摩诃婆罗多 · 章 7.14
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.14.1
ततः स पाण्डवानीके जनयन्सुमहद्भयम् ।
व्यचरत्पृतनां द्रोणो दहन्कक्षमिवानलः ॥ ७.१४.१ ॥
于是他在般度之军中引起极大的恐惧,德罗纳在军中行进,如火焚烧干草。
7.14.2
निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम् ।
दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः ॥ ७.१४.२ ॥
见金车的德罗纳愤怒地焚烧诸军,宛如亲自升起的火焰,苏朗阇耶们都颤抖起来。
7.14.3
सततं कृष्यतः सङ्ख्ये धनुषोऽस्याशुकारिणः ।
ज्याघोषः शुश्रुवेऽत्यर्थं विस्फूर्जितमिवाशनेः ॥ ७.१४.३ ॥
他的弓弦在战场上不停地被拉开,那迅捷的弓发出的响声极为响亮,如同雷霆的轰鸣。
7.14.4
रथिनः सादिनश्चैव नागानश्वान्पदातिनः ।
रौद्रा हस्तवता मुक्ताः सम्मृद्गन्ति स्स सायकाः ॥ ७.१४.४ ॥
那善用双手者射出的可怕箭矢,碾碎了战车兵、骑兵、象、马和步兵。
7.14.5
नानद्यमानः पर्जन्यः प्रवृद्धः शुचिसङ्क्षये ।
अश्मवर्षमिवावर्षत्परेषामावहद्भयम् ॥ ७.१४.५ ॥
如同清明季节末了,未曾雷鸣却膨胀的乌云降下石雨,他向敌人降下恐怖。
7.14.6
विचरन्स दिशः सर्वाः सेनां सङ्क्षोभयन्प्रभुः ।
वर्धयामास सन्त्रासं शात्रवाणाममानुषम् ॥ ७.१४.६ ॥
他遍历四方,震撼军队,这位威力无比的勇士在敌人之中增添了非人的恐怖。
7.14.7
तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् ।
भ्राजमानं रथे तस्मिन्दृश्यते स्म महाभयम् ॥ ७.१४.७ ॥
他那镶嵌着金饰的弓在云中如闪电般闪耀;在那辆战车上,它显得如同巨大的恐怖。
7.14.8
स वीरः सत्यवान्प्राज्ञो धर्मनित्यः सदा पुनः ।
युगान्तकालवद्धोरां रौद्रां प्रावर्तयन्नदीम् ॥ ७.१४.८ ॥
那位英雄,诚实、智慧,始终坚守法(dharma),再次让一条可怖而狂暴的河流奔涌,犹如劫末之时。
7.14.9
अमर्षवेगप्रभवां क्रव्यादगणसङ्कुलाम् ।
बलौघैः सर्वतः पूर्णां ध्वजवृक्षापहारिणीम् ॥ ७.१४.९ ॥
源于愤怒之势,充满食肉之物的群集,四面被军队的洪流所充满,冲走旗杆之树。
7.14.10
शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम् ।
कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम् ॥ ७.१४.१० ॥
以血为水,以战车为漩涡,以象与马筑成河岸,以铠甲为舟相连,充满肉泥。
7.14.11
मेदोमज्जास्थिसिकतामुष्मीषचयफेनिलाम् ।
सङ्ग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम् ॥ ७.१४.११ ॥
以脂肪、骨髓与骨头为沙,因成堆的头巾而泛起白沫,充满战争的云团,布满矛鱼。
7.14.12
नरनागाश्वकलिलां शरवेगौघवाहिनीम् ।
शरीरदारुसङ्घाटां रथकच्छपसङ्कुलाम् ॥ ७.१४.१२ ॥
充满人、象与马,承载如箭般迅疾的洪流,以尸身为缠结的漂木,布满车龟。
7.14.13
उत्तमाङ्गैः पङ्कजिनीं निस्त्रिंशझषसङ्कुलाम् ।
रथनागहूदोपेतां नानाभारणभूषिताम् ॥ ७.१४.१३ ॥
那条满是头颅的莲花之河,满布如鱼的刀剑,有车与象组成的深潭,装饰着各式各样的饰物。
7.14.14
महारथशतावर्तां भूमिरेणूर्मिमालिनीम् ।
महावीर्यवतां सङ्ख्ये सुतरां भीरुदुस्तराम् ॥ ७.१४.१४ ॥
满是数百名大车将所成的漩涡,以大地尘土的波浪为花环,即使英勇的大力者在战场上也难以渡过,对怯懦者更是如此。
7.14.15
शरीरशतसम्बाधां गृध्रकङ्कनिषेविताम् ।
