓箭之学的彼岸,并精通拳斗。

7.112.23

गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा ।
खङ्गप्रहरणे युक्ताः सम्पाते चासिचर्मणोः ॥ ७.११२.२३ ॥

他们精通棍棒之战的诀窍,擅长摔跤;受过剑击训练,也精于剑与盾的交锋。

7.112.24

शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम् ।
नित्यं हि समरे राजन्विजिगीषन्ति मानवान् ॥ ७.११२.२४ ॥

他们英勇而有才学,彼此相互竞争;大王啊,在战场上他们总想战胜人类。

7.112.25

कर्णेन विहिता राजन्दुःशासनमनुव्रताः ।
एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति ॥ ७.११२.२५ ॥

大王啊,这些由迦尔纳任命、追随难近的人,连毗湿奴(Vāsudeva)也称赞他们是高贵的战车武士。

7.112.26

सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः ।
तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात् ॥ ७.११२.२६ ॥

大王啊,这些人总是想讨好迦尔纳,处于他的掌控之下;正是听从他的话,他们才从白马之主(阿周那)面前退了回来。

7.112.27

ते न क्लान्ता न च श्रान्ता दृढावरणकार्मुकाः ।
मदर्थेऽधिष्ठिता नूनं धार्तराष्ट्रस्य शासनात् ॥ ७.११२.२७ ॥

他们既不疲惫也不困倦;身披坚固铠甲、手持弓箭,正是遵从持国之子的命令,为了我而坚守。

7.112.28

एतान्प्रमथ्य सङ्ग्रामे प्रियार्थं तव कौरव ।
प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः ॥ ७.११२.२८ ॥

哦,俱卢之子,我为你所爱之事在战场上击溃他们之后,便将追随善用双臂者(阿周那)的路途。

7.112.29

यांस्त्वेतानपरान्राजन्नागान्सप्तशतानिमान् ।
प्रेक्षसे वर्मसञ्छन्नान्किरातैः समधिष्ठितान् ॥ ७.११२.२९ ॥

大王啊,除此之外,你所见的这另外七百头大象,身披铠甲,由吉罗多人骑乘——

7.112.30

किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना ।
स्वलङ्कृतांस्तदा प्रेष्यानिच्छञ्जीवितमात्मनः ॥ ७.११२.३० ॥

吉罗多王被善用双臂者(阿周那)俘获后,为求活命,便将这些装饰精美的(象)作为仆役献出。

7.112.31

आसन्नेते पुरा राजंस्तव कर्मकरा दृढम् ।
त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम् ॥ ७.११२.३१ ॥

大王,这些人从前是您最亲近的仆从,如今却想与您交战。请看时运的翻转。

7.112.32

एषामेते महामात्राः किराता युद्धदुर्मदाः ।
हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः ॥ ७.११२.३२ ॥

他们的这些主要统领是吉罗多人,好勇斗狠,精通驯象,都出生于火中。

7.112.33

एते विनिर्जिताः सङ्ख्ये सङ्ग्रामे सव्यसाचिना ।
मदर्थमद्य संयत्ता दुर्योधनवशानुगाः ॥ ७.११२.३३ ॥

这些人都曾在战场上被萨维亚萨钦(阿周那)击败。今日他们为我而准备,听从难敌的意愿。

7.112.34

एतान्हत्वा शरै राजन्किरातान्युद्धदुर्मदान् ।
सैन्धवस्य वधे यत्तमनुयास्यामि पाण्डवम् ॥ ७.११२.३४ ॥

大王,我以箭射杀这些好勇斗狠的吉罗多人,一心为杀死信度王(胜车)而努力,将追击般度之子。

7.112.35

ये त्वेते सुमहानाग अञ्जनस्य कुलोद्भवाः ।
कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः ॥ ७.११२.३५ ॥

还有这些巨大的象,出自安闼那的族系,凶猛而又受过训练,其颞部和面部都淌着发情的汁液。

7.112.36

जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः ।
लब्धलक्षा रणे राजन्नैरावणसमा युधि ॥ ७.११२.३६ ॥

他们皆以黄金铠甲装饰精美,善于命中目标,大王,在战场上与爱罗婆多相等。

7.112.37

आस्थिता दस्युभिस्तीक्ष्णैः शूरैरुत्तमपार्वतैः ।
कर्कशैः प्रवरैर्योधैः काष्णार्यसतनुच्छदैः ॥ ७.११२.३७ ॥

