Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.121

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.121.1

सम्प्रद्य महत्सैन्यं यान्तं शैनेयमर्जुनम् ।
निर्हीका मम ते पुत्राः किमकुर्वत सञ्जय ॥ ७.१२१.१ ॥

桑耶,当舍奈耶(萨蒂亚基)冲向大军并前进时,我那些无耻的儿子们做了什么?

7.121.2

कथं वैषां तदा युद्धे धृतिरासीन्मुमूर्षताम् ।
शैनेयचरितं दृष्ट्वा यादृशं सव्यसाचिनः ॥ ७.१२१.२ ॥

看见舍奈耶那如同萨维耶萨钦(阿周那)一般的功绩,那些求死者在战斗中的勇气如何?

7.121.3

किं नु वक्ष्यन्ति ते क्षात्रं सैन्यमध्ये पराजिताः ।
कथं नु सात्यकिर्युद्धे व्यतिक्रान्तो महायशाः ॥ ७.१२१.३ ॥

那些在军中被击败的刹帝利将说什么呢?大名鼎鼎的萨蒂亚基在战斗中又是如何越过他们的?

7.121.4

कथं च मम पुत्राणां जीवतां तत्र सञ्जय ।
शैनेयोऽभिययौ युद्धे तन्ममाचक्ष्व सञ्जय ॥ ७.१२१.४ ॥

桑耶,当我的儿子们还活着时,舍奈耶是如何在战斗中向他们进攻的?桑耶,把这件事告诉我。

7.121.5

अत्यद्भुतमिदं तात त्वत्सकाशाच्छृणोम्यहम् ।
एकस्य बहुभिः सार्धं शत्रुभिस्तैर्महारथैः ॥ ७.१२१.५ ॥

孩子,从你那里我听到这件最为奇妙的事:一人与那么多敌方大车战士一同作战。

7.121.6

विपरीतमहं मन्ये मन्दभाग्यं सुतं प्रति ।
यत्रावध्यन्त समरे सात्वतेन महारथाः ॥ ७.१२१.६ ॥

我认为,对于我那命运不济的儿子们,一切都颠倒了;在那里,大车战士们在战斗中被萨特瓦塔(萨蒂亚基)杀死。

7.121.7

एकस्य हि न पर्याप्तं यत्सैन्यं तस्य सञ्जय ।
क्रुद्धस्य युयुधानस्य सर्वे तिष्ठन्तु पाण्डवाः ॥ ७.१२१.७ ॥

桑闍耶啊,当愤怒的尤尤陀那在场时,单一的军队对他已不足够;让所有般度之子都站出来迎战吧。

7.121.8

निर्जित्य समरे द्रोणं कृतिनं चित्रयोधिनम् ।
यथा पशुगणान्सिंहस्तद्वद्धन्ता सुतान्मम ॥ ७.१२१.८ ॥

他在战场上击败了灵巧而神奇的战士德罗纳,便会像狮子杀死牛群一样杀死我的儿子们。

7.121.9

कृतवर्मादिभिः शूरैर्यत्तैर्बहुभिराहवे ।
युयुधानो न शकितो हन्तुं यत्पुरुषर्षभः ॥ ७.१२१.९ ॥

虽然以克里塔伐尔曼为首的许多英雄在战斗中竭力而为,尤尤陀那却未能被杀,人中之牛啊。

7.121.10

नैतदीदृशकं युद्धं कृतवांस्तत्र फल्गुनः ।
यादृशं कृतवान्युद्धं शिनेर्नप्ता महायशाः ॥ ७.१२१.१० ॥

在那里,法尔古那未曾打过像那位大名鼎鼎的湿尼之孙所打的那样的战斗。

7.121.11

तव दुर्मन्त्रिते राजन्दुर्योधनकृतेन च ।
शृणुष्वावहितो भूत्वा यत्ते वक्ष्यामि भारत ॥ ७.१२१.११ ॥

大王啊,由于您的恶劣谋略和难敌所为——婆罗多啊,请专心听我将要告诉您的事。

7.121.12

ते पुनः सन्न्यवर्तन्त कृत्वा संशपथान्मिथः ।
परां युद्धे मतिं क्रूरां तव पुत्रस्य शासनात् ॥ ७.१२१.१२ ॥

他们相互立下誓言后又返回,依照您儿子的命令,在战斗中生出了极其残酷的决心。

7.121.13

त्रीणि सादिसहस्राणि दुर्योधनपुरोगमाः ।
शककाम्भोजबालह्लीका यवनाः पारदास्तथा ॥ ७.१२१.१३ ॥

