Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.129

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.129.1

निनदन्तं तथा तं तु भीमसेनं महाबलम् ।
मेघस्तनितनिर्घोषं के वीराः पर्यवारयन् ॥ ७.१२९.१ ॥

那位咆哮如云中雷鸣的大力怖军被哪些勇士所包围?

7.129.2

न हि पश्याम्यहं तं वै त्रिषु लोकेषु कञ्चन ।
क्रुद्धस्य भीमसेनस्य यस्तिष्ठेदग्रतो रणे ॥ ७.१२९.२ ॥

我在三界之中,看不到有谁能在战场上挡住愤怒的怖军。

7.129.3

गदां युयुत्समानस्य कालस्येवेह सञ्चय ।
न हि पश्याम्यहं युद्धे यस्तिष्ठेदग्रतः पुमान् ॥ ७.१२९.३ ॥

桑闪耶啊,我看不到有人能站在他面前——他挥舞铁棒求战,如同死神本身。

7.129.4

रथं रथेन यो हन्यात्कुञ्जरं कुञ्चरेण च ।
कस्तस्य समरे स्थाता साक्षादपि पुरन्दरः ॥ ७.१२९.४ ॥

谁能在战场上抵挡他——他以战车击战车,以象击象?即便是因陀罗本尊也不能吧。

7.129.5

क्रुद्धस्य भीमसेनस्य मम पुत्राञ्जिघांसतः ।
दुर्योधनहिते युक्ताः समतिष्ठन्त केऽग्रतः ॥ ७.१२९.५ ॥

愤怒的怖军想杀我的儿子们时,谁为了难敌的利益,坚定地挡在他面前?

7.129.6

भीमसेनदवाग्नेस्तु मम पुत्रांस्तृणोलपम् ।
प्रधक्ष्यतो रणमुखे केऽतिष्ठन्नग्रतो नराः ॥ ७.१२९.६ ॥

怖军如林火,正要在阵前将我的儿子们像草与芦苇一样焚烧,那时哪些人站在他面前?

7.129.7

काल्यमानांस्तु पुत्रान्मे दृष्ट्वा भीमस्य संयुगे ।
कालेनेव प्रजाः सर्वाः के भीमं पर्यवारयन् ॥ ७.१२९.७ ॥

见我的儿子们在战场上被毗摩所焚,如同时间吞噬一切众生,谁包围了毗摩?

7.129.8

न मेऽर्जुनाद्भयं तादृक्कृष्णान्नापि च सात्वतात् ।
हुतभुग्जन्मनो नैव यादृग्भीमाद्भयं मम ॥ ७.१२९.८ ॥

我对阿周那、黑天乃至萨多迦没有如此的恐惧;而对毗摩,我的恐惧如同火所生之物。

7.129.9

भीमवह्नेः प्रदीप्तस्य मम पुत्रान्दिधक्षतः ।
के शूराः पर्यवर्तन्त तन्ममाचक्ष्व सञ्जय ॥ ७.१२९.९ ॥

当毗摩这熊熊烈火欲焚我的儿子时,哪些勇士转身迎战?三摩阁耶啊,请告诉我。

7.129.10

तथा तु नर्दमानं तं भीमसेनं महाबलम् ।
तुमुलेनैव शब्देन कर्णोऽप्यभ्यद्रवद्बली ॥ ७.१२९.१० ॥

毗摩辛那大力者如此咆哮之时,强大的迦尔纳以喧嚣的声响冲向他。

7.129.11

व्याक्षिपन्सुमहच्चापमतिमात्रममर्षणः ।
कर्णः सुयुद्धमाकाङ्क्षन्दर्शयिष्यन्बलं मृधे ॥ ७.१२९.११ ॥

迦尔纳过度挥舞巨大的弓,急不可耐,渴望一场精彩的战斗,准备在战场上展示他的力量。

7.129.12

रुरोध मार्गं भीमस्य वातस्येव महीरुहः ।
भीमोऽपि दृष्ट्वा सावेगं पुरो वैकर्तनं स्थितम् ॥ ७.१२९.१२ ॥

如同大树阻挡风的去路,他拦住了毗摩的道路;毗摩见到迫近身前的伐嗣剌(迦尔纳)站立,也注视着他。

7.129.13

चुकोप बलवद्वीरश्चिक्षेपास्य शिलाशितान् ।
तान्प्रत्यगृह्णात्कर्णोऽपि प्रतीपं प्रापयच्छरान् ॥ ७.१२९.१३ ॥

