Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.115

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.115.1

शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि ।
द्राव्यमाणे बले तस्मिन्हार्दिक्येन महात्मना ॥ ७.११५.१ ॥

国王啊,请专心听我讲你所问的事——那支军队被伟大的希尔迪基亚(克利塔瓦尔曼)驱散之时。

7.115.2

लज्जयावनते चापि परिहृष्टे च तावके ।
द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम् ॥ ७.११५.२ ॥

你的一方因羞愧而低头,般度之子一方则充满喜悦;般度之子们有一座庇护之岛,为在深渊中寻求立足之地的人所设。

7.115.3

श्रुत्वा स निनदं भीमं तावकानां महाहवे ।
शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात् ॥ ७.११५.३ ॥

国王啊,他听到你的士兵在大战中发出的可怕吼声,希尼之子(萨谛奇)便急速奔向克利塔瓦尔曼。

7.115.4

उवाच सारथिं तत्र क्रोधामर्षसमन्वितः ।
हार्दिक्याभिमुखं सूत कुरु मे रथमुत्तमम् ॥ ७.११५.४ ॥

他满怀愤怒与不甘,对御者说道:“御者啊,驾起我的良车,朝向希尔迪基亚前进。”

7.115.5

कुरुते कदनं पश्य पाण्डुसैन्ये ह्यमर्षितः ।
एनं जित्वा पुनः सूत यास्यामि विजयं प्रति ॥ ७.११५.५ ॥

看他怀着愤怒在般度军中大肆杀戮!御者啊,待我战胜他,便会再次奔赴胜利。

7.115.6

एवमुक्ते तु वचने सूतस्तस्य महामते ।
निमेषान्तरमात्रेण कृतवर्माणमभ्ययात् ॥ ७.११५.६ ॥

智者啊,他说完这些话,御者在一瞬间便朝克利塔瓦尔曼驶去。

7.115.7

कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः ।
अवाकिरत्सुसंक्रुद्धस्ततोऽक्रुद्ध्यत्स सात्यकिः ॥ ७.११५.७ ॥

Hṛdika之子Kṛtavarmā以锐利之箭覆盖Śaineya;怒不可遏的Sātyaki也随之震怒。

7.115.8

अथाशु निशितं भल्लुं शैनेयः कृतवर्मणः ।
प्रेषयामास समरे शरांश्च चतुरोऽपरान् ॥ ७.११५.८ ॥

于是Śaineya迅速在战斗中向Kṛtavarmā射出一支锐利的bhalla箭和另外四支箭。

7.115.9

ते तस्य जघ्निरे वाहान्भल्लेनास्याच्छिनद्धनुः ।
पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः ॥ ७.११५.९ ॥

这些箭杀死了他的马,用bhalla箭射断了他的弓,并以锐利的箭射穿了他的后卫和御者。

7.115.10

ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः ।
सेनामस्यार्दयामास शरैः सन्नतपर्वभिः ॥ ७.११५.१० ॥

于是真正勇武的Sātyaki使他失去战车,并以节部弯曲的箭折磨他的军队。

7.115.11

अभज्यताथ पृतना शैनेयशरपीडिता ।
पलायनकृतोत्साहा भ्रमन्ती तत्रतत्र ह।
ततः प्रायात्स त्वरितः सात्यकिः सत्यविक्रमः ॥ ७.११५.११ ॥

于是被Śaineya箭矢所困的军队溃散了;急于逃亡,它四处奔逃。随后真正勇武的Sātyaki迅速向前推进。

7.115.12

शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान् ।
अतीत्य स महाराज द्रोणानीकमहार्णवम् ॥ ७.११५.१२ ॥

大王,请听那勇士在您的军队中做了什么:大王,他越过了德罗纳军队这片大海。

7.115.13

पराजित्य तु संहृष्टः कृतवर्माणमाहवे ।
यन्तारमब्रवीच्छूरः शनैर्याहीत्यसम्भ्रमम् ॥ ७.११५.१३ ॥

