Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.139

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.139.1

ततः कर्णो महाराज भीमं विद्धा त्रिभिः शूरैः ।
पुनश्च षड्भिस्तीक्ष्णाग्रैरविध्यत्कङ्कपत्रिभिः।
मुमोच शरवर्षाणि विचित्राणि बहूनि च ॥ ७.१३९.१ ॥

于是,大王啊,迦尔纳以三支英勇之箭射中了毗摩,又以六支尖锐的鹤羽箭再次射中他,并射出许多奇妙的箭雨。

7.139.2

वध्यमानो महाबाहुः सूतपुत्रेण पाण्डवः ।
न विव्यथे भीमसेनो भिद्यमान इवाचलः ॥ ७.१३९.२ ॥

虽被御者之子所击,手臂有力的般度之子毗摩森纳并不动摇,如同正被劈开的山岳。

7.139.3

स कर्णं कर्णिना कर्णे पीतेन निशितेन च ।
विव्याध सुभृशं सङ्ख्ये तैलधौतेन मारिष ॥ ७.१३९.३ ॥

他在战场上以一支 karṇi 箭,并以一支拉至耳边、金色、锐利、油磨的箭,极其猛烈地射中了迦尔纳,啊,尊者。

7.139.4

स कुण्डलं महच्चारु कर्णस्यापातयद्भुवि ।
तपनीयं महाराज दीप्तं ज्योतिरिवाम्बरात् ॥ ७.१३९.४ ॥

他将迦尔纳那只巨大而精美的耳环击落于地,大王啊;那熔金所铸的耳环闪耀如从天空坠落的光。

7.139.5

अथापरेण भल्लेन सूतपुत्रं स्तनान्तरे ।
आजघान भृशं क्रुद्धो हसन्निव वृकोदरः ॥ ७.१३९.५ ॥

于是,愤怒的狼腹以另一支长柄箭狠狠击中御者之子的胸膛中央,仿佛在大笑。

7.139.6

पुनरस्य त्वरन्भीपो नाराचान्दश भारत ।
रणे प्रैषीन्महाबाहुर्निर्मुक्ताशीविषोपमान् ॥ ७.१३९.६ ॥

婆罗多啊,毗湿摩大臂者又急速在战中向他射出十支 nārāca 铁箭,如同放出的毒蛇。

7.139.7

ते ललाटं विनिर्भिद्य सूतपुत्रस्य भारत ।
विविशुश्चोदितास्तेन वल्मीकमिव पन्नगाः ॥ ७.१३९.७ ॥

婆罗多啊,它们穿透了御者之子的额头,在他的驱使下钻了进去,如同蛇钻进蚁穴。

7.139.8

ललाटस्थैस्ततो बाणैः सूतपुत्रो व्यरोचत ।
नीलोत्पलमयीं मालां धारयन्वै यथा पुरा ॥ ७.१३९.८ ॥

于是,御者之子额上插着箭,闪耀起来,仿佛又佩戴着往日的青莲花环。

7.139.9

सोऽतिविद्धो भृशं कर्णः पाण्डवेन तरस्विना ।
रथकूबरमालम्ब्य न्यमीलयत लोचने ॥ ७.१३९.९ ॥

被迅捷的般度之子重创,迦尔纳靠着车辕,闭上了双眼。

7.139.10

स मुहूर्तात्पुनः संज्ञां लेभे कर्णः परन्तपः ।
रुधिरोक्षितसर्वाङ्गः क्रोधमाहारयत्परम् ॥ ७.१३९.१० ॥

片刻之后,敌人的灼烧者迦尔纳恢复了知觉;他全身沾满鲜血,于是激起了极大的愤怒。

7.139.11

ततः क्रुद्धो रणे कर्णः पीडितो दृढधन्वना ।
वेगं चक्रे महावेगो भीमसेनरथं प्रति ॥ ७.१३९.११ ॥

于是迦尔纳在战斗中愤怒,被坚弓者所困扰,以极快的速度向怖军的战车冲去。

7.139.12

तस्मै कर्णः शतं राजन्निषूणां गार्ध्रवाससाम् ।
अमर्षी बलवान्क्रुद्धः प्रेषयामास भारत ॥ ७.१३९.१२ ॥

大王啊,迦尔纳向他射出一百支饰以秃鹫羽毛的箭;婆罗多啊,这位不甘忍受、强大而愤怒的英雄将它们射出。

7.139.13

ततः प्रासृजदुग्राणि शरवर्षाणि पाण्डवः ।
समरे तमनादृत्य तस्य वीर्यमचिन्तयन् ॥ ७.१३९.१३ ॥

于是般度之子不顾其在战场上的勇力,发出猛烈的箭雨。

7.139.14

कर्णस्ततो महाराज पाण्डवं नवभिः शरैः ।
आजघानोऽसि क्रुद्धः क्रुद्धरूपं परन्तप ॥ ७.१३९.१४ ॥

大王啊,迦尔纳愤怒地以九支箭射中般度之子。啊,焚敌者!

