Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.126

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.126.1

व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः ।
सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः ॥ ७.१२६.१ ॥

当般度之子在阵列中被冲散、四处溃乱时,普利塔之子与潘遮罗人连同索摩迦人远远地追随他们。

7.126.2

वर्तमाने तथा रौद्रे सङ्ग्रामे रोमहर्षणे ।
सङ्क्षये जगतस्तीव्रे युगान्त इव भारत ॥ ७.१२६.२ ॥

婆罗多啊,当这场可怕、令人毛骨悚然、使世界遭受剧烈毁灭的战斗正在进行时,仿佛是一个时代的终结。

7.126.3

द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः ।
पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु ॥ ७.१२६.३ ॥

德罗纳在战斗中勇猛前进,一再咆哮,而潘遮罗人与般度之子渐渐衰弱并被杀死之时。

7.126.4

नापश्यच्छरणं कञ्चिद्वर्मराजो युधिष्ठिरः ।
चिन्तयामास राजेन्द्र कथमेतद्भविष्यति ॥ ७.१२६.४ ॥

法王坚战看不到任何庇护。啊,王中之王,他开始思索这将如何发生。

7.126.5

ततो विक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया ।
युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम् ॥ ७.१२६.५ ॥

于是,坚战想看见左右开弓的阿周那,环顾四方,却既看不见帕尔塔,也看不见摩陀婆。

7.126.6

सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम् ।
गाण्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः ॥ ७.१२६.६ ॥

他看不见人中之虎、以猴中雄牛为标记的阿周那,也听不见甘狄拔弓的轰鸣;他的感官陷入了痛苦。

7.126.7

अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम् ।
चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः।
नाध्यगच्छत्तदा शान्ति तावपश्यन्नरोत्तमौ ॥ ७.१२६.७ ॥

法王坚战四肢被忧虑所笼罩,既未见到婆利尼族最优秀的战车武士萨提亚基,当时也得不到安宁,因为见不到那两位人中的最优者。

7.126.8

लोकोपक्रोशभीरुत्वाद्वर्मराजो महामनाः ।
अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति ॥ ७.१२६.८ ॥

因畏惧世人的非议,心胸宽广、双臂有力的法王想到了沙伊尼耶的战车。

7.126.9

पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे ।
शैनेयः सात्यकिः सत्यो मित्राणामभयङ्करः ॥ ७.१२६.९ ॥

我在战斗中派去追随法尔古那(阿周那)的沙伊尼耶萨提亚基,他诚实,是朋友无畏的保护者。

7.126.10

तदिदं ह्येकमेवासीद्द्द्विधा जातं ममाऽद्य वै ।
सात्यकिश्च हि विज्ञेयः पाण्डवश्च धनञ्जयः ॥ ७.१२६.१० ॥

那原本确实是一体;今日它在我眼中却分裂为二。萨提亚基与般度之子财富者(阿周那)应当被视为一体。

7.126.11

सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम् ।
सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम् ॥ ७.१२६.११ ॥

已派遣萨提亚基去追随般度之子,我又该在战斗中派谁去追随萨特瓦塔(萨提亚基)之路呢?

7.126.12

परिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि ।
युयुधानमनन्विष्य लोको मां गर्हयिष्यति ॥ ७.१२६.१२ ॥

若我努力去寻找兄弟,世人便会责备我未曾寻找尤尤丹纳(萨提亚基)。

7.126.13

भ्रातुरन्वेषणं कृत्वा धर्मपुत्रो युधिष्ठिरः ।
परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ॥ ७.१२६.१३ ॥

寻找兄弟之后,法之子坚战舍弃了毗湿尼后裔、勇力真实的萨谛奇。

7.126.14

लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम् ।
पदवीं प्रेषयिष्यामि माधवस्य महात्मनः ॥ ७.१२६.१४ ॥

出于对众人非议的畏惧,我将派遣般度之子(阿周那)与狼腹(怖军)走上伟大的摩陀婆之路。

7.126.15

यथैव च मम प्रीतिरर्जुने शत्रुमूदने ।
तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे ॥ ७.१२६.१५ ॥

