Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.114

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.114.1

एवं बहुगुणं सैन्यमेवं प्रविचितं बलम् ।
व्यूढमेवं यथान्यायमेवं बहु च सञ्जय ॥ ७.११४.१ ॥

桑闪耶啊,如此多德之军,如此经过考察之力,如此依法列阵,且如此庞大。

7.114.2

नित्यं पूजितमस्माभिरभिकामं च नः सदा ।
प्रौढमत्यद्भुताकारं पुरस्ताद्दृष्टविक्रमम् ॥ ७.११४.२ ॥

我们一向尊重它,它也始终为我们所喜爱。它成熟而形貌奇异,其勇武此前已经显现。

7.114.3

नातिवृद्वमबालं च नाकृशं नातिपीवरम् ।
लघुवृत्तायतप्रायं सारगात्रमनामयम् ॥ ७.११४.३ ॥

既不太老,也不是孩童;既不消瘦,也不过胖;大多轻捷、圆润而肢体修长,身体强健,且无疾病。

7.114.4

आत्तसन्नाहसञ्छन्नं बहुशस्त्रपरिच्छदम् ।
शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम् ॥ ७.११४.४ ॥

身披铠甲,配备众多兵器与装备,精通多种持武之术。

7.114.5

आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते ।
सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ॥ ७.११४.५ ॥

精于上车、下车进攻、移动、跃过间隙、正确出击、乘具之用,以及撤退之术。

7.114.6

नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम् ।
चर्मनिस्त्रिंशयुद्धे च नियुद्धे च विशारदम्।
परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ॥ ७.११४.६ ॥

在象、马与战车上多次经过考验,精通盾剑之战与角力。已依法考核,以俸禄任用。

7.114.7

न गोष्ठ्या नोपकारेण न सम्बन्धनिमित्ततः ।
नानाहूतं नाप्यभृतं मम सैन्यं बभूव ह ॥ ७.११४.७ ॥

我的军队不是因为交游、恩惠或亲属关系而聚集的,也不是通过召告而来,或以薪俸雇来的。

7.114.8

कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम् ।
कृतमानोपचारं च यशस्वि च मनस्वि च ॥ ७.११४.८ ॥

此军由出身高贵、品行优良的人组成,满足而充实,谦逊,受到尊重与礼遇,有名望,有志气。

7.114.9

सचिवैश्चापरैर्मुख्यैर्बहुभिः पुण्यकर्मभिः ।
लोकपालोपमैस्तात पालितं नरसत्तमैः ॥ ७.११४.९ ॥

亲爱的孩子,此军由大臣及其他首领、许多行善积德的人,以及如世界护持者般的人中俊杰所守护。

7.114.10

बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः ।
अस्मानभिसृतैः कामात्सबलैः सपदानुगैः ॥ ७.११४.१० ॥

此军受到许多国王的守护,他们愿意为我们做我们所喜爱之事,怀着欲望,率领军队、步兵和随从前来我方。

7.114.11

महोदधिमिवापूर्णमापगाभिः समन्ततः ।
अपक्षैः पक्षिसङ्काशै रथैरश्वैश्च संवृतम् ॥ ७.११४.११ ॥

犹如大海四面都被河流注满,此军被战车和马匹所环绕;它们没有翅膀,却如飞鸟一般。

7.114.12

प्रभिन्नकरटैश्चैव द्विरदैरावृतं महत् ।
यदहन्यत मे सैन्यं किमन्यद्भागधेयतः ॥ ७.११४.१२ ॥

那支被发情大象环绕的庞大军队竟被毁灭,除了命运还能有什么原因呢?

7.114.13

योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम् ।
क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम् ॥ ७.११४.१३ ॥

它的不竭之水是战士;它可怖,波浪是战车与战马,满是被投掷的棍棒、剑、矛、箭和标枪所化的鱼。

7.114.14

ध्वजभूषणसम्बाधरत्नोपलसुसञ्चितम् ।
वाहनैरभिधावद्भिर्वायुवेगविकम्पितम् ॥ ७.११४.१४ ॥

旗帜与饰物密集,宝石般的石子遍布,随着奔驰的车辆,被风速所震动。

7.114.15

द्रोणगम्भीरपातालं कृतवर्ममहाहदम् ।
जलसन्धमहाग्राहं कर्मचन्द्रोदयोद्धतम् ॥ ७.११४.१५ ॥