由凶猛的强盗、勇敢的上等山民和坚硬的优秀武士列阵,身披黑铁与皮革的甲胄。

7.112.38

सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः ।
अनेकयोनयश्चान्ये तथा मानुषयोनयः ॥ ७.११२.३८ ॥

这里有牛胎所生者,有猴胎所生者,还有其他多种出身者,以及人胎所生者。

7.112.39

अनीकमसतामेतद्भूम्रवर्णमुदीर्यते ।
म्लेच्छानां पापकर्तॄणां हिमदुर्गनिवासिनाम् ॥ ७.११२.३९ ॥

此为不善者之军,据说呈暗褐色:是居于雪城的野蛮人、作恶者之军。

7.112.40

एतद्दुर्योधनो लब्ध्वा समग्रं राजमण्डलम् ।
कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् ॥ ७.११२.४० ॥

难敌已获得全体诸王、慈悲、苏摩达多之子、德罗纳以及车战者中的最优者,因此获得了这一切。

7.112.41

सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान् ।
कृतार्थमथ चात्मानं मन्यते कालचोदितः ॥ ७.११२.४१ ॥

难敌也轻视信度王与迦尔纳,轻慢般度五子;被时间驱使,他自认为已心愿达成。

7.112.42

ते तु सर्वेऽद्य सम्प्राप्ता मम नाराचगोचरम् ।
नभविष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः ॥ ७.११२.४२ ॥

他们今天都已进入我箭矢的射程;啊,贡蒂之子,即便他们快如思念,也逃脱不了。

7.112.43

तेन संभाविता नित्यं परवीर्योपजीविना ।
विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः ॥ ७.११२.४३ ॥

他们常受他的尊敬,依赖他人的勇力而生,将被我箭矢的洪流所压垮,走向毁灭。

7.112.44

ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः ।
एते दुर्वारणा नाम काम्भोजा यदि ते श्रुताः ॥ ७.११२.४४ ॥

大王,你所见的这些有金色旗帜的战车武士,名为难当的憍萨罗人,你或许曾听说过。

7.112.45

शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः ।
संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः ॥ ७.११२.४५ ॥

他们英勇,学识娴熟,精通弓箭之学,彼此紧密团结,互相怀有善意。

7.112.46

अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत ।
यत्ता मदर्थे तिष्ठन्ति कुरुवीराभिरक्षिताः ॥ ७.११२.४६ ॥

婆罗多啊,持国之子的愤怒的阿克肖希尼大军为我而整装待命,由俱卢勇士守护。

7.112.47

अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः ।
तानहं प्रमथिष्यामि तृणानीव हुताशनः ॥ ७.११२.४७ ॥

大王,他们警觉地正面对着我;我将碾碎他们,如同烈火焚烧草芥。

7.112.48

तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च ।
रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः ॥ ७.११२.४८ ॥

因此,大王,请让车工将所有配件和器具妥善安置在我的战车上。

7.112.49

अस्मिंस्तु किल सम्मर्दे ग्राह्यं विविधमायुधम् ।
यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः ॥ ७.११२.४९ ॥

在此激战中应当携带各种武器,战车应按照师长的指示,具备五种优点而制成。

7.112.50

काम्भोजैर्हि समेष्यामि तीक्ष्णैराशीविषोपमैः ।
नानाशस्त्रसमावायैर्विविधायुधयोधिभिः ॥ ७.११२.५० ॥

我必将与憍萨罗之外的甘菩遮人交战,他们凶猛如毒蛇,持有多种武器。

7.112.51

किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः ।
लालितैः सततं राज्ञा दुर्योधनहितैषिभिः ॥ ७.११२.५१ ॥

我还将与乔达摩(即甘菩遮)的近人、俱卢族之外的猎人交战,他们如毒药般致命,常受国王宠爱,且心向难敌。

7.112.52

शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः ।
अग्निकल्पैर्युराधर्षैः प्रदीप्तैरिव पावकैः ॥ ७.११२.५२ ॥

我还将与沙迦人交战,他们勇武堪比帝释天,如火般难以逼近,如燃烧之火般炽烈。

7.112.53

तथाऽन्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः ।
समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः ॥ ७.११२.५३ ॥

同样,大王,我还将在战场上与其他许多各式勇士交战,他们如死神般难以接近,沉醉于战斗的狂傲。

7.112.54

त्रियोजनगतस्यापि पदवीं सव्यसाचिनः ।
यास्यामि रथिनां श्रेष्ठं प्रवरं च धनुष्मताम् ॥ ७.११२.५४ ॥

