Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.116

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.116.1

सात्वतस्य रणे कर्म दृष्ट्वा योद्धुं महारथाः ।
अमृष्यमाणाः संयत्ताः शैनेयं समुपाद्रवन् ॥ ७.११६.१ ॥

众大战车武士见萨特瓦塔(萨提亚吉)在战场上的功绩,不能容忍,备战冲向室尼耶。

7.116.2

ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः ।
त्वरमाणा महाराज युयुधानमयोधयन् ॥ ७.११६.२ ॥

他们都是备战的攻击者,洒下箭雨,急速地,大王啊,与尤尤丹那(萨提亚吉)交战。

7.116.3

तं द्रोणः सप्तसप्त्या जघान निशितैः शरैः ।
दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः ॥ ७.११६.३ ॥

德罗纳以七十七支利箭射中他;杜尔摩沙那以十二支,杜萨哈以十支箭。

7.116.4

विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः ।
विव्याध मार्गणैस्तूर्णं वामपार्श्वे स्तनान्तरे ॥ ७.११६.४ ॥

毗迦尔那也迅速以三十支利箭、带鹤羽的箭,射中他的左侧,胸口正中。

7.116.5

दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः ।
चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष ॥ ७.११६.५ ॥

杜尔穆卡以十支箭射中他,杜萨萨那同样以八支箭,耆多罗塞那以两支箭射中室尼耶,啊,尊者。

7.116.6

दुर्योधनश्च महता शरवर्षेण माधवम् ।
अपीडयद्रमे राजञ्शूराश्चान्ये महारथाः ॥ ७.११६.६ ॥

难敌以大量箭雨折磨摩陀婆(克里希那);大王啊,战场上其他英勇的大战车武士也都如此。

7.116.7

सर्वतः प्रतिविद्धस्तु तव पुत्रैर्महारथैः ।
स तुद्यमानश्च तदा सर्वतः कुरुपुङ्गवैः ॥ ७.११६.७ ॥

你的儿子们这些大车战士从四面将他射穿;那时,库鲁的勇士们又从四面逼迫他。

7.116.8

तान्प्रत्यविध्यद्वार्ष्णेयः पृथक्पृथगजिह्मगैः ।
सात्यकिः पुण्डरीकाक्षो ह्यस्त्रेषु परिनिष्ठितः ॥ ७.११६.८ ॥

这位毗湿尼后裔以直箭一一回击他们;莲花眼的萨提奇精通武器。

7.116.9

भारद्वाजं त्रिभिर्बाणैर्दुःसहं नवभिः शरैः ।
विकर्णं पञ्चविंशत्या चित्रसेनं च सप्तभिः ॥ ७.११६.९ ॥

用三箭射跋罗堕遮之子(德罗纳),用九箭射难忍者,用二十五箭射毗迦尔纳,用七箭射citrasena。

7.116.10

दुर्मर्षणं द्वादशभिरष्टाभिश्च विविंशतिम् ।
सत्यव्रतं च नवभिर्विजयं दशभिः शरैः ॥ ७.११६.१० ॥

用十二箭射杜尔玛尔沙那,用八箭射毗婆尸,用九箭射萨提亚跋罗陀,用十箭射毗遮耶。

7.116.11

दुर्योधनं त्रिभिर्विद्ध्वा सुपुङ्खैस्तिग्मतेजनैः ।
ततो रुक्माङ्गदं चापं विधुन्वानो महारथः।
अभ्ययात्सात्यकिस्तूर्णं पुत्रं तव महारथम् ॥ ७.११६.११ ॥

用三支锋利、羽翎精美的箭射中杜尔约德那之后,身戴金臂钏的大车战士萨提奇挥动着弓,迅速冲向你那位大车战士之子。

7.116.12

राजानं सर्वलोकस्य सर्वलोकमहारथम् ।
शरैरभ्यहनद्गाढं ततो युद्धमभूत्तयोः ॥ ७.११६.१२ ॥

他用箭猛烈射击那位全世界的国王、全世界的大车战士;于是二人之间爆发了战斗。

7.116.13

विमुञ्चतौ शरांस्तीक्ष्णान्सन्दधानौ च सायकान् ।
अदृश्यं समरेऽन्योन्यं चक्रतुस्तौ महारथौ ॥ ७.११६.१३ ॥