7.139.15

तावुभौ नरशार्दूलौ शार्दूलाविव दंष्ट्रिणौ ।
शरदंष्ट्रौ समासाद्य ततक्षतुररिन्दमौ।
जिमूताविव चान्योन्यं प्रववर्षतुराहवे ॥ ७.१३९.१५ ॥

那两位人中虎,如同獠牙猛虎,以箭为齿,逼近彼此并相互伤害;这两位制敌者在战场上如雨云般彼此倾泻箭雨。

7.139.16

तलशब्दरवैश्चैव त्रासयेतां परस्परम् ।
शरजालैश्च विविधैस्त्रासयामासतुर्मृधे ॥ ७.१३९.१६ ॥

二人以拍掌之声和种种箭网,在战场上彼此恐吓。

7.139.17

अन्योन्यं समरे क्रुद्धौ कृतप्रतिकृतैषिणौ ।
ततो भीमो महाबाहुः सूतपुत्रस्य भारत ॥ ७.१३९.१७ ॥

二人在战场上彼此愤怒,各欲以报复还报复;那时,婆罗多啊,臂力强大的毗摩 (击向) 御者之子的……

7.139.18

क्षुरप्रेण धनुश्छित्त्वा ननाद परवीरहा ।
तदपास्य धनुश्छिन्नं सूतपुत्रो महारथः ॥ ७.१३९.१८ ॥

以刀刃箭斩断弓弦,摧敌英雄者发出吼声。随后,御者之子大车战士(迦尔纳)抛开断弓……

7.139.19

अन्यत्कार्मुकमादत्त भारघ्नं वेगवत्तरम् ।
तदप्यथ निमेषार्धाच्चिच्छेदास्य वृकोदरः ॥ ७.१३९.१९ ॥

他又拿起另一张弓,坚韧而极为迅捷;狼腹(毗摩)在半瞬之间也将其斩断。

7.139.20

तृतीयं च चतुर्थं च पञ्चमं षष्ठमेव हि ।
सप्तमं चाष्टमं चैव नवमं दशमं तथा ॥ ७.१३९.२० ॥

第三、第四、第五和第六,以及第七、第八、第九和第十(他都斩断了)。

7.139.21

एकादशं द्वादशं च त्रयोधशमथापि च ।
चतुर्दशं पञ्चदशं षोडशं च वृकोदरः ॥ ७.१३९.२१ ॥

第十一、第十二、第十三、第十四、第十五和第十六,狼腹都斩断了。

7.139.22

तथा सप्तदशं वेगादष्टादशमथापि वा ।
बहूनि भीमश्चिच्छेद कर्णस्यैवं धनूंषि हि।
निमेषार्धात्ततः कर्णो धनुर्हस्तो व्यतिष्ठत ॥ ७.१३९.२२ ॥

同样地,第十七张,迅速地第十八张,或更多的迦尔纳之弓,毗摩都斩断了。半瞬之间,迦尔纳手持弓而站立。

7.139.23

दृष्ट्वा स कुरुसौवीरसिन्धुवीरबलक्षयम् ।
स वर्मध्वजशस्त्रैश्च पतितैः संवृतां महीम् ॥ ७.१३९.२३ ॥

见到库鲁、索维罗与信度英雄军队的毁灭,他(迦尔纳)……看到大地被落下的铠甲、旗帜和兵器覆盖。

7.139.24

रथैर्विमथितैर्भल्लैरश्वैश्चान्यैः प्रवल्गितैः ।
भ्रष्टश्रीकैर्नरवरैः पांसुकुण्ठितमूर्धजैः ॥ ७.१३९.२४ ॥

……遍布破碎的战车、阔头箭,以及四处踢蹬的马匹和其他坐骑,还有失去光彩的优秀战士们,发丝沾满尘土。

7.139.25

हस्त्यश्वरथदेहांश्च गतासून्प्रेक्ष्य सर्वशः ।
सूतपुत्रस्य संरम्भाद्दीप्तं वपुरजायत ॥ ७.१३९.२५ ॥

看到四处都是大象、马匹和战车的尸体,御者之子的身体因愤怒而燃烧起来。

7.139.26

स विष्फार्य महच्चापं कार्तस्वरविभूषितम् ।
भीमं प्रैक्षत राधेयो घोरं घोरेण चक्षुषा ॥ ७.१३९.२६ ॥

他把镶金的大弓拉开,拉达之子以凶狠的目光望着那可怖之人。

7.139.27

ततः क्रुद्धः शरानस्यन्सूतपुत्रो व्यरो चत ।
मध्यन्दिनगतोऽर्चिष्माञ्शरदीव दिवाकरः ॥ ७.१३९.२७ ॥

于是,愤怒的御者之子放箭,光芒四射,如同秋天正午的灿烂太阳。

7.139.28

मरीचिविकचस्येव राजन्भानुमतो वपुः ।
आसीदाधिरथेर्घोरं वपुः शरशताचितम् ॥ ७.१३९.२८ ॥

大王啊,犹如光芒绽放的灿烂太阳之身,那御者之子可怕的身躯被数百支箭覆盖。

7.139.29

कराभ्यामाददानस्य सन्दधानस्य चाशुगान् ।
कर्षतो मुञ्चतो बाणान्नान्तरं ददृशे रणे ॥ ७.१३९.२९ ॥

双手取箭、搭箭、拉弓、放箭,在战场上看不到其间有丝毫间隙。

7.139.30

अग्निचक्रोपमं घोरं मण्डलीकृतमायुधम् ।
कर्णस्यासीन्महीपाल सव्यं दक्षिणमस्यतः ॥ ७.१३९.३० ॥

大地之主啊,卡尔纳的可怕武器如火轮般回旋,他左右手同时放箭之时,便是这般景象。

7.139.31

स्वर्णपुङ्खाः सुनिशिताः कर्मचापच्युताः शराः ।
प्राच्छादयन्महाराज दिशः सूर्य इवांशुभिः ॥ ७.१३९.३१ ॥

大王啊,带金羽的锐利箭矢,由他的技艺从弓上射出,遮蔽了四方,如太阳以光芒遮蔽四方一般。

7.139.32

ततः कनकपुङ्खानां शराणां नतपर्वणाम् ।
धनुश्च्युतानां वियति ददृशे बहुधा व्रजः ॥ ७.१३९.३२ ॥

于是,带金羽、弯曲节的箭群,从弓上射出,在天空中以多种形态显现。

7.139.33

बाणासनादाधिरथेः प्रभवन्ति स्म सायकाः ।
श्रेणीकृता व्यरोचन्त राजन्क्रौञ्चा इवाम्बरे ॥ ७.१३९.३३ ॥

