Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.118

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.118.1

द्रोणं स जित्वा पुरुषप्रवीर… ।
स्तथैव हार्दिक्यमुखांस्त्वदीयान्।
प्रहस्य सूतं वचनं बभाषे ।
शिनिप्रवीरः कुरुपुङ्गवाग्र्य ॥ ७.११८.१ ॥

他战胜了德罗纳,人中之雄……也战胜了由希尔迪基亚领导的你方战士。他笑着对御者说道:这位希尼族的英雄,俱卢族公牛中的第一。

7.118.2

निमित्तमात्रं वयमद्य सूत ।
दग्धा रथाः केशवफल्गुनाभ्याम्।
हतान्निहन्मेह नरर्षभेण ।
वयं सुरेशात्मसमुद्भवेत ॥ ७.११८.२ ॥

御者啊,今天我们不过是工具。克里希那与法尔古那焚毁了战车。在这里,我借那位人中之牛之手杀死已被杀者;我们生自天神之王的自身……

7.118.3

तमेवमुक्त्वा शिनिपुङ्गवस्तदा ।
महामृधे सोऽग्र्यधनुर्धरोऽरिहा।
किरन्समन्तात्सहसा शरान्बली ।
समापतच्छयेन इवामिषाशया ॥ ७.११८.३ ॥

他如此说完,希尼族的公牛、第一射手、灭敌者、那位强大者,在那场大战中四面撒下箭矢,像渴望肉食的鹰一样,突然扑向了他。

7.118.4

तं यान्तमश्वैः शशिशङ्खवर्णै… ।
र्विगाह्य सैन्यं पुरुषप्रवीरम्।
नाशक्नुवन्वारयितुं समन्ता… ।
दादित्यरश्मिप्रतिमं रथाग्र्यम् ॥ ७.११८.४ ॥

他驾着如月与海螺般洁白的马奔驰……那位冲入军阵的人中之雄,他们无法从四面阻挡……那辆如太阳光芒般的首辆战车。

7.118.5

असह्यविक्रान्तमदीनसत्वं ।
सर्वे गणा भारत ये त्वदीयाः।
सहस्रनेत्रप्रतिमप्रभावं ।
दिवीव सूर्यं जलदव्यपाये ॥ ७.११८.५ ॥

那位勇猛难当、意志不屈的英雄,婆罗多啊,你方的所有军队……那位威力如千眼因陀罗的英雄,如同云散之后天空中的太阳……

7.118.6

अमर्षपूर्णस्त्वतिचित्रयोधी ।
शरासनी काञ्चनवर्मधारी।
सुदर्शनः सात्यकिमापतन्तं ।
न्यवारयद्राजवरः प्रसह्य ॥ ७.११८.६ ॥

怒气满胸、最为奇异的战士,手持弓箭、身披金甲的诸王之中最优秀者苏达尔沙那,强行阻挡了冲来的萨提奇。

7.118.7

तयोरभूद्भारतसम्प्रहारः ।
सुदारुणस्तं समतिप्रशंसन्।
योधास्त्वदीयाश्च हि सोमकाश्च ।
वृत्रेन्द्रयोर्युद्धमिवामरौघाः ॥ ७.११८.७ ॥

二人之间爆发了婆罗多人之间极为可怕的激战;你的战士和索摩迦人对此大加赞叹,犹如众天神观看弗栗多与因陀罗之战。

7.118.8

शरैः सुतीक्ष्णैः शतशोऽभ्यविध्य… ।
त्सुदर्शनः सात्वतमुख्यमाजौ।
अनागतानेव तु तान्पृषत्कां… ।
श्चिच्छेद राजञ्शिनिपुङ्गवोऽपि ॥ ७.११८.८ ॥

苏达尔沙那以极锐利的箭在战中数百次射中萨特瓦人的首领……大王,希尼族的雄牛(萨提奇)也在箭尚未到达之前便将它们斩断了。

7.118.9

तथैव शक्रप्रतिमोऽपि सात्यकिः ।
सुदर्शने यान्क्षिपति स्म सायकान्।
द्विधा त्रिधा तानकरोत्सुदर्शनः ।
शरोत्तमैः स्यन्दनवर्यमास्थितः ॥ ७.११८.९ ॥