两位大车战士放出锐利的箭,又搭上箭矢,在战场上使彼此互不可见。

7.116.14

सात्यकिः कुरुराजेन निर्विद्धो बह्वशोभत ।
अस्रवद्रुधिरं भूरि स्वरसं चन्दनो यथा ॥ ७.११६.१४ ॥

萨提亚基被俱卢王射中,光彩夺目;鲜血从他身上大量流出,犹如檀香树流出汁液。

7.116.15

सात्वतेन च बाणौधैर्निर्विद्धस्तनयस्तव ।
शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः ॥ ७.११६.१५ ॥

你的儿子被萨特瓦塔(萨提亚基)的箭雨射中,佩戴金饰,光彩如高高竖起的祭柱。

7.116.16

माधवस्तु रमे राजन्कुरुराजस्य धन्विनः ।
धनुश्चिच्छेद समरे क्षुरप्रेण हसन्निव ॥ ७.११६.१६ ॥

但是,国王啊,摩陀婆(萨提亚基)在战斗中以刀刃般的箭折断了俱卢王那位弓手的弓,仿佛在笑。

7.116.17

अथैनं छिन्नधन्वानं शरैर्बहुभिराचिनोत् ।
निर्भिन्नश्च शरैस्तेन द्विषता क्षिप्रकारिणा।
नामृष्यत रणे राजा शत्रोर्विजयलक्षणम् ॥ ७.११६.१७ ॥

随后,他以许多箭覆盖了弓已折断的国王;被那迅捷敌人的箭射中的国王,在战场上无法忍受敌人胜利的标志。

7.116.18

अथान्यद्धनुरादाय हेमपृष्ठं दुरासदम् ।
विव्याध सात्यकिं तूर्णं सायकानां शतेन ह ॥ ७.११६.१८ ॥

于是他拿起另一张背部镶金、难以接近的弓,迅速以一百支箭射中了萨提亚基。

7.116.19

सोऽतिविद्धो बलवता तव पुत्रेण धन्विना ।
अमर्षवशमापन्नस्तव पुत्रमपीडयत् ॥ ७.११६.१९ ॥

被你那强大的弓箭手之子重创,他被愤怒所支配,便去逼迫你的儿子。

7.116.20

पीडितं नृपतिं दृष्ट्वा तव पुत्रं महारथाः ।
सात्यकिं शरवर्षेण छादयामासुरोजसा ॥ ७.११६.२० ॥

见国王受困,你儿子的大车战士们便以箭雨猛烈地遮蔽了萨提亚基。

7.116.21

स च्छाद्यमानो बहुभिस्तव पुत्रैर्महारथैः ।
एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः।
दुर्योधनं व त्वरितो विव्याधाष्टभिराशुगैः ॥ ७.११६.२१ ॥

被你众多子嗣的大车战士们围困,他先用五支箭射每一人,又用七支射,并迅速以八支疾箭射中了难敌。

7.116.22

प्रहसंश्चास्य चिच्छेद कार्मुकं रिपुभीषणम् ।
नागं मणिमयं चैव शरैर्ध्वजमपातयत् ॥ ७.११६.२२ ॥

他笑着斩断了那张令敌人畏惧的弓,又以箭射落了镶嵌宝石、绘有象徽的旗帜。

7.116.23

हत्वा तु चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ।
सारथिं पातयामास क्षुरप्रेण महायशाः ॥ ७.११६.२३ ॥

他以四支利箭射杀了四匹马,那位大名鼎鼎的勇士又以剃刀头箭射倒了御者。

7.116.24

एतस्मिन्नन्तरे चैव कुरुराजं महारथम् ।
अवारिकच्छरैर्हृष्टो बहुभिर्मर्मभेदिभिः ॥ ७.११६.२४ ॥

与此同时,他欣喜地以许多不失准、穿透要害的箭射中了那位大车战士,库鲁王。

7.116.25

स विध्यमानः समरे शैनेयस्य शरोत्तमैः ।
प्राद्रवत्सहसा राजन्पुत्रो दुर्योधनस्तव।
आप्लुतश्च ततो यानं चित्रसेनस्य धन्विनः ॥ ७.११६.२५ ॥

在战场上被Śaineya(萨谛耶吉)的精良箭矢射中,大王,你的儿子难敌突然逃走;随即他跃起,登上了弓手Citrasena(奇特塞那)的战车。

7.116.26

हाहाभूतं जगच्चासीद्दृष्ट्वा राजानमाहवे ।
ग्रस्यमानं सात्यकिना खे मोममिव राहुणा ॥ ७.११६.२६ ॥

