摩诃婆罗多 · 章 7.143
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.143.1
स बाहुर्न्यपतद्भूमौ सखङ्गः सशुभाङ्गदः ।
आदधज्जीवलोकस्य दुःखमद्भुतमुत्तमः।
यन्त्रमुक्तो महेन्द्रस्य ध्वजो वृत्तोत्सवो यथा ॥ ७.१४३.१ ॥
那只手臂连同宝剑和吉祥的臂钏落到地上,给众生带来奇异的悲痛,如同因林中节日结束而从因陀罗的机关上脱落的旗帜。
7.143.2
प्रहरिष्यन्हृतो बाहुरदृश्यते किरीटिना ।
वेगेन न्यपतद्भूमौ पञ्चास्य इव पन्नगः ॥ ७.१४३.२ ॥
那只正要挥击的手臂被戴冠者(阿周那)斩断,迅猛地落到地上,如同五头蛇。
7.143.3
स मोघं कृतमात्मानं दृष्ट्वा पार्थेन कौरवः ।
उत्सृज्य सात्यकिं क्रोधाद्ग्रर्हयामास पाण्डवम् ॥ ७.१४३.३ ॥
那位俱卢人见自己被普利塔之子弄得徒劳无功,便松开萨谛吉,愤怒地责备般度之子。
7.143.4
स विबाहुर्महाराज एकपक्ष इवाण्डजः ।
एकचक्रो रथो यद्वद्धरणीमास्थितो नृपः।
उवाच पाण्डवं चैव सर्वक्षत्रस्य पश्यतः ॥ ७.१४३.४ ॥
大王啊,那位失去手臂的国王如同单翼之鸟、独轮之车,立于大地之上,在所有刹帝利的注视下对般度之子说话。
7.143.5
नृशंसं बत कौन्तेय कर्मेदं कृतवानसि ।
अपश्यतो विषक्तस्य यन्मे त्वं बाहुमच्छिनः ॥ ७.१४३.५ ॥
昆提之子啊,你确实做了这残忍的事,趁我没有看见、正纠缠之时,斩断了我的手臂。
7.143.6
येषु येषु नरः पार्थ वर्तते सुसमाहितः ।
आशु तच्छीलतामेति तदिदं दृश्यते त्वयि ॥ ७.१४३.६ ॥
普利塔之子啊,人若全神贯注于某事,很快便会获得那种性情;如今这在你身上便可见到。
7.143.7
किं नु वक्ष्यसि राजानं धर्मपुत्रं युधिष्ठिरम् ।
किं कुर्वाणो मया सङ्ख्ये हतो भूरिश्रवा इति ॥ ७.१४३.७ ॥
当我在战斗中杀死步力室罗婆之时,你将如何向法之子国王坚战述说?你当时在做什么?
7.143.8
इदमिन्द्रेण ते साक्षादुपदिष्टं महात्मना ।
अस्त्रं रुद्रेण वा पार्थ द्रोणेनाथ कृपेण वा ॥ ७.१४३.८ ॥
阿周那啊,这件武器是伟大的因陀罗、或楼陀罗、或德罗纳、或克里巴亲自传授给你的。
7.143.9
ननु नामास्त्रधर्मज्ञस्त्वं लोकेऽभ्यधिकः परैः ।
सोऽयुध्यमानस्य कथं रणे प्रहृतवानसि ॥ ७.१४३.९ ॥
你确实精通兵器之法,在世间超越众人;那么,你怎能在战场上打击一个并未交战的人?
7.143.10
न प्रमत्ताय भीताय विरथाय प्रयाचते ।
व्यसने वर्तमानाय प्रहरन्ति मनीषिणः ॥ ७.१४३.१० ॥
明智者不打击疏忽的、恐惧的、无车的、乞求的或处于困厄中的人。
7.143.11
इदं तु नीचाचरितमसत्पुरुषसेवितम् ।
कथमाचरितं पार्थ पापकर्म सुदुष्करम् ॥ ७.१४३.११ ॥
然而,这是低劣之人所行、恶人所遵循的行为。阿周那啊,你如何完成了这极为艰难的罪恶之举?