同样,与因陀罗相似的萨提奇也向苏达尔沙那射出箭矢;而苏达尔沙那站在最好的战车上,以上好的箭将它们斩成两段、三段。

7.118.10

तान्वीक्ष्य बाणान्निहतांस्तदानीं ।
सुदर्शनः सात्यकिबाणवेगैः।
क्रोधाद्दिधक्षन्निव तिग्मतेजाः ।
शरानमुञ्चत्तपनीयचित्रान् ॥ ७.११८.१० ॥

苏达尔沙那见那些箭已被摧毁,又受萨提奇箭势所激,光辉猛烈,仿佛要在愤怒中将其焚尽,于是射出了以黄金装饰得奇妙绝伦的箭。

7.118.11

पुनः स बाणैस्त्रिभिरग्निकल्पै… ।
राकर्णपूर्णैर्निशितैः सुपुङ्खैः।
विव्याध देहावरणं विभिद्य ।
ते सात्यकेराविविशुः शरीरम् ॥ ७.११८.११ ॥

随后他又以三支如火般的箭……以耳际拉满、锋利而羽翎精美的箭,劈开了萨谛奇的甲胄。那些箭射入了萨谛奇的身体。

7.118.12

तथैव तस्यावनिपालपुत्रः ।
सन्धाय बाणैरपरैर्ज्वलद्भिः।
आजघ्निवांस्तान्रजतप्रकाशां… ।
श्चतुर्भिरश्वांश्चतुरः प्रसह्य ॥ ७.११८.१२ ॥

同样,那位王子搭上其他燃烧的箭……以四支箭猛烈射中四匹如银般闪亮的马。

7.118.13

तथा तु तेमाभिहतस्तरस्वी ।
नप्ता शिनेरिन्द्रसमानवीर्यः।
सुदर्शनस्येषुगणैः सुतीक्ष्णै… ।
र्हयान्निहत्याशु ननाद नादम् ॥ ७.११८.१३ ॥

于是他被敌人所伤,那位西尼之孙,迅捷而勇猛,勇力与因陀罗相当,在苏达尔莎那极锐利的箭群中……迅速杀死了马匹,发出了一声吼叫。

7.118.14

अथास्य सूतस्य शिरो निकृत्य ।
भल्लेन शक्राशनिसन्निभेन।
सुदर्शनस्यापि शिनिप्रवीरः ।
क्षुरेण कालानलसन्निभेन ॥ ७.११८.१४ ॥

于是西尼的勇士以如因陀罗雷霆般的钺箭斩下其御者的头颅,又以如时间之火般的剃刀箭斩下苏达尔莎那的头颅。

7.118.15

सकुण्डलं पूर्णशशिप्रकाशं ।
भ्राजिष्णु वक्त्रं विचकर्त देहात्।
यथा पुरा वज्रधरः प्रसह्य ।
बलस्य सङ्ख्येऽतिबलस्य राजन् ॥ ७.११८.१५ ॥

他将那带着耳环、如满月般明亮的光耀面庞从躯体上斩下,正如往昔持金刚者(因陀罗)在战斗中以力斩断了钵罗(Bala)那极为强大者的头颅一样,哦,国王!

7.118.16

निहत्य तं पार्थिवपुत्रपौत्रं ।
रणे यदूनामृषभस्तरस्वी।
मुदा समेतः परया महात्मा ।
रराज राजन्सुरराजकल्पः ॥ ७.११८.१६ ॥

在战场上杀死了国王的儿子和孙子之后,那位在雅度族中如公牛般迅捷的大德者,充满至上的喜悦,光彩照人,啊国王,如同诸神之王。

7.118.17

ततो ययावर्जुनमेव वीरो ।
निवार्य सैन्यं तव मार्गणौघैः।
सदश्वयुक्तेन रथेन राजँ… ।
ल्लोकं विसिस्मापयिषुर्नृवीरः ॥ ७.११८.१७ ॥

于是那位英雄以箭雨阻挡你的军队,径直朝阿周那而去;啊国王,他驾着良驹所拉的战车,这位人中英雄想要震惊世界。

7.118.18

तत्तस्य विस्मापयनीयमग्र्य… ।
मपूजयन्योधवराः समेताः।
प्रवर्तमानानिषुगोचरेऽरी… ।
न्ददाह बाणैर्हुतभुग्यथैव ॥ ७.११८.१८ ॥

他那令人惊叹的至上功绩受到了聚集在此的所有最勇猛战士的赞誉;在箭的射程之内,他用箭矢焚烧前进的敌人,如同烈火焚烧一般。