德罗纳是它深邃的渊底,克利塔瓦尔曼是它的大湖,乘陀是它的巨鳄,被业之月的升起所激荡。

7.114.16

गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे ।
सञ्जयैकरथेनैव युयुधाने च मामकम् ॥ ७.११४.१६ ॥

般度之牛疾速劈开军队之海而去,以及乘着察耶唯一一辆战车的优湿陀那也去了,我的军队……

7.114.17

तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि ।
सात्वते च रथोदारे मम सैन्यस्य सञ्जय ॥ ७.११४.१७ ॥

当慧左手者(阿周那)与高贵的车夫萨特亚基进入其中后,桑耶,我看不见我军的残余。

7.114.18

तौ तत्र समतिक्रान्तौ दृष्ट्वाऽतीव तरस्विनौ ।
सिन्धुराजं तु सम्प्रेक्ष्य गाण्डीवस्य च गोचरम् ॥ ७.११४.१८ ॥

看见那两位极其迅猛的勇士从那里穿过,又看见信度王在甘狄拔弓的射程之内。

7.114.19

किं नु वा कुरवः कृत्यं विदधुः कालचोदिताः ।
दारुणैकायनेऽकाले कथं वा प्रतिपेदिरे ॥ ७.११४.१९ ॥

被时间驱使的俱卢人究竟尽了何种职责?在那可怖的终极之途上,在不合时宜之际,他们又是如何踏上的?

7.114.20

ग्रस्तान्हि कौरवान्मन्ये मृत्युना तात सङ्गतान् ।
विक्रमोऽपि रणे तेषां न तथा दृश्यते हि वै ॥ ७.११४.२० ॥

孩子啊,我认为被死亡所攫取而聚集的俱卢子弟已然注定;他们在战场上的勇武,也不再如先前那样显现。

7.114.21

अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ ।
न च वारयिता कश्चित्तयोरस्तीह सञ्जय ॥ ७.११४.२१ ॥

桑贾耶,那里踏入战阵的克里希那与般度子,都安然无恙;而此地也无人能够阻挡他们二人。

7.114.22

भृताश्च बहवो योधाः परीक्ष्यैव महारथाः ।
वेतनेन यथायोगं प्रियवादेन चापरे ॥ ७.११४.२२ ॥

许多经过考验的武士与大车战士被招募,各依相应的俸禄受雇,另有一些则凭动听的言辞而归附。

7.114.23

असत्कारभृतस्तात मम सैन्ये न विद्यते ।
कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम् ॥ ७.११४.२३ ॥

孩子啊,在我的军中并无一人是在不受尊重的情形下供养的;因为衣食与俸禄,都是依照所作之事而得的。

7.114.24

न च योधोऽभवत्कश्चिन्मम सैन्ये तु सञ्जय ।
अल्पदानभृतस्तात तथा चाभृतको नरः ॥ ७.११४.२४ ॥

桑贾耶,在我的军中竟无一名真正的战士;孩子啊,只凭微薄施舍而被养着的人,以及同样没有俸禄的人。

7.114.25

पूजितो हि यथाशक्त्या दानमानासनैर्मया ।
तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः ॥ ७.११४.२५ ॥

亲爱的,我依自己的能力以布施、敬意和座位礼敬他们,我的儿子们、亲族和亲人也都如此。

7.114.26

ते च प्राप्यैव सङ्ग्रामे निर्जिताः सव्यसाचिना ।
शैनेयेन परामृष्टाः किमन्यद्भागधेयतः ॥ ७.११४.२६ ॥

他们在战场上遭遇后,被萨维亚萨钦(阿周那)击败,又被失尼之后(萨谛亚基)打倒;除了命运,还有什么原因呢?

7.114.27

रक्ष्यते यश्च सङ्ग्रामे ये च सञ्जय रक्षिणः ।
एकः साधारणः पन्थार रक्ष्यस्य सह रक्षिभिः ॥ ७.११४.२७ ॥

萨闍耶,在战场上,被保护者与保护者走的是同一条共同之路。

7.114.28

अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम् ।
पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत ॥ ७.११४.२८ ॥

在战场上看见阿周那站在信度王(胜车)面前,我那极其愚昧的儿子又采取了什么行动?