在战斗中击败了Kṛtavarman之后,这位欣喜的英雄不慌不忙地对御者缓缓说道:"前进。"

7.115.14

दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्वि पसङ्कुलम् ।
पदातिजनसम्पूर्णमब्रवीत्सारथिं पुनः ॥ ७.११५.१४ ॥

他看到你们的军队挤满了战车、战马、象兵和步兵,便再次对御者说道。

7.115.15

यदेतन्मेघसङ्काशं द्रोणानीकस्य सव्यतः ।
सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम् ॥ ७.११५.१५ ॥

德罗纳军队左侧那支像乌云一样庞大的象兵,其前方站着金车武士。

7.115.16

एते हि बहवः सूत दुर्निवार्याश्च संयुगे ।
दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः ॥ ७.११५.१६ ॥

御者啊,这些人很多,在战斗中难以阻挡。他们奉杜罗陀那之命,为我而战,已经舍弃了生命。

7.115.17

राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः ।
न चाजित्वा रणे ह्येताञ्शक्यः प्राप्तुं जयद्रथः ॥ ७.११५.१७ ॥

这些王子都是大弓手和勇猛的战士;若不在战斗中击败他们,便无法到达胜车。

7.115.18

नापि सूत मया पार्थः शक्यः प्राप्तुं कथञ्चन ।
एते तिष्ठन्ति सहिताः सर्वविद्यासु निष्ठिताः ॥ ७.११५.१८ ॥

御者啊,即便是我,也无法以任何方式到达Pārtha(阿周那);这些人聚集在一起,都精通各种技艺。

7.115.19

त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः ।
मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः ॥ ७.११५.१९ ॥

三伽多人的杰出车战勇士,旗帜饰以金饰,正面对我,准备交战。

7.115.20

अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे ।
त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः ॥ ७.११५.२० ॥

御者啊,快把我带到这里,驱策马匹。在婆罗堕阁之子注视下,我将与三伽多人交战。

7.115.21

ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः ।
रथेनादित्यवर्णेन भास्वरेण पताकिना ॥ ७.११५.२१ ॥

于是御者遵从萨特婆多(克里希那)的意旨,缓缓驱动那辆如太阳般光辉、饰有旗帜的战车前进。

7.115.22

तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः ।
वायुवेगसमाः सङ्ख्ये कुन्देन्दुरजतप्रभाः ॥ ७.११५.२२ ॥

那些听从御者驾驭、奔腾跳跃的良马拉着那辆战车;在战场上它们与风的速度相等,光辉如茉莉、月亮与白银。

7.115.23

आपतन्तं रणे तं तु शङ्खवर्णैर्हयोत्तमैः ।
परिववुस्ततः शूरा गजानीकेन सर्वतः।
किरन्तो विविधांस्तीक्ष्णान्सायकाँल्लघुवेधिनः ॥ ७.११५.२३ ॥

当他在战场上以螺贝色的良马冲来时,勇士们以象军从四面将他包围,倾泻下许多锐利、迅速穿透的箭矢。

7.115.24

सात्वतोऽपि शितैर्बाणैर्गजानीकमयोधयत् ।
पर्वतानिव वर्षेण तपान्ते जलदो महान् ॥ ७.११५.२४ ॥

萨特婆多(萨提亚基)也以锐利的箭与象军交战,正如夏末的大雨云向山岳倾泻甘霖。

7.115.25

वज्राशनिसमस्पर्शैर्वध्यमानाः शरैर्गजाः ।
प्राद्रवन्रणमुत्सृज्य शिनिवीरसमीरितैः ॥ ७.११५.२५ ॥

被如金刚与雷电般的箭射伤的象群,在Śini英雄的射击下,弃战场而逃。

7.115.26

शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डिकाः ।
विशीर्णकर्णास्यकरा विनियन्तृपताकिनः ॥ ७.११५.२६ ॥

象牙折断,浑身是血,头颅与额部破裂,耳、口、鼻已残缺,驭者与旗帜尽失。

7.115.27

सम्भिन्नवर्मघण्टाश्च विनिकृत्तमहाध्वजाः ।
हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः ॥ ७.११५.२७ ॥

