摩诃婆罗多 · 章 7.132
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.132.1
स्वयं शिष्यो महेशस्य भृगूत्तमधनुर्धरः ।
शिष्यत्वं प्राप्तवान्कर्णस्तस्य तुल्योऽस्त्रविद्यया ॥ ७.१३२.१ ॥
他自己是大自在天的弟子,也是持弓的婆利古族最杰出者的弟子;迦尔纳成为弟子,并在武器之学上与其相等。
7.132.2
तद्विशिष्टोऽपि वा कर्णः शिष्यः शिष्यगुणैर्युतः ।
कुन्तीपुत्रेण भीमेन निर्जितः स तु लीलया ॥ ७.१३२.२ ॥
迦尔纳即使超越那位老师,具备弟子的品德,却被贡蒂之子毗摩轻易击败。
7.132.3
यस्मिञ्जयाशा महती पुत्राणां मम सञ्जय ।
तं भीमाद्विमुखं दृष्ट्वा किन्नु दुर्योधनोऽब्रवीत् ॥ ७.१३२.३ ॥
桑迦雅啊,当那位寄托了我儿们大胜希望的人被看到从毗摩面前转身离去时,难敌说了什么?
7.132.4
कथं च युयुधे भीमो वीर्यश्लाघी महाबलः ॥ ७.१३२.४ ॥
那以勇力自夸、大力无比的毗摩是如何战斗的?
7.132.5
कर्णो वा समरे तात किमकार्षीदतः परम् ।
भीमसेनं रणे दृष्ट्वा ज्वलन्तमिव पावकम् ॥ ७.१३२.५ ॥
孩子啊,迦尔纳在战斗中又做了什么?他看到毗摩森那在战场上像火一样燃烧之后?
7.132.6
रथमन्यं समास्थाय विधिवत्कल्पितं पुनः ।
अभ्ययात्पाण्डवं कर्णो वातोद्धूत इवार्णवः ॥ ७.१३२.६ ॥
迦尔纳登上另一辆按规制重新备好的战车,如被风激起的大海一般,向般度之子冲去。
7.132.7
क्रुद्धमाधिरथिं दृष्ट्वा पुत्रास्तव विशाम्पते ।
भीमसेनममन्यन्त वैश्वानरमुखे हुतम् ॥ ७.१३२.७ ॥
人主啊,你的儿子们见愤怒的阿提罗陀之子(迦尔纳), 便以为婆罗多之子毗摩已被投入火神之口作为祭品。
7.132.8
चापशब्दं ततः कृत्वा तलशब्दं च भैरवम् ।
अभ्यद्रवत राधेयो भीमसेनरथं प्रति ॥ ७.१३२.८ ॥
随后,他拉弓发出弓弦之声,又拍出可怖的掌声, 罗陀之子(迦尔纳)便朝毗摩的战车冲去。
7.132.9
पुनरेव तयो राजन्घोर आसीत्समागमः ।
वैकर्तनस्य शूरस्य भीमस्य च महात्मनः ॥ ७.१३२.९ ॥
人主啊,那位毗迦尔塔那之子英勇的迦尔纳与伟大的毗摩之间, 又发生了一场可怕的遭遇战。
7.132.10
संरब्धौ हि महाबाहू परस्परवधैषिणौ ।
अन्योन्यभीक्षाञ्चक्राते दहन्ताविव लोचनैः ॥ ७.१३२.१० ॥
两位怒火中烧、彼此都想置对方于死地的大臂勇士, 不断地互相凝视,仿佛要用目光将对方烧尽。
7.132.11
क्रोधरक्रेक्षणौ तीव्रौ निःश्वसन्ताविवोरगौ ।
शूरावन्योन्यमासाद्य ततक्षतुररिन्दमौ ॥ ७.१३२.११ ॥