以难敌为首的三千骑兵:沙迦人、迦蒙阇人、巴里迦人、耶槃那人,以及波罗陀人。

7.121.14

कुलिन्दास्तङ्कणाम्बष्ठाः पैशाचाश्च सबर्बराः ।
पार्वतीयाश्च राजेन्द्र क्रुद्धाः पाषाणपाणयः।
अभ्यद्रवन्त शैनेयं शलभाः पावकं यथा ॥ ७.१२१.१४ ॥

俱林陀、丹干那、安跋湿陀、毕舍遮、萨婆罗人与山民,王中之王啊,怒气冲冲,手持石块,扑向史尼之子,如蝗虫扑火。

7.121.15

युक्ताश्च पार्वतीयानां रथाः पाषाणयोधिनाम् ।
शूराः पञ्चशतं राजञ्शैनेयं समुपाद्रवन् ॥ ७.१२१.१५ ॥

山地持石战士驾驭的战车,以及五百勇士,大王啊,一齐冲向史尼之子。

7.121.16

ततो रथसहस्रेण महारथशतेन च ।
द्विरदानां सहस्रेण द्विसाहस्रैश्च वाजिभिः ॥ ७.१२१.१६ ॥

接着,率领一千辆战车、一百名大战车武士、一千头象和两千匹马。

7.121.17

शरवर्षाणि मुञ्चन्तो विविधानि महारथाः ।
अभ्यद्रवन्त शैनेयमसङ्ख्येयाश्च पत्तयः ॥ ७.१२१.१७ ॥

大战车武士们射出各种箭雨,扑向史尼之子,还有数不清的步兵也冲了上来。

7.121.18

तांश्च सञ्चोदयन्सर्वान्घ्नतैनमिति भारत ।
दुःशासनो महाराज सात्यकिं पर्यवारयत् ॥ ७.१२१.१८ ॥

他催促所有人说:“杀了他!”,婆罗多的后裔啊,大王,难降(Duḥśāsana)包围了萨提亚吉。

7.121.19

तत्राद्भुतमपश्याम शैनेयचरितं महत् ।
यदेको बहुभिः सार्धमसम्भ्रान्तमयुध्यत ॥ ७.१२१.१९ ॥

我们在那里目睹了 Śaineya(萨蒂亚基)奇妙而伟大的功绩:他独自一人与众多敌人作战,毫不慌乱。

7.121.20

अवधीच्च रथानीकं द्विरदानां च तद्बलम् ।
सादिनश्चैव तान्सर्वान्दस्यूनपि च सर्वशः ॥ ७.१२१.२० ॥

他杀尽了战车阵列和那支象军,所有的骑兵,还有所有的掠夺者。

7.121.21

तत्र चक्रैर्विमथितैर्भग्नैश्च परमायुधैः ।
अक्षैश्च बहुधा भग्नैरीषादण्डकबन्धुरैः ॥ ७.१२१.२१ ॥

那里的大地上散落着被碾碎的车轮、折断的上等兵器、多处断裂的车轴,以及车辕和车轭。

7.121.22

कुञ्जरैर्मथितैश्चापि ध्वजैश्च विनिपातितैः ।
वर्मभिश्च तथाऽनीकैर्व्यवकीर्णा वसुन्धरा ॥ ७.१२१.२२ ॥

大地上散落着被象群踩碎的、被打倒的旗帜、铠甲和军队。

7.121.23

स्रग्भिराभरणैर्वस्त्रैरनुकर्षैश्च मारिष ।
सञ्छन्ना वसुधा तत्र द्यौर्ग्रहैरिव भारत ॥ ७.१२१.२३ ॥

啊,尊者,婆罗多,那里的大地被花环、饰物、衣物和车具覆盖,如同天空布满星辰。

7.121.24

गिरिरूपधरैश्चापि पतितैश्च महागजैः ।
म्लेच्छस्थितैर्महाराज भिन्नाञ्जनचयोपमैः ॥ ७.१२१.२४ ॥

还有倒下的大象,形如山岳,躺在蛮族之间,啊,大王,如同碎裂的黑眼膏堆。

7.121.25

मृगैर्मन्द्रैश्च भद्रैश्च मृगमन्द्रैस्तथाऽपरैः ।
भद्रैर्मन्द्रमृगैश्चैव मृगभद्रैस्तथैव च ॥ ७.१२१.२५ ॥