7.114.29

सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत् ।
किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत ॥ ७.११४.२९ ॥

看见萨谛亚基毫无畏惧地冲入战场,难敌认为何时何种职责才是适时的?

7.114.30

सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथिसत्तमौ ।
दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः ॥ ७.११४.३० ॥

看见这两位超越一切兵器、战车中最优秀的勇士冲入军中,我方之人在战斗中又以何种坚定来应对?

7.114.31

दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम् ।
शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः ॥ ७.११४.३१ ॥

见到为阿周那而立的达萨尔哈后裔克利须那,以及希尼族之牛,我想我的儿子们正在悲伤。

7.114.32

दृष्टा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च ।
पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः ॥ ७.११४.३२ ॥

见到军队被萨特瓦塔与阿周那冲垮,库鲁人四散逃奔,我想我的儿子们正在悲伤。

7.114.33

विद्रुतान्रथिनो दृष्ट्वा निरुत्साहान्द्विषज्जये ।
पलायनकृतोत्साहान्मन्ये शोचन्ति पुत्रकाः ॥ ७.११४.३३ ॥

见到战车武士四散,对战胜敌人失去斗志,只一心想逃跑,我想我的儿子们正在悲伤。

7.114.34

शून्यान्कृतान्रथोपस्थान्सात्वतेनार्जुनेन च ।
हतांश्च योधान्संदृश्य मन्ये शोचन्ति पुत्रकाः ॥ ७.११४.३४ ॥

见到战车座位空无一人,战士被萨特瓦塔与阿周那杀死,我想我的儿子们正在悲伤。

7.114.35

व्यश्वनागरथान्दृष्ट्वा तत्र वीरान्सहृस्रशः ।
धावमानान्रणे व्यग्रामन्यन्ये शोचन्ति पुत्रकाः ॥ ७.११४.३५ ॥

见到那里成千上万的英雄失去了马匹、象兵与战车,在战场上惊慌奔逃,我想我的其他儿子们正在悲伤。

7.114.36

महानागान्विद्रवतो दृष्ट्वाऽर्जुनशराहतान् ।
पतितान्पततश्चान्यान्मन्ये शोचन्ति पुत्रकाः ॥ ७.११४.३६ ॥

见到大象被阿周那的箭射中而奔逃,其他人或倒下或正在倒下,我想我的儿子们正在悲伤。

7.114.37

विहीनांश्च कृतानश्वान्विरथांश्च कृतान्नरान् ।
तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः ॥ ७.११४.३७ ॥

我想,我的儿子们看到那里的马被毁、无车的人被砍倒,皆因萨提奇与普利塔之子,正在悲痛。

7.114.38

हयौघान्निहतान्दृष्ट्वा द्रवमाणांस्ततस्ततः ।
रणे माधवपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः ॥ ७.११४.३८ ॥

我想,我的儿子们看到战场上马群被摩陀婆与普利塔之子杀死,四处奔逃,正在悲痛。

7.114.39

पत्तिसङ्घान्रणे दृष्ट्वा धावमानांश्च सर्वशः ।
निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः ॥ ७.११४.३९ ॥

我想,我的儿子们都已对胜利绝望,看到战场上的步兵群四面奔逃,正在悲痛。

7.114.40

द्रोणस्य समतिक्रान्तावनीकमपराजितौ ।
क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः ॥ ७.११४.४० ॥

我想,我的儿子们看到那两位不败的英雄在瞬间穿越了德罗纳的军队,正在悲痛。

7.114.41

सम्मूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनञ्जयौ ।
प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ ॥ ७.११४.४१ ॥

亲爱的,听说黑天与财主偕同萨特瓦塔(萨提奇)进入了我的军队,我深感困惑。

7.114.42

तस्मिन्प्रविष्टे पृतनां शिनीनां प्रवरे रथे ।
भोजानीकं व्यतिक्रान्ते किमकुर्वत कौरवाः ॥ ७.११४.४२ ॥

当那位希尼军中最杰出的车士进入并穿过波阇军队之后,考罗婆们做了什么?

