摩诃婆罗多 · 章 7.124
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.124.1
किं तस्यां मम सेनायां नासन्केचिन्महारथाः ।
ये तथा सात्यकिं यान्तं नैवाघ्नन्नाप्यवारयन् ॥ ७.१२४.१ ॥
我的军中难道没有一位大车战士,在萨提亚基经过时既不击打他,也不阻拦他吗?
7.124.2
एको हि समरे कर्म कृतवान्सत्यविक्रमः ।
शक्रतुल्यबलो युद्धे महेन्द्रो दानवेष्विव ॥ ७.१२४.२ ॥
在战斗中,唯独那位真勇之人完成了此事;他在战争中力量与帝释相等,如同大因陀罗在檀那婆之中。
7.124.3
अथवा शून्यमासीत्तद्येन यातः स सात्यकिः ।
हतभूयिष्ठमथवा येन यातः स सात्यकिः ॥ ७.१२४.३ ॥
或者萨提亚基所经过的路上已经空无一人?或者他所经过的路上大多已堆满了死者?
7.124.4
यत्कृतं वृष्णिवीरेण कर्म शंससि मे रणे ।
नैतदुत्सहते कर्तुं कर्म शक्रोऽपि सञ्जय ॥ ७.१२४.४ ॥
萨阳雅啊,你向我叙述在战场上缚里施尼英雄所做的事迹;即使帝释也不能完成这件事。
7.124.5
अश्रद्धेयमचिन्त्यं च कर्म तस्य महात्मनः ।
वृष्ण्यन्धकप्रवीरस्य श्रुत्वा मे व्यथितं मनः ॥ ७.१२४.५ ॥
那位伟大心灵、缚里施尼与安陀迦英雄中的第一人之事迹,令人难以置信、不可思议;听闻之后,我的心感到痛苦。
7.124.6
न सन्ति तस्मात्पुत्रा मे यथा सञ्जय भाषसे ।
एको वै बहुलाः सेनाः प्रामृद्गात्सत्यविक्रमः ॥ ७.१२४.६ ॥
萨阳雅啊,照你所说,我的儿子们似乎已不存在了;一位真勇之人便碾碎了众多军队。
7.124.7
कथं च युध्यमानानामपक्रान्ती महात्मनाम् ।
एको बहूनां शैनेयस्तन्ममाचक्ष्व सञ्जय ॥ ७.१२४.७ ॥
桑闍耶,當那些大勇士後撤時,孤身的舍尼耶如何與眾多敵人作戰?請告訴我。
7.124.8
राजन्सेनासमुद्योगो रथनागाश्वपत्तिमान् ।
अतुल्यस्तव सेनायां युगान्तसदृशोऽभवत् ॥ ७.१२४.८ ॥
大王,您軍中集結的車、象、馬與步兵,無與倫比,如同劫末之景。
7.124.9
आहूतेषु समूहेषु तव सैन्यस्य मानद ।
नास्ति लोके समः कश्चित्समूह इति मे मतिः ॥ ७.१२४.९ ॥
賜予尊榮者啊,在您軍中被召集的諸隊之中,依我之見,世上沒有任何集結能與之相等。
7.124.10
तत्रव देवास्त्वभाषन्त चारणाश्च समागताः ।
एतदन्ताः समूहा वै भविष्यन्ति महीतले ॥ ७.१२४.१० ॥
在那裡聚集的諸神與乾闥婆之歌者說:大地上這樣的集結,都將以此為終局。
7.124.11
न च वै तादृशो व्यूह आसीत्कश्चिद्विशाम्पते ।
यादृग्जयद्रथवधे द्रोणेन विहितोऽभवत् ॥ ७.१२४.११ ॥
人主啊,從未有過如德羅那在殺死勝車時所布的那樣的陣勢。
7.124.12
उद्धृता पृथिवी नूनं युद्धहेतोः समागतैः ।
इति तत्र जनाश्चाहुर्दृष्टा तां जनसंसदम् ॥ ७.१२४.१२ ॥
眾人見那集會之盛,都說:這些為戰而集聚者,必定已將大地舉起。
7.124.13
चण्डवातविभिन्नानां समुद्राणामिव स्वनः ।