7.143.12
आर्येण सुकरं त्वाहुरार्यकर्म धनञ्जय ।
अनार्यकर्म त्वार्येण सुदुष्करतमं भुवि ॥ ७.१४३.१२ ॥
达那阳阇啊,人们说高尚之事对高尚者而言容易;然而高尚者去做卑劣之事,才是世间最为困难的。
7.143.13
कथं हि राजवंश्यस्त्वं कौरवेयो विशेषतः ।
क्षत्रधर्मादपक्रान्तः सुवृत्तश्चारितव्रतः ॥ ७.१४३.१३ ॥
你出身王族,尤其是俱卢之后,怎么会背离刹帝利的本分?你的品行良好,且持守誓戒。
7.143.14
अल्पस्तवापराधोऽत्र न त्वां तात विगर्हये ।
वार्ष्णेयापशदं प्राप्य क्षुद्रं कृतमिदं त्वया ॥ ७.१४३.१४ ॥
你在此的过错很小,亲爱的,我并不责备你。因受到婆利尼之后(黑天)的羞辱,你做出了这卑劣之事。
7.143.15
इदं तु यदतिक्षुद्रं वार्ष्णेयार्थे कृतं त्वया ।
वासुदेवमतं नूनं नैतत्त्वय्युपपद्यते ॥ ७.१४३.१५ ॥
然而你为婆利尼之后(黑天)所做的这极卑劣之事,必定是依照婆苏提婆的意见而为;这并不适合你。
7.143.16
को हि नाम प्रमत्ताय परेण सह युध्यते ।
ईदृशं व्यसनं दद्याद्यो न कृष्णसखो भवेत् ॥ ७.१४३.१६ ॥
谁会与一个疏忽的人作为敌人交战呢?而若非黑天的朋友,又有谁会降下如此灾祸?
7.143.17
व्रात्याः सङ्क्लिष्टकर्माणः प्रकृत्यैव च गर्हिताः ।
वृष्ण्यन्धकाः कथं पार्थ प्रमाणं भवता कृताः ॥ ७.१४३.१७ ॥
维里希尼与安陀迦,乃是堕落之人,行为恶浊,本性即为人所轻贱。帕尔塔啊,你怎么把他们当作了权威?
7.143.18
एवमुक्तो रणे पार्थो भूरिश्रवसमब्रवीत् ।
व्यक्तं हि जीर्यमाणोऽपि बुद्धिं जरयते नरः।
अनर्थकमिदं सर्वं यत्त्वया व्याहृतं प्रभो ॥ ७.१४३.१८ ॥
在战场上被如此责问后,阿周那对婆利黑罗婆说道:"显然,人即便衰老,老迈也会磨损他的智慧。主啊,你所说的一切都毫无意义。"
7.143.19
जानन्नेव हृषीकेशं गर्हसे मां च पाण्डवम् ।
सङ्गामाणां हि धर्मज्ञः सर्वशास्त्रार्थपारगः ॥ ७.१४३.१९ ॥
你明明知道Hṛṣīkeśa,却责备我和般度之子。你精通战斗的法则,通晓一切典籍的义理。
7.143.20
न चाधर्ममहं कुर्यां जानंश्चैव हि मुह्यसे ॥ ७.१४३.२० ॥
我不会行非法;你明明知道,却陷于迷惑。
7.143.21
युध्यन्ते क्षत्रियाः शत्रून्स्वैःस्वैः परिवृता नराः ।
भ्रातृभिः पितृभिः पुत्रैस्तथा सम्बन्धिबान्धवैः।
वयस्यैरथ मित्रैश्च स्वबाहुबलमाश्रिताः ॥ ७.१४३.२१ ॥
刹帝利们与敌人作战,身边围绕着自己的兄弟、父亲、儿子、亲属、同伴与朋友,依靠自己双臂的力量。
7.143.22
स कथं सात्यकिं शिष्यं सुखसम्बन्धिमेव च ।
अस्मदर्थे च युध्यन्तं त्यक्त्वा प्राणान्सुदुस्त्यजान् ॥ ७.१४३.२२ ॥
他怎能舍弃为我们而战的萨谛奇——他的弟子与亲近的亲属,而放弃那难以割舍的性命?