以mṛga、mandra和bhadra象,以及mṛga-mandra和其他象,也以bhadra、mandra-mṛga和mṛga-bhadra象。

7.121.26

भद्रमन्द्रैश्चैव तथा तथा भद्रमृगैरपि ।
तत्रतत्र धरा कीर्णा शयानैः पर्वतोपमैः ॥ ७.१२१.२६ ॥

也有bhadra-mandra和bhadra-mṛga象;大地到处布满了它们,如山岳般横卧。

7.121.27

अञ्जनस्य कुले जाता वामनस्य च भारत ।
सुप्रतीककुले जाता महापद्मकुले तथा ॥ ७.१२१.२७ ॥

婆罗多之子啊,生于Añjana与Vāmana之族、生于Supratīka之族,以及生于Mahāpadma之族的(象)。

7.121.28

ऐरावतकुले चैव तथाऽन्येषु कुलेषु च ।
जाता दन्तिवरा राजञ्शेरते बहवो हताः ॥ ७.१२१.२८ ॥

生于Airāvata之族及其他族的优良象,啊国王,许多已被杀倒在地。

7.121.29

वनायुजान्पार्वतीयान्काम्भोजान्बाह्लिकानपि ।
तथा हयवरान्राजन्निजघ्ने तत्र सात्यकिः ॥ ७.१२१.२९ ॥

Vanāyu、山地、Kāmboja与Bāhlika的良马,以及其他优良的马,啊国王,萨提亚基在那里杀了它们。

7.121.30

नानादेशसमुत्थांश्च नानाजातींश्च दन्तिनः ।
निजघ्ने तत्र शैनेयः शतशोऽथ सहस्रशः ॥ ७.१२१.३० ॥

来自各国、属于各种类别的象,Śaineya(萨提亚基)在那里杀了成百上千头。

7.121.31

तेषु प्रकाल्यमानेषु दस्यून्दुःशासनोऽब्रवीत् ।
निवर्तध्वमधर्मज्ञा युध्यध्वं किं सृतेन वः ॥ ७.१२१.३१ ॥

当他们被砍杀时,凶恶的杜沙萨那对盗贼们说:“不知法的人们,回来!战斗吧!逃跑对你们有什么好处?”

7.121.32

तांश्चातिभग्नासन्सम्प्रेक्ष्य पुत्रो दुःशासनस्तव ।
पाषाणयोधिनः शूरान्पार्वतीयानचोदयत् ॥ ७.१२१.३२ ॥

看到他们大败,您的儿子杜沙萨那催促那些以石为武器的山地勇士前进。

7.121.33

अश्मयुद्धेषु कुशला नैतञ्जानापि सात्यकिः ।
अश्मयुद्धमजानन्तं हतैनं युद्धकामुकम् ॥ ७.१२१.३३ ॥

即便精通石战的萨谛亚奇也不知此道。不懂石战却渴望战斗的人,将被它杀死。

7.121.34

तथैव कुरवः सर्वे नाश्मयुद्धविशारदाः ।
अभिद्रवत माभैष्ट न वः प्राप्स्यति सात्यकिः ॥ ७.१२१.३४ ॥

同样,并非所有的俱卢人都精通石战。前进吧,不要害怕;萨谛亚奇不会抓住你们。

7.121.35

ते पार्वतीया राजानः सर्वे पाषाणयोधिनः ।
अभ्यद्रवन्त शैनेयं राजानमिव मन्त्रिणः ॥ ७.१२१.३५ ॥

那些山地诸王、石战的勇士们,都冲向了希尼之子萨谛亚奇,如同大臣们扑向国王。

7.121.36

ततो गजशिरःप्रख्यैरुपलैः शैलवासिनः ।
उद्यतैर्युयुधानस्य पुरतस्तस्थुराहवे ॥ ७.१२१.३६ ॥

于是,山居者们举起如象头般大的石块,在战场上挡在尤尤达那面前。

7.121.37

क्षेरणीयैस्तथाप्यन्ये सात्वतस्य वधैषिणः ।
चोदितास्तव पुत्रेण सर्वतो रुरुधुर्दिशः ॥ ७.१२१.३७ ॥

其他想要杀死萨特瓦塔之子的人,受你儿子的驱使,与投石者一起从四面八方包围了各方。

7.121.38

तेषामापततामेव शिलायुद्धं चिकीर्षताम् ।
सात्यकिः प्रतिसन्धाय निशितान्प्राहिणोच्छरान् ॥ ७.१२१.३८ ॥