在战场上,看到国王被萨谛耶吉擒获,世界陷入惊惶的呼喊,犹如天空中的月亮被罗睺吞噬。

7.116.27

तं तु शब्दमथ श्रुत्वा कृतवार्मा महारथः ।
अभ्ययात्सहसा तत्र यत्रास्ते माधवः प्रभुः ॥ ७.११६.२७ ॥

听到那声音,大车战士Kṛtavarman立即赶往主人摩陀婆(克里希那)所在之处。

7.116.28

विधुन्वानो धनुः श्रेष्ठं चोदयंश्चैव वाजिनः ।
भर्त्सयन्सारथिं चाग्रे याहियाहीति सत्वरम् ॥ ७.११६.२८ ॥

他挥动着上好的弓,催促马匹,先斥责御者,急切地说:“快走,快走!”

7.116.29

तमापतन्तं सम्प्रेक्ष्य व्यादितास्यमिवान्तकम् ।
युयुधानो महाराज यन्तारमिदमब्रवीत् ॥ ७.११६.२९ ॥

大王,看到他如张口的死神一般朝自己扑来,Yuyudhāna(萨谛耶吉)对他的御者说了这番话。

7.116.30

कृतवर्मा रथेनैष द्रुतमापतते शरी ।
प्रत्युद्याहि रथेनैनं प्रवरं सर्वधन्विनाम् ॥ ७.११६.३० ॥

Kṛtavarman乘车飞速向我们冲来,他是一名弓手。驱车前进,去迎战这位所有弓手中的翘楚。

7.116.31

प्रयाहि सत्वरं सूत रथेन रथसत्तमम् ।
निहनिष्यामि तं सङ्ख्ये वृष्णिवीरमरिन्दमम् ॥ ७.११६.३१ ॥

御者啊,快驱车向那最好的战车前进。我将在战场上杀死那位韦希尼英雄,征服敌人者。

7.116.32

ततः प्रजविताश्वेन रथेन रथिनांवरः ।
आससाद रणे भोजं प्रतिमानं धनुष्मताम् ॥ ७.११६.३२ ॥

于是,以快马驾驭战车的战车勇士中的最杰出者,在战场上来到了与诸弓手相匹敌的婆阇面前。

7.116.33

ततो गभस्तिमत्प्रख्यौ ज्वलिताविव पावकौ ।
समेयातां नरव्याघ्रौ व्याघ्राविव तरस्विनौ ॥ ७.११६.३३ ॥

于是,两位人中猛虎,如太阳般光辉、如两团燃烧之火,迅猛如虎地相遇了。

7.116.34

कृतवर्मा तु शैनेयं षड्विंशत्या समार्पयत् ।
निशितैः सायकैस्तीक्ष्णैर्यन्तारं चास्य पञ्चभिः ॥ ७.११६.३४ ॥

Kṛtavarman 以二十六支锐利的箭射中了 Śainya 之子(萨提亚基),又以五支射中他的御者。

7.116.35

चतुरश्चतुरो वाहांश्चतुर्भिः परमेषुभिः ।
अविध्यत्साधुदान्तान्वै सैन्धवान्सात्वतस्य हि ॥ ७.११६.३५ ॥

他以四支上好的箭,每匹各四支,射中了萨特瓦塔(萨提亚基)训练有素的信度骏马。

7.116.36

रुक्मध्वजो रुक्मपृष्ठं महद्विष्फार्य कार्मुकम् ।
रुक्माङ्गदी रुक्मवर्मा रुक्मपुङ्खैरवारयत् ॥ ७.११६.३६ ॥

金旗的 Kṛtavarman 张开镶金背的大弓,身着金臂钏与金甲,以饰金羽的箭阻挡了他。

7.116.37

ततोऽशीतिं शिनेः पौत्रः सायकान्कृतवर्मणे ।
प्राहिणोत्त्वरया युक्तो द्रष्टुकामो धनञ्जयम् ॥ ७.११६.३७ ॥

于是,希尼之孙渴望见到阿周那,迅速向密多伐摩射出八十支箭。

7.116.38

सोऽतिविद्धो बलवता शत्रुणा शत्रुतापनः ।
समकम्पतः दुर्धर्षः क्षितिकम्पे यथाऽचलः ॥ ७.११६.३८ ॥