两位勇士怒目赤红,喘息如毒蛇,皆是制伏敌人的英雄, 他们相遇后便互相攻击。
7.132.12
व्याघ्राविव सुसंरब्धौ श्येनाविव च शीघ्रगौ ।
शरभाविव सङ्क्रुद्धौ युयुधाते परस्परम् ॥ ७.१३२.१२ ॥
如同盛怒的猛虎,如同迅捷的鹰隼,如同愤怒的沙罗跋, 两人彼此相互搏斗。
7.132.13
ततो भीमः स्मरन्क्लेशानक्षद्यूते वनेऽपि च ।
विराटनगरे चैव दुःखं प्राप्तमरिन्दमः ॥ ७.१३२.१३ ॥
于是,降伏敌人的毗摩追忆在赌博、森林中以及毗罗吒城所遭受的苦难,
7.132.14
राष्ट्राणां स्फीतरत्नानां हरणं च तवात्मजैः ।
सततं च परिक्लेशान्सपुत्रेण त्वया कृतान् ॥ ७.१३२.१४ ॥
你的儿子们掠夺珍宝丰富的王国,以及你与你的儿子不断施加的严重苦难。
7.132.15
दग्धुमैच्छश्च यः कुन्तीं सपुत्रां त्वमनागसम् ।
कृष्णायाश्च परिक्लेशं सभामध्ये दुरात्मभिः ॥ ७.१३२.१५ ॥
你想要焚烧无辜的昆提及其儿子们,还有恶人在大厅中间给黑天女所造成的苦难。
7.132.16
केशपक्षग्रहं चैव दुःशासनकृतं तथा ।
परुषाणि च वाक्यानि कर्णोनोक्तानि भारत ॥ ७.१३२.१६ ॥
难降所做的抓扯头发与发辫之事,以及迦尔纳所说的粗暴言语,啊,婆罗多。
7.132.17
पतिमन्यं परीप्सस्व न सन्ति पतयस्तव ।
पतिता नरके पार्थाः सर्वे षण्डतिलोपमाः ॥ ७.१३२.१७ ॥
去寻找另一个丈夫吧;你没有丈夫。普利塔的儿子们都已堕入地狱,如同阉人,如芝麻般毫无价值。
7.132.18
समक्षं तव कौरव्य यदूचुः कौरवास्तदा ।
दासीभावेन कृष्णां च भोक्तुकामाः सुतास्तव ॥ ७.१३२.१८ ॥
啊,俱卢之后裔,当时在你眼前,俱卢人所说的话,以及你的儿子们想把黑天女变作奴婢加以享用时所说的话。
7.132.19
यच्चापि तान्प्रव्रजतः कृष्णाजिननिवासिनः ।
परुषाण्युक्तवान्कर्णः सभायां सन्निधौ तव ॥ ७.१३२.१९ ॥
当他们身着鹿皮离去时,迦尔纳在您的集会上、在您面前对他们说了严厉的话。
7.132.20
तृणीकृत्य च यत्पार्थांस्तव पुत्रो ववल्ग ह ।
विषमस्थान्समस्थो हि संरब्धो गतचेतनः ॥ ७.१३२.२० ॥
您的儿子视般度之子如草芥,傲慢地蹦跳,站在平地上,怒火中烧、失去理智,面对那些立于险地的人。
7.132.21
बाल्यात्प्रभृति चारिघ्नः स्वानि दुःखानि चिन्तयन् ।
निरविद्यत धर्मात्मा जीवितेन वृकोदरः ॥ ७.१३२.२१ ॥
自幼年起,这位法德兼备、诛灭敌人的狼腹(毗摩)思念自己的苦难,甚至厌倦了生命。
7.132.22
ततो विष्फार्य सुमहद्धेमपृष्ठं दुरासदम् ।
चापं भरतशार्दूलस्त्यक्तात्मा कर्णमभ्ययात् ॥ ७.१३२.२२ ॥
