摩诃婆罗多 · 章 7.12
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.12.1
शुश्रूषस्व स्थिरो भूत्वां शंसतो मम भारत ।
हन्त ते कथयिष्यामि सर्वं प्रत्यक्षदर्शिवान्।
यथा सत्यपरो द्रोणः सादिताः पाण्डुसृञ्जयैः ॥ ७.१२.१ ॥
桑闪耶说:婆罗多的后裔啊,请你镇定地听我叙述。我将把亲眼所见的一切告诉你,讲述坚守真理的德罗纳如何被般度之子与斯林嘉耶人所杀。
7.12.2
सेनापतित्वं सम्प्राप्य भारद्वाजो महारथः ।
मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत् ॥ ७.१२.२ ॥
德罗纳(婆罗堕遮之子)获得统帅之职,作为大车战士,在全军中间对你的儿子说了这些话。
7.12.3
यत्कौरवाणामृषभादापगेयादनन्तरम् ।
सैनापत्ये त्वया राजन्नद्य सत्कृतवानहम् ॥ ७.१२.३ ॥
啊,国王,继俱卢族之牛阿波耶(毗湿摩)之后,今日你任命我统率大军,给予我荣誉。
7.12.4
सदृशं कर्मणस्तस्य फलं प्राप्नुहि भारत ।
करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि ॥ ७.१२.४ ॥
婆罗多的后裔啊,请获得与那业绩相称的果报。今日我该满足你什么愿望?请选择你所想要的。
7.12.5
ततो दुर्योधनो राजा कर्णदुःशासनादिभिः ।
सम्मन्त्र्योवाच दुर्धर्षमाचार्यं जयतां वरम् ॥ ७.१२.५ ॥
于是国王难敌与迦尔纳、难降等人商议后,对这位不可战胜、胜利者中最优秀的导师说道。
7.12.6
ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम् ।
गृहीत्वा रयिनां श्रेष्ठं मत्समीपमिहानय ॥ ७.१२.६ ॥
如果你赐予我这个恩惠,就把坚战活捉,他是战车手中最优秀的,把他带到这里我身边来。
7.12.7
इच्छेयं वै महात्मानं धर्मात्मानं युधिष्ठिरम् ।
भ्रातृणां पश्यतामेव जीवग्राहेण मे द्विज ॥ ७.१२.७ ॥
婆罗门啊,在他兄弟们注视之下,我愿活捉这位大德、正法的坚战。
7.12.8
गृहीत्वा रथिनां श्रेष्ठं मत्सकाशमिहानय ।
प्रीणाम्यनेन कार्येण ससुहृज्जनबान्धवः ॥ ७.१२.८ ॥
把车战勇士中最优秀的人抓来,带到我面前;凭这件事,我将与朋友、亲族、眷属一同欢喜。
7.12.9
ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः ।
सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत् ॥ ७.१२.९ ॥
于是,俱卢的师尊听了你儿子的话,使全军欢欣,便说了这番话。
7.12.10
धन्यः कुन्तीसुतो राजन्यस्य ग्रहणमिच्छसि ।
न वधं तस्य दुर्धर्ष वरमद्य प्रयाचसे ॥ ७.१२.१० ॥
大王啊,贡蒂之子是有福的,因为你想活捉一位武士而非杀死他。难以战胜的人啊,今日你在求一个恩典。
7.12.11
किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसे ।
नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम् ॥ ७.१२.११ ॥
人中之虎啊,你为何不想要他的死亡?杜尔约达那啊,你必定不愿从我这里得到此事。
7.12.12
आहोस्विद्धर्मराजस्य द्वेष्टा कश्चिन्न विद्यते ।
यदीच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनः ॥ ७.१२.१२ ॥
或者说,法王竟无一个仇敌吗?若你愿他活着,那你就是在保护你自己的家族。
7.12.13
अथवा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान् ।
राज्यांशं प्रति दत्त्वा च सौभ्रात्रं कर्तुमिच्छसि ॥ ७.१२.१३ ॥
或者,婆罗多中的至尊,你是否想在战斗中战胜般度之子,并分给他们一部分王国,以建立兄弟和睦?
