Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.141

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.141.1

तमुद्यतं महाबाहुं दुःशासनरथं प्रति ।
त्वरितं त्वरणीयेषु धनञ्जयजयैषिणम् ॥ ७.१४१.१ ॥

他臂力强大,向难敌弟杜尸沙那的战车前进,在应当迅速迎击的人中最为迅捷,一心求取阿周那的胜利。

7.141.2

त्रिगर्तानां महेष्वासाः सुवर्णविकृतध्वजाः ।
सेनासमुद्रमाविष्टमनन्तं पर्यवारयन् ॥ ७.१४१.२ ॥

三摩多国的大弓箭手们,旗帜饰以黄金,进入无边的军队之海,将其团团包围。

7.141.3

अथैनं रथवंशेन सर्वतः सन्निवार्य ते ।
अवाकिरञ्छरव्रातैः क्रुद्धाः परमधन्विनः ॥ ७.१४१.३ ॥

于是,他们以一排战车从四面将其阻挡,愤怒的最上等弓箭手们向他倾泻箭雨。

7.141.4

अजयद्राजपुत्रांस्तान्भ्राजमानान्महारणे ।
एकः पञ्चाशतं शत्रून्सात्यकिः सत्यविक्रमः ॥ ७.१४१.४ ॥

在大战中,真勇的萨提奇独自战胜了那些闪耀的王子和五十名敌人。

7.141.5

सम्प्राप्य भारतीमध्यं तलघोषसमाकुलम् ।
असिशक्तिगदापूर्णमप्लुवं सागरं यथा ॥ ७.१४१.५ ॥

抵达婆罗多军队的中央,那里充满拍手的喧响,满是刀剑、长枪与战锤,犹如没有船筏便无法渡过的大海。

7.141.6

अथैनमनुवृत्तास्तु त्रिगर्ताः सहिताः पुनः ।
तीव्रेण रथवंशेन महता पर्यवारयन्।
विकर्षन्तोऽतिमात्राणि चापानि भरतर्षभ ॥ ७.१४१.६ ॥

于是,三摩多人再次聚集并紧随其后,以猛烈庞大的战车阵将他包围,拉满弓弦,婆罗多之雄牛啊。

7.141.7

तत्राद्भुतमपश्याम शैनेयचरितं रणे ।
प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्यामि लाघवात् ॥ ७.१४१.७ ॥

在战场上,我们看见了希尼之后裔的奇妙功绩。我在西方看见他,又因敏捷而在东方也看见了他。

7.141.8

उदीचीं दक्षिणां प्राचीं प्रतीचीं विदिशस्तथा ।
पुनर्मध्यगतो वीर आहवे युद्धदुर्मदः ॥ ७.१४१.८ ॥

那位英雄在战斗中被战争的傲气所陶醉,奔向北、南、东、西及各隅方向,然后又回到中央。

7.141.9

एकः पर्यचरन्रङ्गे बहुधा स महाबलः ।
नृत्यन्निवाचरच्छूरो यथा रथशतं तथा ॥ ७.१४१.९ ॥

这位大力者独自在战场上多方奔走,仿佛在跳舞;这位英雄的作为如同百乘战车。

7.141.10

तद्दृष्ट्वा चरितं तस्य सिंहविक्रान्तगामिनः ।
त्रिगर्ताः सन्न्यवर्तन्त सन्तप्ताः स्वजनं प्रति ॥ ७.१४१.१० ॥

看见这位以狮子般英勇行进者的那一功绩,三摩竭人(Trigarta)心中懊恼,转身回到自己的人那边。

7.141.11

तमन्ये शूरसेनानां शूराः सङ्ख्ये न्यवारयन् ।
नियच्छन्तः शरव्रातैर्मत्तं द्विपमिवाङ्कुशैः ॥ ७.१४१.११ ॥

其他的舒罗色那英雄在战斗中阻挡了他,以箭雨约束他,如同用钩子制服发狂的象。

7.141.12

तैर्व्यवाहरदार्यात्मा मुहूर्तादेव सात्यकिः ।
ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः ॥ ७.१४१.१२ ॥

高贵之心的萨提亚基在一瞬间便与他们交战;之后这位力量与勇武不可思议的人,与羯陵伽人作战。

7.141.13

तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम् ।
अथ पार्थं महाबाहुर्धनञ्जयमुपासदत् ॥ ७.१४१.१३ ॥