甲胄与铃铛破碎,大旗被斩断,骑者已死,大王啊,失去披饰的象群奔向四方。

7.115.28

रुवन्तो विविधान्नादाञ्जलदोपमनिःस्वनाः ।
नारचैर्वत्सदन्तैश्च भल्लैरञ्जलिकैस्तथा ॥ ७.११५.२८ ॥

发出各种叫声,吼声如雨云,被那罗遮、牛牙、薄刃与合掌箭射中。

7.115.29

क्षुरप्रैरर्धचन्द्रैश्च सात्वतेन विदारिताः ।
क्षरन्तोऽसृक्तथा मूत्रं पुरीषं च प्रदुद्रुवुः।
बभ्रुमुश्चस्खलुश्चान्ये पेतुर्मम्लुस्तथाऽपरे ॥ ७.११५.२९ ॥

被萨提亚基的剃刀箭与半月箭所撕裂,血、尿、粪便淋漓,它们逃窜;有的旋转倒地,有的踉跄,有的轰然倒下。

7.115.30

एवं तत्कुञ्जरानीकं युयुधानेन पीडितम् ।
शरैरग्न्यर्कसङ्काशैः प्रदुद्राव समन्ततः ॥ ७.११५.३० ॥

象群就这样被尤尤陀那那如火如日般的箭所困扰,四面八方奔逃。

7.115.31

तस्मिन्हते गजानीके जलसन्धो महाबलः ।
यत्तः सम्प्रापयन्नागं रजताश्वरथं प्रति ॥ ७.११५.३१ ॥

那支象军被摧毁后,大力的जलसन्ध急切地驱使他的象向着银马之车前进。

7.115.32

रुक्मवर्मधरः शूरस्तपनीयाङ्गदः शुचिः ।
कुण्डली मकुटी खङ्गी रक्तचन्दनरूषितः ॥ ७.११५.३२ ॥

这位英雄身穿金甲,臂戴金臂钏,纯洁光辉,戴耳环与王冠,持剑,身涂红檀香膏。

7.115.33

शिरसा धारयन्दीप्तां तपनीयमयीं स्रजम् ।
उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम् ॥ ७.११५.३३ ॥

头上戴着光辉灿烂的金花环,胸前佩戴金项饰与闪亮的颈链。

7.115.34

चापं च रुक्मविकृतं विधुन्वन्गजमूर्धनि ।
अशोभत महाराज सविद्युदिव तोयदः ॥ ७.११५.३४ ॥

大王啊,他在象头上挥动饰有金饰的弓,光彩照人,如同带着闪电的乌云。

7.115.35

तमापतन्तं सहसा मागधस्य गजोत्तमम् ।
सात्यकिर्वारयामास वेलेव मकरालयम् ॥ ७.११५.३५ ॥

摩揭陀王那头雄象突然冲来,萨提奇将它拦住,如同海岸阻挡大海。

7.115.36

नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः ।
अक्रुध्यत रणे राजञ्जलसन्धो महाबलः ॥ ७.११५.३६ ॥

大王啊,看到自己的象被沙伊尼耶(萨提奇)的良箭所阻,大力的जलसन्ध在战场上勃然大怒。

7.115.37

ततः क्रुद्धो महाराज मार्गणैर्भारसाधनैः ।
अविध्यत शिनेः पौत्रं जलसन्धो महोरसि ॥ ७.११५.३७ ॥

大王啊,于是愤怒的鲁陀哆·伽罗桑陀以能承受重量的箭射穿了失尼之孙宽阔的胸膛。

7.115.38

ततोऽपरेण भल्लेन पीतेन निशितेन च ।
अस्यतो वृष्णिवीरस्य निचकर्त शरासनम् ॥ ७.११५.३८ ॥

随后,他以另一支锋利闪亮的 bhalla 箭,斩断了正在射箭的毗瑟尼英雄的弓。

7.115.39

सात्यकिं छिन्नधन्वानां प्रहसन्निव भारत ।
अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः ॥ ७.११५.३९ ॥

