摩诃婆罗多 · 章 7.134
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.134.1
सर्वथा विरथः कर्णः पुनर्भीमेन निर्जितः ।
रथमन्यं समास्थाय पुनर्विव्याध पाण्डवम् ॥ ७.१३४.१ ॥
迦尔纳失去了战车,再次被毗摩击败;他又登上另一辆战车,再次射伤了般度之子。
7.134.2
महागजाविवासाद्य विषाणाग्रैः परस्परम् ।
शरैः पूर्णायतोत्सृष्टैरन्योन्यमभिजघ्नतुः ॥ ७.१३४.२ ॥
如同两头大象相遇,以象牙尖互相抵触,他们用满弓射出的箭互相攻击。
7.134.3
अथ कर्णः शरव्रातैर्भीमसेनं समार्पयत् ।
ननाद च महानादं पुनर्विव्याध चोरसि ॥ ७.१३४.३ ॥
于是迦尔纳以箭雨全力攻击毗摩色那,发出巨大吼声,又射中他的胸膛。
7.134.4
तं भीमो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः ।
पुनर्विव्याध सप्तत्या शराणां नतपर्वणाम् ॥ ७.१३४.४ ॥
毗摩以十支直飞的箭还击他,又以七十支节部弯曲的箭再次射中他。
7.134.5
कर्णस्तु नवभिर्भीमं भित्त्वा राजंस्तनान्तरे ।
ध्वजमेकेन विव्याध विशोकं च त्रिभिः शरैः ॥ ७.१३४.५ ॥
迦尔纳以九支箭射穿毗摩,王啊,射中他的两胸之间;一支射中旗帜,三支也射中了毗首伽。
7.134.6
सायकानां ततः पार्थस्त्रिषष्ट्या प्रत्यविध्यत ।
तोत्रैरिव महानागं कशाभिरिव वाजिनम् ॥ ७.१३४.६ ॥
于是普利塔之子以六十三支箭还击,如同用钩杖驱赶大象,用鞭子驱赶马匹。
7.134.7
सोऽतिविद्धो महाराज पाण्डवेन यशस्विना ।
सृक्विणी लेलिहन्वीरः क्रोधरक्तान्तलोचनः ॥ ७.१३४.७ ॥
大王啊,那位英雄被荣耀的般度之子重创,怒红的眼角,舔着嘴角。
7.134.8
ततः शरं महाराज सर्वकायावदारणम् ।
प्राहिणोद्भीमसेनाय बलायेन्द्र इवाशनिम् ॥ ७.१३४.८ ॥
然后,大王,他向毗摩西那射出一支能穿透全身的箭,如因陀罗以力投出雷电。
7.134.9
स निर्भिद्य रणे पार्थं सूतपुत्रधनुश्च्युतः ।
अगच्छद्दारयन्भूमिं चित्रपुङ्खः शिलीमुखः ॥ ७.१३४.९ ॥
那支由御者之子之弓射出的箭,在战场上穿透了帕尔塔,以彩色羽尾,劈开大地而去。
7.134.10
ततो भीमो महाबाहुः क्रोधसंरक्तलोचनः ।
वज्रकल्पां चतुष्किष्कुं गुर्वी रुक्माङ्गदां गदाम्।
प्राहिणोत्मूतपुत्राय षडस्रामविचारयन् ॥ ७.१३४.१० ॥
于是大臂毗摩,怒红双目,毫不犹豫地向御者之子投出一柄如金刚般的重槌,长四肘,沉重,饰有金环,六棱。
7.134.11
तया जघानाधिरथेः सदश्वान्साधुवाहिनः ।
गदया भारतः क्रुद्धो वज्रेणेन्द्र इवासुरान् ॥ ७.१३४.११ ॥
那愤怒的婆罗多以此重槌击杀了阿提罗陀之子的良马,正如因陀罗以金刚击杀阿修罗。
