Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.137

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.137.1

भीमसेनस्य राधेयः श्रुत्वा ज्यातलनिः स्वनम् ।
नामृष्यत यथा मत्तो गजः प्रतिगजस्वनम् ॥ ७.१३७.१ ॥

罗陀之子(迦尔纳)听到婆罗门般的仇敌毗摩先那弓弦的响声,无法忍受,犹如发情的象不能忍受敌象的吼声。

7.137.2

सोपक्रम्य मुहूर्तै तु भीमसेनस्य गोचरात् ।
पुत्रांस्तव ददर्शाथ भीमसेनेन पातितान् ॥ ७.१३७.२ ॥

片刻之后,在毗摩先那的视线范围内,他看见你的儿子们被毗摩先那击倒。

7.137.3

तानवेक्ष्य नरश्रेष्ठ विमना दुःखितस्तदा ।
निः श्वसन्दीर्घमुष्णं च कर्णः पाण्डवमभ्ययात् ॥ ७.१३७.३ ॥

人中之雄啊!看到他们后,心情沮丧、悲痛的迦尔纳长长地叹息,热气升腾,朝般度之子走去。

7.137.4

स ताम्रनयनः क्रोधाच्छ्वसन्निव महोरगः ।
बभौ कर्णः शरानस्यन्रशमीनिव दिवाकरः ॥ ७.१३७.४ ॥

迦尔纳双目因愤怒而通红,如大蛇般嘶嘶作声,射出箭矢,光彩耀人,犹如太阳放射光芒。

7.137.5

किरणैरिव सूर्यस्य महीध्रो भरतर्षभ ।
कर्णचापच्युतैर्वाणैः प्राच्छाद्यत वृकोदरः ॥ ७.१३७.५ ॥

婆罗多族的雄牛啊!如同山岳被太阳的光线覆盖,狼腹(毗摩)被迦尔纳弓上射出的箭矢所覆盖。

7.137.6

ते कर्णचापप्रभवाः शरा बर्हिणवाससः ।
विविशुः सर्वतः पार्थ वासायेवाण्डजाद्रुमम् ॥ ७.१३७.६ ॥

般度之子啊!那些从迦尔纳弓上发出的、以孔雀羽为饰的箭,从四面八方射入,如同鸟儿飞入树中栖息。

7.137.7

कर्णचापच्युता बाणाः संपतन्तस्ततस्ततः ।
रुक्मपुङ्खा व्यराजन्त हंसाः श्रेणीकृता इव ॥ ७.१३७.७ ॥

从迦尔纳弓上射出的箭矢四处飞舞,金色的箭羽闪耀,如排成行列的天鹅。

7.137.8

चापध्वजोपस्करेभ्यश्छत्रादीषामुखाद्युगात् ।
प्रभवन्तो व्यदृश्यन्त राजन्नाघिरथेः शराः ॥ ७.१३७.८ ॥

大王啊,从弓、旗、车具、伞盖、辕木和轭的前端,都可见御者之子迦尔纳的箭矢涌出。

7.137.9

खं पूरयन्महावेगात्खगमान्गृध्रवाससः ।
सुवर्ण्विकृतांश्चित्रान्मुमोचाधिरथिः शरान् ॥ ७.१३७.९ ॥

以极快的速度充满天空,御者之子射出了带有秃鹫羽、饰以黄金的璀璨箭矢。

7.137.10

तमन्तकमिवायस्तमापतन्तं वृकोदरम् ।
त्यक्त्वा प्राणानतिक्रम्य विव्याध निशितैः शरैः । ॥ ७.१३७.१० ॥

迦尔纳不顾性命,以利箭射穿了如失控死神般扑来的狼腹(怖军)。

7.137.11

तस्य वेगमसह्यं स दृष्ट्वा कर्णस्य पाण्डवः ।
महतश्च शरौघांस्तान्न्यवारयत् वीर्यवान् ॥ ७.१३७.११ ॥