当他们冲来、想要进行石头之战时,萨提亚基搭箭拉弓,射出锐利的箭矢。

7.121.39

तामश्मवृष्टिं तुमुलां पार्वतीयैः समीरिताम् ।
चिच्छेदोरगसंकाशैर्नाराचैः शिनिपुङ्गवः ॥ ७.१२१.३९ ॥

那阵由山民投掷的猛烈石雨,被西尼族中最杰出者以如蛇般的利箭斩断。

7.121.40

तैरश्मचूर्णैर्दीप्यद्भिः खद्योतानामिव व्रजैः ।
प्रायः सैन्यान्यहन्यन्त हाहाभूतानि मारिष ॥ ७.१२१.४० ॥

被那些如萤火虫群般闪耀的石屑击中,尊者啊,军队几乎全被摧毁,并发出哀号。

7.121.41

ततः पञ्चशतं शूराः समुद्यतमहाशिलाः ।
निकृत्तबाहवो राजन्निपेतुर्धरणीतले ॥ ७.१२१.४१ ॥

随后,大王啊,五百名高举巨石的勇士,双臂被斩断,倒在了地上。

7.121.42

सात्वतस्य च भल्लेन निष्पिष्टैस्तैस्तथाऽद्रिभिः ।
न्यपतन्निहता म्लेच्छास्तत्रतत्र गतासवः ॥ ७.१२१.४२ ॥

被萨提亚基的薄刃箭与那些石块碾压,蛮夷之人在各处被杀,失去生命倒地。

7.121.43

ते हन्यमानाः समरे सात्वतेन महात्मना ।
अश्मवृष्टिं महाघोरां पातयन्ति स्म सात्वते ॥ ७.१२१.४३ ॥

他们在战斗中被伟大的萨特瓦塔所击,便向萨特瓦塔倾下极为可怕的石雨。

7.121.44

पाषाणयोधिनः शूरान्यतमानानवस्थितान् ।
न्यवधीद्बहुसाहस्रांस्तदद्भुतमिवाभवत् ॥ ७.१२१.४४ ॥

他杀死了成千上万名以石为武器、奋力坚守的英勇战士;那情景如同奇迹。

7.121.45

ततः पुनर्बस्तमुखैरश्मवृष्टीः समन्ततः ।
अधोबस्तैः स्थूलबस्तैर्दरदैः खसतङ्कणैः ॥ ७.१२१.४५ ॥

接着,他们又用山羊口、朝下口、粗口的器械,连同达罗陀、卡萨与堂甘那人,从四面八方降下石雨。

7.121.46

लम्बकैश्च कुणिन्दैश्च क्षिप्ताः क्षिप्ताश्च सात्यकिः ।
नाराचैः प्रतिचिच्छेद प्रतिपत्तिविशारदः ॥ ७.१२१.४६ ॥

兰巴卡与昆陀人一再投掷的石块,善于应对的萨谛奇以铁箭在还击中将其斩断。

7.121.47

अद्रीणां भिद्यमानानामन्तरिक्षे शितैः शरैः ।
शब्देन प्राद्रवन्सङ्ख्ये रथाश्वगजपत्तयः ॥ ७.१२१.४७ ॥

天空中被利箭击碎的石块发出巨响,战场上的车兵、骑兵、象兵与步兵纷纷奔逃。

7.121.48

अश्मचूर्णैरवाकीर्णा मनुष्यगजवाजिनः ।
नाशक्नुवन्नवस्थातुं भ्रमरैरिव दंशिताः ॥ ७.१२१.४८ ॥

被石粉覆盖的人、象与马无法站稳,仿佛被蜜蜂蜇咬一般。

7.121.49

हतशिष्टाः सरुधिरा भिन्नमस्तकपिण्डिकाः ।
विभिन्नशिरसो राजन्दन्तैश्छिन्नैश्च दन्तिनः।
निर्धूतैश्च करैर्नागा व्यङ्गाश्च शतशः कृताः ॥ ७.१२१.४९ ॥

大王啊,幸存的大象浑身是血,额头和头骨都被劈裂。大王啊,它们的头颅破碎,象牙折断,成百上千头甩动着鼻子的大象被致残。

7.121.50

हत्वा पञ्चशतं योधांस्तत्क्षणेनैव मारिष ।
व्यचरत्पृतनामध्ये शैनेयः कृतहस्तवत् ॥ ७.१२१.५० ॥

先生啊,就在那一刻,杀死五百名战士之后,西尼之裔在军中穿行,仿佛一个手艺高超的人。

7.121.51

कुञ्जराः सन्न्यवर्तन्त युयुधानेन मोहिताः ॥ ७.१२१.५१ ॥

被尤尤陀那弄得迷乱的大象转身退去。

7.121.52

अश्मनां भिद्यमानानां सायकैः श्रूयते ध्वनिः ।
पद्मपत्रेषुधाराणां पतन्तीनामिव ध्वनिः ॥ ७.१२१.५२ ॥