7.143.23
मम बाहुं रणे राजन्दक्षिणं युद्धदुर्मदम् ।
त्वया निकृष्यमाणं च दृष्टवानस्मि निष्क्रियम् ॥ ७.१४३.२३ ॥
国王啊,我看见我那在战斗中骄傲的右臂,被你拉扯,变得毫无动作。
7.143.24
न च त्वं रक्षितव्यो हि एको रणगतेन हि ।
यो यस्य युध्यतेऽर्थाय संरक्ष्यो नराधिप।
तै रक्ष्यमाणैः स नृपो रक्षितव्यो महामृधे ॥ ७.१४३.२४ ॥
你既已入阵,不可独自受到保护。人主啊,为谁而战的人,必须保护谁;那位君王受到为他而战者的保护,在大战中便应当受到保护。
7.143.25
यद्यहं सात्यकिं दृष्ट्वा तूष्णीमासिष्य आहवे ।
ततस्तेन वियोगश्च प्राप्यं नरकमेव च ॥ ७.१४३.२५ ॥
若我见到萨提亚基而在战斗中默然端坐,便会与他分离,并且必将堕入地狱。
7.143.26
रक्षितव्यो मया यस्मात्तस्माल्लब्धो मया स च ।
यशश्चैव स्वपक्षेभ्यः फलं मित्रस्य रक्षणात् ॥ ७.१४३.२६ ॥
我应当保护他,因此我得到了他;保护朋友,名声与果报也来自自己一方。
7.143.27
यच्च मां गर्हसे राजन्कृष्णेन सह सङ्गतम् ।
कस्तेन सङ्गमं नेच्छेत्तत्र ते बुद्धिविभ्रमः ॥ ७.१४३.२७ ॥
大王,你责备我与黑天相会;谁不愿与他结合呢?在此事上你的心智已经迷乱。
7.143.28
आबद्धकवचस्येह रथमारुह्य तिष्ठतः ।
सर्वायुधैरुपेतस्य प्रतियोद्धृप्रतीक्षिणः ॥ ७.१४३.२८ ॥
此处登上战车、披挂铠甲而立、备有一切兵器、等候对手的战士。
7.143.29
अस्मिन्रथगजानीके हयपत्तिसमाकुले ।
सिंहनादोद्धतरवे गम्भीरे सैन्यसागरे ॥ ७.१४३.२९ ॥
在这片深邃的军队之海中,车阵与象阵林立,马匹与步兵簇拥,狮吼之声激荡喧嚣。
7.143.30
स्वैश्चापि समुपेतस्य विक्रान्तस्य तथा रणे ।
सात्यकेन कथं योग्यः सङ्ग्रामस्ते भविष्यति ॥ ७.१४३.३० ॥
萨提亚基率领自己的军队,在战场上同样勇猛,你与他交战怎能相称呢?
7.143.31
बहुभिः सह सङ्गम्य निर्जित्य च महारथान् ।
श्रान्तश्च श्रान्तवाहश्च क्षीणसर्वायुधस्त्वया।
समेतः सात्यकिः सङ्ख्ये निर्जितश्च महारथः ॥ ७.१४३.३१ ॥
你与众多敌人交战,击败大车战士,身心俱疲,马匹疲惫,兵器耗尽,却在战斗中击败了大车战士萨蒂亚奇。
7.143.32
ईदृशं सात्यकिं सङ्ख्ये निर्जित्य च महारथम् ।
अधिकत्वं विजानीपे स्ववीर्यवशमागतम् ॥ ७.१४३.३२ ॥
你在战场上战胜了像萨蒂亚奇这样的大车战士,便认为凭自身勇力所得的优势属于你自己。
7.143.33
इच्छसि त्वं शिरस्तस्य असिना हर्तुमाहवे ।
तथा कृच्छ्रगतं दृष्ट्वा सात्यकिं कः क्षमिष्यति।
एकस्यैकेन हि कथं सङ्ग्रामः सम्भविष्यति ॥ ७.१४३.३३ ॥
你想在战场上用剑斩下他的头颅。看到萨蒂亚奇陷入困境,谁会宽恕你?一对一的战斗怎能发生?