看到迦尔纳难以承受的猛势,这位勇武的般度之子遏止了他那如洪流般的箭雨。

7.137.12

ततो विधम्याधिरथेः शरजालानि पाण्डवः ।
विव्याध कर्ण विंशत्या पुनरन्यैः शिलाशितैः ॥ ७.१३७.१२ ॥

随后,般度之子击散御者之子的箭网,又以二十支及其他在石上磨利的箭再次射穿了迦尔纳。

7.137.13

यथैव हि स कर्णेन पार्थः प्रच्छादितः शरैः ।
तथैव स रणे कर्ण छादयामास पाण्डवः ॥ ७.१३७.१३ ॥

正如般度之子(阿周那)被迦尔纳以箭所遮蔽,同样,啊迦尔纳,那位般度之子在战场上遮蔽了你。

7.137.14

दृष्ट्वा तु भीमसेनस्य विक्रमं युधि भारत ।
अभ्यनन्दंस्त्वदीयाश्च संप्रहृष्टाश्च चारणाः ॥ ७.१३७.१४ ॥

啊婆罗多,看见怖军在战斗中的英勇,你的部下和极为欢喜的持明者(Cāraṇa)都赞叹了他。

7.137.15

भूरश्रवाः कृपो द्रौणिर्मद्रराजो जयद्रथः ।
उत्तमौजा युधामन्युः सायकिः केशवार्जुनौ ॥ ७.१३७.१५ ॥

Bhūriśravas、Kṛpa、德罗纳之子、摩德罗王Jayadratha、Uttamaujas、Yudhāmanyu、Sātyaki、Keśava与Arjuna。

7.137.16

कुरुपाण्डवपक्षस्था दश राजन्महारथाः ।
साधुसाध्विति वेगेन सिंहनादमथानदन् ॥ ७.१३७.१६ ॥

啊王,立于俱卢与般度两方的十位大车勇士,高呼“善哉,善哉”,随即猛然发出狮子般的吼声。

7.137.17

तस्मिन्समुत्थिते शब्दे तुमुले रोमहर्षणे ।
अभ्यभाषत पुत्रस्ते र्आजन्दुर्योधनस्त्वरन् ॥ ७.१३७.१७ ॥

当那喧嚣而令人毛骨悚然的声音响起时,你的儿子难敌急忙对他说道。

7.137.18

राज्ञः सराजपुत्रांश्च सोदर्याश्च विशेषतः ।
कर्ण गच्छत भद्रं वः परीप्सन्तो वृकोदरात् ॥ ७.१३७.१८ ॥

啊迦尔纳,你们去吧,愿保护诸王、王子们,尤其是兄弟们,免遭狼腹(怖军)之害;愿你们吉祥。

7.137.19

पुरा निघ्नन्त्इ राधेयं भीमचापच्युताः शराः ।
ते यतध्वं महेष्वासाः सूतपुत्रस्य रक्षणे ॥ ७.१३७.१९ ॥

昔日,毗摩以弓射出的箭矢击杀罗陀之子(迦尔纳)——诸位大弓箭手,请努力保护御者之子。

7.137.20

दुर्योधनसमादिष्टाः सोदर्याः सप्त भारत ।
भीमसेनमभिद्रुत्य संरब्घाः पर्यवारयन् ॥ ७.१३७.२० ॥

在难敌的命令下,七位兄弟,婆罗多啊,愤怒地扑向毗摩森那并将他包围。

7.137.21

ते समासाद्य कौन्तेयमावृण्वञ्शरवृष्टिभिः ।
पर्वतं वारिधाराभिः प्रावृषीव बलाहकाः ॥ ७.१३७.२१ ॥

他们逼近贡蒂之子,以箭雨将他覆盖,犹如雨季的云以水流遮盖山峰。

7.137.22

तेऽपीडयन्भीमसेनं कृध्दाः सप्त महारथाः ।
प्रजासंहरणे राजन्सोमं सप्तग्रहा इव ॥ ७.१३७.२२ ॥

