摩诃婆罗多 · 章 7.142
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.142.1
तमापतन्तं सम्प्रेक्ष्य सात्वतं युद्धदुर्मदम् ।
क्रोधाद्भूरिश्रवा राजन्सहसा समुपाद्रवत् ॥ ७.१४२.१ ॥
见萨特瓦塔(萨提亚奇)因战斗狂热而冲向自己,大王啊,婆利修罗瓦斯怒从心起,突然向他扑去。
7.142.2
तमब्रवीन्महाराज कौरव्यः शिनिपुङ्गवम् ।
अद्य प्राप्तोऽपि दिष्ट्या मे चक्षुर्विषयमित्युत ॥ ७.१४२.२ ॥
那位俱卢子弟对世系尸尼族的雄牛说道:大王啊,今日幸运,你也进入了我目光所及的范围。
7.142.3
चिराभिलषितं काममहं प्राप्स्यामि संयुगे ।
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम् ॥ ७.१४२.३ ॥
我将在战斗中实现我长久以来所渴望的愿望。你若不放弃战场,活着就无法从我手中逃脱。
7.142.4
अद्य त्वां समरे हत्वा नित्यं शूराभिमानिनम् ।
नन्दयिष्यामि दाशार्ह कुरुराजं सुयोधनम् ॥ ७.१४२.४ ॥
今日我将在战场上杀死你——你总是以自己的勇武而自傲——啊,达沙尔哈,我要让俱卢王苏约陀那欢喜。
7.142.5
अद्य मद्बाणनिर्दग्धं पतितं धरणीतले ।
द्रक्ष्यतस्त्वां रणे वीरौ सहितौ केशवार्जुनौ ॥ ७.१४२.५ ॥
今日你被我的箭焚烧,倒卧在大地之上,两位英雄克沙瓦与阿周那将一同在战场上看见你。
7.142.6
अद्य धर्मसुतो राजा श्रुत्वा त्वां निहतं मया ।
सव्रीडो भविता सद्यो येनासीह प्रवेशितः ॥ ७.१४२.६ ॥
今日,法之子国王听闻你被我杀死,立刻会感到羞愧,因为正是他把你带入这里的战斗之中。
7.142.7
अद्य मे विक्रमं पार्थो विज्ञास्यति धनञ्जयः ।
त्वयि भूमौ विनिहते शयाने रुधिरोक्षिते ॥ ७.१४२.७ ॥
今日普利塔之子财主(Dhanañjaya)将知道我的勇力,那时你被杀倒在地上,满身鲜血。
7.142.8
चिराभिलषितो ह्येष त्वया सह समागमः ।
पुरा देवासुरे युद्धे शक्रस्य बलिना यथा ॥ ७.१४२.८ ॥
我久已期望的与你的相遇今日实现,如往昔天神与阿修罗之战中帝释与婆利的相遇。
7.142.9
अद्य युद्धं महाघोरं तव दास्यामि सात्वत ।
ततो ज्ञास्यसि तत्त्वेन मद्वीर्यबलपौरुषम् ॥ ७.१४२.९ ॥
今日我将给你一场极其可怕的战斗,萨特瓦塔之子啊;那时你将真正知道我的勇力、力量与气概。
7.142.10
अद्य संयमनीं याता मया त्वं निहतो रणे ।
यथा रामानुजेनाजौ रावणिर्लक्ष्मणेन ह ॥ ७.१४२.१० ॥
今日你将死于我手,前往阎摩之城,正如罗摩之弟罗什曼那在战中杀死罗波那之子。
7.142.11
अद्य कृष्णश्च पार्थश्च धर्मराजश्च माधव ।
हते त्वयि निरुत्साहारणं त्यक्ष्यन्त्यसंशयम् ॥ ७.१४२.११ ॥