7.143.34
त्वं तु गर्हय चात्मानं स्वधर्मं यो न रक्षसि ।
कथं रक्षिष्यसे वीर ये वै त्वां संश्रिता जनाः ॥ ७.१४३.३४ ॥
至于你,应当责备自己,因为你不守护自己的职责。英雄啊,依赖你的人们,你将如何保护他们?
7.143.35
आत्तशस्त्रस्य हि रणे वृष्णिपुत्रं जिघांसतः ।
छिन्नवान्यदहं बाहुं नैतल्लोकविगर्हितम् ॥ ७.१४३.३५ ॥
我在战斗中斩断那个拿起武器、想要杀害毗湿尼之子的人的手臂,这并不被世人所谴责。
7.143.36
न्यस्तशस्त्रस्य हि पुनर्विकलस्य विवर्मणः ।
अभिमन्योर्वधं तात धार्मिकः को नु पूजयेत् ॥ ७.१४३.३६ ॥
亲爱的孩子,哪个正直的人会赞美杀害放下武器、再度无力、没有铠甲的阿毗曼尤呢?
7.143.37
एवमुक्तो महार्बाहुर्यूपकेतुर्महायशाः ।
युयुधानं समुत्सृज्य रणे प्रायमुपाविशत् ॥ ७.१४३.३७ ॥
被如此言说之后,这位臂力强大、旗帜上有祭柱、名声显赫的人,在战场上舍弃了游陀那,坐下实行绝食至死。
7.143.38
शरानास्तीर्य सव्येन पाणिना पुण्यलक्षणः ।
यियासुर्ब्रह्मलोकाय प्राणान्प्राणेष्वथाजुहोत् ॥ ७.१४३.३८ ॥
他以左手铺开箭矢,这位具吉相者想往梵界,将诸气息献入诸气息之中。
7.143.39
सूर्ये चक्षुः समाधाय प्रसन्नं सलिले मनः ।
ध्यायन्महोपनिषदं योगयुक्तोऽभवन्मुनिः ॥ ७.१४३.३९ ॥
他将眼睛定于太阳,将清净之心置于水上,冥想大奥义书,成为一位与瑜伽相合的圣者。
7.143.40
ततस्ते सर्वसेनासु जनाः कृष्णधनञ्जयौ ।
गर्हयामासुरप्येतौ शशंसुर्भूरिदक्षिणम् ॥ ७.१४३.४० ॥
于是各军中的人都责备克里希那与达南阇耶,并称赞那位广行布施者。
7.143.41
निन्द्यमानौ तथा कृष्णौ नोचतुः किञ्चिदप्रियम् ।
ततः प्रशस्यमानश्च नाहृष्यद्यूपकेतनः ॥ ७.१४३.४१ ॥
虽被如此责备,两位克里希那并未说出任何不悦之言;虽被称赞,有祭柱旗帜者亦未因此欢喜。
7.143.42
तांस्तथावादिनो राजन्पुत्रांस्तव धनञ्जयः ।
अमूष्यमाणो मनसा तेषां तस्य च भाषितम् ॥ ७.१४३.४२ ॥
大王啊,达南阇耶心中无法忍受你的儿子们如此言说,也无法忍受他们的话语以及那人的话语。
7.143.43
असङ्क्रुद्धमना वाचः स्मारयन्निव भारत ।
उवाच पाण्डुतनयः साक्षेपमिव फल्गुनः ॥ ७.१४३.४३ ॥
婆罗多啊,心中并不十分愤怒,仿佛提醒他们自己的话语,般度之子法尔古那带着讥讽说道。
7.143.44
मम सर्वेऽपि राजानो जानन्त्येतन्महाव्रतम् ।
न शक्यो मामको हन्तुं यो मे स्याद्बाणगोचरे ॥ ७.१४३.४४ ॥
我的这一大誓言,所有国王都知道:凡在我箭射程之内的我方之人,都不可被杀。