可以听到箭矢劈裂石头的声音,仿佛莲花瓣状的箭流纷纷落下的声音。

7.121.53

ततः शब्दः समभवत्तव सैन्यस्य मारिष ।
माधवेनार्द्यमानस्य सागरस्येव पर्वणि ॥ ७.१२१.५३ ॥

先生啊,那时,被摩陀婆(萨谛耶启)打击的您的军队中响起了喧嚣,如同满月时大海翻腾。

7.121.54

तं शब्दं तुमुलं श्रुत्वा द्रोणो यन्तारमब्रवीत् ।
एष सूत रणे क्रुद्धः सात्वतानां महारथः ॥ ७.१२१.५४ ॥

德罗纳听到那阵喧嚣,对御者说:御者啊,这位在战场上愤怒的,是萨特婆人的大车战士。

7.121.55

दारयन्बहुधा सैन्यं रणे चरति कालवत् ।
यत्रैष शब्दस्तुमुलस्तत्र सूत रथं नय ॥ ७.१२१.५५ ॥

他在战场上以多种方式撕裂军队,如死神般来回奔走。哪里有这震天的喧嚣,御者啊,就把战车驶向那里。

7.121.56

पाषाणयोधिभिर्नूनं युयुधानः समागतः ।
तथाहि रथिनः सर्वे हियन्ते विद्रुतैर्हयैः ॥ ७.१२१.५६ ॥

想必优优陀那遇上了石头般的战士;的确,所有车战士都被奔逃的马拖走了。

7.121.57

विशस्त्रकवचा रुग्णास्तत्रतत्र पतन्ति च ।
न शक्नुवन्ति यन्तारः संयन्तुं तुमुले हयान् ॥ ७.१२१.५७ ॥

他们失去兵器与铠甲,负伤后处处倒下。在喧嚣中,御者无法驾驭马匹。

7.121.58

इत्येतद्वचनं श्रुत्वा भारद्वाजस्य सारथिः ।
प्रत्युवाच ततो द्रोणं सर्वशस्त्रभृतां वरम् ॥ ७.१२१.५८ ॥

薄婆陀缚阇之子的御者听闻此言,便回答了身为一切持兵者之最的德罗纳。

7.121.59

सैन्यं द्रवति चायुष्मन्कौरवेयं समन्ततः ।
पश्य योधान्रणे भग्नान्धावतो वै ततस्ततः ॥ ७.१२१.५९ ॥

长寿者啊,俱卢军队四面逃散。请看那些在战场上溃败、四处奔逃的战士。

7.121.60

इमे च संहताः शूराः पाञ्चालाः पाण्डवैः सह ।
त्वामेव हि जिघांसन्त आद्रवन्ति समन्ततः ॥ ७.१२१.६० ॥

那些结成一体的英勇般遮罗人与般度之子同在,欲杀你一人,从四面八方向你扑来。

7.121.61

अत्र कार्यं समाधत्स्व प्राप्तकालमरिन्दम ।
स्वाने वा गमने वापि दूरं यातश्च सात्यकिः ॥ ७.१२१.६१ ॥

敌人的征服者啊,此时请专心于你的职责。萨提奇或在他自己的位置上,或已远远离去。

7.121.62

तथैवं वदतस्तस्य भारद्वाजस्य सारथेः ।
प्रत्यदृश्यत शैनेयो निघ्नन्बहुविधान्रथान् ॥ ७.१२१.६२ ॥

当跋罗婆遮(德罗纳)的御者如此说话时,诗尼之裔(萨提奇)出现了,击毁了各种各样的战车。

7.121.63

ते वध्यमानाः समरे युयुधानेन तावकाः ।
युयुधानरथं त्यक्त्वा द्रोणानीकाय दुद्रुवुः ॥ ७.१२१.६३ ॥

你的部下在战斗中被尤尤陀那(萨提奇)击杀,于是弃了尤尤陀那的战车,逃向德罗纳的军队。

7.121.64

यैस्तु दुःशासनः सार्धं रथैः पूर्वं न्यवर्तत ।
ते भीतास्त्वभ्यधावन्त सर्वे द्रोणरथं प्रति ॥ ७.१२१.६४ ॥

先前未曾与难降及其战车一同撤回的人,如今都惊恐地冲向德罗纳的战车。