महारथसहस्राणि नयन्तीं यमसादनम् ॥ ७.१४.१५ ॥
满是数百具尸体,有秃鹫和鹭鸶出没,把成千上万的大车将送往阎摩的居所。
7.14.16
शूलव्यालसमाकीर्णां प्राणिवाजिनिषेविताम् ।
छिन्नक्षत्रमहाहंसां मुकुटाण्डजसेविताम् ॥ ७.१४.१६ ॥
布满长矛与毒蛇,有生灵与战马出没,以断裂的华盖为大天鹅,又有如冠冕的飞禽环绕。
7.14.17
चक्रकूर्माङ्गदानक्रां शरक्षुद्रझषाकुलाम् ।
बकगृध्रसृगालानां घोरसङ्घैर्निषेविताम् ॥ ७.१४.१७ ॥
以车轮为龟、臂钏为鳄,满是如小鱼的箭矢,有鹭鸶、秃鹫与豺狼的可怖群集出没。
7.14.18
निहतान्प्राणिनः सङ्ख्ये द्रोणेन बलिना रणे ।
वहन्तीं पितृलोकाय शतशो राजसत्तम ॥ ७.१४.१८ ॥
啊,王者中的最优者,那是被强大的德罗纳在战中杀死的生灵,成百地被送往祖先之界。
7.14.19
शऱीरशतसम्बाधां केशशैवलशाद्वलाम् ।
नदीं प्रावर्तयद्राजन्भीरूपणां भयवर्धिनीम् ॥ ७.१४.१९ ॥
大王啊,他使一条河流奔涌,河中堆满数百具尸体,以头发为水草,形状可怖,令人恐惧增长。
7.14.20
तर्जयन्तमनीकानि तानि तानि महारथम् ।
सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः ॥ ७.१४.२० ॥
那些军队威吓着大战车手德罗纳,从四面八方向他冲去,以坚战为先锋。
7.14.21
तानभिद्रवतः शूरांस्तावका दृढविक्रमाः ।
सर्वतः प्रत्यगृह्णन्त तदभूद्रोमहर्षणम् ॥ ७.१४.२१ ॥
你那些勇猛坚定的战士看见那些英雄从四面冲来,便从各方迎战,那景象令人毛骨悚然。
7.14.22
शतमायस्तु शकुनिः सहदेवं समाद्रवत् ।
सनियन्तृध्वजरथं विव्याघ निशितैः शरैः ॥ ७.१४.२२ ॥
然而沙古尼扑向萨诃提瓦,用锐利的箭射穿了他的战车、御者和旗帜。
7.14.23
तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि ।
नातिक्रुद्धः शरैश्छित्त्वा षष्ठ्या विव्याध सौबलम्।
भित्त्वा च शरवर्षेण शकुनिं प्रत्यवारयत् ॥ ७.१४.२३ ॥
摩德利之子斩断了他的旗帜、弓、御者与马匹,并不甚愤怒,以六十支箭射中苏跋罗之子;以箭雨射穿他,阻挡了沙古尼。
7.14.24
गदां गृहीत्वा शकुनिः प्रचस्कन्द रथोत्तमात् ।
स तस्य गदया राजन्रथात्सूतमपातयत् ॥ ७.१४.२४ ॥
沙古尼持起铁锤,从他那上等战车跃下;大王啊,他以铁锤把御者打下了战车。
7.14.25
ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ ।
चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ ॥ ७.१४.२५ ॥
于是二人失去战车,手持鎚棒,大力非凡,大王啊,在战场上如同两座有峰的山岳般搏斗。
7.14.26
द्रोणः पाञ्चालदायादं विव्याध निशितैः शरैः ।
तयोस्तत्र महाराज बाणवर्षैः प्रकाशितम्।
खद्योतैरिव चाकाशं प्रदोषे पुरुषर्षभ ॥ ७.१४.२६ ॥
德罗纳以锐利的箭射穿了般遮罗的族人。大王啊,那里两人的箭雨照亮了天空,如黄昏时的萤火,人中之牛啊。
7.14.27
विविंशतिं भीमसेनो विंशत्या निशितैः शरैः ।
विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत् ॥ ७.१४.२७ ॥
毗摩先那以二十支锐利的箭射中毗毗因沙提;他被射中却不动摇,这真如奇迹一般。
7.14.28
विविंशतिस्तु सहसा व्यश्वकेतुशरासनम् ।
भीमं चक्रे महाराज ततः सैन्यान्यपूजयन् ॥ ७.१४.२८ ॥
然而毗毗因沙提忽然毁坏了毗摩的马匹、旗帜与弓;大王啊,此时各军都赞美了他。
7.14.29
स तन्न ममृषे वीरः शत्रोर्विक्रममाहवे ।
ततोऽस्य गदया दान्तान्हयात्सर्वानपातयत् ॥ ७.१४.२९ ॥