英勇的怖军勃然大怒,向他射出在石上磨利的箭。迦尔纳也接住了它们,并将自己的箭射向这些箭。

7.129.14

ततस्तु सर्वयोधानां यतनां प्रेक्षतां तदा ।
प्रावेपन्निव गात्राणि कर्णभीमसमागमे ॥ ७.१२९.१४ ॥

那时,所有观看迦尔纳与怖军相遇的战士,身体都仿佛颤抖起来。

7.129.15

रथिनां सादिनां चैव तयोः श्रुत्वा तलस्वनम् ।
भीमसेनस्य निनदं श्रुत्वा घोरं रणाजिरे ॥ ७.१२९.१५ ॥

战场上,二人击掌的声音与怖军可怕的吼声传来,战车武士与骑兵也都听到了。

7.129.16

खं च भूमिं च संरुद्धां मेनिरे क्षत्रियर्षभाः ।
पुनर्घोरेण नादेन पाण्डवस्य महात्मनः ॥ ७.१२९.१६ ॥

刹帝利中的雄杰们以为,天空与大地都被伟大灵魂的般度之子那可怕的吼声充满了。

7.129.17

समरे सर्वयोधानां धनूंष्यभ्यपतन्क्षितौ ।
शस्त्राणि न्यपतन्दोर्भ्यः केषाञ्चिच्चासवोऽद्रवन् ॥ ७.१२९.१७ ॥

战斗中,所有战士的弓都坠落在地;武器从他们的手臂上滑落,有些人的生命之气也逃逸而去。

7.129.18

वित्रस्तानि च सर्वाणि शकृन्मूत्रं प्रसुस्रुवुः ।
वाहनानि च सर्वाणि बभूवुर्विमनांसि च ॥ ७.१२९.१८ ॥

所有坐骑都吓得屎尿齐流,所有的驾车牲畜都变得沮丧失魂。

7.129.19

प्रादुरासन्निमित्तानि घोराणि सुबहून्युत ।
गृध्रकङ्कबलैश्चासीदन्तरिक्षं समावृतम् ॥ ७.१२९.१९ ॥

出现了许多可怕的凶兆,天空被秃鹫、白鹭和鹰隼遮蔽。

7.129.20

तस्मिन्सुतुमुले राजन्कर्णभीमसमागमे ।
ततः कर्णस्तु विंशत्या शराणां भीममार्दयत् ॥ ७.१२९.२० ॥

大王啊,在迦尔纳与毗摩那场激烈的交锋中,迦尔纳以二十支箭射伤了毗摩。

7.129.21

विव्याध चास्य त्वरितः सूतं पञ्चभिराशुगैः ।
प्रहस्य भीमसेनोऽपि कर्णं प्रत्याद्रवद्रणे ॥ ७.१२९.२१ ॥

他迅速以五支快箭射中毗摩的御者;毗摩森那也笑着冲向战场上的迦尔纳。

7.129.22

सायकानां चतुः षष्ट्या क्षिप्रकारी महायशाः ।
तस्य कर्णो महेष्वासः सायकांश्चतुरोऽक्षिपत् ॥ ७.१२९.२२ ॥

那位行动敏捷、名声显赫的英雄——大弓箭手迦尔纳向他射出四支箭。

7.129.23

असम्प्राप्तांश्च तान्भीमः सायकैर्नतपर्वभिः ।
चिच्छेद बहुधा राजन्दर्शयन्पाणिलाघवम् ॥ ७.१२९.२३ ॥

毗摩以他自己的弯节箭将那些未能射中他的箭斩成许多段,大王啊,显示他手上的敏捷。

7.129.24

तं कर्णश्चादयामास शरव्रातैरनेकशः ।
सञ्छाद्यमानः कर्णेन बहुधा पाण्डुनन्दनः ॥ ७.१२९.२४ ॥

迦尔纳以一阵阵箭雨多次将他覆盖,而被迦尔纳以种种方式覆盖的般度之子……

7.129.25

चिच्छेद चापं कर्णस्य मुष्टिदेशे महारथः ।
विव्याध चैनं बहुभिः सायकैर्नतपर्वभिः ॥ ७.१२९.२५ ॥

大车士在握柄处斩断了迦尔纳的弓,并以许多带弯节的箭射中了他。

7.129.26

अथान्यद्धनुरादाय सञ्यं कृत्वा च सूतजः ।
विव्याध समरे भीमं भीमकर्मा महारथः ॥ ७.१२९.२६ ॥