7.114.43

तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु ।
कथं युद्धमभूत्तत्र तन्ममाचक्ष्व सञ्जय ॥ ७.११४.४३ ॥

当德罗纳在战场上如此阻挡般度之子时,那里的战斗如何进行?散阇耶,请把它告诉我。

7.114.44

द्रोणो हि बलवान्श्रेष्ठः कृतास्त्रो युद्धदुर्मदः ।
पाञ्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे ॥ ७.११४.४४ ॥

德罗纳强大、卓越、精通武器、好战而自负;般遮罗人在战场上如何与那位大弓箭手交战?

7.114.45

बद्धवैरास्ततो द्रोणे धनञ्जयजयैषिणः ।
भारद्वाजसुतस्तेषु दृढवैरो महारथः ॥ ७.११४.४५ ॥

于是,那些与德罗纳结下仇怨、渴望阿周那获胜的人;而其中,跋罗陀婆之子,大车士,怀着坚定的仇恨。

7.114.46

अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति ।
तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि सञ्जय ॥ ७.११४.४६ ॥

阿周那关于杀死信度王所做的一切,请全部告诉我,因为你很精明,散阇耶。

7.114.47

आत्मापराधात्सम्भूतं व्यसनं भरतर्षभ ।
प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि ॥ ७.११४.४७ ॥

婆罗多的雄牛啊,你遭遇了由自己过失所引发的灾难,英雄啊,你不应像凡人那样悲叹。

7.114.48

पुरा यदुच्यसे प्राज्ञैः सुहृद्भिर्विदुरादिभिः ।
मा हार्षीः पाण्डवान्राजन्निति तन्न त्वया श्रुतम् ॥ ७.११४.४८ ॥

国王啊,从前以毗杜罗为首的智慧的朋友曾对你说“不要剥夺般度之子”,这你没有听进去。

7.114.49

सुहृदां हितकामानां वाक्यं यो न शृणोति ह ।
स महद्व्यसनं प्राप्य शोचते वै यथा भवान् ॥ ७.११४.४९ ॥

不听从希望其善的朋友之言的人,遭遇大灾难后,便如您这般悲叹。

7.114.50

याचितोऽसि पुरा राजन्दाशार्हेण शमं प्रति ।
न च तं लब्धवान्कामं त्वत्तः कृष्णो महायशाः ॥ ७.११४.५० ॥

国王啊,昔日达舍尔哈(克里希那)曾为和平向您请求;然而大名的克里希那并未从您那里得到所愿。

7.114.51

तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च ।
द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् ॥ ७.११४.५१ ॥

我知道您缺乏德行,偏袒诸子,在法上犹豫不定,又嫉妒般度五子。

7.114.52

तव जिह्ममभिप्रायं विदित्वा पाण्डवान्प्रति ।
आर्तप्रलापांश्च बहून्मनुजाधिप सत्तम ॥ ७.११४.५२ ॥

我知道您对般度五子怀有邪曲之意,也知道您多有悲苦的哀叹,人主啊,最优秀的人啊。

7.114.53

सर्वलोकस्य तत्त्वज्ञः सर्वलोकेश्वरः प्रभुः ।
वासुदेवस्ततो युद्धं कुरूणामकरोन्महत् ॥ ७.११४.५३ ॥

通晓一切世界真理、为一切世界之主的大能者婆苏提婆,于是在俱卢之间引发了大战。

7.114.54

आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः ।
नैनं दुर्योधने दोषं कर्तुमर्हसि मानद ॥ ७.११४.५४ ॥

因为您自己的过失,这场巨大的毁灭降临到了您身上。尊贵者啊,您不应当把这罪过推给难敌。

7.114.55

न हि तै सुकृतं किञ्चिदादौ मध्ये च भारत ।
दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः ॥ ७.११४.५५ ॥

婆罗多的后裔啊,无论开始、中间还是之后,都看不到你做过任何善行;这次失败正源于你。

7.114.56

तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम् ।
शृणु युद्धं यथावृत्तं घोरं देवासुरोपमम् ॥ ७.११४.५६ ॥

因此,今日请你保持镇定,明白世间的裁决,听听那场可怕的战斗如何发生,犹如神与阿修罗之战。

7.114.57

प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे ।
भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव ॥ ७.११४.५७ ॥