婆罗多之子啊,摩揭陀英雄仿佛在笑,以五支锐利的箭射向弓已断裂的萨谛奇。

7.115.40

स विद्धो बहुभिर्बाणैर्जलसन्धेन वीर्यवान् ।
नाकम्पत महाबाहुस्तदद्भुतमिवाभवत् ॥ ७.११५.४० ॥

虽被鲁陀哆·伽罗桑陀的许多箭射中,那位英勇的大臂者却丝毫不动,这真仿佛是奇迹。

7.115.41

अचिन्तयन्वै स शरान्नात्यर्थं सम्भ्रमाद्बली ।
धनुरन्यत्समादाय तिष्ठतिष्ठेत्युवाच ह ॥ ७.११५.४१ ॥

这位强者不去理会箭矢,也并不十分慌乱,他拿起另一张弓说:“站住,站住!”

7.115.42

एतावदुक्त्वा शैनेयो जलसन्धं महोरसि ।
विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव ॥ ७.११५.४२ ॥

说完这些,失尼的后裔仿佛在笑,以六十支箭极猛烈地射穿了鲁陀哆·伽罗桑陀宽阔的胸膛。

7.115.43

क्षुरप्रेण सुतीक्ष्णेन मुष्टिदेशे महद्धनुः ।
जलसन्धस्य चिच्छेद विव्याध च त्रिभिः शरैः ॥ ७.११५.४३ ॥

他以极锋利的剃刀头箭在握柄处斩断了jalasandha的大弓,并用三支箭射伤了他。

7.115.44

जलसन्धस्तु तत्त्यक्त्वा सशरं वै शरासनम् ।
तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष ॥ ७.११५.४४ ॥

于是jalasandha放下那张带箭的弓,迅速向萨提亚基投出一支投枪,哦,尊者。

7.115.45

स निर्भिद्य भुजं सव्यं माधवस्य महारणे ।
अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः ॥ ७.११५.४५ ॥

那可怕的投枪在大战中刺穿了摩陀婆的左臂,如同嘶嘶作响的大蛇般坠向大地。

7.115.46

निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः ।
त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसन्धमताडयत् ॥ ७.११५.४६ ॥

虽然左臂被刺穿,真正勇武的萨提亚基仍以三十支锐箭射中了jalasandha。

7.115.47

प्रगृह्य तु ततः खङ्गं जलसन्धो महाबलः ।
आर्षभं चर्म च महच्छतचन्द्रकसङ्कुलम्।
आविध्य च ततः खङ्गं सात्वतायोत्ससर्ज ह ॥ ७.११५.४७ ॥

于是大力的jalasandha拿起一把剑,又举起一面覆有百个新月纹的大牛皮盾;他挥舞剑,朝sātvata掷去。

7.115.48

शैनेयस्य धनुश्छित्त्वा स खङ्गो न्यपतन्महीम् ।
अलातचक्रवच्चैव व्यरोचत महीं गतः ॥ ७.११५.४८ ॥

那把剑斩断了śaineya的弓,却没有落地;它像旋转的火轮,飞至地面后闪耀起来。

7.115.49

अथान्यद्धनुरादाय सर्वकायावदारणम् ।
जलसन्धमभिप्रेक्ष्य उत्स्मयित्वा च माधवः ॥ ७.११५.४९ ॥

于是拿起另一把能撕裂任何身体的弓,看着迦罗珊陀,摩陀婆微笑起来。

7.115.50

शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम् ।
विष्फार्य विव्यधे क्रुद्धो जलसन्धं शरेण ह ॥ ७.११५.५० ॥

他拉满一张像娑罗树干、声如因陀罗霹雳的弓,愤怒地用箭射中了迦罗珊陀。

7.115.51

ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः ।
साङ्गदौ जलसन्धस्य चिच्छेद प्रहसन्निव ॥ ७.११५.५१ ॥