即使是远去三由旬的左撇子(阿周那)的道路,我也将前往,他是战车武士中最杰出的,弓箭手中的第一人。

7.112.55

सूर्योदयगतस्याहं पाण्डवस्य गतिं चरन् ।
अपराह्णगते सूर्ये गमिष्यामि न संशयः ॥ ७.११२.५५ ॥

我将沿着日出时出发的般度之子的路径前行,待太阳到达午后,我必定前往,毫无疑问。

7.112.56

तस्माद्वै वाजिनो मुख्यान्विश्रुताञ्शुभलक्षणैः ।
उपावृत्तांश्च पीतांश्च पुनर्युञ्जन्तु मे रथे ॥ ७.११२.५६ ॥

因此,请再将以吉相闻名的上等良马——已调转回来并已饮水的——套在我的战车上。

7.112.57

तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च ।
रथे चास्थापयद्राजा शस्त्राणि विविधानि च ॥ ७.११२.५७ ॥

国王命人将他所有的马具、全部装备和各种兵器放在战车上。

7.112.58

ततस्तान्सर्वतोमुक्तान्सदश्वांश्चतुरो जनाः ।
रसवत्पाययामासुः पानं मदसमीरणम् ॥ ७.११२.५८ ॥

随后四人让那四匹良马——四面已卸下缰绳的——饮用一种美味、能激发兴奋的饮料。

7.112.59

पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलङ्कृतान् ।
विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः ॥ ७.११२.५९ ॥

那四匹已饮水调回、已沐浴、已进食、装饰华美、已去除刺棒、戴着金色花环的良马。

7.112.60

तान्युक्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः ।
संहृष्टमनसो व्यग्रान्विधिवत्कल्पितान्रथे ॥ ७.११२.६० ॥

它们已套好,金黄色,训练有素,疾速奔驰,心情欢喜而急切,已依照规矩安置于战车之上。

7.112.61

महाध्वजेन सिंहेन हेमकेसरमालिना ।
संवृते केतकैर्हैर्मैर्मणिविद्रुमचित्रितैः ॥ ७.११२.६१ ॥

大旗上有狮子标志,饰以如金鬃般的花环;战车套着优良的骏马,马身以宝石与珊瑚点缀,呈露兜花色。

7.112.62

पाण्डुराभ्रप्रकाशाभिः पताकाभिरलङ्कृते ।
हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे।
योजयामास विधिवद्धेमभाण्डविभूषितान् ॥ ७.११२.६२ ॥

这辆战车饰以如白云般的旗帜,金杆上高举华盖,配备多种兵器。他依规矩套上以金饰装点的马匹。

7.112.63

दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा ।
न्यवेदयद्रथं युक्तं वासवस्येव मातलिः ॥ ७.११२.६३ ॥

达卢迦之弟、御者兼他的亲友,如因陀罗的御者摩多梨一般,报告说战车已套好。

7.112.64

ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः ।
स्नातकानां सहस्रस्य स्वर्णनिष्कानथो ददौ ॥ ७.११२.६४ ॥

随后,他沐浴净身,行吉祥之礼,将一千枚金钱(尼什卡)赠予已完成梵行的婆罗门学子。

7.112.65

आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः ।
ततः समधुपर्काम्भः पीत्वा कैरातकं मधु ॥ ७.११२.६५ ॥

萨提亚基是光荣者中最优秀的,受到祝福的拥抱后,他饮用了加入蜂蜜甜酒(madhuparka)和水的卡伊拉塔卡蜜酒。

7.112.66

लोहिताक्षो बभौ तत्र मदविह्वललोचनः ।
आलभ्य वीरकांस्यं च हर्षेण महताऽन्वितः ॥ ७.११२.६६ ॥

他双眼通红,醉意使目光迷离,在那里光彩照人;触摸了勇士们的青铜杯,内心充满巨大的喜悦。

7.112.67

द्विगुणीकृततेजोभिः प्रज्वलन्निव पावकः ।
उत्सङ्गे धनुरादाय सशरं रथिनां वरः ॥ ७.११२.६७ ॥

以加倍的光彩如火焰般燃烧,将弓与箭置于膝上,乃车战者中的最优者。

7.112.68

आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः ।
कृतस्वस्त्ययनो विप्रैः कवची समलङ्कृतः ॥ ७.११२.६८ ॥

受到祝福的拥抱,光荣者中最优秀的萨提亚基,经婆罗门举行吉祥仪式后,身披铠甲,装饰华美。

7.112.69

लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः ।
युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः ॥ ७.११२.६९ ॥