那位英雄不能忍受敌人在战中的勇力;于是他以鎚棒击倒了敌人所有驯服的马匹。
7.14.30
हताश्वात्स रथाद्राजन्गृह्य चर्म महाबलः ।
अभ्ययाद्भीमसेनं तु मत्तो मत्तमिव द्विपम् ॥ ७.१४.३० ॥
大王啊,那位大力者从马匹已死的战车上取过盾牌,向毗摩先那逼近,如同狂象冲向另一头狂象。
7.14.31
शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः ।
विव्याध प्रहसन्बाणैर्लालयन्कोपयन्निव ॥ ७.१४.३१ ॥
英雄沙利耶笑着用箭射伤了他心爱的外甥那库拉,仿佛在抚爱他,又仿佛在激怒他。
7.14.32
तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः ।
निपात्य नकुलः सङ्ख्ये शङ्खं दध्मौ प्रतापवान् ॥ ७.१४.३२ ॥
那库拉在战场上击倒了他的马匹、华盖、旗帜、御者和弓,然后这位威武的勇士吹响了海螺。
7.14.33
धृष्टकेतुः कृपेणास्ताञ्छित्त्वा बहुविधाञ्छरान् ।
कृपं विव्याध सप्तत्या ध्वजं चास्य त्रिभिः शरैः ॥ ७.१४.३३ ॥
持剑斩断对方种种箭矢后,德里ษ塔凯图以七十支箭射伤克里巴,又以三支箭射中其旗帜。
7.14.34
तं कृपः शरवर्षेण महता समवारयत् ।
विव्याध च रणे विप्रो धृष्टकेतुममर्षणम् ॥ ७.१४.३४ ॥
克里巴以密集的箭雨阻挡了他,而在战场上,这位婆罗门也射伤了不屈的德里ษ塔凯图。
7.14.35
सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे ।
विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव ॥ ७.१४.३५ ॥
萨提亚基以铁箭射穿了克里达瓦尔曼的胸膛,接着仿佛微笑般,又以七十支其他箭矢再次射中他。
7.14.36
तं भोजः सप्तसप्तत्या विद्ध्वाऽऽशु निशितैः शरैः ।
नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम् ॥ ७.१४.३६ ॥
菩阇迅速以七十七支锐利的箭射穿了他,然而他没能撼动沙伊尼亚,正如疾风不能撼动高山。
7.14.37
सेनापतिः सुशर्माणं भृशं मर्मस्वताडयत् ।
स चापि तं तोमरेण जत्रुदेशेऽभ्यताडयत् ॥ ७.१४.३७ ॥
统帅猛烈击中苏沙尔曼的要害,苏沙尔曼也以投枪击中他的锁骨部位。
7.14.38
वैकर्तनं तु समरे विराटः प्रत्यवारयत् ।
सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत् ॥ ७.१४.३८ ॥
然而在战斗中,毗罗吒与勇猛的摩诃娑人一起阻挡了伐罗迦之子(迦尔纳),那真如奇迹一般。
7.14.39
तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम् ।
यत्सैन्यं वारयामास शरैः सन्नतपर्वभिः ॥ ७.१४.३९ ॥
那里有御者之子那可怕的勇力,他以弯曲关节的箭矢阻挡了军队。
7.14.40
द्रुपदस्तु स्वयं राजा भगदत्तेन सङ्गतः ।
तयोर्युद्धं महाराज चित्ररूपमिवाभवत् ॥ ७.१४.४० ॥
国王德鲁帕达亲自与跋伽达多交战;大王啊,他们的战斗仿佛呈现出奇妙的样态。
7.14.41
भगदत्तस्तु राजानं द्रुपदं नतपर्वभिः ।
सनियन्तृध्वजरथं विव्याध पुरुषर्षभः ॥ ७.१४.४१ ॥
人中雄牛婆伽达多以弯曲关节的箭射穿了德鲁帕达王,也射穿了他带旗的战车及御者。
7.14.42
द्रुपदस्तु ततः क्रुद्धो भगदत्तं महारथम् ।
आजघानोरसि क्षिप्रं शरेणानतपर्वणा ॥ ७.१४.४२ ॥
于是愤怒的德鲁帕达迅速以弯曲关节的箭射中大车手跋伽达多的胸膛。
7.14.43
युद्धं योधवरौ लोके सौमदत्तिशिखण्डिनौ ।
भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ ॥ ७.१४.४३ ॥
世上两位最优秀的勇士,索摩达蒂与湿金丁,展开了令众生恐惧的战斗;二人都精通武器。
7.14.44
भूरिश्रवा रणे राजन्याज्ञसेनिं महारथम् ।