七位愤怒的大车将围攻毗摩森那,大王啊,犹如在众生毁灭之时七星侵扰月亮。

7.137.23

ततो वेगेन कौन्तेयः पीडयित्वा शरासनम् ।
मुष्टिना पाण्डवो राजन्दृढेन सुपरिष्कृतम् ॥ ७.१३७.२३ ॥

然后,大王啊,贡蒂之子般度族迅速压下弓,以坚实的拳头握住那张精工打造的弓。

7.137.24

अमानुषं कर्म कृत्वा सप्त सन्धाय सायकान् ।
तेभ्यो व्यसृजदायस्तः सूर्यरश्मिनिभान्प्रभुः ॥ ७.१३७.२४ ॥

他完成了超凡的壮举,将七支箭搭上弓,竭尽全力射向他们——那些箭如同太阳的光芒。

7.137.25

निरस्यन्निव देहेभ्यस्तनयानामसूंस्तव ।
भीमसेनो महाराज पूर्ववैरमनुस्मरन् ॥ ७.१३७.२५ ॥

大王,毗摩仙那追念旧日的仇怨,仿佛把你诸子的生命之气从身体中驱逐出去。

7.137.26

ते क्षिप्ता भीमसेनेन शरा भारत भारतान् ।
विदार्य खं समुत्पेतुः स्वर्णपुङ्खाः शिलाशिताः ॥ ७.१३७.२६ ॥

毗摩仙那射出的那些箭,哦,婆罗多,穿透了婆罗多族人,飞向天空,羽毛金黄,在石上磨利。

7.137.27

तेषां विदार्य देहांस्ते शरा हेमविभूषिताः ।
भित्त्वाभित्त्वा क्षितिं जग्मुस्तेपामेवासुभिः सह ।
व्यराजन्त महाराज सुपर्णा इव खेचराः ॥ ७.१३७.२७ ॥

这些饰以黄金的箭穿透他们的身体,一次又一次地刺入大地,与他们的生命之气一同落下;大王,它们闪耀着,如同在空中翱翔的金翅鸟。

7.137.28

शोणितादिग्धवाजाग्राः सप्त हेमपरिष्कृताः ।
पुत्राणां तव राजेन्द्र पीत्वा शोणितमुद्गताः ॥ ७.१३७.२८ ॥

哦,诸王之主,饮尽你诸子的鲜血,七支箭升空而起,羽尾沾满血迹,饰以黄金。

7.137.29

ते शरैर्भिन्नमर्माणो रथेभ्यः प्रापतन्क्षितौ ।
गिरिसानुरुहा भग्न्रा द्विपेनेव महाद्रुमाः ॥ ७.१३७.२९ ॥

他们要害被箭射穿,从战车上跌落到地上,如同生长在山坡上的大树被大象折断一般。

7.137.30

शत्रुंजयः शत्रुसहश्चित्रश्चित्रायुधो दृढः ।
चित्रसेनो विकर्णश्च सप्तैते विनिपातिताः ॥ ७.१३७.३० ॥

叔曷若耶、叔罗萨诃、支特罗、支特罗耶陀、坚固、支特罗森那与毗迦尔纳——这七人被击倒。

7.137.31

पुत्राणां तव सर्वेषां निहतानां वृकोदरः ।
शोचत्यतिभृशं दुःखाद्विकर्ण पाण्डवः प्रियम् ॥ ७.१३७.३१ ॥

你所有的儿子都被杀死后,般度之子狼腹(毗摩)因悲痛而极度哀叹他心爱的毗迦尔纳。

7.137.32

प्रतिज्ञेयं मया वृत्ता निहन्तच्यास्तु संयुगे ।
विकर्ण तेनासि हतः प्रतिज्ञा रक्षिता मया ॥ ७.१३७.३२ ॥

