Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.120

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.120.1

जित्वा यवनकाम्भोजान्युयुधानस्ततोऽर्जुनम् ।
जगाम तव सैन्यस्य मध्येन रथिनां वरः ॥ ७.१२०.१ ॥

尤尤陀那击败了耶婆那与迦until婆诸国之后,车战者中的最强者穿过你军的中央,朝阿周那而去。

7.120.2

शरदंष्ट्रो नरव्याघ्रो विचित्रकवचच्छविः ।
मृगं व्याघ्र इवाजिघ्रंस्तव सैन्यमभीषयत् ॥ ७.१२०.२ ॥

这位人中虎豹,以箭为獠牙,身披斑斓铠甲闪耀光芒,如猛虎追逐鹿群,使你的军队惊恐。

7.120.3

स रथेन चरन्मार्गान्धनुरुद्धामयद्भृशम् ।
रुक्मपृष्ठं महावेगं रुक्मचन्द्रकसङ्कुलम् ॥ ७.१२०.३ ॥

他乘车在道路上驰骋,用力拉开那张背有金饰、速度极快、满是金色月牙箭的弓。

7.120.4

रुक्माङ्गदशिरस्त्राणो रुक्मवर्मसमावृतः ।
रुक्मध्वजधनुः शूरो मेरुशृङ्गमिवाबभौ ॥ ७.१२०.४ ॥

这位英雄佩戴金臂钏与金头盔,披着金甲,持金色旗帜与弓,闪耀如须弥山之巅。

7.120.5

सधनुर्मण्डलः सङ्ख्ये तेजोभासुररश्मिवान् ।
शरदीवोदितः सूर्यो नृसूर्यो विरराज ह ॥ ७.१२०.५ ॥

他在战场上,弓弦圆转,光芒耀目,如秋日升起的太阳,这位人中之日确实光辉闪耀。

7.120.6

वृषभस्कन्धविक्रान्तो वृषभाक्षो नरर्षभः ।
तावकानां बभौ मध्ये गवां मध्ये यथा वृषः ॥ ७.१२०.६ ॥

他肩膀如公牛般雄壮,双眼如牛目,这位人中之牛在你的将士中闪耀,如同牛群中的公牛。

7.120.7

मत्तद्विरदसङ्काशं मत्तद्विरदगामिनम् ।
प्रभिन्नमिव मातङ्गं यूथमध्ये व्यवस्थितम् ॥ ७.१२०.७ ॥

如同发情的象,行步如发情的象,立于象群之中,如狂乱的公象。

7.120.8

व्याधा इव जिघांसन्तस्त्वदीयाः समुपाद्रवन् ।
सात्यकिं समरे राजन्परिवव्रुस्तवात्मजाः ॥ ७.१२०.८ ॥

你的儿子们如猎人欲杀之,蜂拥而来;大王,他们在战场上将萨提亚基团团围住。

7.120.9

द्रोणानीकमतिक्रान्तं भोजानीकं च दुस्तरम् ।
जलसन्धार्णवं तीर्त्वा काम्भोजानां च वाहिनीम् ॥ ७.१२०.९ ॥

越过德罗纳的军队,渡过难以渡过的诸跋阇军队与恃力王的海洋,也越过了羯步阇的军队。

7.120.10

हार्दिक्यमकरान्मुक्तं तीर्णं वै सैन्यसागरम् ।
परिवव्रुः सुसङ्क्रुद्वास्त्वदीयाः सात्यकिं रथाः ॥ ७.१२०.१० ॥

萨提亚基从心底之鳄的口中脱出,渡过了军队之海,你那些极度愤怒的车战武士将他团团围住。

7.120.11

दुर्योधनश्चित्रसेनो दुःशासनविविंशती ।
शकुनिर्दुःसहश्चैव युवा दुर्धर्षणः क्रथः ॥ ७.१२०.११ ॥

难敌、支陀罗塞那、难降与毗云沙提、沙古尼、难胜,以及年轻的难摄与羯陀。

7.120.12

अन्ये च बहवः शूराः शस्त्रवन्तो दुरासदाः ।
पृष्ठतः सात्यकिं यान्तमन्वधावन्नमर्षिणः ॥ ७.१२०.१२ ॥