今日,摩达婆啊,你被杀后,克里希那、般陀之子以及法王必定丧失斗志,放弃战斗,毫无疑问。
7.142.12
अद्य तेऽपचितिं कृत्वा शितैर्माधव सायकैः ।
तत्स्त्रियो नन्दयिष्यामि ये त्वया निहता रणे ॥ ७.१४२.१२ ॥
今日,摩达婆啊,我将以利箭向你致以应有的敬意,使那些在战中被你所杀者的妻子们欢喜。
7.142.13
मच्चक्षुर्विषये प्राप्तो न त्वं माधव मोक्ष्यसे ।
सिंहस्य विषयं प्राप्तो यथा क्षुद्रमृगस्तथा ॥ ७.१४२.१३ ॥
摩陀婆啊,你既落入我的视野之内,便不能逃脱,正如小鹿落入狮子的范围便无法逃脱一般。
7.142.14
युयुधानस्तु तं राजन्प्रत्युवाच हसन्निव ।
कौरवेय न सन्त्रासो विद्यते मम संयुगे ॥ ७.१४२.१४ ॥
大王啊,猷猷陀那仿佛笑着回答他:俱卢之子啊,我在战斗中没有恐惧。
7.142.15
नाहं भीषयितुं शक्यो वाङ्मात्रेण तु केवलम् ।
स मां निहन्यात्सङ्ग्रामे यो मां कुर्यान्निरायुधम् ॥ ७.१४२.१५ ॥
仅凭言语我是不能被吓倒的。谁能在战斗中使我手无寸铁,谁才能杀死我。
7.142.16
समास्तु शाश्वतीर्हन्याद्यो मां हन्याद्धि संयुगे ।
किं वृथोक्तेन बहुना कर्मणा तत्समाचर ॥ ७.१४२.१६ ॥
在战斗中杀死我的人,愿他享受永恒无数年的果报。空话连篇有何益处?请把它付诸行动。
7.142.17
शारदस्येव मेघस्य गर्जितं निष्फलं हिते ।
श्रुत्वा त्वद्गर्जितं वीर हास्यं हि मम जायते ॥ ७.१४२.१७ ॥
犹如秋云的雷鸣无益于人,你的咆哮也是徒劳。英雄啊,听了你的吼叫,我便忍不住想笑。
7.142.18
चिरकालेप्सितं लोके युद्धमद्यास्तु कौरव ।
त्वरते मे मतिस्तात तव युद्धाभिकाङ्क्षिणी।
नाहत्वाऽहं निवर्तिष्ये त्वामद्य पुरुषाधम ॥ ७.१४२.१८ ॥
俱卢之子啊,愿世间久已渴望的战斗今日便开始。亲爱的,你那渴望战争的心意催促着我的心。卑劣之人啊,今日若不杀你,我绝不回头。
7.142.19
अन्योन्यं तौ तथा वाग्भिस्तक्षन्तौ नरपुङ्गवौ ।
जिघांसू परमक्रुद्धभिजघ्नतुराहवे ॥ ७.१४२.१९ ॥
那两位人中雄牛以言语相互刺伤,怒火中烧,欲置对方于死地,在战场上彼此攻击。
7.142.20
समेतौ तौ महेष्वासौ शुष्मिणौ स्पर्धिनौ रणे ।
द्विरदाविव सङ्क्रुद्धौ वासितार्थे मदोत्कटौ ॥ ७.१४२.२० ॥
那两位伟大的弓箭手,强盛而彼此竞争,在战场上相遇,如同两头为争母象而发情暴怒的大象。
7.142.21
भूरिश्रवाः सात्यकिश्च ववर्षतुररिन्दमौ ।
शरवर्षाणि घोराणि मेघाविव परस्परम् ॥ ७.१४२.२१ ॥
征服敌人的婆利修罗婆与萨提亚吉彼此倾泻可怕的箭雨,如同两朵云相互降雨。
7.142.22
सौमदत्तिस्तु शैनेयं प्रच्छाद्येषुभिराशुगैः ।