7.143.45
यूपकेतुं समीक्ष्यैतन्न मां गर्हितुमर्हथ ।
न हि धर्ममविज्ञाय युक्तं गर्हयितुं परम् ॥ ७.१४३.४५ ॥
你们看到了这一点,就不应该责备我,因为不懂法(dharma)就去责备他人,是不恰当的。
7.143.46
न्यस्तशस्त्रस्य बालस्य विरथस्य विवर्मणः ।
नाभिमन्योर्वधं यूयं गर्हयध्वं कुतस्तदा ॥ ७.१४३.४६ ॥
当时你们为何不谴责杀死阿毗曼尤的事?他是个少年,已放下武器,没有战车,也没有铠甲。
7.143.47
दुर्योधनस्य क्षुद्रस्य अप्रमाणे च तिष्ठतः ।
सौमदत्तेरथं साधुः सर्वसाहाय्यकारिणः ॥ ७.१४३.४७ ॥
我守护着索摩达蒂的战车,他站在卑劣的难敌那无量的军中,给予一切帮助。
7.143.48
अस्मदीया मया रक्ष्याः प्राणबाध उपस्थिते ।
ये मे प्रत्यक्षतो वीरा हन्येरन्निति मे मतिः ॥ ७.१४३.४८ ॥
当生命受到威胁时,我必须保护自己人;我的看法是:若英雄们在我眼前被杀,我就应当保护他们。
7.143.49
सात्यकश्च वशं नीतः कौरवेण महात्मना ।
ततो मयैतच्चरितं प्रतिज्ञारक्षणं प्रति ॥ ७.१४३.४९ ॥
伟大的俱卢者俘获了萨提亚基。于是我为了守护誓言而做了此事。
7.143.50
पुनश्च कृपयाऽऽविष्टो बहु तत्तद्विचिन्तयन् ।
उवाच चैनं कौरव्यमर्जुनः शोकपीडितः ॥ ७.१४३.५० ॥
阿周那再次被慈悲所笼罩,思虑许多,为悲痛所苦,对那位俱卢者说道。
7.143.51
धिगस्तु क्षत्रधर्मं तु यत्र त्वं पुरुषेश्वरः ।
अवस्थामीदृशीं प्राप्तः शरण्यः शरणप्रदः ॥ ७.१४३.५१ ॥
武士之法可耻!你这人中之主、值得依靠且能庇护他人者,竟落到如此境地。
7.143.52
नातिभारः कृतान्तस्य विद्यते कुरुनन्दन ।
यत्र त्वं पुरुषव्याघ्रः प्राप्तः पापामिमां दशाम् ॥ ७.१४३.५२ ॥
俱卢之喜乐啊,对死神而言并非大的负担:你这人中之虎竟陷入了这罪恶的境地。
7.143.53
नात्मनः सुकृतस्यास्य फलं वै नृपसत्तम ।
यत्र त्वं कुरुशार्दूल प्राप्तः पापामिमां दशाम् ॥ ७.१४३.५३ ॥
诸王中最优秀者啊,这并非你自身善业的果报:你这俱卢之虎竟陷入了这罪恶的境地。
7.143.54
रौरवं नरकं भीमं गमिष्यति सुयोधनः ।
यत्कृते नरशार्दूलः प्राप्तः पापामिमां दशाम् ॥ ७.१४३.५४ ॥
因为他,你这人中之虎才陷入这罪恶境地;而苏约陀那将堕入可怕的罗罗婆地狱。
7.143.55
को हि नाम पुमाँल्लोके मादृशः पुरुषोत्तम ।
प्रहरेत्त्वद्विधे त्वद्य प्रतिज्ञा यदि नो भवेत् ॥ ७.१४३.५५ ॥
世上像我这样的人,啊人中之最,今天若不是因为我们的誓言,谁会打像你这样的人呢?