噢,灭敌者,我对阿周那怀有的爱,也同样存在于在战中狂勇的毗湿尼英雄萨谛婆身上。

7.126.16

अतिभारे नियुक्तश्च मया शैनेयनन्दनः ।
स तु मित्रोपरोधेन गौरवात्तु महाबलः।
प्रविष्टो भारतीं सेनां मकरः सागरं यथा ॥ ७.१२६.१६ ॥

我托付以重任的śaineya之子萨谛奇,因顾念友人、出于敬重,这位大力者如摩羯鱼入海般,闯入了婆罗多军中。

7.126.17

असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम् ।
मिथः संयुध्यमानानं वृष्णिवीरेण धीमता ॥ ७.१२६.१७ ॥

那声音可闻——是不退缩的英雄们的声音,他们与智慧的毗湿尼英雄相互激战。

7.126.18

प्राप्तकालं सुबलवन्निश्चितं बहुधा हि मे ।
तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः।
गमनं रोचते मह्यं यत्र यातौ महारथौ ॥ ७.१२६.१८ ॥

时机已到,这也是我多方的坚定决心。我愿前往那位持弓的般度之子怖军所在之处——那两位大战车武士正是去了那里。

7.126.19

न चाप्यसह्यं भीमस्य विद्यते भुवि किञ्चिन ॥ ७.१२६.१९ ॥

对于婆罗门,大地上没有任何不能承受之事。

7.126.20

शक्तो ह्येष रणे यत्तः पृथिव्यां सर्वधन्विनाम् ।
स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा ॥ ७.१२६.२० ॥

他在战场上警觉,能够抵挡大地上所有的射手;依靠自己双臂的力量,他能轻易地破解敌军阵势。

7.126.21

यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः ।
वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः ॥ ७.१२६.२१ ॥

依靠那位大德者的臂力,他们全都从林中流放归来,且在战斗中从未被击败。

7.126.22

इतो गते भीमसेने सात्वतं प्रति पाण्डवे ।
सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ ॥ ७.१२६.२२ ॥

若婆罗门之子(比玛森那)从此处前往萨特瓦塔(克里希那)处,则萨特瓦塔与法尔古那(阿周那)在战斗中将有人护佑。

7.126.23

कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ ।
रक्षितौ वासुदेवेन स्वयं शस्त्रविशारदौ ॥ ७.१२६.२३ ॥

诚然,那两位萨特瓦塔与法尔古那(克里希那与阿周那)在战斗中不值得悲叹;他们由婆薮提婆亲自护佑,二人皆精通武器。

7.126.24

अवश्यं तु मया कार्यमात्मनः शोकनाशनम् ।
तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम् ॥ ७.१२६.२४ ॥

我必须去做能消除自身忧愁的事;因此我将派遣婆罗门之子(比玛森那)去追随萨特瓦塔(克里希那)的足迹。

7.126.25

ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति ।
एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः। ॥ ७.१२६.२५ ॥

那时我认为针对萨提亚基已有妥善的对策。法之子坚战心中如此决定后,

7.126.26

यन्तारमब्रवीद्राजा भीमं प्रति नयस्व माम् ॥ ७.१२६.२६ ॥

国王对御者说:"带我去见毗摩。"

7.126.27

धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः ।
रथं हेमपरिष्कारं भीमान्तिकमुपानयत् ॥ ७.१२६.२७ ॥

御者精通马术,听到法王的话后,把饰有黄金的战车带到毗摩身边。

7.126.28

भीमसेनमनुज्ञाप्य प्राप्तकालमचिन्तयत् ।
कश्मलं प्राविशद्राजा बहु तत्र समादिशत् ॥ ७.१२६.२८ ॥

得到毗摩森那的允许,考虑了合适的时机后,国王陷入忧乱,在那里发布了许多指示。

7.126.29

स कश्मलसमाविष्टो भीममाहूय पार्थिवः ।
अब्रवीद्वचनं राजन्कुन्तीपुत्रो युधिष्ठिरः। ॥ ७.१२६.२९ ॥