“在战斗中他们必须全部被杀”——这是我的誓言。毗迦尔纳,正因如此你被杀了;我已守住了我的誓言。

7.137.33

त्वमागाः समरं वीर क्षात्रं धर्ममनुस्मरन् ।
ततो विनिहतः सङ्ख्ये युध्दधर्मो हि निष्ठुरः ॥ ७.१३७.३३ ॥

英雄啊,你怀着刹帝利的责任来到战场;随后在战斗中被击倒。战争之法确实残酷。

7.137.34

विशेषतो हि नृपतेस्तथाऽस्माकं हिते रतः ।
न्यायतोन्यायतो वाऽपि हतः शेते महाद्युतिः ॥ ७.१३७.३४ ॥

尤其是那位忠于国王和我们福祉的大光明者,无论是否合乎正义,已被杀死躺在那里。

7.137.35

अगाधवुध्दिर्गाङ्गेयः क्षितौ सुरगुरोः समः ।
त्याजितः समरे प्राणांस्तस्माद्युद्धं हि निष्ठुरम् ॥ ७.१३७.३५ ॥

具有深不可测智慧的甘伽之子(毗湿摩),在大地上与诸神之师相等,在战斗中舍弃了生命;所以战争确实残酷。

7.137.36

तान्निहत्य महावाहू राघेयस्यैव पश्यतः ।
सिंहनादखं घोअमसृजत्पाण्डुनन्दनः ॥ ७.१३७.३६ ॥

杀死他们之后,这位臂力强大的般度之子,在罗陀之子(迦尔纳)眼前,以可怕的狮吼充满了天空。

7.137.37

स खस्तस्य शूरस्य धर्मराजस्य भारत ।
आचर्व्याविव तद्युध्दं विजयं चात्मनो महत् ॥ ७.१३७.३७ ॥

婆罗多啊,那位英雄、法王的声音,仿佛预示着那场战斗和他自己的伟大胜利。

7.137.38

तं श्रुत्वा तु महानादं भीमसेनस्य धन्विनः ।
बभूव परमा प्रीतिर्धर्मराजस्य धीमतः ॥ ७.१३७.३८ ॥

听到持弓者毗摩森那的那声大吼,智慧的法王感到了无上的喜悦。

7.137.39

ततो हृष्टमना राजन्वादित्राणां महाखनैः ।
सिंहनादरव्ं भ्रातुः प्रतिजग्राह पाण्डवः ॥ ७.१३७.३९ ॥

大王啊,然后,心中欢喜的般度之子以乐器的巨大声响,回应了兄弟的狮子吼。

7.137.40

हर्षेण महता युक्तः कृतसंज्ञे ऋकोदरे ।
अभ्ययात्समरे द्रोणं सर्वशस्त्रभृतां वरः ॥ ७.१३७.४० ॥

怀着极大的喜悦,向狼腹(毗摩)示意之后,那位持武器者中的最优者在战斗中向德罗那进发。

7.137.41

एकत्रिंशन्महाराज पुत्रांस्तव निपातितान् ।
हतान्दुर्योधनो दृष्ट्वा क्षत्तुः सस्मार तद्वचः ॥ ७.१३७.४१ ॥

大王啊,看见您的三十一个儿子倒下被杀,难敌想起了库夏特里(维杜罗)的那些话。

7.137.42

तदिदं समनुप्राप्तं क्षत्तुर्नैः श्रेयसं वचः ।
इति स्ंचिन्त्य ते पुत्रो नोत्तरं प्रत्यपद्यत ॥ ७.१३७.४२ ॥

他心想:库夏特里那些导向至善的话如今应验了,于是您的儿子没有作答。

7.137.43

यद्दयूतकाले दुर्बुध्दिरब्रवीत्तनयस्तव ।
सभामानाय्य पाञ्चालीं कर्णेन सहितोऽल्पधीः ॥ ७.१३७.४३ ॥