जिघांसुर्भरतश्रेष्ठ विव्याध निशितैः शरैः ॥ ७.१४२.२२ ॥
然而,索摩达塔之子欲杀之,以迅捷的箭将希尼之后裔萨提亚吉完全遮蔽,并以锐利的箭射穿了他,婆罗多族中最优秀者啊。
7.142.23
दशभिः सात्यकिं विद्ध्वा सौमदत्तिरथापरान् ।
मुमोच निशितान्बाणाञ्जिघांसुः शिनिपुङ्गवं ॥ ७.१४२.२३ ॥
索摩达塔之子以十箭射中萨提亚吉,又击伤其他车夫,欲杀希尼族的雄牛,于是放出锐利的箭。
7.142.24
तानस्य विशिखांस्तीक्ष्णानन्तरिक्षे विशाम्पते ।
अप्राप्तानस्त्रमायाभिरग्रसत्सात्यकिः प्रभो ॥ ७.१४२.२४ ॥
人主啊,那些锐利的箭未能到达萨提亚吉,他便以武器的幻术在半空中将其吞噬,主啊。
7.142.25
तौ पृथक्शस्त्रवर्षाभ्यामवर्षेतां परस्परम् ।
उत्तमाभिजनौ वीरौ कुरुवृष्मियशस्करौ ॥ ७.१४२.२५ ॥
二人以各色兵器之雨相互倾注;这两位出身高贵的英雄,为俱卢与毗卢尼族增添荣耀。
7.142.26
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ ।
रथशक्तिभिरन्योन्यं विशिखैश्चाप्यकृन्तताम् ॥ ७.१४२.२६ ॥
二人如同以利爪相搏的猛虎、以獠牙相斗的大象,以战车之矛与箭矢相互斩击。
7.142.27
निर्भिदन्तौ हि गात्राणि विक्षरन्तौ च शोणितम् ।
व्यष्टम्भयेतामन्योन्यं प्राणद्यूताभिदेविनौ ॥ ७.१४२.२७ ॥
彼此刺穿身体,血流不止,二人如同以性命为赌注的赌徒,相互支撑。
7.142.28
एवमुत्तमकर्माणौ कुरुवृष्णियशस्करौ ।
परस्परमयुध्येतां वारणाविव यूथपौ ॥ ७.१४२.२८ ॥
如此,这二位建立最高功业、为俱卢与毗卢尼族增光的英雄,如同两头象群之王相互搏斗。
7.142.29
तावदीर्घेण कालेन ब्रह्मलोकपुरस्कृतौ ।
यियासन्तौ परं स्थानमन्योन्यं सञ्जगर्जतुः ॥ ७.१४२.२९ ॥
二人心中以梵界为目标,渴望抵达至高之处,不久便彼此怒吼。
7.142.30
सात्यकिः सौमदत्तिश्च शरवृष्ट्या परस्परम् ।
हृष्टवद्धार्तराष्ट्राणां पश्यतामभ्यवर्षताम् ॥ ७.१४२.३० ॥
萨提亚基与索摩达塔之子以箭雨相互倾注,而持国的诸子欢喜地观望。
7.142.31
सम्प्रैक्षन्त जनास्तौ तु युध्यमानौ युधाम्पती ।
यूथपौ वासिताहेतोः प्रयुद्धाविव कुञ्जरौ ॥ ७.१४२.३१ ॥
众人凝视着那两位战士之主激战,犹如两头为争母象而厮杀的象王。
7.142.32
भूयोभूयः शरै राजंस्तक्षन्तौ क्रोधमूर्च्छितौ ।
अयुध्येतां महारङ्गे वने केसरिणाविव ॥ ७.१४२.३२ ॥
大王啊,二人以箭反复相互砍杀,怒火攻心,在大战场上如同林中两头狮子般厮杀。
7.142.33
मर्मज्ञाविव सङ्क्रुद्धौ जिघांसन्तौ जगर्जतुः ।