于是摩陀婆中的最优者,仿佛在笑,用两支剃刀般锋利的箭斩断了迦罗珊陀佩戴着饰物与臂钏的双臂。

7.115.52

तौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात् ।
वसुन्धराधराद्धष्टौ पञ्चशीर्षाविवोरगौ ॥ ७.११५.५२ ॥

那两条如铁杵般的手臂从最好的象背上坠落,如同大地之山上坠下两条五头的蛇。

7.115.53

ततः सुदंष्ट्रं सुहनु चारुकुण्डलमण्डितम् ।
क्षुरेणास्य तृतीयेन शिरश्चिच्छेद सात्यकिः ॥ ७.११५.५३ ॥

然后萨提亚奇用第三支剃刀箭,斩下了迦罗珊陀的头颅,那头颅牙齿洁白,下颌端正,装饰着美丽的耳环。

7.115.54

तत्पातितशिरोबाहुकबन्धं भीमदर्शनम् ।
द्विरदं जलसन्धस्य रुधिरेणाभ्यषिञ्चत ॥ ७.११५.५४ ॥

那具无头无臂、外形可怖、如象一般的迦罗珊陀之躯,他用鲜血浇洒了它。

7.115.55

जलसन्धं निहत्याजौ त्वरमाणस्तु सात्वतः ।
विमानं पातयामास गजस्कन्धाद्विशांपते ॥ ७.११५.५५ ॥

克里希纳在战斗中杀死迦罗山陀之后,急速地将他的车舆从象背上推落,啊,人主。

7.115.56

रुधिरेणावसिक्ताङ्गौ जलसन्धस्य कुञ्जरः ।
विलम्बमानमवहत्संश्लिष्टं परमासनम् ॥ ७.११५.५६ ॥

迦罗山陀的象浑身沾满鲜血,驮着那悬挂并粘连的至高座舆前行。

7.115.57

शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम् ।
घोरमार्तस्वरं कृत्वा विदुद्राव महागजः ॥ ७.११५.५७ ॥

大象被萨特瓦塔的箭矢所伤,践踏自己的军队,发出可怕的痛苦嘶鸣,逃奔而去。

7.115.58

हाहाकारो महानासीत्तव सैन्यस्य मारिष ।
जलसन्धं हतं दृष्ट्वा वृष्णीनामृपभेण तु ॥ ७.११५.५८ ॥

尊者啊,见到迦罗山陀被维里希尼族之牛(克里希纳)杀死,你的军中响起了巨大的哀叫声。

7.115.59

विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः ।
पलायनकृतोत्साहा निरुत्साहा द्विषञ्जये ॥ ७.११५.५९ ॥

你的战士们转身四散奔逃,急于逃命,对战胜敌人毫无斗志。

7.115.60

एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः ।
सन्न्यस्य भारं सुमहत्कृतवर्मणि भारत ॥ ७.११५.६० ॥

此时,大王啊,持兵者中最优秀的德罗纳,将他那沉重的重任托付给了克里特瓦尔曼,婆罗多啊。

7.115.61

अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम् ।
स हि पार्थान्रणे यत्तान्दधारैको महाबलः ॥ ७.११५.६१ ॥

他驾着疾驰的马冲向大车战士尤悠陀那。这位大力者独自阻挡着在战场上奋力作战的般度之子。

7.115.62

तमुदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुङ्गवाः ।
द्रोणेनैव सह क्रुद्धा सात्यकिं समुपाद्रवन् ॥ ७.११५.६२ ॥

他们见这位闯来的希尼之子如此猛烈,库鲁的雄牛们怒不可遏,与德罗纳一同扑向萨蒂亚奇。

7.115.63

ततः प्रववृते युद्धं कुरूणां सात्वतस्य च ।
द्रोणस्य च रणे राजन्घोरं देवासुरोपमम् ॥ ७.११५.६३ ॥

于是,大王啊,库鲁人与萨特瓦塔(萨蒂亚奇)以及德罗纳之间爆发了一场可怕的战斗,如同天神与阿修罗之战。