赌局进行之时,你那心术不正的儿子与迦尔纳一同把般遮离带入大殿,说出了愚昧的话。

7.137.44

यच्च कर्णोऽब्रवीत्कृष्णां सभायां परुषं वचः ।
प्रमुखे पाण्डुपुत्राणां तव चैव विशांपते ।
शृण्वतस्तव राजेन्द्र कौरवाणां च सर्वशः ॥ ७.१३७.४४ ॥

在大殿之中,当着般度诸子的面,在你和众俱卢人的听闻之下,迦尔纳对黑天女说了粗暴的言语,人主啊,诸王之王啊。

7.137.45

विनष्टाः पाण्डवाः कृष्णे शाश्वतं नरकं गताः ।
पतिमन्यं वृणीष्वेति तस्येदं फलमागतम् ॥ ७.१३७.४५ ॥

黑天女啊,般度五子已覆亡,堕入永恒的地狱;“另选一位夫君吧”这句话的果报已经到来。

7.137.46

यच्च पण्डतिलादीनि परुषाणि तवात्मजैः ।
श्रावितास्ते महात्मानः पाण्डवाः कोपयिष्णुभिः ॥ ७.१३७.४६ ॥

你的儿子们想要激起愤怒,便让那些大德的般度五子听到了如同学者般的粗暴言语。

7.137.47

तं भीमसेनः क्रोधाग्रिं त्रयोदश समाः स्थितम् ।
उद्गिरंस्तव पुत्राणामन्तं गच्छति पाण्डवः ॥ ७.१३७.४७ ॥

般度之子婆罗多的怖军,吐出那积压了十三年的怒火,正走向你儿子们的末路。

7.137.48

विलपंश्च बहु क्षत्ता शमं नालभत त्वयि ।
सपुत्रो भरतश्रेष्ठ तस्य भुङ्ख फलोदयम् ॥ ७.१३७.४८ ॥

维杜罗虽然悲痛哀叹,却未能在你身上得到安宁。婆罗多中的最优者啊,请与你的儿子们一同尝受那果报的成熟吧。

7.137.49

त्वया वृध्देन धीरेण कार्यतत्त्वार्थदर्शिना ।
न कृतं सुहृदां वाक्यं दैवमत्र परायणम् ॥ ७.१३७.४९ ॥

你年高而坚定,明见行事的真义,却没有听从朋友的忠告;此处,命运才是最终的依归。

7.137.50

तन्मा शुचो नरव्याध्र तवैवापनयो महान् ।
विनाशहेतुः पुत्राणां भवानेव मतो मम ॥ ७.१३७.५० ॥

因此,人中之虎,不要悲伤;这大过错正是你自己的。在我看来,你本人正是诸子毁灭的根源。

7.137.51

हतो विकर्णो राजेन्द्र चित्र्सेनश्च वीर्यवान् ।
प्रवराश्चात्मजानां ते सुताश्चान्ये महारथाः ॥ ७.१३७.५१ ॥

啊,王中之王,毗迦尔纳被杀,勇猛的制多罗塞那也被杀;你诸子中的佼佼者,以及其他大车战士之子,也都被杀了。

7.137.52

यानन्यान्दद्दशे भीमश्चक्षुर्विषयमागतान् ।
पुत्रांस्तव महाराज त्वरया ताञ्जधान ह ॥ ७.१३७.५२ ॥

大王啊,比摩看见进入他视野之内的其他人,即你的那些儿子,他迅速地将他们击倒。

7.137.53

त्वत्कृते ह्यहमद्राक्षं दह्यमानां वरुथिनीम् ।
सहस्रशः शरैर्मुक्तैः पाण्डवेन वृषेण च ॥ ७.१३७.५३ ॥

因为你的缘故,我看见大军被般度之子和勇士中的公牛所射出的千万支箭所焚烧。