महता सायकौघेन च्छादयामास वीर्यवान् ॥ ७.१४.४४ ॥
大王啊,在战场上,勇猛的薄利舍罗婆用大量箭雨遮蔽了那位大战车武士、阿阇那森之子。
7.14.45
शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशाम्पते ।
नवत्या सायकानां तु कम्पयामास भारत ॥ ७.१४.४५ ॥
于是愤怒的湿金丁,啊人民之主,以九十支箭使索摩达蒂战栗,啊婆罗多的后裔。
7.14.46
राक्षसौ रौद्रकर्माणौ हेडिम्बालम्बुसावुभौ ।
चक्रातेऽत्युद्भुतं युद्धं परस्परजयैषिणौ ॥ ७.१४.४६ ॥
两位行事残暴的罗刹,希丁巴之子与阿兰布沙,都想战胜对方,展开了极其奇异的战斗。
7.14.47
मायाशतसृजौ दृप्तौ मायाभिरितरेतरम् ।
अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ ॥ ७.१४.४७ ॥
这两位骄傲的千般幻术创造者,以幻术彼此隐身穿行,使人极为惊叹。
7.14.48
चेकितानोऽनुविन्देन युयुधे चातिभैरवम् ।
यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥ ७.१४.४८ ॥
车奇坦与阿努文达展开了极其可怖的激战,就像天神与阿修罗之战中强大的婆罗与帝释那样。
7.14.49
लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम् ।
यथा विष्णुः पुरा राजन्हिरण्याक्षेण संयुगे ॥ ७.१४.४९ ॥
大王啊,正如往昔毗湿奴在战斗中与希罗尼耶叉激烈交战,拉克什曼那也与刹多提婆展开了一场惨烈的厮杀。
7.14.50
ततः प्रचलिताश्वेन विधिवत्कल्पितेन च ।
रथेनाभ्यपतद्राजन्सौभद्रं पौरवो पौरवो नदन् ॥ ७.१४.५० ॥
随后,大王啊,波罗婆一边咆哮,一边乘坐按规制装备、骏马疾驰的战车冲向苏跋德罗之子。
7.14.51
ततोऽभ्ययात्स त्वरितो युद्धाकाङ्क्षी महाबलः ।
तेन चक्रे महद्युद्धमभिमन्युररिन्दमः ॥ ७.१४.५१ ॥
于是这位渴望战斗的大力士疾速前进,克敌者阿毗曼尤与他展开了一场大战。
7.14.52
पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत् ।
तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत् ॥ ७.१४.५२ ॥
波罗婆随即以箭雨倾泻于苏跋德罗之子身上,然而阿周那之子将他的旗帜、华盖和弓都击落在地。
7.14.53
सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः ।
पञ्चभिस्तस्य विव्याध हयान्सूनं च सायकैः ॥ ७.१४.५३ ॥
苏跋德罗之子又以另外七支疾箭射中波罗婆,并以五箭射中他的马匹与御者。
7.14.54
ततः प्रहर्षयन्सेनां सिंहवद्विनदन्मुहुः ।
समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम् ॥ ७.१४.५४ ॥
随后,阿周那之子使军队振奋,像狮子一般一再吼叫,迅速取过那支将给波罗婆带来死亡的箭。
7.14.55
तं तु सन्धितमाज्ञाय सायकं घोरदर्शनम् ।
द्वाभ्यां शराभ्यां हार्दिक्यश्चिच्छेद सशरं धनुः ॥ ७.१४.५५ ॥
哈尔迪基亚得知那支可怖的箭已搭上弦,便以两支箭连同箭一起射断了他的弓。
7.14.56
तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा ।
उद्बबर्ह सितं खङ्गमाददनाः शरावरम् ॥ ७.१४.५६ ॥
抛开断弓,灭敌英雄的苏跋陀罗之子拔出明亮的剑,又拿起盾牌。
7.14.57
स तेनानेकतारेण चर्मणा कृतहस्तवत् ।
भ्रान्तासिना चरन्मार्गान्दर्शयन्वीर्यमात्मनः ॥ ७.१४.५७ ॥
他手持那面布满星纹的盾牌和飞旋的剑,动作如同技艺娴熟的人,展示着自己英勇的路线。
7.14.58
भ्रामितं पुनरुद्धान्तमाधूतं पुनरुत्थितम् ।
चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत ॥ ७.१४.५८ ॥
