Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.140

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.140.1

दातव्यमद्य मन्येऽहं पाण्डवानां स्वकं पुनः ।
न विग्रहो हि बलिना श्रेयसे स्याद्यथातथा ॥ ७.१४०.१ ॥

我想今天应当把属于般度之子的那一份归还他们。与强者争斗,无论如何都不会带来福祉。

7.140.2

पादयोः प्रणतेनापि भुक्त्वाऽप्युच्छिष्टमप्यरेः ।
अतोऽन्यद्वापि कृत्वैव जीव्यं लोके नरेण वै ॥ ७.१४०.२ ॥

即便向敌人的脚下俯首,甚至吃他的剩饭,或者做别的什么事,人也应当在世间活下去。

7.140.3

जीवतैव परो लोकः साध्यते चैव सर्वथा ।
अजीवतस्तथैवासीन्न सुखं न परा गतिः ॥ ७.१४०.३ ॥

只有活着的人,才能全面地成就来世。对于不活着的人,既没有幸福,也没有至高的归宿。

7.140.4

विनाशे सर्वथोत्पन्ने न बालो बुध्यते क्रियाम् ।
मिथ्याभिमानदग्धो हि न बुद्ध्येत कृताकृते ॥ ७.१४०.४ ॥

当彻底的毁灭降临时,愚人不能理解行为。被虚假骄傲焚烧的人,无法分辨已做与未做。

7.140.5

अहन्यहनि मे दीप्तं यशः पतति सञ्जय ।
हता मे बहवो योधा मन्ये कालस्य पर्ययम् ॥ ७.१४०.५ ॥

桑闍耶啊,我光辉的荣誉一天天地失去。我的许多战士被杀;我想时间的轮转已经颠倒了。

7.140.6

धनञ्जयः सुसङ्क्रद्धः प्रविष्टो मामकं बलम् ।
रक्षितं द्रौणिकर्णाभ्यामप्रवेश्यं सुरैरपि ॥ ७.१४०.६ ॥

极度愤怒的阿周那闯入了我的军队。这支军队有德罗纳之子与迦尔纳守护,即便诸神也难以攻入。

7.140.7

ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः ।
सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च ॥ ७.१४०.७ ॥

得到那两位大力者之助、勇力增长,与克里希那、毗摩以及施尼族的雄牛(萨谛奇)同行,

7.140.8

तदाप्रभृति मां शोको दहत्यग्निरिवाशयम् ।
ग्रस्तानिव प्रपश्यामि भूमिपालान्ससैन्धवान् ॥ ७.१४०.८ ॥

从那时起,悲痛如火焚烧我的内心。我看见诸王与信度王仿佛已被吞噬。

7.140.9

अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः ।
क्रुद्धस्य देवराजस्य शक्रस्येव महाद्युतेः।
चक्षुर्विषयमापन्नः कथं जीवितमाप्नुयात् ॥ ७.१४०.९ ॥

信度王对戴冠者(阿周那)做了极大的恶事。一旦他落入愤怒的、大光明的天王帝释(因陀罗)之视线,他怎能保全性命?

7.140.10

अनुमानाच्च पश्यामि नास्ति सञ्जय सैन्धवः ।
युद्धं तु तद्यथावृत्तं तन्ममाचक्ष्व तत्त्वतः ॥ ७.१४०.१० ॥

我由推断得知,桑惹耶,信度王已不在人世。但请如实告诉我那场战斗是如何发生的。

7.140.11

यच्च विक्षोभ्य महतीं सेनामालोड्य चासकृत् ।
एकः प्रविष्टः सङ्क्रुद्धो नलिनीमिव कुञ्जरः ॥ ७.१४०.११ ॥

那位搅乱巨大军队、反复冲击,独自怒气冲冲地闯入的人,就像大象闯入莲花池一样——

7.140.12

तस्य मे वृष्णिवीरस्य ब्रूहि युद्धं यथातथम् ।
धनञ्जयार्थे यत्तस्य कुशलो ह्यसि सञ्जय ॥ ७.१४०.१२ ॥