विमर्दन्तावथान्योन्यं बलवज्रधराविव ॥ ७.१४२.३३ ॥
二人如同熟知要害的勇士般震怒,欲置对方于死地,于是咆哮;随后相互碾压,如同执掌霹雳的强大神灵般撞在一起。
7.142.34
अथान्योन्यं पताकाश्च रथोपकरणानि च ।
सञ्चिच्छिदतुरायान्तौ बाणैः सन्नतपर्वभिः ॥ ७.१४२.३४ ॥
二人相向而进,以节部弯曲的箭,斩断了彼此的旗帜与战车器械。
7.142.35
पुनश्च शरवर्षाभ्यामन्योन्यमभिवर्षताम् ।
उभौ तु जघ्नतुस्तूर्णमितरेतरसारथी ॥ ७.१४२.३५ ॥
二人再次以箭雨互相倾泻,迅速击中了对方的御者。
7.142.36
अन्योन्यस्य हयान्हत्वा धनुषी विनिकृत्य च ।
विरथावसियुद्धाय समेयातां महारणे ॥ ७.१४२.३६ ॥
二人杀死了对方的马,斩断了弓,双双失去战车,在大战中面对面进入剑斗。
7.142.37
आर्षभे चर्मणी चित्रे प्रगृह्य विपुले शुभे ।
विकोशौ चाप्यसी कृत्वा समरे तौ विचेरतुः ॥ ७.१४२.३७ ॥
二人手持两面宽大华美、彩绘精良的牛皮盾,拔出剑鞘中的利剑,在战场上往来驰骋。
7.142.38
चरन्तौ विविधान्मार्गान्मण्डलानि च भागशः ।
मुहुराजघ्नतुः क्रुद्धावन्योन्यमरिमर्दनौ।
सखङ्गौ चित्रवर्माणौ सनिष्काङ्गदभूषणौ ॥ ७.१४२.३८ ॥
二人在各种路线上回旋迂回,怒气冲冲,两位摧敌的勇士手持利剑,披着华丽的甲胄,佩戴项链与臂钏,反复相互攻击。
7.142.39
भ्रान्तमुद्धान्तमाविद्धमाप्लुतं विप्लुतं सृतम् ।
सम्पातं समुदीर्णं च दर्शयन्तौ यशस्विनौ ॥ ७.१४२.३९ ॥
二人展示旋转、突进、刺击、跳跃、侧跃、滑步、俯冲与高举等招式,两位名望显赫的勇士。
7.142.40
असिभ्यां सम्प्रजहाते परस्परमरिन्दमौ ।
उभौ छिद्रैषिणौ वीरावुभौ चित्रं ववल्गतुः ॥ ७.१४२.४० ॥
两人以利剑全力相击;这两位摧敌的英雄,都在寻找破绽,奇妙地跳跃翻腾。
7.142.41
दर्शयन्तावुभौ शिक्षां लाघवं सौष्ठवं तथा ।
रणे रणकृतां श्रेष्ठावन्योन्यं पर्यकर्षताम् ॥ ७.१४२.४१ ॥
二人展示所受的训练、敏捷与技巧,作为战士中的翘楚,在战场上彼此拉扯。
7.142.42
मुहूर्तमिव राजेन्द्र समाहत्य परस्परम् ।
पश्यतां सर्वसैन्यानां वीरावाश्वसतां पुनः ॥ ७.१४२.४२ ॥
大王啊,二人相互击打片刻后,在全军注视之下,两位英雄又开始喘息。
7.142.43
असिभ्यां चर्मणी चित्रे शतचन्द्रे नराधिप ।
निकृत्य पुरुषव्याघ्रौ बाहुयुद्धं प्रचक्रतुः ॥ ७.१४२.४३ ॥
人主啊,二人以剑斩断了绘有百月图案的斑斓盾牌,那两位人中猛虎便开始了徒手搏斗。
7.142.44
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ।
बाहुभिः समसज्जेतामायसैः परिधैरिव ॥ ७.१४२.४४ ॥