大王啊,阿提罗陀之子(迦尔纳)的弓中射出的箭,排列成行,在天空中闪耀如鹤群。

7.139.34

गार्ध्रपत्राञ्शिलाधौतान्कार्तस्वरविभूषितान् ।
महावेगान्प्रदीप्ताग्रान्मुमोचाधिरथिः शरान् ॥ ७.१३९.३४ ॥

羽毛如禿鹫、经磨石打磨、以金装饰、速度极快、锋端燃烧的箭,阿提罗陀之子(迦尔纳)射了出去。

7.139.35

ते तु चापबलोद्धूताः शातकुम्भविभूषिताः ।
अजस्रमपतन्बाणा भीमसेनरथं प्रति ॥ ७.१३९.३५ ॥

那些借弓之力射出、以金装饰的箭,不停地落向毗摩森纳的战车。

7.139.36

ते व्योम्नि रुक्मविकृता व्यकाशन्त सहस्रशः ।
शलभानामिव व्राताः शराः कर्णसमीरिताः ॥ ७.१३९.३६ ॥

它们在天空中成千上万地闪耀,金光灿烂,如蝗群一般——那是迦尔纳所射的箭。

7.139.37

चापादाधिरथेर्मुक्ताः प्रपतन्तश्चकाशिरे ।
एको दीर्घ इवात्यर्थमाकाशे संस्थितः शरः ॥ ७.१३९.३७ ॥

阿提罗陀之子迦尔纳从弓上射出的箭在坠落时闪耀;天空中唯有一支长箭仿佛静止地悬停着。

7.139.38

पर्वतं वारिधाराभिच्छादयन्निव तोयदः ।
कर्णः प्राच्छादयत्क्रुद्धो भीमं सायकवृष्टिभिः ॥ ७.१३९.३८ ॥

如同云以水流覆盖山岳,愤怒的迦尔纳以箭雨将毗摩完全遮蔽。

7.139.39

तत्र भारत भीमस्य बलं वीर्यं पराक्रमम् ।
व्यवसायं च पुत्रास्ते ददृशुः सहसैनिकाः ॥ ७.१३९.३९ ॥

婆罗多啊,那里你的诸子与士兵们看见了毗摩的力量、勇气、威势与决心。

7.139.40

तां समुद्रमिवोद्भूतां शरवृष्टिं समुत्थिताम् ।
अचिन्तयित्वा भीमस्तु क्रुद्धः कर्णमुपाद्रवत् ॥ ७.१३९.४० ॥

毗摩不顾那如海洋般升起的箭雨,愤怒地冲向迦尔纳。

7.139.41

रुक्मपृष्ठं महच्चापं भीमस्यासीद्विशाम्पते ।
आकर्षान्मण्डलीभूतं शक्रचापमिवापरम्।
तस्माच्छराः प्रादुरासन्पूरयन्त इवाम्बरम् ॥ ७.१३९.४१ ॥

人主啊,毗摩有一张背部镶金的大弓;拉开时它成为圆形,犹如另一道彩虹;从中射出的箭仿佛充满了天空。

7.139.42

सुवर्णपुङ्खैर्भीमेन सायकैर्नतपर्वभिः ।
गगने रचिता माला काञ्चनीव व्यरोचतं ॥ ७.१३९.४२ ॥

毗摩那以金色羽、弯曲节的箭在空中编织的花环,闪耀如同金项链。

7.139.43

ततो व्योम्नि विषक्तानि शरजालानि भागशः ।
आहतानि व्यशीर्यन्त भीमसेनस्य पत्रिभिः ॥ ७.१३९.४३ ॥

于是缠绕在天空中的箭网被分割成块,被毗摩娑那的羽箭射中而四散崩裂。

7.139.44

कर्णस्य शरजालौघैर्भीमसेनस्य चोभयोः ।
अग्निस्फुलिङ्गसंस्पर्शैरञ्जोगतिभिराहवे।
तैस्तैः कनकपुङ्खानां द्यौरासीत्संवृता व्रजैः ॥ ७.१३९.४४ ॥

卡尔纳与毗摩娑那双方的箭网洪流,以及战场上如火星触碰般迅疾、镶金羽的箭群,遮蔽了天空。

7.139.45

न स्म सूर्यस्तदा भाति न स्म वाति समीरणः ।
शरजालावृते व्योम्नि न प्राज्ञायत किञ्चन ॥ ७.१३९.४५ ॥

那时太阳不再照耀,风也不再吹拂;在被箭网遮蔽的天空中,什么也无法辨认。

7.139.46

स भिमं छादयन्बाणैः सूतपुत्रः पृथग्विधैः ।
उपारोहदनादृत्य तस्य वीर्यं महात्मनः ॥ ७.१३९.४६ ॥

御者之子不顾那位大德者的威力,以种种箭矢遮蔽毗摩,向前挺进。

7.139.47

तयोर्विसृजतोस्तत्र शरजालानि मारिष ।
वायुभूतान्यदृश्यन्त संसक्तानीतरेतरम् ॥ ७.१३९.४७ ॥

啊,摩利沙!当二人在那里射出箭网时,箭网如风一般,被看到彼此纠缠在一起。

7.139.48

अन्योन्यशरसंसम्पर्शात्तयोर्मनुजसिंहयोः ।
आकाशे भरतश्रेष्ठ पावकः समजायत ॥ ७.१३९.४८ ॥

那两位人中雄狮的箭矢彼此相触,啊,婆罗多族中最优秀者!天空中便生起了火。

7.139.49

तथा कर्णः शितान्बाणान्कर्मारपरिमार्जितान् ।
सुवर्णविकृतान्क्रुद्धः प्राहिणोद्वधकाङ्क्षया ॥ ७.१३९.४९ ॥

于是迦尔纳愤怒地、渴望杀戮,射出了由铁匠磨砺、饰以黄金的利箭。

7.139.50

तानन्तरिक्षे विशिखैस्त्रिधैकैकमशातयत् ।
विशेषयन्सूतपुत्रं भीमस्तिष्ठेति चाब्रवीत् ॥ ७.१३९.५० ॥

毗摩在空中以自己的箭将每一支箭都斩成三段,并对御者之子说:“站住!”