越过那难以穿越的羯陵伽军队后,大臂者便走近了般遮罗之子(不,此处为)帕尔特·达南迦耶。

7.141.14

तरन्निव जले श्रान्तो यथा स्थलमुपेयिवान् ।
तं दृष्ट्वा पुरुषव्याघ्रं युयुधानः समाश्वसत् ॥ ७.१४१.१४ ॥

如同在水中游泳疲惫的人抵达陆地而得以安心,见到那人中之虎,尤尤丹纳也重新振作起来。

7.141.15

तमायान्तमभिप्रेक्ष्य केशवः पार्थमब्रवीत् ।
असावायाति शैनेयस्तव पार्थ पदानुगः ॥ ७.१४१.१५ ॥

看见他走来,克舍婆对帕尔特说:“帕尔特啊,那位希尼之后正在走来,是你的追随者。”

7.141.16

एष शिष्यः सखा चैव तव सत्यपराक्रमः ।
सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः ॥ ७.१४१.१६ ॥

此人是你的弟子和朋友,有真正的勇武。把所有战士都看作草芥,这位人中之牛已将他们征服。

7.141.17

एष कौरवयोधानां कृत्वा घोरमुपद्रवम् ।
तव प्राणैः प्रियतमः किरीटिन्नेति सात्यकिः ॥ ७.१४१.१७ ॥

此人在考拉瓦战士中造成了可怕的毁灭;啊,基利亭,这位萨提亚基比生命还要珍贵于你。

7.141.18

एष द्रोणं तथा भोजं कृतवर्माणमेव च ।
कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः ॥ ७.१४१.१८ ॥

此萨提亚基以箭羞辱了德罗纳、薄阇和克里特婆尔曼之后,正走向法尔古那。

7.141.19

धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान् ।
शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः ॥ ७.१४१.१९ ॥

为了讨好法王,他接连杀死了最优秀的战士。精通武艺的英雄萨蒂亚基正走向法尔古纳。

7.141.20

कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः ।
तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः ॥ ७.१४१.२० ॥

在军队之中完成了极其艰难的功业,大力的萨蒂亚基想要见到你,正向你走来,般度之子。

7.141.21

बहूनेकरथेनाजौ योधयित्वा महारथान् ।
आचार्यप्रमुखान्पार्थ प्रयात्येष स सात्यकिः ॥ ७.१४१.२१ ॥

般度之子啊,他独自驾一车,与以老师为首的众多大车战士交战,这位萨蒂亚基正在前来。

7.141.22

स्वबाहुबलमाश्रित्य विदार्य च वरूथिनीम् ।
प्रेषितो धर्मराजेन पार्थैषोऽभ्येति सात्यकिः ॥ ७.१४१.२२ ॥

他依靠自己双臂的力量,冲破了军阵,由法王派遣而来,这位萨蒂亚基正向你走来,般度之子。

7.141.23

प्रियः शिष्यश्च ते पार्थ त्वया तुल्यपराक्रमः ।
विद्राव्यं महतीं सेनामेष ह्यायाति सात्यकिः ॥ ७.१४१.२३ ॥

般度之子啊,你的爱徒,勇气与你相当,这位萨蒂亚基正来,要将庞大的军队驱散。

7.141.24

यस्य नास्ति समो योधः कौरवेषु कथञ्चन ।
सोऽयमायाति कौन्तेय सात्यकिर्युद्धदुर्मदः ॥ ७.१४१.२४ ॥

在俱卢族中无人能与之匹敌的,昆提之子啊,正是这位在战斗中狂喜的萨蒂亚基正在来。

7.141.25

कुरुसैन्याद्विमुक्तो वै सिंहो मध्याद्गवामिव ।
निहत्य बहुलाः सेनाः पार्थैषोऽब्येति सात्यकिः ॥ ७.१४१.२५ ॥

阿周那啊,这位萨谛奇从俱卢军中脱出,如同狮子从牛群中跃出,杀死众多军队而来。

7.141.26

एष राजसहस्राणां वक्त्रैः पङ्कजसन्निभैः ।
आस्तीर्य वसुधां पार्थ क्षिप्रमायाति सात्यकिः ॥ ७.१४१.२६ ॥

阿周那啊,这位萨谛奇以千百位国王如莲花般的面孔铺满大地,迅速而来。

7.141.27

एष दुर्योधनं जित्वा भ्रातृभिः सहितं रणे ।
निहत्य जलसन्धं च क्षिप्रमायाति सात्यकिः ॥ ७.१४१.२७ ॥