两人胸膛宽阔、双臂修长,皆精于角力,以双臂相搏,恰如铁杵相击。
7.142.45
तयो राजन्भुजाघातनिग्रहप्रग्रहास्तथा ।
शिक्षाबलसमुद्भूताः सर्वयोधप्रहर्षणाः ॥ ७.१४२.४५ ॥
大王啊,二人手臂的击打、擒抱与缠握,源于训练与力量,使所有战士为之欢欣。
7.142.46
तयोर्नृवरयो राजन्समरे युध्यमानयोः ।
भीमोऽभवन्महाशब्दो वज्रपर्वतयोरिव ॥ ७.१४२.४६ ॥
大王啊,那两位人中之最在战场上搏斗,发出巨大而可怕的声响,宛如雷霆撞击山岳。
7.142.47
द्विपाविव विषाणाग्रैः शृङ्गैरिव महर्षभौ ।
भुजयोक्रावबन्धैश्च शिरोभ्यां चावघातनैः ॥ ७.१४२.४७ ॥
二人如同两头象以象牙尖相搏,又如两头大公牛以角相抵,以双臂擒抱缠结,并以头相撞击而战。
7.142.48
पादावकर्षसन्धानैस्तोमराङ्कशलासनैः ।
पादोदरविबन्धैश्च भूमावुद्धमणैस्तथा ॥ ७.१४२.४८ ॥
二人拖拽锁住彼此的双脚,施以如枪似钩的擒拿与举摔,以双足缠住腹部,并将对方摔倒在地上旋转,如此相搏。
7.142.49
गतप्रत्यागताक्षेपैः पातनोत्थानसम्पुतैः ।
युयुधाते महात्मानौ कुरुसात्वतपुङ्गवौ ॥ ७.१४२.४९ ॥
进退攻防,投掷闪避,击倒又起身,相互扭抱,那两位伟大的勇士,库鲁与萨特瓦塔的雄牛,继续搏斗。
7.142.50
द्वात्रिंशत्कारणानि स्युर्यानि युद्धानि भारत ।
तान्यदर्शयतां तत्र युध्यमानौ महाबलौ ॥ ७.१४२.५० ॥
婆罗多啊,战斗的方式共有三十二种;那两位大力者在那里交战,将它们一一展示。
7.142.51
क्षीणायुधे सात्वते युध्यमाने ।
ततोऽब्रवीदर्जुनं वासुदेवः।
पश्यस्वैनं विरथं युध्यमानं ।
रणे वरं सर्वधनुर्धराणाम् ॥ ७.१४२.५१ ॥
萨特瓦塔(萨提亚奇)武器耗尽仍在奋战,黑天便对阿周那说:“你看他,没有战车仍在作战,是战场上所有弓手中最优秀的。”
7.142.52
सिन्धुराजवधे सक्तं पार्थं कृष्णोऽब्रवीत्पुनः ।
सीदन्तं सात्यकिं पश्य पार्थैनं परिरक्ष च ॥ ७.१४२.५२ ॥
黑天再次对专注于杀死信度王的阿周那说:“你看,萨提亚奇正在沉没;帕尔塔啊,保护他。”
7.142.53
प्रविष्टो भारतीं भित्त्वा तव पाण्डव पृष्ठतः ।
योधितश्च महावीर्यैः सर्वैर्भारत भारतैः ॥ ७.१४२.५३ ॥
般度之子啊,他冲破了婆罗多军阵,从你的后方杀入;婆罗多啊,那里所有大威力的婆罗多人都与他交战。
7.142.54
धार्तराष्ट्राश्च ये मुख्या ये च मुख्या महारथाः ।
निहता वृष्णिवीरेण शतशोऽथ सहस्रशः ॥ ७.१४२.५४ ॥
持国王的儿子们和那些主要的大车勇士,被毗湿尼的英雄成百上千地杀死了。
7.142.55
परिश्रान्तं युधां श्रेष्ठं सम्प्राप्तो भूरिदक्षिणः ।