रणेऽभवद्बलौघानामन्योन्यमभिधावताम् ॥ ७.१२४.१३ ॥
如同被狂风撕裂的大海咆哮,战场上爆发出各路大军相互冲击的喧声。
7.124.14
पार्थिवानां समेतानां बहून्यासन्नरोत्तम ।
त्वद्बले प्राण्डवानां च सहस्राणि शतानि च ॥ ७.१२४.१४ ॥
人中之最!在你的军中以及聚集的诸王之中,般度之子一方,有许多千、百的士兵。
7.124.15
संरब्धानां प्रवीराणां समरे दृढकर्मणाम् ।
तत्रासीत्सुमहाशब्दस्तुमुलो रोमहर्षणः ॥ ७.१२४.१५ ॥
在战斗中愤怒的勇士们,行动坚定,那里爆发出巨大、喧嚣、令人毛骨悚然的声响。
7.124.16
पाण्डवानां कुरूणां च गर्जतामितरेतरम् ।
क्ष्वेलाः किलकिलाशब्दास्तत्रासन्वै सहस्रशः ॥ ७.१२४.१६ ॥
般度之子与俱卢人相互咆哮之时,那里成千上万地响起了呼喝与“吉拉吉拉”的叫声。
7.124.17
भेरीशब्दाश्च तुमुला बाणशब्दाश्च भारत ।
अन्योन्यं निघ्नतां चैव नराणां शुश्रुवे स्वनः ॥ ७.१२४.१७ ॥
婆罗多之子啊!战鼓轰鸣,箭矢呼啸,互相击杀的人们的喊声也清晰可闻。
7.124.18
अथाक्रन्दन्भीसमेनो धृष्टद्युम्नश्च मारिष ।
नकुलः सहदेवश्च धर्मराजश्च पाण्डवः ॥ ७.१२४.१८ ॥
于是,尊贵者啊!他们高声呼唤毗湿摩、猛光、无种、偕天,以及般度之子法王。
7.124.19
आगच्छत प्रहरत द्रुतं विपरिधावत ।
प्रविष्टावरिसेनां हि वीरौ माधवपाण्डवौ ॥ ७.१२४.१९ ॥
来吧,迅速进攻,四处奔驰!英雄摩陀婆与般度之子已经冲入敌军之中。
7.124.20
यथा सुखेन गच्छेतां जयद्रथवधं प्रति ।
तथा प्रकुरुत क्षिप्रमिति सैन्यान्यचोदयन् ॥ ७.१२४.२० ॥
为了让他们能够轻松地奔向诛杀胜车的战场,就这样迅速去做——他如此激励了军队。
7.124.21
तयोरभावे कुरवः कृतार्थाः स्युर्वयं जिताः ॥ ७.१२४.२१ ॥
若没有他们二人,俱卢族便会达成目的,而我们则会被击败。
7.124.22
यत्र यातौ महात्मानौ तूर्णं परपुरञ्जयौ ।
ते यूयं सहिता भूत्वा तूर्णमेव बलार्णवम्।
क्षोभयध्वं महावेगाः पवनः सागरं यथा ॥ ७.१२४.२२ ॥
那两位征服敌城的大德之人已迅速奔赴之处,你们当合力迅速搅动这片兵海,如同狂风搅动大海,以极大的冲势。
7.124.23
भीमसेनेन ते राजन्पाञ्चाल्येन च नोदिताः ।
आजघ्नुः कौरवान्सङ्ख्ये त्यक्त्वाऽसूनात्मनः प्रियान् ॥ ७.१२४.२३ ॥
大王,在毕摩森那与般遮罗王子(持明)的激励下,他们在战场上舍弃了自己珍爱的性命,攻击了俱卢族人。
7.124.24
इच्छन्तो निधनं युद्धे शस्त्रैरुत्तमतेजसः ।
स्वर्गेप्सवो मित्रकार्ये नाभ्यनन्दन्त जीवितम् ॥ ७.१२४.२४ ॥
他们渴望在战斗中被兵器所杀,光辉卓越,追求天界,为朋友之事而奋战,不以自己的生命为乐。
7.124.25
तथैव तावका राजन्प्रार्थयन्तो महद्यशः ।
आर्यां युद्धे मतिं कृत्वा युद्धायैवावतस्थिरे ॥ ७.१२४.२५ ॥
大王啊,同样,你的战士们渴求伟大的名声,在战斗中下定高尚的决心,坚定地为战斗而站立。
7.124.26
तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे ।
जित्वा सर्वाणि सैन्यानि प्रायात्सात्यकिरर्जुनं ॥ ७.१२४.२६ ॥
在那场极其混乱而可怖的战斗正在进行时,萨提奇战胜了所有军队,向阿周那前进。
7.124.27
कवचानां प्रभास्तत्र सूर्यरश्मिविराजिताः ।
दृष्टीः सङ्ख्ये सैनिकानां प्रतिजघ्नुः समन्ततः।
ध्वजशस्त्रप्रतिहता लोकान्समवदीपयन् ॥ ७.१२४.२७ ॥
那里,铠甲的光辉映着阳光,在战斗中从四面八方晃花了士兵的眼睛;它撞上旗帜和兵器,照亮了所有世界。
7.124.28
चण्डवातोद्धतान्मेघान्विकिरन्रश्मिमानिव ।
तथा तव महत्सैन्यं तद्व्यरोचत तापयन् ॥ ७.१२४.२८ ॥
如同太阳驱散被猛烈狂风卷起的乌云而放射光芒,你的庞大军队也灼热地闪耀着。
7.124.29
सम्प्रहृष्टः स सहसा तव सैन्यार्णवं प्रति ।
लोलयन्सर्वतो गत्वा समुद्रं मकरो यथा ॥ ७.१२४.२९ ॥
他欣喜若狂,突然冲向你那如海洋般的大军,从四面八方搅动它,如同海中的摩伽罗搅动大海。
7.124.30
तत्र राजन्महानासीत्सङ्ग्रामो भीतिवर्धनः ।
पाण्डवस्य महाबाहो तावकानां च दारुणः ॥ ७.१२४.३० ॥
大王啊,那里发生了一场增加恐怖的大战;啊,大臂者,在般度之子与你的部下之间,那场战斗是何等惨烈。
7.124.31
रुद्रस्याक्रीडसङ्काशः संहारः सर्वदेहिनाम् ।
ततः शब्दो महानासीत्प्रायाद्यत्र धनञ्चयः ॥ ७.१२४.३१ ॥
那场毁灭如同楼陀罗的游戏,是一切有身众生的毁灭。那时,阿周那所往之处,响起了巨大的喧声。
7.124.32
तत्र स्म कदनं घोरं वर्तते पाण्डुपूर्वज ।
अर्जुनस्य महाबाहोस्तावकानां च धन्विनाम् ॥ ७.१२४.३२ ॥
那里,般度的后裔啊,大臂的阿周那与你的弓箭手之间正发生可怕的屠杀。
7.124.33
मध्ये भारतसैन्यस्य माधवस्य महारणे ।
द्रोणस्यापि परैः सार्धं व्यूहद्वारे सुदारुणम् ॥ ७.१२४.३३ ॥
在婆罗多军队的中央,在与摩陀婆的大战中,德罗纳也在阵门处与敌人进行了极其惨烈的战斗。
7.124.34
एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते ।
क्रुद्धेऽर्जुने तथा द्रोणे सात्वते च महारथे ॥ ७.१२४.३४ ॥
地上的毁灭就这样发生了,地之主啊,阿周那、德罗纳和大车手萨特瓦塔都已愤怒。
7.124.35
तथा प्रयतमानानां पाण्डवानां महात्मनाम् ।
दुर्योधनो महाराजन्व्यगाहत महद्बलम् ॥ ७.१२४.३५ ॥
同样,大王啊,难敌冲入了正在奋力作战的高尚般度五子的庞大军队。
7.124.36
स सन्निपातस्तुमुलस्तेषां तस्य च भारत ।
अभवत्सर्वभूतानामभावकरणो महान् ॥ ७.१२४.३६ ॥
婆罗多啊,他们与他之间的那场冲突变得喧嚣无比——一场导致一切众生毁灭的大冲突。
7.124.37
तथा यातेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् ।
कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् ॥ ७.१२४.३७ ॥
当军队前进、他自己陷入困境时,御者啊,难道难敌没有从战场上转身逃避吗?