7.143.56
एवमुक्तः स पार्थेन शिरसा भूमिमस्पृशत् ।
पाणिना चैव सव्येन प्राहिणोदस्य दक्षिणम् ॥ ७.१४३.५६ ॥
被普利塔之子如此说后,他以头触地,并以左手伸出右手。
7.143.57
एतत्पार्थस्य तु वचस्ततः श्रुत्वा महाद्युतिः ।
युपकेतुर्महाराज तूष्णीमासीदवाङ्मुखः ॥ ७.१४३.५७ ॥
大王啊,光辉灿烂的游波刚图听了普利塔之子的这些话后,默然低首而坐。
7.143.58
या प्रीतिर्धर्मराजे मे भीमे च बलिनां वरे ।
नकुले सहदेवे च सा मे त्वयि शलाग्रज ॥ ७.१४३.५८ ॥
我对法王、力士中最优秀的毗摩、那古罗和萨诃提婆所怀的爱,我对你也同样怀有,沙罗的幼弟啊。
7.143.59
मया त्वं समनुज्ञातः कृष्णेन च महात्मना ।
गच्छ पुण्यकृतां लोकाञ्छिबिरौशीनरो यथा ॥ ७.१४३.५९ ॥
经我和大心的克利须那允许,你去往有福者的世界,如乌捨那罗之子湿毗所去之处。
7.143.60
ये लोका मम विमलाः सकृद्विभाता ।
ब्रह्माद्यैः सुरवृषभैरपीष्यमाणाः।
तान्क्षिप्रं व्रज सतताग्निहोत्रयाजि… ।
न्मत्तुल्यो भव गरुडोत्तमाङ्गयानः ॥ ७.१४३.६० ॥
我那清净的世界,一经照耀便永存,连梵天等天神中的雄牛也渴望,你快去那里吧。常行火祭的人啊……成为与我相同之人,以金翅鸟为坐骑。
7.143.61
धनञ्जये ब्रुवत्येवं घृणया च परिप्लुते ।
अवाङ्मुखा बभूवुश्च सैनिकाः सर्व एव ते ॥ ७.१४३.६१ ॥
丹阁耶如此说话,被悲悯所充满,那些士兵全都低下了面孔。
7.143.62
मुहूर्तादिव विश्रम्य सात्यकिः क्रोधमूर्च्छितः ।
अमर्षवशमापन्नः सौमदत्तिनिराकृतः ॥ ७.१४३.६२ ॥
稍作休息之后,萨提亚奇被愤怒所迷惑,陷入忿恨之中,被苏摩达塔之子击退。
7.143.63
उत्थितः स तु शैनेयो विमुक्तः सौमदत्तिना ।
सङ्गमादाय चिच्छित्सुः शिरस्तस्य महात्मनः ॥ ७.१४३.६३ ॥
那位希尼之后,从苏摩达塔之子手中脱身而起,欲斩那位伟大者的头颅,便重新投入交战。
7.143.64
निहतं पाण्डुपुत्रेण प्रसक्तं भूरिदक्षिणम् ।
इयेष सात्यकिर्हन्तुं शलाग्रजमकल्मषम् ॥ ७.१४३.६४ ॥
萨提亚奇欲杀那位无瑕的沙利亚之兄,即布利希罗婆斯,他布施丰厚,已被般度之子所杀,且执着于此。
7.143.65
निकृत्तभुजमासीनं छिन्नहस्तमिव द्विपम् ।
क्रोशतां सर्वसैन्यानां निन्द्यमानः सुदुर्मनाः ॥ ७.१४३.६५ ॥
如同被截断鼻子的大象,双臂被斩而坐,在众军的喧嚷中遭到谴责,心中极为烦恼的萨提亚奇。
7.143.66
वार्यमाणः स कृष्णेन पार्थेन च महात्मना ।
भीमेन चक्रक्षाभ्यामश्वत्थाम्ना कृपेण च ॥ ७.१४३.६६ ॥
虽然克里希那和伟大的般度之子(阿周那)阻止他,婆罗门的(?)以及毗摩、两位车轮守卫、阿湿婆摩与克利巴也都阻止了他,
7.143.67
कर्णेन वृषसेनेन सैन्धवेन तथैव च ।