于是,婆罗多族中的猛虎舍弃了自身的性命,将那金背、难以抵挡的巨弓拉满,朝迦尔纳逼近。
7.132.23
स सायकयैर्जालैर्भीमः कर्णरथं प्रति ।
भानुमद्भिः शिलाधौतैर्भानोः प्राच्छादयत्प्रभां ॥ ७.१३२.२३ ॥
毗摩用磨砺于石上、光芒闪耀的箭网覆盖了迦尔纳的战车,仿佛遮住了太阳的光辉。
7.132.24
ततः प्रहस्याधिरथिस्तूर्णमस्यञ्शिताञ्शरान् ।
व्यधमद्भीमसेनस्य शरजालानि पत्रिभिः ॥ ७.१३२.२४ ॥
于是,阿底罗陀之子笑着迅速射出锐利的箭,以自己的箭粉碎了毗摩森那的箭网。
7.132.25
महारथो महाबाहुर्महाबाणैर्महाबलः ।
विव्याधाधिरथिर्भीमं नवभिर्निशितैस्तदा ॥ ७.१३२.२५ ॥
大车将、大臂、大力的阿提罗陀之子(迦尔纳)随即以九支锐利的大箭射穿了怖军。
7.132.26
स तोत्रैरिव मातङ्गो वार्यमाणः पतत्त्रिभः ।
अभ्यधावदसम्भ्रान्तः सूतपुत्रं वृकोदरः ॥ ७.१३२.२६ ॥
如象被钩杆所制,怖军虽被箭矢所阻却毫不慌乱,向御者之子冲去。
7.132.27
तमापतन्तं वेगेन रभसं पाण्डवर्षभम् ।
कर्णः प्रत्युद्ययौ युद्धे मत्तो मत्तमिव द्विपम् ॥ ७.१३२.२७ ॥
迦尔纳在战场上迎向那疾速而狂奔而来的般度族雄牛,如同狂象迎战另一头狂象。
7.132.28
ततः प्रध्याप्य जलजं भेरीशतसमस्वनम् ।
अक्षुभ्यत बलं हर्षादुद्धूत इव सागरः ॥ ७.१३२.२८ ॥
于是吹响如百鼓之声的海螺,大军因欢喜而骚动,如同掀起波涛的大海。
7.132.29
तदुद्धूतं बलं दृष्ट्वा नागाश्वरथपत्तिमत् ।
भीमः कर्णं समासाद्य च्छादयामास सायकैः ॥ ७.१३२.२९ ॥
怖军见那由象、马、车、步兵组成的大军骚动,便逼近迦尔纳,以箭矢将其遮蔽。
7.132.30
अश्वानृक्षसवर्णांश्च हंसवर्णैर्हयोत्तमैः ।
व्यामिश्रयद्रणे कर्णः पाण्डवं छादयञ्छरैः ॥ ७.१३२.३० ॥
迦尔纳在战斗中使熊色之马与天鹅色的良马混杂错乱,并以箭矢覆盖般度之子。
7.132.31
ऋक्षवर्णान्हयान्कर्कैर्मिश्रान्मारुतरंहसः ।
निरीक्ष्य तव पुत्राणां हाहाकृतमभूद्बलम् ॥ ७.१३२.३१ ॥
看见熊色、疾如风的马与灰黑色的马混杂在一起,你儿子们的军队陷入一片惊呼之中。
7.132.32
ते हया बह्वशोभन्त मिश्रिता वातरंहसः ।
सितासिता महाराज यथा व्योम्नि वलाहकाः ॥ ७.१३२.३२ ॥
大王啊,那些疾如风的马相互混杂,如天空中的白云与黑云般闪耀。
7.132.33
संरब्धौ क्रोधताम्राक्षौ प्रेक्ष्य कर्णवृकोदरौ ।
सन्त्रस्ताः समकम्पन्त त्वदीयानां महारथाः ॥ ७.१३२.३३ ॥
看见两位愤怒、双眼因怒火而发红的迦尔纳与狼腹(婆罗),你的大车战士们惊恐地颤抖起来。