7.12.14
धन्यः कुन्तीसुतो राजा सुजातं चास्य धीमतः ।
अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान् ॥ ७.१२.१४ ॥
贡蒂之子国王是有福的,那位智者的出身也高贵;他没有敌人是真实的,因为你对他怀有亲情。
7.12.15
द्रोणेन चैवमुक्तस्य तव पुत्रस्य भारत ।
सहसा निःसृतो भावो योस्य नित्यं हृदि स्थितः ॥ ७.१२.१५ ॥
婆罗多的后裔啊,德罗纳如此说后,你儿子心中一直存在的情感突然迸发出来。
7.12.16
नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि ।
तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत् ॥ ७.१२.१६ ॥
即便是与布里哈斯巴蒂相当的人,也无法掩饰心中的意图。因此,国王啊,你的儿子欣喜地说出了这些话。
7.12.17
वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम ।
हते युधिष्ठिरे पार्था हन्युःसर्वान्हि नो ध्रुवम् ॥ ७.१२.१७ ॥
老师啊,若不在战斗中杀死贡蒂之子,我便无胜利可言。若坚战被杀,般度之子必定会杀死我们所有人。
7.12.18
नैव शक्या रणे सर्वे निहन्तुममरैरपि ।
यदि सर्वे हनिष्यन्ते पाण्डवाः ससुता मृधे ॥ ७.१२.१८ ॥
战斗中,即便是诸天神也无法杀尽所有般度之子。若般度之子连同他们的儿子都在战斗中被杀——
7.12.19
ततः कृत्स्नं वशे कृत्वा निःशेषं नृपमण्डलम् ।
ससागरवनां स्फीतां विजित्य वसुधामिमाम् ॥ ७.१२.१९ ॥
随后,将所有诸王尽数置于掌控之下,征服了这片拥有海洋与森林的繁荣大地,
7.12.20
विष्णुर्दास्यति कृष्णायै कुन्त्यै वा पुरुषोत्तमः ।
यद्येष चैषां शेषःस्यात्स एवास्मान्न शेषयेत् ॥ ७.१२.२० ॥
至上之人毗湿奴将把它交给黑天女或贡蒂;然而若他们中有一人残存,那人便不会让我们存活。
7.12.21
सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते ।
तस्मिञ्जीवति चायाते ह्युपायैर्बहुभिः कृतैः।
पुनर्यास्यन्त्यरण्याय पाण्डवास्तमनुव्रताः ॥ ७.१२.२१ ॥
信守诺言者被再次召回,又在赌局中再次战败;若他活着,并以多种计谋归来,般度之子们将追随他,再次前往森林。
7.12.22
सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति ।
अतो न वधमिच्छामि धर्मराजस्य कर्हिचित् ॥ ७.१२.२२ ॥
我的这场胜利显然将长久存续;因此我从不希望法王被杀。
7.12.23
तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित् ।
तं वरं सान्तरं तस्मै ददौ संचिन्त्य बुद्धिमान् ॥ ७.१२.२३ ॥
德罗纳知道了他的险恶用心,他是通晓事理真相的智者,经过思量,附以条件把那恩惠赐予了他。
7.12.24
न चेद्युधिष्ठिरं वीरः पालयेदर्जुनो युधि ।
मन्यस्व पाण्डवश्रेष्ठमानीतं वशमात्मनः ॥ ७.१२.२४ ॥
若英雄阿周那在战斗中不保护坚战,你便应知道,般度诸子中最优秀者已被你掌控。
7.12.25
न हि शक्यो रणे पार्थः सेन्द्रैर्देवासुरैरपि ।
प्रत्युद्यातुमतस्तात न तस्माद्धर्षयाम्यहम् ॥ ७.१२.२५ ॥
孩子啊,在战场上,即使诸神与阿修罗连同因陀罗,也无法抵挡般度之子。因此我不鼓励你。
7.12.26
असंशयं स मे शिष्यो मत्पूर्वश्चास्त्रकर्मणि ।
तरुणः सुकृती युक्त एकायनगतश्च सः ॥ ७.१२.२६ ॥
无疑他是我的弟子,在兵器之术上先由我教导。他年轻、有德,且专心于唯一之道。
7.12.27
अस्त्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान् ।
अमर्षितश्च ते राजंस्ततो नामर्षयाम्यहम् ॥ ७.१२.२७ ॥
他从因陀罗与楼陀罗那里获得了许多武器。大王啊,他已被你激怒,因此我不再激怒他。
7.12.28
स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते ।
अपनीते ततः पार्थे धर्मराजो जितस्त्वया ॥ ७.१२.२८ ॥
无论用何种方法,都要使他离开战场。般度之子一旦被移开,你便是战胜了法王。
7.12.29
ग्रहणे हि जयस्तस्य न वधे पुरुषर्षभ ।
ग्रहणं हि वधात्तस्य धर्मराजस्य मन्यसे।
अनेनैवाभ्युपायेन ग्रहणं समुपैष्यसि ॥ ७.१२.२९ ॥
人中雄牛啊,胜利在于擒获他,而非杀死他。你认为擒获法王胜过杀死他。以此同样的方法,你将达成对他的擒获。
7.12.30
अहं गृहीत्वा राजानं सत्यधर्मपरायणम् ।
आनयिष्यामि ते राजन्वशमद्य न संशयः ॥ ७.१२.३० ॥
我将擒获那位恪守真理与法的国王,大王啊,今天就把他带到你的掌控之下。毫无疑问。
7.12.31
यदि स्यास्यति सङ्ग्रामे मुहूर्तमपि मेऽग्रतः ।
अपनीते नरव्याघ्रे कुन्तीपुत्रे धनञ्जये ॥ ७.१२.३१ ॥
若在战斗中,哪怕片刻,人中之虎、昆提之子达南遮耶离开了我的面前,
7.12.32
फल्गुनस्य समीपे तु न हि शक्यो युधिष्ठिरः ।
ग्रहीतुं समरे राजन्सेन्द्रैरपि सुरासुरैः ॥ ७.१२.३२ ॥
大王啊,只要法尔古那在身边,即使天神与阿修罗连同因陀罗,也无法在战场上俘获坚战。
7.12.33
एवमुक्ते तदा तस्मिन्युद्धे देवासुरोपमे ।
सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे।
गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः ॥ ७.१२.३३ ॥
他这样说完之后,德罗纳在这场如同神魔之战的战斗中发誓要擒获国王,你那些极其愚蠢的儿子便以为国王已被擒获。
7.12.34
ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् ।
स्कन्धावारेषु सर्वेषु यथास्थानेषु मारिष।
सैन्यस्थानेषु सर्वेषु सुघोषितमरिन्दम ॥ ७.१२.३४ ॥
随后,难敌也在所有营地、各自的位置、军队的所有哨所中大肆宣告擒获般度之子的消息,哦,降伏敌人者。
7.12.35
पाण्डवेयेषु सापेक्षं द्रोणं जानाति ते सुतः ।
ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः ॥ ७.१२.३५ ॥
你的儿子知道德罗纳对般度之子有所偏袒;因此,为了使他的誓言坚定,那个计策被反复商议。