विक्रोशतां च सैन्यानामवधीत्तं धृतव्रतम् ॥ ७.१४३.६७ ॥
迦尔纳、毗舍犀那和信度王同样地,在军队哭喊之中,杀死了那位持守誓愿的英雄。
7.143.68
प्रायोपविष्टस्य रणे पार्थेन च्छिन्नबाहुनः ।
सात्यकिः कौरवेयस्य खङ्गेनापाहरच्छिरः ॥ ७.१४३.६८ ॥
萨提亚基以剑斩下了那位在战场上绝食而坐的俱卢人的头颅,他的手臂已被般度之子斩断。
7.143.69
नाभ्यनन्दन्त तं सैन्याः सात्यकिं तेन कर्मणा ।
अर्जुनेन हतं पूर्वं यज्जघान कुरूद्वहम् ॥ ७.१४३.६९ ॥
军队不赞许萨提亚基此举,因为他杀死了俱卢中的至尊者,而此人先前已被阿周那杀死。
7.143.70
सहस्राक्षसमं चैव सिद्धचारणमानवाः ।
भूरिश्रवसमालोक्य युद्धे प्रायगतं हतम् ॥ ७.१४३.७० ॥
众悉陀、乐人与凡人见到与因陀罗等同的婆利室罗婆斯在战场上赴死被杀,无不惊叹。
7.143.71
अपूजयन्त तं देवा विस्मितास्तेऽस्य कर्मभिः ।
पक्षवादांश्च सुबहून्प्रावदंस्तव सैनिकाः ॥ ७.१४३.७१ ॥
惊异的诸神因他的功业而敬重他,而您的士兵们则说了许多偏袒的话。
7.143.72
न वार्ष्णेयस्यापराधो भवितव्यं हि तत्तथा ।
तस्मान्मन्युर्न वः कार्यः क्रोधो दुःखतरो नृणाम् ॥ ७.१४३.७२ ॥
并非毗利尼族(萨提亚基)之过;事情本当如此。因此你们不要愤怒,因为愤怒对人来说更加痛苦。
7.143.73
हन्तव्यश्चैष वीरेण नात्र कार्या विचारणा ।
विहितो ह्यस्य धात्रैव मृत्युः सात्यकिराहवे ॥ ७.१४३.७३ ॥
勇士必须杀死他,此事无需犹豫。在战场上,造物主早已注定他将死于萨提奇之手。
7.143.74
मर्तव्यमेव सर्वेण चरमं पूर्वमेव वा ।
मन्यध्वं मृत इत्येष माभूद्वो बुद्धिलाघवम् ॥ ७.१४३.७४ ॥
人人终将死去,或早或晚。请视他为已死,免得你们的心智变得轻浮。
7.143.75
तस्मिन्हते महाबाहौ यूपकेतौ महात्मनि ।
धिगेनमिति चाक्रन्दन्क्षत्रियाः क्रोधमूर्च्छिताः ॥ ७.१४३.७५ ॥
当那位臂力强大、旗帜为祭柱的大德者被杀时,怒火攻心的刹帝利们哭喊道:“此人可耻!”
7.143.76
अन्ये न युक्तमित्येव भवितव्यं तथेति च ।
केचिदासन्विमनसः केचिद्दुःखसमन्विताः ॥ ७.१४३.७६ ॥
有人说:“此事不妥。”有人说:“就这样吧。”有的心神恍惚,有的充满悲痛。
7.143.77
न हन्तव्यो न हन्तव्य इति मन्दाः प्रभाषत ।
धर्मवादैरधर्मिष्ठा धर्मकञ्चुकमास्थिताः ॥ ७.१४३.७७ ॥
愚人们,你们说:“不可杀他,不可杀他。”你们这些不义之人,以正法之言披上了正法的外衣。
7.143.78
यदा बालः सुभद्रायाः सुतः शस्त्रनिनाकृतः ।
युष्माभिर्निहतो युद्धे तदा धर्मः क्व वो गतः ॥ ७.१४३.७८ ॥
当须跋陀罗的少年之子被兵器的密集打击击倒,在战斗中被你们杀死时,你们的正法又去了哪里?