当真正勇武的舍奈耶(萨提亚基)进入你的军队后,以怖军为首的普利塔之子们向你的大军进攻。

7.114.58

आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान् ।
दधारैको रणे पाण्डून्कृतवर्मा महारथः ॥ ७.११४.५८ ॥

当般度之子们怒容满面、率随从突然逼近时,大车战士克利塔瓦尔曼独自在战场上阻挡他们。

7.114.59

यथोद्वृत्तं वारयते वेला वै सलिलार्णवम् ।
पाण्डुसैन्यं तथा सङ्ख्ये हार्दिक्यः समवारयत् ॥ ७.११४.५९ ॥

如同海岸阻挡翻腾的大海,哈尔迪基亚(克利塔瓦尔曼)在战斗中完全阻挡了般度军。

7.114.60

तत्राद्भुतमपश्याम हार्दिक्यस्य पराक्रमम् ।
यदेनं सहिताः पार्था नातिचक्रमुराहवे ॥ ७.११४.६० ॥

在那里我们目睹了哈尔迪基亚惊人的勇武:普利塔之子们即便联合,也无法在战斗中越过他。

7.114.61

ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमाशुगैः ।
शङ्खं दध्मौ महाबाहुर्हर्षुयन्सर्वपाण्डवान् ॥ ७.११४.६१ ॥

于是大臂的怖军以三支快箭射中骁车·金甲(Kṛtavarman),吹响海螺,使所有般度之子欢喜。

7.114.62

सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः ।
शतेन नकुलश्चापि हार्दिक्यं समविध्यत ॥ ७.११४.६२ ॥

偕提婆以二十支箭、法王以五支箭、那昆拉以一百支箭,都射中了心底之子(Hārdikya)。

7.114.63

द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः ।
धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत् ॥ ७.११४.६३ ॥

德劳帕蒂之子以七十三支箭、迦托德迦查以七支箭、德里斯塔笃姆那以三支箭,使骁车·金甲(Kṛtavarman)受苦。

7.114.64

विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः ।
शिखण्डी चैव हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः ॥ ७.११४.६४ ॥

毗罗吒与德鲁波陀,以及祭主之子,各以五支箭射中心底之子;湿婆坎丁也以五支快箭射中他。

7.114.65

पुनर्विव्याध विंशत्या सायकानां हसन्निव ।
कृतवर्मा ततो राजन्सर्वतस्तान्महारथान् ॥ ७.११४.६५ ॥

随后骁车·金甲仿佛在笑,又以二十支箭再次射中他们;大王啊,他从四面八方困扰那些大车将。

7.114.66

एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः ।
धनुर्ध्वजं चास्य तदा रथाद्भूमावपातयत् ॥ ७.११४.६६ ॥

他以五支箭射中每一个人,又以七支箭射中怖军,随后把他的弓和旗从战车上射落到地上。

7.114.67

अथैनं छिन्नधन्वानं त्वरमाणो महारथः ।
आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः ॥ ७.११४.६७ ॥

于是那位大车士怒不可遏,急速逼近弓已被折断的他,以七十支利箭射中其胸。

7.114.68

स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः ।
चचाल रथमध्यस्थः क्षितिकम्पे यथाऽचलः ॥ ७.११४.६८ ॥

被硬迪奇亚的良箭深深射中,这位勇士站在车中,颤抖如同地震中的山岳。

7.114.69

भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः ।
विसृजन्तः शरान्राजन्कृतवर्माणमार्दयन् ॥ ७.११४.६९ ॥

大王啊,见怖军如此,以法王(坚战)为首的战士们纷纷放箭,逼迫勇士胜车。

7.114.70

तं तथा कोष्ठकीकृत्य रथवंशेन मारिष ।
विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे ॥ ७.११४.७० ॥

尊者啊,他们以车阵如谷仓般将其围住,欢欣地在战中以箭射之,以护卫风子(怖军)。

7.114.71

प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः ।
शक्तिं जग्राह समरे हेमदण्डामयस्मायीम् ॥ ७.११४.७१ ॥

于是怖军恢复知觉,大力者在战中持起一支以金柄为杆的铁制长矛。

7.114.72

चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति ।
सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसन्निभा ॥ ७.११४.७२ ॥