大王啊,盾牌与剑被挥转,猛然上扬,又被抖动,再度扬起;二者已无法分辨。
7.14.59
स पौरवरथस्येषामाप्लुत्य सहसा नदन् ।
पौरवं रथमास्थाय केशपक्षे परामृशत् ॥ ७.१४.५९ ॥
他突然怒吼,跃上波罗婆战车的车辕,登上波罗婆的战车,抓住了他的头发。
7.14.60
जघानास्य पदा सूतमसिना पातयद्धृजम् ।
विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत् ॥ ७.१४.६० ॥
他一脚踢倒了对方的御者,以剑斩断旗幡,如同金翅鸟搅动大海抓起毒蛇一般,将他拽了起来。
7.14.61
तमागलितकेशान्तं ददृशुः सर्वपार्थिवाः ।
उक्षाणमिव सिंहेन पात्यमानमचेतसम् ॥ ७.१४.६१ ॥
所有国王看见他头发与发梢散乱,如同被狮子击倒的公牛,失去知觉。
7.14.62
तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत् ।
पौरवं पातितं दृष्ट्वा नामृष्यत जयद्रूथः ॥ ७.१४.६२ ॥
见婆罗婆在阿周那掌握之中,被如无依无靠者般拖拽、击倒,胜车不能忍受。
7.14.63
स बर्हिबर्हावततं किङ्किणीशतजालवत् ।
चर्म चादाय खङ्गं च नदन्पर्यपतद्रथात् ॥ ७.१४.६३ ॥
他持着饰有孔雀羽、如百个小铃铛之网的盾与剑,怒吼着从车上跳下。
7.14.64
ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम् ।
उत्पपात रथात्तूर्णं श्येनवन्निपपात च। ॥ ७.१४.६४ ॥
此时,阿周那见到信度王,便丢下婆罗婆,迅速从车上跃起,如鹰般扑下。
7.14.65
प्रासपट्टिशनिस्त्रिंशाञ्छत्रुभिः सम्प्रचोदितान् ।
चिच्छेद चासिना कार्ष्णिश्चर्मणा संरुरोध च ॥ ७.१४.६५ ॥
敌人投来的长矛、短剑与刀剑,阿周那以剑斩断,以盾遮挡。
7.14.66
स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः ।
तमुद्यम्य महाखङ्गं चर्म चाथ पुनर्बली ॥ ७.१४.६६ ॥
他向诸军展示自己臂膀的力量后,这位强者又举起了大剑与盾。
7.14.67
वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम् ।
ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम् ॥ ७.१४.६७ ॥
herói向着Vṛddhakṣatra的继承者、父亲的死敌迎面而去,如同猛虎扑向大象。
7.14.68
तौ परस्परमासाद्य खह्गदन्तनखायुधौ ।
हृष्टवत्सम्प्रजहाते व्याघ्रकेसरिणाविव ॥ ७.१४.६८ ॥
二人相遇,以剑、獠牙与利爪为武器,欣然相互攻击,如同虎与狮。
7.14.69
सम्पातेष्वभिघातेषु निपातेष्वसिचर्मणोः ।
न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः ॥ ७.१४.६९ ॥
在剑与盾的冲刺、击打与倒下之间,无人看见那两位人中狮子之间有任何空隙。
7.14.70
अवक्षेपोऽसिनिर्हादः शस्त्रान्तरनिदर्शनम् ।
बाह्यान्तरनिपातश्च निर्विशेमदृश्यत ॥ ७.१४.७० ॥
剑的挥击与鸣响,武器之间空隙的显现,内外的击打,以及……显现出来。
7.14.71
बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम् ।
ददृशाते महात्मानौ सपक्षाविव पर्वतौ ॥ ७.१४.७१ ॥
二位大德者沿着外侧与内侧的最高之路行进,看去如同两座生翼之山。
7.14.72
ततो विक्षिपतः खङ्गं सौभद्रस्य यशस्विनः ।
शरावरणपक्षान्ते प्रजहार जयद्रथः ॥ ७.१४.७२ ॥
那时,名声显赫的娑菩陀罗挥动宝剑,胜车在他盾牌的边缘猛击。
7.14.73
रुक्मपत्रान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे ।
सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः ॥ ७.१४.७३ ॥