7.134.12
ततो भीमो महाबाहुः क्षुराभ्यां भरतर्षभ ।
ध्वजमाघिरथेश्छित्त्वा सूतमभ्यहनच्छरैः ॥ ७.१३४.१२ ॥
于是,婆罗多族之牛啊,大臂毗摩以剃刀般锋利的箭斩断了阿提罗陀之子的旗帜,并以箭射伤了御者。
7.134.13
हताश्वसूतमुत्सृज्य स रथं पतितध्वजम् ।
विष्फारयन्धनुः कर्णस्तस्थौ भारत दुर्मनाः ॥ ७.१३४.१३ ॥
婆罗多之子啊,马匹和御者已被杀死,迦尔纳舍弃了那辆旗帜倒下的战车,心怀忧愁,站立着拉开弓弦。
7.134.14
तत्राद्भुतमपश्याम राधेयस्य पराक्रमम् ।
विरथो रथिनां श्रेष्ठो वारयामास यद्रिपुम् ॥ ७.१३४.१४ ॥
在那里,我们看到了罗陀之子迦尔纳的非凡勇武:他虽无战车,车士中的第一人仍阻住了敌人。
7.134.15
विरथं तं नरश्रेष्ठं दृष्ट्वाऽऽधिरथिमाहवे ।
दुर्योधनस्ततो राजन्नभ्यभाषत दुर्मुखम् ॥ ७.१३४.१५ ॥
大王啊,见到那位在战场上失去战车的人中俊杰,御者之子(迦尔纳),难敌便对难降说道。
7.134.16
एष दुर्मुख राधेयो भीमेन विरथीकृतः ।
तं रथेन नरश्रेष्ठ सम्पादय महारथम् ॥ ७.१३४.१६ ॥
难降啊,这位罗陀之子迦尔纳已被毗摩弄得无车了。人中俊杰啊,为这位大车士备好一辆战车吧。
7.134.17
ततो दुर्योधनवचः श्रुत्वा भारत दुर्मुखः ।
त्वरमाणोऽभ्ययात्कर्णं भीमं चावारयच्छरैः ॥ ७.१३४.१७ ॥
婆罗多之子啊,难降听了难敌的话,急忙奔向迦尔纳,并以箭也阻住了毗摩。
7.134.18
दुर्मुखं प्रेक्ष्य सङ्ग्रामे सूतपुत्रपदानुगम् ।
वायुपुत्रः प्रहृष्टोऽभूत्सृक्विणी परिसंलिहन् ॥ ७.१३४.१८ ॥
在战场上见难降追随御者之子的脚步,风之子(毗摩)大为欢喜,并舔着嘴角。
7.134.19
ततः कर्णं महाराज वारयित्वा शिलीमुखैः ।
दुर्मुखाय रथं तूर्णं प्रेषयामास पाण्डवः ॥ ७.१३४.१९ ॥
大王,般度之子以箭阻挡迦尔纳后,迅速将战车驶向难降。
7.134.20
तस्मिन्क्षणे महाराज नवभिर्नतपर्वभिः ।
सुमुखैर्दुर्मुखं भीमः शरैर्निन्ये यमक्षयम् ॥ ७.१३४.२० ॥
大王,就在那一刻,毗摩以九支弯曲节处精美的箭,将难降送往阎摩之境。
7.134.21
ततस्तमेवाधिरथिः स्यन्दनं दुर्मुखे हते ।
आस्थितः प्रबभौ राजन्दीप्यमान इवांशुमान् ॥ ७.१३४.२१ ॥
难降被杀后,阿底罗陀之子登上同一辆战车,大王啊,光芒如灼热的太阳。
7.134.22
शयानं भिन्नमर्माणं दुर्मुखं शोणितोक्षितम् ।
दृष्ट्वा कर्णोऽश्रुपूर्णाक्षो मुहूर्तं नाभ्यवर्तत ॥ ७.१३४.२२ ॥
迦尔纳见难降倒卧,要害被刺穿,浑身沾满血迹,眼中满含泪水,一时竟不能前进。
7.134.23
तं गतासुमतिक्रम्य कृत्वा कर्णः प्रदक्षिणम् ।