7.139.51

पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः ।
अमर्षी बलवान्क्रुद्धौ दिधक्षन्निव पावकः ॥ ७.१३९.५१ ॥

般度之子再度怒火中烧、不肯罢休、威力强大,如同欲焚烧一切的火焰,射出猛烈的箭雨。

7.139.52

ततश्चटचटाशब्दो गोधाघातादभूत्तयोः ॥ ७.१३९.५२ ॥

于是二人护臂相击,发出噼啪之声。

7.139.53

तलशब्दश्च सुभहान्सिंहनादश्च भैरवः ।
रथनेमिनिनादश्च ज्याशब्दश्चैव दारुणः ॥ ७.१३९.५३ ॥

响起巨大的拍掌声、可怖的狮吼、战车轮的轰鸣,以及弓弦可怕的嗡鸣。

7.139.54

योधा व्युपारमन्युद्धाद्दिदृक्षन्तः पराक्रमम् ।
कर्णपाण्डवयो राजन्परस्परवधैषिणोः ॥ ७.१३९.५४ ॥

大王啊,求彼此死亡的迦尔纳与般度之子,战士们为了观看他们的勇武而停止了战斗。

7.139.55

देवर्षिसिद्धगन्धर्वाः साधुसाध्वित्यपूजयन् ।
मुमुचुः पुष्पवर्षं च विद्याधरगणास्तथा ॥ ७.१३९.५५ ॥

天仙、悉陀和乾闼婆齐声赞叹“善哉,善哉”;众毗底陀罗也纷纷洒下花雨。

7.139.56

ततो भीमो महाबाहुः संरम्भी दृढविक्रमः ।
अस्त्रैरस्त्राणि संवार्य शरैर्विव्याध सूतजम् ॥ ७.१३९.५६ ॥

于是大臂的怖军怒火满胸,武勇坚定,以兵器挡住兵器,用箭射中了御者之子。

7.139.57

कर्णोऽपि भीमसेनस्य निवार्येषून्महाबलः ।
प्राहिणोन्नव नाराचानाशीविषसमान्रणे ॥ ७.१३९.५७ ॥

大力的迦尔纳也挡住了怖军的箭,在战场上射出九支如毒蛇般的铁杆箭。

7.139.58

तावद्भिरथ तान्भीमो व्योम्नि चिच्छेद पत्रिभिः ।
नाराचान्सूत पुत्रस्य तिष्ठतिष्ठेति चाब्रवीत् ॥ ७.१३९.५८ ॥

怖军便以同样数量的箭在空中斩断了那些铁杆箭,并说:“站住,站住,御者之子!”

7.139.59

ततो भीमो महाबाहुः शरं क्रुद्धान्तकोपमम् ।
मुमोचाधिरथेर्वीरो यमदण्डमिवापरम् ॥ ७.१३९.५९ ॥

于是大臂英雄怖军向御者之子射出一箭,如同愤怒的死神,犹如另一根阎摩杖。

7.139.60

तमापतन्तं चिच्छेद राधेयः प्रहसन्निव ।
त्रिभिः शरैः शरं राजन्पाण्डवस्य प्रतापवान् ॥ ७.१३९.६० ॥

罗陀之子迦尔纳仿佛含笑,以三支箭斩断了那支向他飞来的箭;王啊,威武的迦尔纳以三箭斩断了般度之子的箭。

7.139.61

पुनश्चासृजदुग्राणि शरवर्षाणि पाण्डवः ।
तस्य तान्याददे कर्णः सर्वाण्यस्त्राण्यभीतवत्।
युध्यमानस्य भीमस्य सूतपुत्रोऽस्त्रमायया ॥ ७.१३९.६१ ॥

般度之子再次倾泻猛烈的箭雨;御者之子迦尔纳毫无畏惧,以神兵之术接下了正在作战的怖军的所有武器。

7.139.62

तस्येषुधी धनुर्ज्यां च बाणैः सन्नतपर्वभिः ।
रश्मीन्योक्त्राणि चाश्वानां क्रुद्धः कर्णोऽच्छिनन्मृधे। ॥ ७.१३९.६२ ॥

愤怒的迦尔纳在战斗中用弯曲节头的箭斩断了他的两个箭袋、弓弦、缰绳和马的辔具。

7.139.63

तस्याश्वांश्च पुनर्हत्वा सूतं विव्याध पञ्चभिः ।
सोपसृत्य द्रुतं सूतो युधामन्यो रथं ययौ ॥ ७.१३९.६३ ॥

迦尔纳再次杀死他的马,以五支箭射中御者;随后御者优陀摩尼迅速靠近,前往他的战车。

7.139.64

विहसन्निव भीमस्य क्रुद्धः कालानलद्युतिः ।
ध्वजं चिच्छेद राधेयः पताकां च व्यपातयत् ॥ ७.१३९.६४ ॥

仿佛嘲笑怖军一般,怒气冲冲、光芒如时间之火的罗陀之子迦尔纳斩断旗帜,使旗帜坠落。

7.139.65

स विधन्वा महाबाहुरथ शक्तिं परामृशत् ।
तां व्यवासृजदाविध्य क्रुद्धः कर्णरथं प्रति ॥ ७.१३९.६५ ॥