他从车上迅速向勇士胜车掷出,此矛离开怖军之臂,如同脱缚之蛇。

7.114.73

कृतवर्माणमभितः प्रजज्वाल सुदारुणा ।
तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम् ॥ ७.११४.७३ ॥

她在克利塔瓦尔曼周围骤然燃起,极为可怕。当她如同劫末之火般光芒四射地急速向他飞来时,

7.114.74

द्वाभ्यां शराभ्यां हार्दिक्यो निजघान द्विधा तदा ।
सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा ॥ ७.११४.७४ ॥

于是,硬迪奇雅以两支箭将其一分为二。那镶嵌黄金的长矛被斩断,落在地上。

7.114.75

द्योतयन्ती दिशो राजन्महोल्केव नभश्च्युता ।
शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम् ॥ ७.११४.७५ ॥

大王啊,看到那长矛——它像从天空坠落的大流星一样照亮四方——被击毁,毗摩便极度愤怒。

7.114.76

ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम् ।
भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत् ॥ ७.११४.७६ ॥

于是毗摩森那拿起另一张弓,弓弦发出迅疾而巨大的响声,在战场上愤怒地拦住了硬迪奇雅。

7.114.77

अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे ।
भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन च ॥ ७.११४.७७ ॥

随后,力大无穷的毗摩以五支箭射中他的胸膛。大王啊,这一切都是因为您的恶劣谋划所致。

7.114.78

भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष ।
रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे ॥ ७.११४.७८ ॥

尊者啊,被毗摩森那在全身伤痕累累的婆阇(克利塔瓦尔曼),在战场上闪耀,如盛开的红色无忧树。

7.114.79

ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव ।
अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत ॥ ७.११४.७९ ॥

于是他愤怒地以三支箭射中婆罗多之子怖军,仿佛在嘲笑,并在战斗中坚决地反击,射中了他们所有人。

7.114.80

त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान् ।
तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः ॥ ७.११४.८० ॥

那些努力作战的大弓箭手、大车战士,各以三支箭反射中他,而他们也各以七支箭射中他。

7.114.81

शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः ।
धनुश्चिच्छेद सामरे प्रहसन्निव सात्वतः ॥ ७.११४.८१ ॥

于是愤怒的大车战士萨特瓦塔,仿佛在笑,以一支剃刀头箭在战斗中斩断了湿婆神之战士希坎丁的弓。

7.114.82

शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरः ।
असिं जग्राह समरे शतचन्द्रं च भास्वरम् ॥ ७.११४.८२ ॥

然而此时愤怒的希坎丁,弓被斩断后,迅速在战斗中拿起了名为百月的闪亮之剑。

7.114.83

भ्रामयित्वा महच्चर्म चामीकरविभूषितम् ।
तमसिं प्रेषयामात कृतवर्मरथं प्रति ॥ ७.११४.८३ ॥

他挥舞一面饰有金饰的大盾,将那把剑掷向克里塔瓦尔曼的战车。

7.114.84

स तस्य सशरं चापं छित्त्वा राजन्महानसिः ।
अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्बरात् ॥ ७.११४.८४ ॥

那把大剑连同箭一起斩断了他的弓,王啊,它像从天空坠落的光芒一样落向大地。

7.114.85

एतस्मिन्नेव काले तु त्वरमाणं महारथाः ।
विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे ॥ ७.११४.८५ ॥

就在此时,大车将们用箭深深射中了在战斗中急速前进的克里塔瓦尔曼。

7.114.86

अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः ।
विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा ॥ ७.११४.८६ ॥

然后,婆罗多中最优秀者啊,杀死敌方英雄的希尔迪基亚丢弃了那张已经折断的大弓,拿起另一张弓……

7.114.87

विव्याध पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः ।
शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च ॥ ७.११४.८७ ॥

他在战斗中用直飞的箭每人三支射中般度诸子,并用三支和五支射中了施刚丁。

7.114.88

धनुरन्यत्समादाय शिखण्डी तु महायशाः ।
अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम् ॥ ७.११४.८८ ॥

大名鼎鼎的施刚丁另取一弓,以形如龟爪的疾箭挡住了希利迪迦之子。

7.114.89

ततः क्रुद्धो रणे राजन्हृदिकस्यात्मसम्भवः ।
अभिदुद्राव वेगेन याज्ञसेनिं महारथम् ॥ ७.११४.८९ ॥