请把那位毗瑞尼英雄的战斗如实告诉我,他为达那阳耶所做的一切。桑惹耶,你在这方面确实精通。

7.140.13

तथा तु वैकर्त नपीडितं तं ।
भीमं प्रयान्तं पुरुषप्रवीरम्।
समीक्ष्य राजन्नरवीरमध्ये ।
शिनिप्रवीरोऽनुययौ रथेन ॥ ७.१४०.१३ ॥

那时,施尼族的勇士见那位不动摇、可怖的人中英雄前进,王啊,便在众英雄之中乘车跟随他。

7.140.14

नदन्यथा वज्रधरस्तपान्ते ।
ज्वलन्यथा जलदान्ते च सूर्यः।
निघ्नन्नमित्रान्धनुषा दृढेन ।
स कम्पयंस्तव पुत्रस्य सेनाम् ॥ ७.१४०.१४ ॥

他如持金刚者般咆哮,如夏末的太阳般燃烧,以强弓击杀敌人,使你儿子的军队为之颤抖。

7.140.15

तं यान्तमश्वै रजतप्रकाशै… ।
रायोधने वीरतरं नदन्तम्।
नाशक्नुवन्वारयितुं त्वदीयाः ।
सर्वे रथा भारत माधवाग्र्यम् ॥ ७.१४०.१५ ॥

他乘着如银般明亮的骏马前进,是争夺财富之战中最英勇的,咆哮着。你所有的车战勇士都无法阻挡那位摩陀婆族的首领,哦,婆罗多。

7.140.16

अमर्षपूर्णस्त्वनिवृत्तयोधी ।
शरासनी काञ्चनवर्मधारी।
अलम्बुसः सात्यकिं माधवाग्र्य… ।
मवारयद्राजवरोऽभिपत्य ॥ ७.१४०.१६ ॥

满怀愤怒、从不退缩的战士阿兰布沙,手持弓、身披金甲,作为诸王中的佼佼者,猛扑向摩陀婆族的首领萨提亚基,将他阻拦。

7.140.17

तयोरभूद्भारत सम्प्रहारो ।
यथाविधो नैव बभूव कश्चित्।
प्रेक्षन्त एवाहवशोभिनौ तौ ।
योधास्त्वदीयाश्च परे च सर्वे ॥ ७.१४०.१७ ॥

哦,婆罗多,那两人之间发生了前所未有的激战。你的勇士和其他所有人只是注视着这两位在战场上光彩夺目的英雄。

7.140.18

आविध्यदेनं दशभिः पृषत्कै… ।
रलम्बुसो राजवरः प्रसह्य।
अनागतानेव तु तान्पृषत्कां… ।
श्चिच्छेद बाणैः शिनिपुङ्गवोऽपि ॥ ७.१४०.१८ ॥

卓越的国王阿兰布沙以十支箭猛烈地射中了他;但希尼族的雄牛在箭未到达之前,便用自己的箭将那些箭射断了。

7.140.19

पुनः स बाणैस्त्रिभिरग्निकल्पै… ।
राकर्णपूर्णैर्निशितैः सपुङ्खैः।
विव्याध देहावरणं विदार्य ।
ते सात्यकेराविविशुः शरीरम् ॥ ७.१४०.१९ ॥

接着,他以三支如火般锐利、带羽的箭,拉满至耳边,射穿了萨谛吉的护甲,箭矢刺入了他的身体。

7.140.20

तैः कायमस्याग्न्यनिलप्रभावै… ।
र्विदार्य बाणैर्निशितैर्ज्वलद्भिः।
आजघ्निवांस्तान्रजतप्रकाशा… ।
नश्वांश्चतुर्भिश्चतुरः प्रसह्य ॥ ७.१४०.२० ॥

他以那些具有火与风之力、锐利燃烧的箭穿透了对方的身体,并以四支箭猛烈射杀了那四匹银光闪耀的骏马。

7.140.21

तथा तु तेनाभिहतस्तरस्वी ।
नप्ता शिनेश्चक्रधरप्रभावः।
अलम्बुसस्योत्तमवेगवद्भि… ।
रश्वांशअचतुर्भिर्निजघान बाणैः ॥ ७.१४०.२१ ॥