还有许多其他武勇之士,执持兵器,难以接近,怒火难耐,在萨提亚基前行时从后追赶。

7.120.13

अथ शब्दो महानासीत्तव सैन्यस्य मारिष ।
मारुतोद्धूतवेगस्य सागरस्येव पर्वणि ॥ ७.१२०.१३ ॥

尊者啊,那时你的军队中响起巨大的喧哗,犹如风激起疾涌的大海在望日潮涌时的咆哮。

7.120.14

तानभिद्रवतः सर्वान्समीक्ष्य शिनिपुङ्गवः ।
शनैर्याहीति यन्तारमब्रवीत्प्रहसन्निव ॥ ७.१२०.१४ ॥

shi-nu-hi: 看到他们都冲杀过来,希尼族的雄牛微笑着对御者说:“慢慢驾车前行。”

7.120.15

इदमेति समुद्धूतं धार्तराष्ट्रबलं महत् ।
मामेवाभिमुखं तूर्णं गजाश्वरथपत्तिमत्।
नादयद्वै दिशः सर्वा रथघोषेण सारथे ॥ ७.१२०.१५ ॥

御者啊,你看,持国之子的庞大军队,连同象、马、车与步卒,汹涌而来,直奔我而来,疾速前进,以车轮的轰鸣震动四方。

7.120.16

पृथिवीं चान्तरिक्षं च कम्पयन्सागरानपि ।
एतद्बलार्णवं सूत वारयिष्ये महारणे।
पौर्णमास्यामिवोद्धूतं वेलेव मकरालयम् ॥ ७.१२०.१६ ॥

这支震撼大地、天空乃至四海的兵海,御者啊,我将在大战中阻挡它,正如海岸阻挡望日涌起的海潮。

7.120.17

पश्य मे सूत विक्रान्तमिन्द्रस्येव महामृधे ।
एष सैन्यानि शत्रूणां विधमामि शितैः शरैः ॥ ७.१२०.१७ ॥

御者啊,看我的英勇,如同大战中因陀罗的威势。我以锐利的箭矢击散敌人的军队。

7.120.18

निहतानाहवे पश्य पदात्यश्वरथद्विपान् ।
मच्छरैरग्निसङ्काशैर्विद्धदेहान्सहस्रशः ॥ ७.१२०.१८ ॥

看那些在战场上被杀的步兵、马、车与象,他们的身体被我如火般的箭矢成千上万地射穿。

7.120.19

इत्येवं ब्रुवतस्तस्य सात्यकेरमितौजसः ।
समीपे सैनिकास्ते तु शीघ्रमीयुर्युयुत्सवः।
जह्याद्रवस्व तिष्ठेति पश्यपश्येति वादिनः ॥ ७.१२०.१९ ॥

当无限威力的萨谛奇这样说话时,那些渴望战斗的士兵迅速来到他身边,叫喊着:“打!冲上去!站住!看,看!”

7.120.20

तानेवं ब्रुवतो वीरान्सात्यकिर्निशितैः शरैः ।
जघानं त्रिशतानश्वान्कुञ्जरांश्च चतुःशतान्।
लध्वस्त्रश्चित्रयोधी च प्रहरञ्शिनिपुङ्गवः ॥ ७.१२०.२० ॥

当那些英雄这样说话时,石尼族的最优者萨谛奇用利箭射倒了三百匹马和四百头象,他是擅用轻兵器的奇妙战士,仍在不断攻击。

7.120.21

स सम्प्रहारस्तुमुलस्तस्य तेषां च धन्विनाम् ।
देवासुररणप्रख्यः प्रावर्तत जनक्षयः ॥ ७.१२०.२१ ॥

他与那些射手之间那场喧嚣的冲突,如同诸神与阿修罗之战,人的毁灭开始了。

7.120.22

मेघजालनिभं सैन्यं तव पुत्रस्य मारिष ।
प्रत्यगृह्णाच्छिनेः पौत्रः शरैराशीविषोपमैः ॥ ७.१२०.२२ ॥

尊者啊,你儿子那如乌云般的军队,被石尼之孙萨谛奇以如毒蛇般的箭矢所迎击。

7.120.23

प्रच्छाद्यमानः समरे शरजालैः स वीर्यवान् ।
असम्भ्रमन्महाराज तावकानवधीद्बहून् ॥ ७.१२०.२३ ॥