那面闪亮的盾牌上嵌在金叶之间,被信度王的军力震动的那把大剑断裂了。
7.14.74
भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् ।
अदृश्यत निमेषेण स्वरथं पुनरास्थितः ॥ ७.१४.७४ ॥
他察觉剑已断,跳下六步,转眼间又重新登上了自己的战车。
7.14.75
तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम् ।
सहिताः सर्वराजानः परिवव्रुः समन्ततः ॥ ७.१४.७५ ॥
众王聚集一起,从四面包围了那位脱离战场、登上良车的迦尔什尼之子。
7.14.76
ततश्चर्म च खङ्गं च समुत्क्षिप्य महाबलः ।
ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम् ॥ ७.१४.७६ ॥
于是这位强大的阿周那之后裔举起盾与剑,望着胜车,发出吼声。
7.14.77
सिन्धुराजं परित्यज्य सौभद्रः परवीरहा ।
तापयामास तत्सैन्यं भुवनं भास्करो यथा ॥ ७.१४.७७ ॥
舍弃信度王,灭敌英雄的苏跋陀罗之子灼烧那支军队,如同太阳灼烧世界。
7.14.78
तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम् ।
चिक्षेप समरे घोरां दीप्तामग्निशिखामिव ॥ ७.१४.७८ ॥
在战斗中,沙利耶向他投掷了一支可怕的长矛,全以铁铸,饰以黄金,如火焰之舌般炽烈。
7.14.79
तामवप्लुत्य जग्राह विकोशं चाकरोदसिम् ।
वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम् ॥ ७.१४.७९ ॥
他跃身而下将其抓住,并拔出剑鞘中的剑,如同毗娜塔之子(迦鲁达)抓住坠落的最上等蛇王一般。
7.14.80
तस्य लाषवमाज्ञाय सत्वं चामिततेजसः ।
सहिताः सर्वराजानः सिंहनादमथानदन् ॥ ७.१४.८० ॥
众王见他的敏捷与无量光辉者的勇气,便一同发出狮子般的吼声。
7.14.81
ततस्तामेव शल्यस्य सौभद्रः परवीरहा ।
मुमोच भुजवीर्येण वैदूर्यविकृतां शिताम् ॥ ७.१४.८१ ॥
于是摧毁敌方英雄的萨乌跋陀罗,以双臂之力掷出了沙利耶那支镶嵌青金石的锋利长矛。
7.14.82
सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा ।
जघान सूतं शल्यस्य रथाच्चैनमपातयत् ॥ ७.१४.८२ ॥
它飞到他的战车上,如同放出的毒蛇,击杀了沙利耶的御者,也将他从车上打落。
7.14.83
ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः ।
सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ ॥ ७.१४.८३ ॥
随后是毗罗吒与德鲁帕达、德利什塔盖都、坚战、萨蒂亚基、俱吉王子们、怖军、德利什塔悉牟那与尸犍底。
7.14.84
यमौ च द्रौपदेयाश्च साधुसाध्विति चुक्रुशुः ।
बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः ॥ ७.१४.८४ ॥
无种、偕天与德罗波蒂之子齐声喊道:“善哉,善哉!”各种箭声与众多狮子吼响彻四方。
7.14.85
प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम् ।
तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम् ॥ ७.१४.८५ ॥
他们为不逃跑的萨乌跋陀罗之子鼓舞士气而上前;你的儿子们无法容忍敌人的胜利征兆。
7.14.86
अथैनं सहसा सर्वे समन्तान्निशितैः शरैः ।
अभ्याकिरन्महाराज जलदा इव पर्वतम् ॥ ७.१४.८६ ॥
于是众人突然从四面以锐利的箭将他覆盖,大王,如云覆盖山岳一般。
7.14.87
तेषां च प्रियमन्विच्छन्सूतस्य च पराभवम् ।
आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात् ॥ ७.१४.८७ ॥
为了他们的利益,也想为御者的失败复仇,歼敌者阿尔塔亚尼愤怒地冲向萨乌跋陀罗。