7.143.79
मया त्वेतत्प्रतिज्ञातं क्षेपे कस्मिंश्चिदेव हि ।
श्रुत्वा तत्सर्वभावेन गर्हयध्वं न चार्जुनम्।
शृणुध्वं सर्वमेवेह श्रुत्वा गर्हथ मानवाः ॥ ७.१४३.७९ ॥
然而我是为了回应某种指责才发此誓言的。请全心聆听,不要谴责阿周那。诸位人们,请听完这里的一切,听完之后再谴责吧。
7.143.80
यो मां निष्पिष्य सङ्ग्रमे जीवन्हन्यात्पदा रुषा ।
स मे वध्यो भवेच्छत्रुर्यद्यपि स्यान्मुनिव्रतः ॥ ७.१४३.८० ॥
若有人在战斗中将我压碎,趁我尚存,怒而以脚踢我,此人便是我的敌人,应当被杀,即使他是持守圣者誓愿的人。
7.143.81
चेष्टमानं प्रतीघाते सभुजं मां सचक्षुषः ।
मन्यध्वं मृत इत्येवमेतद्वो बुद्धिलाघवम् ॥ ७.१४३.८१ ॥
我仍在奋力抵抗,双臂健全,双目睁着,而你们却以为我已死去——这正是你们心智的轻浮。
7.143.82
युक्तो ह्यस्य प्रतीघातः कृतो मे कुरुपुङ्गवाः ॥ ७.१४३.८२ ॥
诸位俱卢族的英雄,我对他的抵抗确实是恰当的。
7.143.83
यत्तु पार्थेन मां दृष्ट्वा प्रतिज्ञामभिरक्षता ।
सखङ्गोऽस्य हृतो बाहुरेतेनैवास्मि वञ्चितः ॥ ७.१४३.८३ ॥
然而,普利塔之子见我而守护其誓言,连同他的剑斩断了他的手臂,我正是因此而被欺骗。
7.143.84
भवितव्यं हि यद्भावि दैवं चेष्टयते हि तत् ।
सोयं हतो विमर्देऽस्मिन्किमत्राधर्मचेष्टितम् ॥ ७.१४३.८४ ॥
命中注定之事必将发生,天命驱使之。此人在这场战斗的混乱中被杀,这里有什么不义之行?
7.143.85
अपि चापं पुरा गीतः श्लोको वाल्मीकिना भुवि ।
न हन्तव्याः स्त्रिय इति यद्ब्रवीषि प्लवङ्गम ॥ ७.१४३.८५ ॥
往昔Vālmīki在大地上吟唱过此颂:不可杀害女人——你这样说,猴中之最。
7.143.86
सर्वकालं मनुष्येण व्यवसायवता सदा ।
पीडाकरममित्राणां यत्स्यात्कर्तव्यमेव तत्।
अनुष्ठितं मया तच्च कस्माद्गर्हथ मूढवत् ॥ ७.१४३.८६ ॥
任何时候,有决心的人都应当做那些使敌人痛苦的事。我已这样做了,你们为何像愚人一样责备我?
7.143.87
एवमुक्ते महाराज सर्वे कौरवपुङ्गवाः ।
न स्म किंचिदभाषन्त मनसा समपूजयन् ॥ ७.१४३.८७ ॥
大王,此言既出,诸位俱为库鲁之牛者皆默然无言;心中却加以赞许。
7.143.88
मन्त्रभिपूतस्य महाध्वरेषु ।
यशस्विनो भूरिसहस्रदस्य।
मुनेरिवारण्यगतस्य तस्य ।
न तत्र कश्चिद्वधमभ्यनन्दत् ॥ ७.१४३.८८ ॥
那位在大祭祀中以咒语净化、享有盛名、布施千万的人,如同入林的仙人,那里没有人赞许对他的杀害。
7.143.89
सुनीलकेशं वरदस्य तस्य ।
सूरस्य पारावतलोहिताक्षम्।
अश्वस्य मेध्यस्य शिरो निकृत्तं ।
न्यस्तं हविर्धानमिवान्तरेण ॥ ७.१४३.८९ ॥
那匹可供祭祀的马,鬃毛深蓝美丽,眼睛如鸽子般赤红,属于施予恩惠的苏罗;它的头被斩下,仿佛放在两个供奉台之间。
7.143.90
स तेजसा शस्त्रकृतेन पूतो ।
महाहवे देहवरं विसृज्य।
आक्रामदूर्ध्वं वरदो वरार्हो ।
व्यावृत्त्य धर्मेण परेम रोदसी ॥ ७.१४३.९० ॥
他因兵器所生的光辉而得净化,在大战中舍弃了殊胜之身;施恩者、配受恩赐者,向上升去,依法转身,越过небо与大地这两个至高之界。