于是那位大臂的射手握住长矛,怒气冲冲地将其挥舞旋转,掷向迦尔纳的战车。

7.139.66

तामाधिरथिरायस्तः शक्तिं काञ्चनभूषणाम् ।
आपतन्तीं महोल्काभां चिच्छेद दशभिः शरैः ॥ ७.१३९.६६ ॥

那支饰以黄金、光如巨大流星、向他飞来的长矛,被警觉的御者之子迦尔纳以十支箭斩断。

7.139.67

साऽपतद्दृशधा छिन्ना कर्णस्य निशितैः शरैः ।
अस्यतः सूतपुत्रस्य मित्रार्थे चित्रयोधिनः ॥ ७.१३९.६७ ॥

它被迦尔纳的利箭斩成十段坠落,那时这位奇异的战士、御者之子正为朋友而射箭。

7.139.68

स चर्मादत्त कौन्तेयो जातरूपपरिष्कृतम् ।
खङ्गं चान्यतरप्रेप्सुर्जयं मरणमेव वा ॥ ७.१३९.६८ ॥

贡蒂之子拿起饰有黄金的盾牌和剑,渴望或胜利或死亡。

7.139.69

तदस्य तरसा क्रुद्धो व्यधमच्चर्म सुप्रभम् ।
शरैर्बहुभिरत्युग्रैः प्रहसन्निव भारत ॥ ७.१३९.६९ ॥

他愤怒地用许多极为猛烈的箭猛力击落了那面明亮的盾牌,仿佛在笑,婆罗多啊。

7.139.70

स विचर्मा महाराज विरथः क्रोधमूर्च्छितः ।
असिं प्रासृजदाविध्य त्वरन्कर्णरथं प्रति ॥ ७.१३९.७० ॥

大王啊,他失去盾牌与战车,被愤怒所笼罩,挥舞着剑,急速地朝迦尔纳的战车掷去。

7.139.71

स धनुः सूतपुत्रस्य सज्यं छित्त्वा महानसिः ।
पपात भुवि राजेन्द्र क्रुद्धः सर्प इवाम्बरात् ॥ ७.१३९.७१ ॥

那把大剑斩断了御者之子已上弦的弓,王中之王啊,它像愤怒的毒蛇从天而降,落在地上。

7.139.72

ततः प्रहस्याधिरथिरन्यदादाय कार्मुकम् ।
शत्रुघ्नं समरे क्रुद्धो दृढज्यं वेगवत्तरम् ॥ ७.१३९.७२ ॥

于是阿提拉陀之子笑着,在战场上愤怒地拿起另一把弓,那是能杀敌、弦线坚韧、极为迅疾的弓。

7.139.73

व्यायच्छत्स शरान्कर्णः कुन्तीपुत्रजिघांसया ।
सहस्रशो महाराज रुक्मपुङ्खान्सुतेजनान् ॥ ७.१३९.७३ ॥

大王啊,卡尔纳怀着杀死昆提之子的念头,拉满了数千支金羽、锐利精良的箭。

7.139.74

स वध्यमानो बलवान्कर्णचापच्युतैः शरैः ।
वैहायसं प्राक्रमद्धै कर्णस्य रथमाविशत् ॥ ७.१३९.७४ ॥

这位勇士被卡尔纳弓上射出的箭所伤,便跃入空中,登上了卡尔纳的战车。

7.139.75

स तस्य चरितं दृष्ट्वा सङ्ग्रामे विजयैषिणः ।
ध्वजालयस्थो राधेयो भीमसेनमवञ्चयत् ॥ ७.१३९.७५ ॥

罗陀之子卡尔纳见他此举,一心求胜于战场,便藏身旗帜之上,欺骗了毗摩行那。

7.139.76

तमदृष्ट्वा रथोपस्थे निलीनं व्यथितेन्द्रियम् ।
ध्वजमस्य समारुह्य तस्मै भीमो महीतले ॥ ७.१३९.७६ ॥

毗摩见不到他——他蜷伏在战车底板上,心神慌乱——便攀上他的旗帜,接着又为他……落于地上……

7.139.77

तदस्य कुरवः सर्वे चाणाश्चाभ्यपूजयन् ।
यदियेष रथात्कर्णं हर्तुं तार्क्ष्य इवोरगम् ॥ ७.१३९.७७ ॥

所有的俱卢人和歌者都赞赏他的这一举动——他想从战车上把卡尔纳抓下来,如金翅鸟擒蛇一般。

7.139.78

स च्छिन्नधन्वा विरथः स्वधर्ममनुपालयन् ।
स्वरथं पृष्ठतः कृत्वा युद्धायैव व्यवस्थितः ॥ ७.१३९.७८ ॥

他的弓已折断,战车已失,却依旧恪守自己的本分,将自己的战车置于身后,坚定地为战斗而立。

7.139.79

तद्विचिन्त्य स राधेयस्तत एनं समभ्ययात् ।
संरम्भात्पाण्डवं सङ्ख्ये युद्धाय समुपस्थितम् ॥ ७.१३९.७९ ॥

卡尔纳(拉陀之子)思量之后,怒气冲冲地向准备战斗的般度之子阿周那迎去。

7.139.80

तौ समेतौ महाराज स्पर्धमानौ महाबलौ ।
जीमूताविव घर्मान्ते गर्जमानौ नरर्षभौ ॥ ७.१३९.८० ॥

大王啊,那两位大力者相互争竞而相遇,如同夏末轰鸣的两朵云,二位人中之牛。

7.139.81

तयोरासीत्संप्रहारः क्रुद्धयोर्नरसिंहयोः ।
अमृष्यमाणयोः सङ्ख्ये देवदानवयोरिव ॥ ७.१३९.८१ ॥