युद्धाकाङ्क्षी समायान्तं नैतत्सममिवार्जुन ॥ ७.१४२.५५ ॥
疲惫的勇士中最杰出的、technique精湛的薄里室罗婆渴望战斗而来;阿周那啊,他此番的到来并不与往日相同。
7.142.56
ततो भूरिश्रवाः क्रुद्धः सात्यकिं युद्धदुर्मदः ।
उद्यम्याभ्याहनद्राजन्मत्तो मत्तमिव द्विपम् ॥ ७.१४२.५६ ॥
于是薄里室罗婆愤怒不已,因战斗的狂傲而昏头昏脑,扑向萨提奇;国王啊,他像发狂的象打另一头发狂的象那样攻击了他。
7.142.57
ततो जलदनिर्घोषः समीपे नृपसत्तम ।
हाहाकारो महानासीत्सैन्यानां भरतर्षभ।
यदुद्यम्य महाबाहुः सात्यकिं न्यहनद्भुवि ॥ ७.१४२.५७ ॥
于是,伴随着如雨云般的雷鸣,国王中的最杰出者啊,附近的军队中升起一片巨大的“哎呀”哀叫,婆罗多族的雄牛啊,那大臂者将萨提奇举起并摔倒在地。
7.142.58
रथस्थयोर्द्वयोर्युद्धे क्रुद्धयोर्योधमुख्ययोः ।
केशवार्युनयो राजन्समरे प्रेक्षमाणयोः ॥ ७.१४२.५८ ॥
国王啊,那两位站在战车上、在战斗中愤怒的主要勇士,正被毗湿奴(克里希纳)与阿周那在战场上注视着。
7.142.59
अथ कृष्णो महाबाहुरर्जुनं प्रत्यभाषत ।
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवशं गतम् ॥ ७.१४२.५९ ॥
于是大臂的黑天对阿周那说:“看啊,韦须尼与安陀迦族的猛虎已落入苏摩达塔之子的掌握之中。”
7.142.60
परिश्रान्तं गतं भूमौ कृत्वा कर्म सुदुष्करम् ।
तवान्तेवासिनं वीरं पालयार्जुन सात्यकिम् ॥ ७.१४२.६० ॥
那位在完成极其艰难之事后精疲力竭、倒在地上的英雄,正是你的弟子萨提奇;阿周那啊,请保护他。
7.142.61
न वशं यज्ञशीलस्य गच्छेदेष वरोऽर्जुन ।
त्वत्कृते पुरुषव्याघ्र तदाऽऽशु क्रियतां विभो ॥ ७.१४२.६१ ॥
愿此恩赐不要落入献祭者之手,阿周那。人中之虎,全能者啊,为你之故,请立即行之。
7.142.62
स सिंह इव मातङ्गं विकर्षन्भूरिदक्षिणः ।
व्यरोचत कुरुश्रेष्ठः सात्वतप्रवरं युधि ॥ ७.१४२.६२ ॥
如同狮子拖曳大象,施予丰厚的库鲁之最,在战场上拖曳着萨特瓦塔之首而光辉闪耀。
7.142.63
अथाब्रवीद्धृष्टमना वासुदेवं धनञ्जयः ।
पश्य वृष्णिप्रवीरेण क्रीडन्तं कुरुपुङ्गवम्।
महाद्विपेनेव वने मत्तेन हरियूथपम् ॥ ७.१४२.६३ ॥
于是阿周那心中欢喜,对筏素提婆说:看哪,库鲁之牛正与受尼族英雄嬉戏,正如发情的大象在林中与猴群之王嬉戏一般。
7.142.64
मामेव च महाबाहो परियान्ति महारथाः ।
यथाशक्ति यतन्तो मां योधयन्तो जनार्दन ॥ ७.१४२.६४ ॥
大车勇士们竭尽其力,唯独包围我并与我交战,啊,大臂者,啊,阇那陀那。
7.142.65
ध्रुवं च योधयाम्येताञ्छिद्रान्वेषणतत्परान् ।