大王啊,尽管他在战场上被箭网所覆盖,那位有力的战士却毫不慌乱,杀死了你的许多部下。

7.120.24

आश्चर्यं तत्र राजेन्द्र सुमहद्दृष्टवानहम् ।
न मोघः सायकः कश्चित्सात्यकेरभवत्प्रभो ॥ ७.१२०.२४ ॥

王中之王啊,我在那里见到一件极大的奇事:主啊,萨谛奇的任何一支箭都没有落空。

7.120.25

रथनागाश्वकलिलः पदात्यूर्मिसमाकुलः ।
शैनेयवेलामासाद्य स्थितः सैन्यमहार्णवः ॥ ७.१२०.२५ ॥

车、象、马充满,步兵之波翻涌,那军队的大海抵达了施尼耶(萨谛奇)的岸边而停住。

7.120.26

सम्भ्रान्तनरनागाश्वमावर्तत मुहुर्मुहुः ।
तत्सैन्यमिषुभिस्तेन वध्यमानं समन्ततः।
बभ्राम तत्रतत्रैव गावः शीतार्दिता इव ॥ ७.१२०.२६ ॥

惊慌的人、象与马一再回转;那支军队被他的箭从四面射击,像被寒冷折磨的牛群一样四处奔走。

7.120.27

पदातिनं रथं नागं सादिनं तुरगं तथा ।
अविद्वं तत्र नाद्राक्षं युयुधानस्य सायकैः ॥ ७.१२०.२७ ॥

我在那里没有见到任何一个——步兵、战车、象、骑士或马——未被游荡那(萨谛奇)的箭射穿。

7.120.28

न तादृक्कदनं राजन्कृतवांस्तत्र फल्गुनः ।
यादृक्क्षयमनीकानामकरोत्सात्यकिर्नृप ॥ ७.१२०.२८ ॥

大王啊,法尔古那在那里没有造成这样的杀戮,正如萨谛奇使各军覆灭一般,大王啊。

7.120.29

अत्यर्जुनं शिनेः पौत्रो युध्यते पुरुषर्षभः ।
वीतभीर्लाघवोपेतः कृतित्वं सम्प्रदर्शयन् ॥ ७.१२०.२९ ॥

施尼之孙,人中之牛,超越阿周那而战,无所畏惧,身手敏捷,展示着他的技艺。

7.120.30

ततो दुर्योधनो राजा सात्वतस्य त्रिभिः शरैः ।
विव्याध सूतं निशितैश्चतुर्भिश्चतुरो हयान् ॥ ७.१२०.३० ॥

于是国王难敌用三支箭射穿了萨谛奇(萨特瓦塔)的御者,又用四支利箭射穿了他的四匹马。

7.120.31

सात्यकिं च त्रिभिर्विद्व्वा पुनरष्टाभिरेव च ।
दुःशासनः षोडशभिर्विव्याध शिनिपुङ्गवम् ॥ ७.१२०.३१ ॥

他以三箭射中萨提亚基,又以八箭再次射中;难敌之弟难降以十六箭射中了希尼族的雄牛。

7.120.32

शकुनिः पञ्चविंशत्या चित्रसेनश्च पञ्चभिः ।
दुःसहः पञ्चदशभिर्विव्याधोरसि सात्यकिम् ॥ ७.१२०.३२ ॥

沙恭尼以二十五箭,奇多罗塞那以五箭,杜萨哈以十五箭射中萨提亚基的胸膛。

7.120.33

उत्स्मयन्वृष्णिशार्दूलस्तथा बाणैः समाहतः ।
तानविध्यन्महाराज सर्वानेव त्रिभिस्त्रिभिः ॥ ७.१२०.३३ ॥

虽被箭射中,毗restrict族的猛虎萨提亚基却微笑着,大王啊,以每人三箭射中了他们所有人。

7.120.34

गाढविद्धानरीन्कृत्वा मार्गणैः सोऽतितेजनैः ।
शैनेयः श्येनवत्सङ्ख्ये व्यचरल्लघुविक्रमः ॥ ७.१२०.३४ ॥

以极其锋利的箭深深射伤敌人后,希尼之子萨提亚基在战场上像鹰一样敏捷地驰骋。

7.120.35

सौबलस्य धनुश्छित्त्वा हस्तावापं निकृत्य च ।
दुर्योधनं त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे ॥ ७.१२०.३५ ॥