那两头愤怒的人中雄狮在战场上激烈交锋,如同天神与阿修罗相战,彼此都不肯相让。

7.139.82

क्षीणशस्त्रस्तु कौन्तेयः कर्णेन समभिद्रुतः ।
दृष्ट्वाऽर्जुनहतान्नागान्पतितान्पर्वतोपमान्।
रथमार्गविघातार्थं व्यायुधः प्रविवेश ह ॥ ७.१३९.८२ ॥

贡蒂之子的兵器已尽,卡尔纳向他猛攻。他看到被阿周那杀死、如山般倒下的象群,为了清除战车的道路,便赤手空拳冲了进去。

7.139.83

हस्तिनां व्रजमासाद्य रथदुर्गं प्रविश्य च ।
पाण्डवो जीविताकाङ्क्षी राधेयं नाभ्यवर्तत ॥ ७.१३९.८३ ॥

般度之子渴望活命,到达象群并进入战车之堡后,便不再与拉陀之子卡尔纳正面交锋。

7.139.84

व्यवस्थानमथाकाङ्क्षन्धनञ्जयशरैर्हतम् ।
उद्यम्य कुञ्जरं पार्थस्तस्थौ परपुरञ्जयः ॥ ७.१३९.८४ ॥

随后,他渴望一个稳固的立足之地,便举起被丹那江耶的箭射死的象,征服敌城的般度之子(阿周那)站立起来。

7.139.85

महौषधिसमायुक्तं हनूमानिव पर्वतम् ।
तमस्य विशिखैः कर्णो व्यधमत्कुञ्जरं पुनः ॥ ७.१३९.८५ ॥

如同哈努曼举起满载大药草的山岳,迦尔纳又用箭射倒了那头被毗摩之箭所伤的大象。

7.139.86

हस्त्यङ्गान्यथ कर्णाय प्राहिणोत्पाण्डुनन्दनः ।
चक्राण्यश्चांस्तथा चान्यद्यद्यत्पश्यति भूतले ॥ ७.१३९.८६ ॥

于是般度之子向迦尔纳投掷象肢、车轮、马匹,以及他在地上所见的一切。

7.139.87

तत्तदादाय चिक्षेप क्रुद्धः कर्णाय पाण्डवः ।
तदस्य सर्वं चिच्छेद क्षिप्तंक्षिप्तं शितैः शरैः ॥ ७.१३९.८७ ॥

愤怒的般度之子拿起每一件东西,掷向迦尔纳;迦尔纳便用利箭将每一件被投来的东西斩断。

7.139.88

भीमोऽपि मुष्टिमुद्यम्य वज्रगर्भं सुदारुणम् ।
हन्तुमैच्छत्सूतपुत्रं संस्परन्नर्जुनं क्षणात् ॥ ७.१३९.८८ ॥

毗摩也举起如金刚般坚硬、极其可怖的拳头,欲在瞬间击杀御者之子,同时触及阿周那。

7.139.89

शक्तोऽपि नावधीत्कर्णं समर्थः पाण्डुनन्दनः ।
रक्षमाणः प्रतिज्ञां तां या कृता सव्यसाचिना ॥ ७.१३९.८९ ॥

般度之子(毗摩)虽有能力,却未杀死迦尔纳,为了守护萨维亚萨吉(阿周那)所立下的那个誓言。

7.139.90

तमेवं व्याकुलं भीमं भूयोभूयः शितैः शरैः ।
मूर्च्छयाभिपरीताङ्गमकरोत्सूतनन्दनः ॥ ७.१३९.९० ॥

如此惊惶的毗摩,被御者之子一再以利箭射得周身昏厥。

7.139.91

व्यायुधं नावधीच्चैनं कर्णः कुन्त्या वचः स्मरन् ।
धनुषोग्रेण तं कर्णः सोऽभिद्रुत्य परामृशत् ॥ ७.१३९.९१ ॥

卡尔纳想起贡蒂的话,没有杀死已无武器的毗摩;他以猛烈的弓冲上前去触碰了他。

7.139.92

धनुषा स्पृष्टमात्रेण क्रुद्धः सर्प इव श्वसन् ।
आच्छिद्य स धनुस्तस्य कर्णं मूर्धन्यताडयत् ॥ ७.१३९.९२ ॥

被弓触碰的一刹那,他愤怒得像蛇一样嘶嘶作响,斩断了卡尔纳的弓,并击打他的头部。

7.139.93

ताडितो भीमसेनेन क्रोधादारक्तलोचनः ।
विहसन्निव राधेयो वाक्यमेतदुवाच ह ॥ ७.१३९.९३ ॥

被毗摩sena击中,怒目通红的罗陀之子卡尔纳仿佛含笑地说出了这番话。

7.139.94

पुनः पुनस्तूबरक मूढ औदरिकेति च ।
अकृतास्त्रक मा योत्सीर्बाल सङ्ग्रामकातर ॥ ७.१३९.९४ ॥

他一再说道:“贪吃的蠢货,腹中之徒!你这未学武艺的人,莫要交战!孩子,在战场上胆怯的人!”