7.132.34
यमराष्ट्रोपमं घोरमासीदायोधनं तयोः ।
दुर्दर्शं भरतश्रेष्ठ प्रेतराजपुत्रं यथा ॥ ७.१३२.३४ ॥
婆罗多族中最优秀的人啊,他们二人的战场变得如阎摩之国般可怖,难以目睹,如同死王之子一般。
7.132.35
समाजमिव तच्चित्रं प्रेक्षमाणा महारथाः ।
नालक्षयञ्जयं व्यक्तमेकस्यैव महारणे ॥ ७.१३२.३५ ॥
这一奇异景象如同集会一般,诸位大车战士观望着,却看不出那场大战中究竟谁有明显的胜利。
7.132.36
तयोः प्रैक्षन्त सम्मर्दं सन्निकृष्टं महास्त्रयोः ।
तव दुर्मन्त्रिते राजन्सपुत्रस्य विशाम्पते ॥ ७.१३२.३६ ॥
君王啊,人主啊,由于你儿子的恶劣谋划,人们目睹了那两位大武器大师的近身交锋。
7.132.37
छादयन्तौ हि शत्रुघ्नावन्योन्यं सायकैः शितैः ।
शरजालावृतं व्योम चक्रातेऽद्भुतविक्रमौ ॥ ७.१३२.३७ ॥
两位诛灭敌人、武艺非凡的勇士以利箭相互遮蔽,使天空被箭网笼罩。
7.132.38
तावन्योन्यं जिघांसन्तौ शरैस्तीक्ष्णैर्महारथौ ।
प्रेक्षणीयतरावास्तां वृष्टिमन्ताविवाम्बुदौ ॥ ७.१३२.३८ ॥
两位大车战士想以利箭互相杀死,却因此更加值得一看,如同两朵降雨的云。
7.132.39
सुवर्णविकृतान्वाणान्विमुञ्चन्तावरिन्दमौ ।
भास्वरं व्योम चक्राते महोल्काभिरिव प्रभो ॥ ७.१३२.३९ ॥
二位制服敌人的勇士射出饰以黄金的箭,主上啊,使天空如被巨大流星照亮般灿烂。
7.132.40
ताभ्यां मुक्ताः शरा राजन्गार्ध्रपत्राश्चकाशिरे ।
श्रेण्यः शरदि मत्तानां सारसनामिवाम्बरे ॥ ७.१३२.४० ॥
大王啊,他们二人射出的鹫羽之箭在天空中闪耀,如同秋天里成行的醉鹤。
7.132.41
संसक्तं सूतपुत्रेण दृष्ट्वा भीममरिन्दमम् ।
अतिभारममन्येतां भीमे कृष्णधनञ्जयौ ॥ ७.१३२.४१ ॥
二人看到制服敌人的怖军与御者之子激战,克里希那与财天认为这对怖军是极重的负担。
7.132.42
तत्राधिरथिभीमाभ्यां शरैर्मुक्तैर्दृढं हताः ।
इषुपातमतिक्रम्य पेतुरश्वनरद्विपाः ॥ ७.१३२.४२ ॥
在那里,被御者之子与怖军所射的箭重重击倒的马、人与象,越过箭程之后倒地。
7.132.43
पतद्भिः पतितैश्चान्यैर्गतासुभिरनेकशः ।
कृतो राजन्महाराज पुत्राणां ते जनक्षयः ॥ ७.१३२.४३ ॥
被倒下者、已倒者以及其他失去生命者,以多种方式,大王啊,大王啊,你的儿子们遭受了大规模的杀戮。
7.132.44
मनुप्याश्वगजानां च शरीरैर्गतजीवितैः ।
क्षणेन भूमिः सञ्जज्ञे संवृता भरतर्षभ ॥ ७.१३२.४४ ॥
顷刻之间,大地被失去生命的人、马和象的尸体所覆盖,婆罗多族的雄牛啊。