斩断沙恭尼的弓并砍断其握把后,他以三箭射中了难敌的胸膛正中。

7.120.36

चित्रसेनं शतेनैव दशभिर्दुःसहं तथा ।
दुःशासनं तु विंशत्या विव्याध शिनिपुङ्गवः ॥ ७.१२०.३६ ॥

希尼族的雄牛以一百箭射中奇多罗塞那,以十箭射中杜萨哈,以二十箭射中难降。

7.120.37

अथान्यद्धनुरादाय श्यालस्तव विशाम्पते ।
अष्टाभिः सात्यकिं विद्व्वा पुनर्विव्याध पञ्चभिः ॥ ७.१२०.३७ ॥

随后,你的内兄,人民之主,取另一把弓,以八箭射中萨蒂亚基,又以五箭再次射中。

7.120.38

दुःशासनश्च दशभिर्दुःसहश्च त्रिभिः शरैः ।
दुर्मुखश्च द्वादशभी राजन्विव्याध सात्यकिम् ॥ ७.१२०.३८ ॥

难降以十箭,难胜以三箭,而恶面,大王啊,以十二箭射中萨蒂亚基。

7.120.39

दुर्योधनस्त्रिसप्तत्या किद्व्वा भारत माधवम् ।
ततोस्य निशितैर्बाणैस्त्रिभिर्विव्याध सारथिम् ॥ ७.१२०.३९ ॥

难敌以七十三箭射中摩陀婆,婆罗多啊;随后以三支利箭射中他的御者。

7.120.40

तान्सर्वान्सहिताञ्शूरान्यतमानान्महारथान् ।
पञ्चभिः पञ्चभिर्बाणैः पुनर्विव्याध सात्यकिः ॥ ७.१२०.४० ॥

萨蒂亚基以五箭分别再次射中那些联合作战的英勇大车战士。

7.120.41

ततः स रथिनां श्रेष्ठस्तव पुत्रस्य सारथिम् ।
आजघानाशु भल्लेन स हतो न्यपतद्भुवि ॥ ७.१२०.४१ ॥

于是那位车战者中的最勝者,迅速以一支钩头箭射中你儿子的御者,他被射倒,坠落于地。

7.120.42

पतिते सारथौ तस्मिंस्तव पुत्ररथः प्रभो ।
वातायमानैस्तैरश्वैरपानीयत सङ्गरात् ॥ ७.१२०.४२ ॥

主啊,那御者倒下后,你儿子的战车被那些疾如风的马拉离了战场。

7.120.43

ततस्तव सुतो राजन्सैनिकाश्च विशाम्पते ।
राज्ञो रथमभिप्रेक्ष्य विद्रुताः शतशोऽभवन् ॥ ७.१२०.४३ ॥

于是,国王啊,您的儿子和士兵们,人民之主啊,看见国王的战车,纷纷成百上千地逃散了。

7.120.44

विद्रुतं तत्र तत्सैन्यं दृष्ट्वा भारत सात्यकिः ।
अवाकिरच्छरैस्तीक्ष्णै रुक्मपुङ्खैः शिलाशितैः ॥ ७.१२०.४४ ॥

婆罗多啊,看见那里的军队四散奔逃,萨提亚基便射出无数锋利的箭矢,箭羽镶金,箭锋在石上磨砺。

7.120.45

विद्राव्य सर्वसैन्यानि तावकानि सहस्रशः ।
प्रययौ सात्यकी राजञ्श्वेताश्वस्य रथं प्रति ॥ ७.१२०.४५ ॥

国王啊,击溃你那成千上万的所有军队之后,萨提亚基向白马的战车前进而去。

7.120.46

तं प्रयान्तं महाबाहुं तावकाः प्रेक्ष्य मारिष ।
दृष्टं चादृष्टवत्कृत्वा क्रियामन्यामयोजयन् ॥ ७.१२०.४६ ॥

先生啊,看见那位大臂者向前驰去,您的人马便像没有看见一般,转而另行他事。

7.120.47

तं शरानाददानं च रक्षमाणं च सारथिम् ।
आत्मानं पालयानं च तावकाः समपूजयन् ॥ ७.१२०.४७ ॥

他取箭、护卫御者、也护卫自身,您的人马便赞叹他。