这位萨谛奇在战场上击败了与兄弟们在一起的难敌,又杀死了胜车,迅速而来。

7.141.28

रुधिरौघवतीं कृत्वा नदीं शोणितकर्दमाम् ।
तृणवद्व्यस्य कौरव्यानेष ह्यायाति सात्यकिः ॥ ७.१४१.२८ ॥

他造出一条充满血流、血泥的河流,将俱卢人如草一般抛开,这位萨谛奇来了。

7.141.29

ततः प्रहृष्टः कौन्तेयः केशवं वाक्यमब्रवीत् ।
न मे प्रियं महाबाहो यन्मामभ्येति सात्यकिः ॥ ७.१४१.२९ ॥

于是喜悦的贡蒂之子对克沙瓦说:大臂者啊,萨谛奇向我而来,这并不令我欢喜。

7.141.30

न हि जानामि वृत्तान्तं धर्मराजस्य केशव ।
सात्वतेन विहीनः स यदि जीवति वा न वा ॥ ७.१४१.३० ॥

克沙瓦啊,我不知道法王的消息:他失去萨谛奇(萨特瓦塔)之后,是否还活着。

7.141.31

एतेन हि महाबाहो रक्षितव्यः स पार्थिवः ।
तमेष कथमुत्सृज्य मम कृष्ण पदानुगः ॥ ७.१४१.३१ ॥

大臂者啊,那位君王应当由此人守护。克里希那啊,我这追随者怎能舍弃他呢?

7.141.32

राजा द्रोणाय चोत्सृष्टः सैन्धवश्चानिपातितः ।
प्रत्युद्याति च शैनेयमेष भूरिश्रवा रणे ॥ ७.१४१.३२ ॥

君王(布利什罗婆斯)被派出为德罗纳而战,而信度王(胜车)尚未被击倒。此时布利什罗婆斯在战场上前进,迎战室尼之子(萨谛奇)。

7.141.33

सोऽयं गुरुतरो भारः सैन्धवार्थे समाहितः ।
ज्ञातव्यश्च हि मे राजा रक्षितव्यश्च सात्यकिः ॥ ७.१४१.३३ ॥

为了信度王,这更加沉重的重担已被承担。我必须知道那位君王的消息,萨谛奇也必须得到守护。

7.141.34

जयद्रथश्च हन्तव्यो लम्बते च दिवाकरः ।
श्रान्तश्चैष महाबाहुरल्पप्राणश्च साम्प्रतम् ॥ ७.१४१.३४ ॥

胜车必须被杀,太阳正在沉没。这位大臂者如今已疲惫,生命所剩无几。

7.141.35

परिश्रान्ता हयाश्चास्य हययन्ता च माधव ।
न च भूरिश्रवाः श्रान्तः ससहायश्च केशव ॥ ७.१४१.३५ ॥

摩陀婆啊,他的马匹与御者都已疲惫。克沙婆啊,布利什罗婆斯与其同伴却并未疲倦。

7.141.36

अपीदानीं भवेदस्य क्षेममस्मिन्समागमे ।
कच्चिन्न सागरं तीर्त्वा सात्यकिः सत्यविक्रमः।
गोष्पदं प्राप्य सीदेत महौजाः शिनिपुङ्गवः ॥ ७.१४१.३६ ॥

在这场交锋中,他如今还能平安吗?真正勇武的萨谛奇,渡过大海之后,会不会在牛蹄印大小的水洼中沉没?那位力量强大的室尼族之牛,难道会这样沉没吗?

7.141.37

अपि कौरवमुख्येन कृतास्त्रेण महात्मना ।
समेत्य भूरिश्रवसा स्वस्तिमान्सात्यकिर्भवेत् ॥ ७.१४१.३७ ॥

或许萨蒂亚基与卓越的考拉瓦首领、精通武艺的大德布利舍罗婆相遇后,将得以平安。

7.141.38

व्यतिक्रममिमं मन्ये धर्मराजस्य केशव ।
आचार्याद्भयमुत्सृज्य यः प्रैषयत सात्यकिम् ॥ ७.१४१.३८ ॥

啊,केशव,我认为这是法王的越轨之举:他抛开了对老师的畏惧,派出了萨蒂亚基。

7.141.39

ग्रहणं धर्मराजस्य खगः श्येन इवामिषम् ।
नित्यमाशंसते द्रोणः कच्चित्स्यात्कुशली नृपः ॥ ७.१४१.३९ ॥

犹如猛禽渴望捕获猎物,德罗纳时常渴望捉住法王。愿那位君王平安无恙。