受到炒米、香料、花环以及少女们的欢迎,他合掌向坚战的双足致敬。

7.112.70

तेन मूर्धन्युपाघ्रातः कृतस्वस्ययनोऽपि च ।
आशिषो विविधाः श्रुत्वा धर्मराजमुखेरिताः।
हर्षेण महता युक्त आरुरोह महारथम् ॥ ७.११२.७० ॥

他吻了他的头,吉祥仪式也得以举行;听闻从法王口中说出的种种祝福,怀着极大的喜悦,他登上了大战车。

7.112.71

ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः ।
अजय्या जैत्रमूहुस्तं विकुर्वाणाः स्म सैन्धवाः।
यथा शक्ररथं राजन्नूहुस्ते हरयः पुरा ॥ ७.११२.७१ ॥

于是,那些欢欣、饲养良好、迅如疾风、不可战胜的信度马拉着那辆胜利之车前行,正如昔日,国王啊,那些黄褐色神马曾载着因陀罗的战车。

7.112.72

तथैव भीमसेनोऽपि धर्मराजेन पूजितः ।
प्रायात्सात्यकिना सार्धमभिवाद्य युधिष्ठिरम् ॥ ७.११२.७२ ॥

同样,婆罗多之子毗摩在法王的敬重下,向坚战致敬后,与萨提亚基一同启程。

7.112.73

तौ दृष्ट्वा प्रविविक्षन्तौ तव सेनामरिंदमौ ।
संयत्तास्तावकाः सर्वे तस्थुर्द्रोणपुरोगमाः ॥ ७.११२.७३ ॥

你的全军见这两位制敌者想要进入你的军队,便以德罗纳为首,全部严阵以待。

7.112.74

सन्नद्धमनुगच्छन्तं दृष्ट्वा भीमं स सात्यकिः ।
अभिनन्द्याब्रवीद्वीरस्तदा हर्षकरं वचः ॥ ७.११२.७४ ॥

勇士萨提亚基见比玛披甲跟随,便向他致意,随后说出了令人欢喜的话。

7.112.75

त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते ।
अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम् ॥ ७.११२.७५ ॥

比玛啊,你去保护国王,这是你最紧要的任务。我将冲破这支被时间催熟的军队,进入其中。

7.112.76

आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम् ।
जानीषे मम वीर्यं त्वं तव चाहमरिन्दम।
तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम् ॥ ७.११२.७६ ॥

无论未来还是现在,保护国王都是有益的。你知道我的威力,我也知道你的。所以比玛啊,如果你想让我高兴,就请回去吧。

7.112.77

तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये ।
अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम ॥ ७.११२.७७ ॥

比玛听了这话,对萨提亚基说:"人中之杰,你去完成任务吧。我会保护国王。"

7.112.78

एवमुक्तः प्रत्युवाच भीमसेनं स माधवः ।
गच्छ गच्छ ध्रुवं पार्थ ध्रुवो हि विजयो मम ॥ ७.११२.७८ ॥

萨提亚基(摩陀婆)听后回答比摩森:"去吧,去吧,普利塔之子!我的胜利必定无疑。"

7.112.79

यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशमास्थितः ।
निमित्तानि च धन्यानि यथा भीम वदन्ति मां ॥ ७.११२.७९ ॥

婆罗多之子啊,今日你对我怀有亲爱与忠诚,已处于我的掌控之中;吉祥的征兆也正对我如此宣告。

7.112.80

निहते सैन्धवे पापे पाण्डवेन महात्मना ।
परिष्वजिष्ये राजानं धर्मात्मानं युधिष्ठिरम्।
अप्रमादश्च ते कार्यो द्रोणं प्रति महारथम् ॥ ७.११२.८० ॥

待作恶的信度王被大德的般度之子杀死后,我将拥抱行法之心的国王坚战。而你必须提防大车战士德罗纳。

7.112.81

एतावदुक्त्वा भीमं तु विसृज्य च महायशाः ।
सम्प्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव ॥ ७.११२.८१ ॥

对婆罗多之子说完这些并送别之后,这位大名鼎鼎的勇士望向你的军队,如同猛虎望着一群鹿。

7.112.82

तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप ।
भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत ॥ ७.११२.८२ ॥

人主啊,看见他将要进入你的军队,你的军队再次极度惶惑,并且颤抖起来。

7.112.83

ततः प्रयातः सहसा तव सैन्यं स सात्यकिः ।
दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात् ॥ ७.११२.८३ ॥

然后,王啊,遵从法王的命令,萨提亚基想要见到阿周那,忽然向你的军队出发了。