那位被忧乱所困的国王召唤毗摩,说道:"大王啊,"贡蒂之子坚战说出了这些话。

7.126.30

अब्रवीद्वचनं राजन्कुन्तीपुत्रो युधिष्ठिरः ।
यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत्। ॥ ७.१२६.३० ॥

贡蒂之子坚战说道:"大王啊,那位以一辆战车战胜诸天、乾达婆和阿修罗的人……"

7.126.31

तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते ।
ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम्।
नैवाद्राक्षं नचाश्रौषं तव कश्मलमीदृशम् ॥ ७.१२६.३१ ॥

毗摩娑那看到处于那种状态的法王,说道:我看不到毗摩娑那的幼弟(阿周那)的任何迹象。我从未见过或听说过你有这样的慌乱。

7.126.32

पुरातिदुःखदीर्णानां भवान्गतिरभूद्धि नः ।
उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते ॥ ७.१२६.३२ ॥

往昔我们被巨大的悲痛撕裂,你曾是我们的依靠。起来,起来,王中之王!请吩咐,我该为你做什么?

7.126.33

न ह्यसाध्यमकार्यं वा विद्यते मम मानद ।
आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः ॥ ७.१२६.३३ ॥

赐予尊荣者啊!对我而言没有做不到或不可做之事。库鲁之最,请吩咐,不要把心思放在悲伤上。

7.126.34

तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन् ।
भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः ॥ ७.१२६.३४ ॥

国王泪水盈眶,面容憔悴,像黑蛇一样喘息,对毗摩娑那说了这番话。

7.126.35

श्रूयते पाञ्चजन्यस्य यथा शङ्खस्य निस्वनः ।
पूरितो वासुदेवेन संरब्धेन यशस्विना ॥ ७.१२६.३५ ॥

可闻般若嗡之音(般遮耶那贝壳之声)响起,仿佛愤怒的光荣的婆苏提婆吹响了它。

7.126.36

नूनमद्य हतः शेते तव भ्राता धनञ्जयः ।
तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः ॥ ७.१२६.३६ ॥

想必你的兄弟财胜今日已经阵亡倒下;正因他已阵亡,那位生主(克里希那)才在作战。

7.126.37

यस्य सत्ववतो वीर्यं ह्युपजीवन्ति पाण्डवाः ।
यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः ॥ ७.१२६.३७ ॥

潘度之子依赖其勇力,于危难中投奔之,犹如众天神投奔千眼因陀罗。

7.126.38

स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम् ।
तस्य वै गमनं विद्मो भीम नावर्तनं पुनः ॥ ७.१२६.३८ ॥

此勇士欲得信度王,追随婆罗多军而去。婓摩啊,我们知其所往,却不知其复返。

7.126.39

श्यामो युवा गुडाकेशो दर्शनीयो महारथः ।
व्यूढोरस्को महाबाहुर्मत्तद्विरदविक्रमः ॥ ७.१२६.३९ ॥

肤色黝黑,年少,发浓密的阿周那,俊美可观,大车士,胸膛宽阔,臂膀有力,有如发情象般的勇武。

7.126.40

चकोरनेत्रस्ताम्रास्यो द्विषतां भयवर्धनः ।
मम प्रियहितार्थं च शक्रलोकादिहागतः ॥ ७.१२६.४० ॥

目如赤麦鸡,面色如铜,增长敌人之惧,为我的爱戴与利益,自因陀罗界来到此处。

7.126.41

वृद्धोपसेवी धृतिमान्कृतज्ञः सत्यसङ्गरः ।
प्रविष्टो महतीं सेनामपर्यन्तां धनञ्जयः ॥ ७.१२६.४१ ॥

侍奉长者、坚忍、知恩、信守誓言的财主(阿周那)进入了广大无边的大军。

7.126.42

प्रविष्टे च चमूं घोरामर्जुने शत्रुनाशने ।
प्रेषितः सात्वतो वीरः फल्गुनस्य पदानुगः ॥ ७.१२६.४२ ॥