于是,国王啊,希利迪迦之子在战斗中愤怒,疾速冲向大车将耶尼塞尼。

7.114.90

भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः ।
विदर्शयन्बलं शूरः शार्दूल इव कुञ्जरम् ॥ ७.११४.९० ॥

国王啊,他展示着在战斗中导致毗湿摩死亡的那位大心者的力量,那英雄如同扑向大象的老虎。

7.114.91

तौ दिशागजसङ्काशौ ज्वलिताविव पावकौ ।
समापेततुरन्योन्यं शरसङ्घैररिन्दमौ ॥ ७.११४.९१ ॥

那二人如四方的象王,又如熊熊烈火,乃是征服敌人者,以箭雨互相扑向对方。

7.114.92

विधुन्वानौ धनुःश्रेष्ठे सन्दधानौ च सायकान् ।
विसृजन्तौ च शतशो गभस्तीनिव भास्करौ ॥ ७.११४.९२ ॥

二人挥动上好的弓,搭上箭,成百地射出,如同两轮散射光芒的太阳。

7.114.93

तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ ।
युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव ॥ ७.११४.९३ ॥

二位大车战士以利箭互相灼烧,如同劫末一般,光耀如两轮太阳。

7.114.94

कृतवर्मा च समरे याज्ञसेनिं महारथम् ।
विद्ध्वेषुभिस्त्रिसप्तत्या पुनर्विव्याध सप्तभिः ॥ ७.११४.९४ ॥

战中,Kṛtavarman以七十三支箭射中大车战士、耶若娑那之子,又以七支箭再次射中他。

7.114.95

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं मूर्च्छयाऽभिपरिप्लुतः ॥ ७.११४.९५ ॥

他伤势深重、痛苦不堪,放下带箭的弓,坐在车台上,为昏厥所笼罩。

7.114.96

तं विषण्णं रणे दृष्ट्वा तावकाः पुरुषर्षभ ।
हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह ॥ ७.११४.९६ ॥

啊,人中之雄!你的战士们见他在战中沮丧,便敬重希尔迪基亚(Kṛtavarman),并挥动衣衫。

7.114.97

शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम् ।
अपोवाह रणाद्यन्ता त्वरमाणो महारथम् ॥ ७.११४.९७ ॥

战车御者得知式坎迪被克里塔瓦尔曼的箭所伤,便急忙将这位大战车武士带离战场。

7.114.98

सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम् ।
परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे ॥ ७.११४.९८ ॥

帕尔塔们见式坎迪倒在战车上,便迅速以战车在战中包围了克里塔瓦尔曼。

7.114.99

तत्राद्भुतं परं चक्रे कृतवर्मा महारथः ।
यदेकः समरे पार्थान्वारयामास सानुगान् ॥ ७.११४.९९ ॥

那里,大战车武士克里塔瓦尔曼建立了极为惊人的功绩:他独自在战中阻挡了帕尔塔们及其随从。

7.114.100

पार्थाञ्जित्वाऽजयच्चेदीन्पाञ्चालान्सृञ्जयानपि ।
केकयांश्च महावीर्यान्कृतवर्मा महारथः ॥ ७.११४.१०० ॥

击败帕尔塔们之后,大战车武士克里塔瓦尔曼又征服了遮提人、般遮罗人和娑闍耶人,以及威力强大的建伽耶人。

7.114.101

ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः ।
इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे ॥ ७.११४.१०१ ॥

般度之子们在战中被希尔迪基亚所击,四处奔逃,在战斗中竟无法保持镇定。

7.114.102

जित्वा पाण्डुसुतान्युद्धे भीमसेनपुरोगमान् ।
हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः ॥ ७.११४.१०२ ॥

希尔迪基亚在战中击败了以婆罗多之子为首的般度诸子,如无烟之火般屹立于战场。

7.114.103

ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः ।
विमुखाः समपद्यन्त शरवृष्टिभिरार्दिताः ॥ ७.११४.१०३ ॥

那些大车战士在战场上被心底之子(Hārdikya)驱赶,遭箭雨折磨,纷纷转身败逃。