然而,被他如此击伤之后,希尼的孙子、力量堪比持轮者(黑天)的迅猛勇士,以四支箭射倒了阿兰布沙那四匹最迅捷的骏马。

7.140.22

अथास्य सूतस्य शिरो निकृत्य ।
भल्लेन कालानलसन्निभेन।
सकुण्डलं पूर्मशशिप्रकाशं ।
भ्राजिष्णु वक्त्रं निचकर्त देहात् ॥ ७.१४०.२२ ॥

随后,他以一支如死亡之火般的婆罗箭,斩下了对方御者的头颅;那带着耳环、明亮如满月的光彩面庞,便与身体分离而坠落。

7.140.23

निहत्य तं पार्थिवपुत्रपौत्रं ।
सङ्ख्ये यदूनामृषभः प्रमाथी।
ततोऽन्वयादर्जुनमेव वीरः ।
सैन्यानि राजंस्तव सन्निवार्य ॥ ७.१४०.२३ ॥

那位雅度族的雄牛、摧毁者,在战场上杀死了国王的儿子和孙子之后,便紧随阿尔朱那而去,哦王啊,阻挡了你的军队。

7.140.24

अन्वागतं वृष्णिवीरं समीक्ष्य ।
तथारिमध्ये परिवर्तमानम्।
घ्नन्तं कुरूणामिषुभिर्बलानि ।
पुनःपुनर्वायुमिवाभ्रपूगान् ॥ ७.१४०.२४ ॥

看见那位从后方赶来的伐力须尼英雄,在敌阵中穿梭,用箭一次又一次射击俱卢的军队,如同风一次次吹散云团。

7.140.25

ततोऽवहन्सैन्धवाः साधुदान्ता ।
गोक्षीरकुन्देन्दुहिमप्रकाशाः।
सुवर्णजालावतताः सदश्वा ।
यतोयतः कामयते नृसिंहः ॥ ७.१४०.२५ ॥

于是那些训练有素的信度良马,洁白如牛奶、茉莉、月亮与冰雪,覆盖着金网,将这位人中狮子带往他所愿去的任何地方。

7.140.26

अथात्मजास्ते सहिताऽभिपेतु… ।
रन्ये च योधास्त्वरितास्त्वदीयाः।
कृत्वा मुखं भारतयोधमुख्यं ।
दुःशासनं त्वत्सुतमाजमीढ ॥ ७.१४०.२६ ॥

那时你的儿子们一同扑上前去……你的其他战士也迅速地行动,以婆罗多战士中的翘楚难降为首。哦,阿阇弥陀的后裔!

7.140.27

ते सर्वतः सम्परिवार्य सङ्ख्ये ।
शैनेयमाजघ्नुरनीकसाहाः।
स चापि तान्प्रवरः सात्वतानां ।
न्यवारयद्बाणजालेन वीरः ॥ ७.१४०.२७ ॥

他们从四面八方将他团团围住,在战斗中袭击了舍内耶(萨提亚基),那些军队的携持者。然而那位萨特瓦塔中最杰出的英雄,以箭网将他们阻挡下来。

7.140.28

निवार्य तांस्तूर्णममित्रघाती ।
नप्ता शिनेः पत्रिभिरग्निकल्पैः।
दुःशासनस्याभिजघान वाहा… ।
ञ्जवीयसस्तन्मनसोऽपि बाणैः ॥ ७.१४०.२८ ॥

他迅速阻挡了他们,敌人的杀手、希尼之孙以如火般的箭射中了难近山的马……也以箭射中了安奢维耶的心。

7.140.29

ततोऽर्जुनो हर्षमवाप सङ्ख्ये ।
कृष्णश्च दृष्ट्वा पुरुषप्रवीरम् ॥ ७.१४०.२९ ॥

于是阿周那在战斗中生出喜悦,黑天见到那位英雄中的最优者,(也欢喜了)。