当摧毁敌人的阿周那进入可怖的大军后,追随法尔古那足迹的英雄萨特瓦塔(萨提亚基)被派遣前去。

7.126.43

तस्याभिगमनं जाने भीम नावर्तनं पुनः ।
तदिदं मम भद्रं ते शोकस्थानमरिन्दम ॥ ७.१२६.४३ ॥

婆罗多之子啊,我知道他前去的消息,却不知他是否再次归来。这正是我悲痛的根源。愿你吉祥,征服敌人者啊。

7.126.44

अर्जुनार्थे महाबाहो सात्वतस्य च कारणात् ।
वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः ॥ ७.१२६.४४ ॥

为了阿周那,大臂者啊,也因萨谛奇的缘故,他一次又一次地增长,如同被祭品点燃的火焰。

7.126.45

तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम् ।
तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम् ॥ ७.१२६.४५ ॥

我看不到他的踪迹,因此心中迷乱。要知道他是人中之虎,萨谛奇也是大车手。

7.126.46

स तं महारथं पश्चादनुयातस्तवानुजम् ।
तमपश्यन्महाबाहुमदं विन्दामि कश्मलम् ॥ ७.१२६.४६ ॥

那位大车手紧随在你的幼弟身后。见不到那位大臂者,我心中感到这份迷乱。

7.126.47

अथैनं पुनराचक्ष्व लोहिताक्षं सकेशवम् ।
दृष्ट्वा कुशलिनं पार्थं सैन्धवान्ते ससात्यकिम् ॥ ७.१२६.४७ ॥

那么请再告诉我他的消息:那位红眼者,与克沙瓦同行,在信度之战结束时与萨谛奇一同安然无恙地被看到的阿周那。

7.126.48

संविदं मम कुर्यास्त्वं सिंहनादेन पाण्डव ॥ ७.१२६.४८ ॥

般度之子啊,请以狮吼给我一个信号。

7.126.49

नूनं विनिहतः शूरः सव्यासाची परन्तप ।
पार्थे तस्मिन्हते चैव युध्यते गरुडध्वजः ॥ ७.१२६.४९ ॥

英勇的左右开弓者(Savyasācin),敌人的焚烧者,想必已被杀死;那位持迦楼罗旗的人,在这位普利塔之子死后仍在战斗。

7.126.50

सहयो नास्य वै कश्चित्तेन विन्दामि कश्मलम् ।
तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः ॥ ७.१२६.५० ॥

他身边没有马匹,也没有其他同伴,因此我感到不安。所以精通战事的克里希那必定正在战场上作战。

7.126.51

न हि मे शुध्यते भावस्तयोरेव परन्तप ।
स तत्र गच्छ कौन्तेय यत्र यातो धनञ्जयः ॥ ७.१२६.५१ ॥

关于那两人,我的心无法平静,敌人的焚烧者。贡提之子啊,你去达南遮耶去过的地方吧。

7.126.52

सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे ।
वचनं मम धर्मज्ञ भ्राता ज्येष्ठो भवामि ते ॥ ७.१२६.५२ ॥

威力强大的萨提亚基啊,若你认为应当如此,精通法义者啊,请听我的话:我是你的长兄。

7.126.53

न मेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा ॥ ७.१२६.५३ ॥

对我而言,阿周那不像萨提亚基那样值得被了解。

7.126.54

चिकीर्षुर्मत्प्रियं पार्थ स यातः सव्यसाचिनः ।
पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः ॥ ७.१२६.५४ ॥

他想要为我做我所喜爱的事,普利塔之子啊,他走上了左右开弓者的道路——那是艰难可怖的道路,心未净化者无法到达。

7.126.55

दृष्ट्वा कुशलिनौ कृष्णौ सात्वतं चैव सात्यकिम् ।
संविदं चैव कुर्यास्त्वं सिंहनादेन पाण्डव ॥ ७.१२६.५५ ॥

见到安然无恙的两位黑天,以及萨都婆与萨谛奇之后,般度之子啊,你应以狮吼发出信号。