रक्षामि सात्यकिं चैव सौमदत्तिवशं गतम् ॥ ७.१४२.६५ ॥
我必定与这些专伺空隙的人交战,并保护落入索摩达提之手的萨提亚奇。
7.142.66
अप्राप्तोऽयं मया कृष्म हन्तुं भूरिश्रवा रणे ।
अन्येन तु समासक्तं मम नोत्सहते मनः ॥ ७.१४२.६६ ॥
我尚未能到达此人之处,在战场上杀死薄利室罗婆;然而我的心已系于另一人,并不愿意。
7.142.67
अवश्यं च मया कृष्ण वृष्णिवीरस्य रक्षणम् ।
मदर्थं युध्यमानस्य कार्यं प्राणैरपि प्रभो ॥ ७.१४२.६७ ॥
哎,克里希那,我必须保护毗瑟尼的英雄;他为我而战,主啊,即使付出生命也应当护卫他。
7.142.68
अधर्मो वाऽस्तु धर्मो वा मम माधव माधवः ।
परेण निहतो मा स्म प्राणान्हासीन्महारथः ॥ ७.१४२.६८ ॥
无论是非法还是正法,哎,摩陀婆,愿我的摩陀婆(萨蒂亚基)这位大车战士,不要被敌人杀死而丧失性命。
7.142.69
एवमुक्त्वाऽर्जुनः कृष्णं परानाशु शितैः शरैः ।
छादयामास सङ्क्रुद्धः परे चापि धनञ्जयम् ॥ ७.१४२.६९ ॥
阿周那对克里希那说了这些话后,怒气冲冲地迅速用锐利的箭遮蔽了敌人;敌人也遮蔽了财富征服者。
7.142.70
एवं स्म युध्यते वीरः सात्यकिं च मुहुर्मुहुः ।
प्रेक्षते स्म नरव्याघ्रो भूरिश्रवसमेव च ॥ ७.१४२.७० ॥
如此,这位英雄一次又一次地与萨蒂亚基交战,而人中猛虎也一次次望着布利什拉瓦斯。
7.142.71
तथा तु कृष्यमाणं तं दृष्ट्वा सात्यकिमाहवे ।
वासुदेवस्तदा वाक्यं भूयोऽप्यर्जुनमब्रवीत् ॥ ७.१४२.७१ ॥
看到萨蒂亚基在战斗中如此被压制,婆苏提婆(克里希那)于是又对阿周那说了这些话。
7.142.72
पश्य वृष्ण्यन्धकव्याघ्रं सौमदत्तिवंशं गतम् ।
तव शिष्यं महाबाहो धनुष्यनवमं त्वया ॥ ७.१४२.७२ ॥
你看,那毗瑟尼与安陀迦的猛虎已逼近索摩达塔之子的家族。哎,大臂者,他是你的弟子,在弓术上由你使他无与伦比。
7.142.73
अनित्यो विक्रमः पार्थ यत्र भूरिश्रवा रणे ।
विशेषयति वार्ष्णेयं सात्यकिं सत्यविक्रमम् ॥ ७.१४२.७३ ॥
帕尔塔啊,在战场上,婆利输罗婆单独挑出真勇的伐尔士尼族萨蒂亚基,此处的勇武并不长久。
7.142.74
बहुभिर्महारथैरेष पराक्रान्तैर्युयुत्सुभिः ।
युद्ध्वा भृशं परिश्रान्तः क्षीणायुधरपरिच्छदः ॥ ७.१४२.७४ ॥
他被众多渴望交战的大车战士围攻,苦战之后已经极度疲惫,兵器与甲胄都已耗损。
7.142.75
एवमुक्तो महाराज वासुदेवेन पाण्डवः ।
मनसा पूजयामास भूरिश्रवसमाहवे ॥ ७.१४२.७५ ॥
大王,婆苏提婆如此说后,般度之子在心中敬重了战场上的婆利输罗婆。
7.142.76
विकर्षन्सात्वतां श्रेष्ठं क्रीडमान इवाहवे ।