दीर्घमुष्णं श्वसन्वीरो न किञ्चित्प्रत्यपद्यत ॥ ७.१३४.२३ ॥
英雄迦尔纳绕过无生命的他,向他行右绕之礼,长长地热切叹息,竟什么也感觉不到。
7.134.24
तस्मिंस्तु विवरे राजन्नाराचान्गार्धवाससः ।
प्राहिणोत्सूतपुत्राय भीमसेनश्चतुर्दश ॥ ७.१३४.२४ ॥
大王啊,就在那空隙中,毗摩森那向御者之子射出十四支以秃鹫羽为翎的箭。
7.134.25
ते तस्य कवचं भित्त्वा स्वर्णचित्रं महोजसः ।
हेमपुङ्खा महाराज व्यशोभन्त दिशो दश ॥ ७.१३४.२५ ॥
大王啊,它们穿透了那位大力者饰有金色图案的甲胄,金羽的箭矢照耀十方。
7.134.26
अपिबन्सूत पुत्रस्य शोणितं रक्तभोजनाः ।
क्रुद्धा इव मनुष्येन्द्र भुजङ्गाः कालचोदिताः ॥ ७.१३४.२६ ॥
人中之王啊,它们饮着御者之子的血,如同被时间驱使而愤怒的毒蛇,以血为食。
7.134.27
प्रसर्पमाणा मेदिन्यां ते व्यरोचन्त मार्गणाः ।
अर्धप्रविष्टाः संरब्धा बिलानीव महोरगाः ॥ ७.१३४.२७ ॥
它们在大地上滑行,半入其中而愤怒,箭矢如同半入洞穴的大蛇一般闪耀。
7.134.28
तं प्रत्यविध्यद्राधेयो जाम्बूनदविभूषितैः ।
चतुर्दशभिरत्युग्रैर्नाराचैरविचारयन् ॥ ७.१३४.२८ ॥
罗陀之子毫不犹豫,以十四支极为凶猛、饰以金饰的铁箭射中了他。
7.134.29
ते भीमसेनस्य भुजं सव्यं निर्भिद्य पत्रिणः ।
प्राविशन्मेदिनीं भीमाः क्रौञ्चं पत्ररथा इव ॥ ७.१३४.२९ ॥
它们穿透了婆希摩森那的左臂,那些可怖的羽箭进入大地,如同飞鸟之车进入鹤山。
7.134.30
ते व्यरोचन्त नाराचाः प्रविशन्तो वसुन्धराम् ।
गच्छत्यस्तं दिनकरे दीप्यमाना इवांशवः ॥ ७.१३४.३० ॥
铁箭进入大地时闪耀着光芒,如同西沉太阳的璀璨光线。
7.134.31
स निर्भिन्नो रणे भीमो नाराचैर्मर्मभेदिभिः ।
सुस्राव रुधिरं भूरि पर्वतः सलिलं यथा ॥ ७.१३४.३१ ॥
Bhīma在战斗中被刺破要害的铁箭射中,鲜血如山中流水般大量涌出。
7.134.32
स भीमस्त्रिभिरायस्तः सूतपुत्रं पतत्रिभिः ।
सुपर्णवेगैर्विव्याध सारथिं चास्य सप्तभिः ॥ ७.१३४.३२ ॥
Bhīma以三支如迦鲁达般迅疾的羽箭射中御者之子,又以七箭射中其御者。
7.134.33
स विह्वलो महाराज कर्णो भीमशराहतः ।
प्राद्रवज्जवनैरश्वै रणं हित्वा महाभयात् ॥ ७.१३४.३३ ॥
大王啊,被Bhīma的箭射中的迦尔纳惊慌失措,怀着巨大的恐惧,驾着快马离开战场逃走了。
7.134.34
भीमसेनस्तु विष्फार्य चापं हेमपरिष्कृतम् ।
आहवेऽतिरथोऽतिष्ठज्ज्वलन्निव हुताशनः ॥ ७.१३४.३४ ॥
然而Bhīmasena拉开镶金的弓,在战场上如大车将一般屹立,如燃烧的祭火般光耀。