7.139.95

यत्र भोज्यं बहुविधं भक्ष्यं पेयं च पाण्डव ।
तत्र त्वं दुर्मते योग्यो न युद्धेषु कदाचन ॥ ७.१३९.९५ ॥

般度之子啊,哪里有种种美食、可食之物与饮品,你就在那里适合;你这恶意之人,在战斗中你从来不配。

7.139.96

मूलपुष्पफलाहारो व्रतेषु नियमेषु च ।
उचितस्त्वं वने भीम न त्वं युद्धविशारदः ॥ ७.१३९.९६ ॥

以根、花、果为食,你适合誓愿与戒律;毗摩啊,你适合森林,却不是善于战斗之人。

7.139.97

क्व युद्वं क्व मुनित्वं च वनं गच्छ वृकोदर ।
न त्वं युद्धोचितस्तात वनवासरतिर्भवान् ॥ ७.१३९.९७ ॥

何处是战斗,何处是修行者的生活?狼腹啊,去森林吧。亲爱的,你并不适合战斗;你的乐趣在于林居。

7.139.98

सूदान्भृत्यजनान्दासांस्त्वं गृहे त्वरयन्भृशम् ।
योग्यस्ताडयितुं क्रोधाद्भोजनार्थं वृकोदर ॥ ७.१३९.९८ ॥

在家中极力催促厨师、仆人和奴隶,狼腹啊,你只配为了食物而在愤怒中鞭打他们。

7.139.99

मुनिर्भूत्वाऽथवा भीम फलान्यादत्स्व दुर्मते ।
वनाय व्रज कौन्तेय न त्वं युद्धविशारदः ॥ ७.१३९.९९ ॥

或者成为修行者,婆罗摩,取食果实吧。去森林吧,心术不正的贡蒂之子;你并不精通战斗。

7.139.100

फलमूलाशने शक्तस्त्वं तथाऽतिथिपूजने ।
न त्वां शस्त्रसमुद्योगे योग्यं मन्ये वृकोदर ॥ ७.१३९.१०० ॥

你能够食用果实与根茎,也能够款待宾客。狼腹啊,我认为你不适合投身于兵器之事。

7.139.101

एवं तं विरथं दृष्ट्वा स्मृत्वा कर्णोऽब्रवीद्वचः ॥ ७.१३९.१०१ ॥

见他如此失去战车,回想起往事,迦尔纳说了这些话。

7.139.102

कौमारे यानि वृत्तानि विप्रियाणि विशाम्पते ।
तानि सर्वाणि चाप्येव रूक्षाण्यश्रावयद्भृशम् ॥ ७.१३९.१०२ ॥

人主啊,他把童年时所有令人不快的事情,所有那些严厉的话,都大声地说了出来。

7.139.103

अथैनं तत्र संलीनमस्पृशद्धनुषा पुनः ।
प्रहसंश्च पुनर्वाक्यं भीममाह वृषस्तदा ॥ ७.१३९.१०३ ॥

于是迦尔纳又用弓触碰了那藏在那里的人,并且笑着再次对毗摩说了这些话。

7.139.104

योद्धव्यं मारिषान्यत्र न योद्धव्यं च मादृशैः ।
मादृशैर्युध्यमानानामेतच्चान्यच्च विद्यते ॥ ७.१३९.१०४ ॥

好人啊,这应当在别处进行,像我这样的人不应如此作战。对于像我这样作战的人,这还有别的规定。

7.139.105

गच्छ वा यत्र तौ कृष्णौ तौ त्वां रक्षिष्यतो रणे ।
गृहं वा गच्छ कौन्तेय किं ते युद्धेन बालक ॥ ७.१३९.१०५ ॥

去那两位黑天所在之处吧;他们会在战场上保护你。或者回家去,贡蒂之子,孩子!你与战争有什么相干?

7.139.106

कर्णस्य वचनं श्रुत्वा भीमसेनोऽतिदारुणम् ।
उवाच कर्णं प्रहसन्सर्वेषां शृण्वतां वचः ॥ ७.१३९.१०६ ॥

毗摩森那听了迦尔纳那极其严厉的话,笑着在众人听闻之中对迦尔纳说道。

7.139.107

जितस्त्वमसकृद्दुष्ट कत्थसे किं वृथात्मना ।
जयाजयौ महेन्द्रस्य लोके दृष्टौ पुरातनैः ॥ ७.१३९.१०७ ॥

恶人啊,你已被击败多次,何必徒然自夸?帝释天的胜利与失败,世上的古人都曾见过。

7.139.108

मल्लयुद्धं मया सार्धं कुरु दुष्कुलसम्भव ।
महाबलो महाभोगी कीचको निहतो यथा।
तथा त्वां घातयिष्यामि पश्यत्सु सर्वराजसु ॥ ७.१३९.१०८ ॥

出身卑贱的人啊,与我进行摔跤比试吧。正如强大而富有的迦钦迦被杀,我也将在诸王注视之下将你击杀。

7.139.109

भीमस्य मतमाज्ञाय कर्णो बुद्धिमतां वरः ।
विरराम रणात्तस्मात्पश्यतां सर्वधन्विनाम् ॥ ७.१३९.१०९ ॥

迦尔纳是智者中的最优者,他理解了怖军的意图,在所有弓箭手注视下停止了那场战斗。

7.139.110

एवं तं विरथं कृत्वा कर्णो राजन्व्यकत्थयत् ।
प्रसुखे वृष्णिसिंहस्य पार्थस्य च महात्मनः ॥ ७.१३९.११० ॥

大王啊,迦尔纳使他失去战车后,在毗湿奴族雄狮和大心的般度之子面前自夸起来。

7.139.111

तं ब्रुवाणं तु भीमः स काङ्क्षन्भीमपराक्रमः ।
न चाकार्षीन्मृतं स्मृत्वा ह्यर्जुनस्य महाबलम् ॥ ७.१३९.१११ ॥

他仍在说话,而怖军虽勇猛可怕、想要行动,却想起阿周那的大力,对他毫无作为,仿佛他已死去。

7.139.112

तस्य कार्मुकमारुज्य बभञ्जाशुपराक्रमी ॥ ७.१३९.११२ ॥

迅捷的勇士踏上他的弓,将其折断。

7.139.113

ततो दृष्ट्वा महाराज वासुदेवो महाद्युतिः ।
अर्जुनार्जुन पश्येमं भीमं कर्णेन बाधितम् ॥ ७.१३९.११३ ॥