स हर्षयति मां भूयः कुरूणां नन्दिवर्धनः ॥ ७.१४२.७६ ॥
他在战场上像嬉戏般拖拽萨特瓦塔中最优秀的人,这位增添俱卢人欢乐的勇士,又一次让我欢喜。
7.142.77
प्रवरं वृष्णिवीराणां यन्निहन्त्येष सात्यकिम् ।
महाद्विपमिवारण्ये कर्षन्निव हरिर्भृशम् ॥ ७.१४२.७७ ॥
他正在杀死伐尔士尼众英雄中最杰出的萨蒂亚基,如同森林中的狮子拖倒并杀死一头大象。
7.142.78
एवं तु मनसा राजन्पार्थः सम्पूज्य कौरवम् ।
अयुध्यतारिभिर्वीरस्तं च सम्प्रेक्षते मुहुः ॥ ७.१४२.७८ ॥
大王,如此在心中敬重了那位俱卢后,英雄帕尔塔与敌人交战,并且一再望向他。
7.142.79
अथ कोशाद्विनिष्कृष्य खङ्गं भूरिश्रवाः शितम् ।
मूर्धजेषु च जग्राह पदा चोरस्याताडयत्।
आक्रम्य चाप्यथोद्यम्य सहासिं सुभुजो भुजम् ॥ ७.१४२.७९ ॥
于是婆利修罗从鞘中抽出锋利的剑,抓住他的头发,用脚踢他的胸膛,又踏上他身,连同宝剑举起了手臂。
7.142.80
शुशुभे स भुजस्तस्य तपनीयविभूषणः ।
मध्ये रथसमूहस्य इन्द्रध्वज इवोच्छ्रितः ॥ ७.१४२.८० ॥
他那臂上饰有金饰的手臂,闪耀如同在战车阵中高举的因陀罗旗帜。
7.142.81
हाहाकृतमभूत्सर्वं पाण्डवानां महद्बलम् ।
तावकाश्च मुदा युक्ताः सिंहनादं विचुक्रुशुः ॥ ७.१४२.८१ ॥
般度之子的大军全都充满了“哎呀”的哀号,而你的战士们欢喜万分,发出狮子般的吼声。
7.142.82
निमीलिताक्षास्त्वभवञ्जनाः सङ्ग्रामभीरवः ।
तथा भूरिश्रवोग्रस्ते सात्वते नष्टविक्रमे ॥ ७.१४२.८२ ॥
畏惧战斗的人们闭上了眼睛,因为凶猛的婆利修罗已使萨特瓦塔(萨提亚基)失去了勇力。
7.142.83
वासुदेवं महाबाहुरर्जुनः प्रत्यभाषत ।
सैन्धवे सक्तदृष्टित्वान्न तं पश्यामि माधवम् ॥ ७.१४२.८३ ॥
大臂阿周那对婆苏提婆说:“因为我的目光专注于信度王,我看不见摩陀婆。”
7.142.84
एष त्वसुकरं कर्म यादवार्थे करोम्यहम् ।
मम शिष्यो ममार्थाय युध्यते मम शत्रुभिः।
तं कृष्ण मोक्षयिष्यामि दावात्सिंहशिशुं यथा ॥ ७.१४२.८४ ॥
“为了耶达瓦,我将完成这件艰难之事。我的弟子为了我正与敌人作战。黑天啊,我将救他出来,正如从林火中救出狮子幼崽一般。”
7.142.85
इत्युक्त्वा वचनं कुर्वन्वासुदेवस्य पाण्डवः ।
ततः क्षुरप्रं निशितं गाण्डीवे समयोजयत् ॥ ७.१४२.८५ ॥
说完这些话后,遵从婆苏提婆之言的般度之子随即将一支锋利的剃刀头箭搭上了甘狄拔弓。
7.142.86
पार्थबाहुविसृष्टः स महोल्केव नभश्च्युता ।
सखङ्गं यज्ञशीलस्य बाहुं दक्षिणमच्छिनत् ॥ ७.१४२.८६ ॥
那支从Pārtha手臂射出的箭,如同从天空坠落的大流星,飞去斩断了献祭者的右臂连同他的剑。