随后,他拿起另一张弓并拉上弓弦,这位御者之子、行事可怖的大车士在战斗中射中了毗摩。

7.129.27

तस्य बीमो भृशं क्रुद्धस्त्रीञ्शरान्नतपर्वणः ।
निचखानोरसि क्रुद्धः सूतपुत्रस्य वेगतः ॥ ७.१२९.२७ ॥

于是毗摩大怒,以极大的力量将三支带弯节的箭射入了御者之子的胸膛。

7.129.28

तैः कर्णोऽराजत शरैरुरोमध्यगतैः सदा ।
महीधर इवोदग्रस्त्रिशृङ्गो भरतर्षभ ॥ ७.१२९.२८ ॥

那些射入胸膛正中的箭,使迦尔纳闪耀如一座高耸的三峰山,婆罗多的雄牛啊。

7.129.29

सुस्राव चास्य रुधिरं विद्धस्य परमेषुभिः ।
धातुप्रस्यन्दिनः शैलाद्यथा गैरिकधातवः ॥ ७.१२९.२९ ॥

他被最上乘的箭所射,鲜血流淌,如同山中流出的赭石矿脉。

7.129.30

किञ्चिद्विचलितः कर्णः सुप्रहाराभिपीडितः ।
आकर्णपूर्णमाकृष्य भीमं विव्याध सायकैः ॥ ७.१२९.३० ॥

迦尔纳稍有动摇,受到精准打击的压迫,将弓拉至耳边,以箭射中了毗摩。

7.129.31

चिक्षेप च पुनर्बाणाञ्शतशोऽथ सहस्रशः ।
स शरैरर्दितस्तेन कर्णेन दृढधन्विना।
धनुर्ज्यामच्छिनत्तूर्णं भीमस्तस्य क्षुरेण ह ॥ ७.१२९.३१ ॥

迦尔纳又射出成百上千支箭。被坚弓迦尔纳的箭所困扰的怖军,立即用一支利刃箭切断了他弓弦。

7.129.32

सारथिं चास्य भल्लेन रथनीडादपातयत् ।
वाहांश्च चतुरस्तस्य व्यसूंश्चक्रे महारथः ॥ ७.१२९.३२ ॥

大战车手怖军以阔头箭将他的御者射下车座,并使他的四匹马毙命。

7.129.33

हताश्वात्तु रथात्कर्णः समाप्लुत्य विशाम्पते ।
स्यन्दनं वृषसेनस्य तूर्णमापुप्लुवे भयात् ॥ ७.१२९.३३ ॥

人主啊,他的马被杀之后,迦尔纳从车上跳下,因恐惧而迅速跳上了跋利舍那的战车。

7.129.34

निर्जित्य तु रणे कर्णं भीमसेनः प्रतापवान् ।
ननाद बलवान्नादं पर्जन्यनिनदोपमम् ॥ ७.१२९.३४ ॥

怖军在战斗中战胜了迦尔纳,这位威猛有力的勇士发出了如雨云雷鸣般的吼声。

7.129.35

तस्य तं निनदं श्रुत्वा प्रहृष्टोऽभूद्युधिष्ठिरः ।
कर्णं पराजितं मत्वा भीमसेनेन संयुगे ॥ ७.१२९.३५ ॥

听到他的吼声,坚战非常高兴,以为迦尔纳已被怖军在战斗中击败。

7.129.36

समन्ताच्छङ्खनिनदं पाण्डुसेनाऽकरोत्तदा ।
शत्रुसेनाध्वनिं श्रुत्वा तावका ह्यनदन्भृशम् ॥ ७.१२९.३६ ॥

于是四面八方,般度军吹响了螺号。听到敌军的那声音,你方的战士大声呼喊起来。

7.129.37

स शङ्खबाणनिनदैर्हर्षाद्राजा स्ववाहिनीम् ।
चक्रे युधिष्ठिरः सङ्ख्ये हर्षनादैश्च सङ्कुलाम्
गाण्डीवं व्याक्षिपत्पार्थः कृष्णोऽप्यब्जमवादयत् ॥ ७.१२९.३७ ॥

于是国王坚战在海螺与箭矢的轰鸣中欢喜不已,在战场上以欢呼之声充满其军。阿周那拉动并抖动甘狄拔神弓,黑天也吹响了海螺。

7.129.38

तमन्तर्धाय निनदं भीमस्य नदतो ध्वनिः ।
अश्रूयत तदा राजन्सर्वसैन्येषु दारुणः ॥ ७.१२९.३८ ॥

大王啊,那喧声被掩盖,于是毗摩的怒吼之可怖声响在所有军队中被听到。

7.129.39

ततो व्यायच्छतामस्त्रैः पृथक्पृथगजिह्मगैः ।
मृदुपूर्वं तु राधेयो दृढपूर्वं तु पाण्डवः ॥ ७.१२९.३९ ॥