大王啊,那时大光辉的瓦苏提婆看见后说:“阿周那,阿周那,看这被迦尔纳所困的怖军。”

7.139.114

एवमुक्तस्तदा पार्थः केशवेन महात्मना ।
भीमसेनं तथाभूतं क्रोधसंरक्तलोचनः।
अमर्षवशमापन्नो निर्दहन्निव चक्षुषा ॥ ७.१३९.११४ ॥

伟大的克舍瓦这样说后,阿周那看到那样状况的怖军,双眼因愤怒而通红,陷入愤慨之中,仿佛要用目光焚烧一切。

7.139.115

ततो राजञ्शिलाधौताञ्शराञ्शाखामृगध्वजः ।
प्राहिणोत्सूतपुत्राय केशवेन प्रचोदितः ॥ ७.१३९.११५ ॥

于是,大王啊,在克沙婆的催促下,持猴旗者(阿周那)将在磨石上洗过的箭射向御者之子。

7.139.116

ततः पार्थभुजोत्सृष्टाः शराः कनकभूषणाः ।
गाण्डीवप्रभवाः कर्णं हंसाः क्रौञ्चमिवाविशन् ॥ ७.१३९.११६ ॥

于是,从普利塔之子的臂中射出、饰以金饰、生于甘狄拔弓的箭,射入迦尔纳体内,如天鹅飞入鹤山。

7.139.117

स भुजङ्गैरिवाविष्टैर्गाण्डीवप्रेषितैः शरैः ।
भीमसेनादपासेधत्सूतपुत्रं धनञ्जयः ॥ ७.१३९.११७ ॥

甘狄拔弓射出的箭如蛇般钻入,财富征服者将御者之子从毗摩森那身边驱离。

7.139.118

स च्छिन्नधन्वा भीमेन धनञ्जयशराहतः ।
कर्णो भीमादपायासीद्रथेन महता द्रुतम् ॥ ७.१३९.११८ ॥

弓被毗摩打断、又受到财富征服者之箭所伤,迦尔纳乘大战车迅速离开毗摩。

7.139.119

भीमोऽपि सात्यकेर्वाहं समारुह्य नरर्षभः ।
अन्वयाद्धातरं सङ्ख्ये पाण्डवं सव्यसाचिनम् ॥ ७.१३९.११९ ॥

毗摩亦登上萨谛奇之车,人中雄牛,在战场上追随其兄般度之子萨维耶萨钦。

7.139.120

ततः कर्णं समुद्दिश्य त्वरमाणो धनञ्चयः ।
नाराचं क्रोधताम्राक्षः प्रैषीन्मृत्युमिवान्तकः ॥ ७.१३९.१२० ॥

于是,财富征服者怒目通红,急切地瞄准迦尔纳,射出一支铁箭,犹如死神遣送死亡。

7.139.121

स गरुत्मानिवाकशे प्रार्थयन्भुजगोत्तमम् ।
नाराचोऽभ्यपतत्कर्णं तूर्णं गाण्डीवचोदितः ॥ ७.१३९.१२१ ॥

如金翅鸟在空中追寻最上等的蛇,被甘狄拔弓推动的那支狼牙箭迅速射向迦尔纳。

7.139.122

तमन्तरिक्षे नाराचं द्रौणिश्चिच्छेद पत्रिणा ।
धनञ्जयभयात्कर्णमुज्जिहीर्षन्महारथः ॥ ७.१३९.१२२ ॥

在空中,德罗纳之子以一支箭斩断了那支狼牙箭;这位大车将因恐惧阿周那而想救护迦尔纳。

7.139.123

ततो द्रौणिं चतुःषष्ट्या विव्याध कुपितोऽर्जुनः ।
शिलीमुखैर्महाराज मागास्तिष्ठेति चाब्रवीत् ॥ ७.१३९.१२३ ॥

于是愤怒的阿周那以六十四支狼头箭射中德罗纳之子,大王啊,并说:“不要逃,站住!”

7.139.124

स तु मत्तगजाकीर्णमनीकं रथसङ्कुलम् ।
तूर्णमभ्याविशद्द्रौणिर्धनञ्जयशरार्दितः ॥ ७.१३९.१२४ ॥

然而德罗纳之子被阿周那的箭所折磨,迅速冲入那满是狂象与战车的军队中。

7.139.125

ततः सुवर्णपृष्ठानां चापानां कूजतां रणे ।
शब्दं गाण्डीवघोषेण कौन्तेयोऽभ्यभवद्बली ॥ ७.१३९.१२५ ॥

于是,强大的昆蒂之子以甘狄拔弓的轰鸣压过了战场上金背弓的嗡鸣。

7.139.126

धनञ्जयस्तथाऽऽयान्तं पृष्ठतो द्रौणिमभ्यगात् ।
नातिदीर्घमिवाध्वानं शरैः सन्त्रासयन्बलम् ॥ ७.१३९.१२६ ॥

阿周那也向从后方而来的德罗纳之子迎去,以箭惊吓军队,仿佛路途并不遥远。

7.139.127

विदार्य देहान्नाराचैर्नरवारणवाजिनाम् ।
कङ्कबर्हिणवासोभिर्बलं व्यधमदर्जुनः ॥ ७.१३९.१२७ ॥

阿周那以铁箭撕裂人、象和马的身体,并以鹭鸟与孔雀羽毛装饰的箭矢冲散了军队。

7.139.128

तद्बलं भरतश्रेष्ठ सवाजिद्विपमानवम् ।
पाकशासनिरायत्तः पार्थः स निजघान ह ॥ ७.१३९.१२८ ॥

婆罗多之最啊,那位受因陀罗之子引导的普利塔之子,真的将那支包括马、象和人在内的军队全部杀死了。