这位使敌人痛苦的勇士被强大的敌人重创,如同地震中的山岳般颤抖;他本是不可战胜的。

7.116.39

त्रिषष्ट्या चतुरोऽस्याश्वान्सप्तभिः सारथिं तथा ।
विव्याध निशितैस्तूर्णं सात्यकिः सत्यविक्रमः ॥ ७.११६.३९ ॥

真正勇猛的萨提亚基迅速以六十三支利箭射穿他的四匹马,又以七支箭射穿了御者。

7.116.40

हताश्वसूते तु रथे स्थिताय शिनिपुङ्गवः ।
सुवर्णपुङ्खं विशिखं समादाय च सात्यकिः।
व्यसृजत्तं महाज्वालं सङ्क्रुद्धमिव पन्नगम् ॥ ७.११६.४० ॥

当他的马匹和御者被杀,他站在战车上时,希尼最优秀的萨提亚基拿起一支金羽箭射出,它如同愤怒的毒蛇般烈焰熊熊。

7.116.41

सोऽविध्यत्कृतवर्माणं यमदण्डोपमः शरः ।
जाम्बूनदविचित्रं च वर्म निर्भिद्य भानुमत्।
अभ्यगाद्धरणीमुग्रो रुधिरेण समुक्षितः ॥ ७.११६.४१ ॥

那支如阎摩之杖般的箭射中了密多伐摩;穿透他那镶金闪耀的甲胄后,这支猛烈的箭坠入大地,溅满鲜血。

7.116.42

सञ्जातरुधिरश्चाजौ सात्वतेषुभिरर्दितः ।
सशरं धनुरुत्सृज्य न्यपतत्स्यन्दनोत्तमात् ॥ ७.११६.४२ ॥

他在战斗中被萨特瓦塔的箭射中,浑身是血、痛苦不堪,放下弓与箭,从他那辆上好的战车上跌落。

7.116.43

स सिंहदंष्ट्रो जानुभ्यां पतितोऽमितविक्रमः ।
शरार्दितः सात्यकिना रथोपस्थे नरर्षभः ॥ ७.११६.४३ ॥

他獠牙如獅,威力無量,人中之雄,被薩提亞基的箭所傷,雙膝跪倒在戰車的車板上。

7.116.44

सहस्रबाहुसदृशमक्षोभ्यमिव सागरम् ।
निवार्य कृतवर्माणं सात्यकिः प्रययौ ततः ॥ ७.११६.४४ ॥

如千臂者,如大海般不可撼動,薩提亞基阻住了克里頓婆爾曼,隨即向前疾進。

7.116.45

न हि तस्य शरोऽपार्थः कथञ्चिदपि पार्थिव ।
दिदृक्षुः स हि वेगेन प्रायाद्यत्र धनञ्जयः ॥ ७.११६.४५ ॥

大王啊,他的箭絲毫不曾白費。他渴望見到阿周那,便疾速前往驅那闍耶所在之處。

7.116.46

स शक्त्या क्षत्रियैस्तत्र निरुद्धो बलवत्तरः ।
युयुधे सात्वतो राजन्दिदृक्षुः पाण्डुनन्दनम् ॥ ७.११६.४६ ॥

那裡,剎帝利們以長矛阻擋這位極其強大的薩特瓦塔;大王啊,他渴望見到般度之子,便繼續奮戰。

7.116.47

खङ्गशक्तिधनुःकीर्णां गजाश्वरथसङ्कुलाम् ।
प्रवर्तितोग्ररुधिरां शतशः क्षत्रियर्षभैः ॥ ७.११६.४७ ॥

遍佈刀劍、長矛與弓,擠滿象馬與戰車,猛烈的鮮血四處流淌,由數百位剎帝利中的雄牛所推動。

7.116.48

प्रेक्षतां सर्वसैन्यानां मध्येन शिनिपुङ्गवः ।
अभ्यगाद्वाहिनीं हित्वा वृत्रहेवासुरीं चमूम् ॥ ७.११६.४८ ॥

在所有軍隊注視之下,希尼族中最優秀者穿過中央,將軍隊拋在身後,如同殺死弗栗多的因陀羅越過阿修羅之軍。

7.116.49

समाश्वस्य च हार्दिक्यो गृह्य चान्यन्महद्धनुः ।
तस्थौ स तत्र बलवान्वारयन्युधि पाण्डवान् ॥ ७.११६.४९ ॥

哈尔迪基亚重新振作,取起另一张大弓,站在那里,这位勇猛者在战场上阻挡般度之子。