7.124.38
एकस्य च बहूनां च सन्निपातो महाहवे ।
विशेषतो नरपतेर्विषमः प्रतिभाति मे ॥ ७.१२४.३८ ॥
在那场大战中,一人与众人发生了冲突;对于国王而言,我觉得这尤其不公平。
7.124.39
सोऽत्यन्तसुखसंवृद्धो लक्ष्म्या लोकस्य चेश्वरः ।
एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः ॥ ७.१२४.३९ ॥
他在极大的安逸中长大,凭借福运成为世界之主,难道他独自面对众人时没有转身逃避吗?
7.124.40
राजन्सङ्ग्राममाश्चर्यं तव पुत्रस्य भारत ।
एकस्य बहुभिः सार्धं शृणुष्व गदतो मम ॥ ७.१२४.४० ॥
国王啊,你儿子的那场战斗真是奇妙,婆罗多的后裔啊。请听我讲述他一人对众人的那场战斗。
7.124.41
दुर्योधनेन समरे पृतना पाण्डवी रणे ।
नलिनी द्वरिदेनेव समन्तात्प्रतिलोडिता ॥ ७.१२४.४१ ॥
在战斗中,难敌从四面八方搅乱了般度族的军队,如同大象搅乱莲花池。
7.124.42
ततस्तां प्रहतां सेनां दृष्ट्वा पुत्रेण ते नृप ।
भीमसेनपुरोगास्तं पाञ्चालाः समुपाद्रुवन् ॥ ७.१२४.४२ ॥
国王啊,看到军队被你的儿子打得溃败,以怖军为首的般遮罗人便向他冲去。
7.124.43
स भीमसेनं दशभिः शरैर्विव्याध पाण्डवम् ।
त्रिभिस्त्रिभिर्यमौ वीरौ धर्मराजं च सप्तभिः ॥ ७.१२४.४३ ॥
他用十支箭射中般遮人毗摩娑那,用三支箭射中两位勇士孪生兄弟,又用七支箭射中法王坚战。
7.124.44
विराटद्रुपदौ षद्भिः शतेन च शिखण्डिनम् ।
धृष्टद्युम्नं च विंशत्या द्रौपदेयांस्त्रिभिस्त्रिभिः ॥ ७.१२४.४४ ॥
他用各六支箭射中毗罗吒和德鲁帕达,用一百支箭射中始干低,用二十支箭射中猛光,用各三支箭射中黑公主之子。
7.124.45
शतशश्चापरान्योधान्सद्विपांश्च रथान्रणे ।
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ॥ ७.१२४.४५ ॥
他在战场上用猛烈的箭成百地射倒其他战士,以及连同象队的战车,如同震怒的死神毁灭众生。
7.124.46
न सन्दधद्विमुञ्चन्वा मण्डलीकृतकार्मुकः ।
अदृश्यत रिपून्निघ्नञ्छिक्षयाऽस्तबलेन च ॥ ७.१२४.४६ ॥
人们看不清他搭箭或放箭,他的弓弯成圆形,凭借技艺与神兵之力击杀敌人。
7.124.47
तस्य तान्निघ्नतः शत्रून्हेमपृष्ठं महद्धनुः ।
अजस्रं मण्डलीभूतं ददृशुः समरे जनाः ॥ ७.१२४.४७ ॥
他击杀那些敌人时,战场上的人们看见他那镶金背的大弓不停地旋转成圆形。
7.124.48
ततो युधिष्ठिरो राजा भल्लाभ्यामच्छिनद्धनुः ।