于是,各自拉弓,以笔直的箭矢分别发出武器:罗陀之子(迦尔纳)起初柔和,般度之子起初猛烈。

7.129.40

भीमोऽपि च महाराज वैकर्तनमुपाद्रवत् ।
आसुरे तु महासैन्ये तारकं पावकिर्यथा ॥ ७.१२९.४० ॥

大王啊,毗摩也冲向毗迦尔塔那(迦尔纳),正如火神之子(塞建陀)在阿修罗大军中扑向塔拉卡。

7.129.41

तयोरेवं महद्युद्धमभवद्भीमकर्णयोः ।
तं भीमसेनो महता शरवर्षेण वारयन् ॥ ७.१२९.४१ ॥

如此,毗摩与迦尔纳之间爆发了大战。毗摩森那以箭的大雨阻挡他,

7.129.42

विव्याध सारथिं चास्य हयांश्च चतुरः शरैः ।
ध्वजं चास्य पताकां च भल्लैः सन्नतपर्वभिः।
रथं च चक्ररक्षौ च भीमश्चिच्छेद मारिष ॥ ७.१२९.४२ ॥

他以箭射伤其御者与四匹马;又以节部弯曲的阔头箭,哦尊者,毗摩斩断了他的旗幡、小旗、战车以及两名车轮护卫。

7.129.43

कर्णोऽपि रथिनां श्रेष्ठो भीमसेनेन कम्पितः ।
खङ्गचर्मधरो राजन्भीममभ्यद्रवद्बली ॥ ७.१२९.४३ ॥

车战者中最优秀的迦尔纳,也被怖军所震慑,王啊,他手持剑与盾,勇猛地冲向怖军。

7.129.44

भीमश्चिच्छेद खङ्गं च चर्मणा सह मारिष ॥ ७.१२९.४४ ॥

怖军连同盾牌一起斩断了剑,尊贵者啊。

7.129.45

दृष्ट्वा कर्णं च पार्थेन बाधितं बहुभिः शरैः ।
दुर्योधनो महाराज दुश्शलं प्रत्यभाषत।
कर्णं कृच्छ्रगतं पश्य शीघ्रं यानं प्रयच्छह ॥ ७.१२९.४५ ॥

大王啊,杜尔约达那见迦尔纳被普利塔之子的众多箭所困,便对难降说:“看迦尔纳陷于危难,快给他一辆战车。”

7.129.46

एवमुक्तस्ततो राज्ञा दुश्शलः समुपाद्रवत् ।
दुश्शलस्य रथं कर्णश्चारुरोह महारथः ॥ ७.१२९.४६ ॥

国王如此吩咐后,难降立即赶来;大车手迦尔纳便登上了难降的战车。

7.129.47

तौ पार्थः सहसा गत्वा विव्याध दशभिः शरैः ।
पुनश्च कर्णं विद्ध्वाऽपि दुश्शलस्य शिरोऽहरत् ॥ ७.१२९.४७ ॥

普利塔之子突然前进,以十支箭射穿两人;再次射中迦尔纳后,他斩下了难降的头颅。

7.129.48

दुश्शलं निहतं दृष्ट्वा भीमसेनेन मारिष ।
तस्यैव धनुरादाय कर्णो विव्याध पाण्डवम् ॥ ७.१२९.४८ ॥

尊贵者啊,见难降被怖军杀死,迦尔纳便取过他的弓,射穿了般度之子。

7.129.49

अन्योन्यं समरे वीरौ युयुधाते महाबलौ ।
शत्रुघ्नौ शत्रुमध्ये तु बलवज्रभृताविव ॥ ७.१२९.४९ ॥

二位英雄在战场上彼此交战,二人都有大力,都是杀敌者,在敌人中间如同两位执金刚者。

7.129.50

भीमो विद्धा हयांश्चैव सारथिं च पुनः पुनः ।
कर्णमभ्यद्रवत्पार्थः प्रहसंश्च महाबलः ॥ ७.१२९.५० ॥

毕摩反复射穿马匹与御者,大力的般度之子(毕摩)笑着向迦尔纳冲去。

7.129.51

ततो व्यायच्छमानस्य भीमसेनस्य संयुगे ।
तत्सैन्यं कलिलीभूतं न प्राज्ञायत किञ्चन ॥ ७.१२९.५१ ॥

当毕摩色那在战斗中奋力拼搏时,那支军队陷入混乱,什么也辨认不清了。