तव पुत्रस्य कौरव्य यतमानस्य संयुगे ॥ ७.१२४.४८ ॥
于是国王坚战用两支钺箭斩断了你的儿子的弓,俱卢之后啊,当时他正在战斗中奋力作战。
7.124.49
विव्याध चैनं दशभिः सम्यगस्तैः शरोत्तमैः ।
वर्म चाशु समासाद्य ते भित्त्वा क्षितिमाविशन् ॥ ७.१२४.४९ ॥
他用十支上好的箭射中了他;箭迅速到达铠甲,穿透后射入大地。
7.124.50
ततः प्रमुदिताः पार्थाः परिवव्रुर्युधिष्ठिरम् ।
यथा वृत्रवधे देवाः पुरा शक्रं महर्षयः ॥ ७.१२४.५० ॥
于是欢喜的般度之子们围绕着坚战,正如往昔杀死弗栗多时,诸神和大仙围绕着因陀罗一样。
7.124.51
ततोऽन्यद्धनुरादाय तव पुत्रः प्रतापवान् ।
तिष्ठेतिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ॥ ७.१२४.५१ ॥
于是你那威猛的儿子拿起另一张弓,喊着“站住,站住!”朝般度王冲去。
7.124.52
तमायान्तमभिप्रेक्ष्य तव पुत्रं महामृधे ।
प्रत्युद्ययुः समुदिताः पाञ्चाला जयगृद्धिनः ॥ ७.१२४.५२ ॥
在大战中看见你的儿子走来,渴望胜利的欢喜的般遮罗人便迎上前去。
7.124.53
तान्द्रोणः प्रतिजग्राह परीप्सन्युधि पाण्डवम् ।
चण्डवातोद्धुतान्मेघान्गिरिरम्बुमुचो यथा ॥ ७.१२४.५३ ॥
德罗纳想在战斗中保护般度之子,便迎战他们,如同降雨之山阻挡被狂风吹动的云朵。
7.124.54
तत्र राजन्महानासीत्सङ्ग्रामो रोमहर्षणः ।
पाण्डवानां महाबाहो तावकानां च संयुगे ॥ ७.१२४.५४ ॥
大王啊,那里发生了一场令人毛骨悚然的大战,发生在般度之子与你的军队之间,啊,大臂者。
7.124.55
रुद्रस्याक्रीडसदृशः संहारः सर्वदेहिनाम् ॥ ७.१२४.५५ ॥
那场毁灭如同楼陀罗的游戏,是一切有身众生的毁灭。
7.124.56
ततः शब्दो महानासीद्यातो येन धनञ्जयः ।
अतीव सर्वशब्देभ्यो रोमहर्षकरः प्रभो ॥ ७.१२४.५६ ॥
于是响起了财主(阿周那)发出的巨大声响,远比一切声音更令人毛骨悚然,主上啊。
7.124.57
अर्जुनस्य महाबाहो तावकानां च धन्विनाम् ।
मध्ये भारतसैन्यस्य माधवस्य महारणे।
द्रोणस्यापि परैः सार्धं व्यूहद्वारे महारणे ॥ ७.१२४.५७ ॥
啊,大臂者!在婆罗多军队中央,阿周那与你的射手之间,在与摩陀婆(黑天)的大战中;德罗纳也与敌人在阵门处,于大战之中。
7.124.58
एवमेष क्षयो वृत्तः पृथिव्यां पृथिवीपते ।
क्रुद्धेऽर्जुने तथा द्रोणे सात्वते च महारथे ॥ ७.१२४.५८ ॥
如此,地上之主啊,当阿周那、德罗纳以及大车战士萨特瓦塔愤怒之时,这场毁灭便降临大地。