摩诃婆罗多 · 章 7.147
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.147.1
श्रुत्वा निनादं धनुषश्च तस्य ।
विस्पषृमुत्कष्टमिवान्तकस्य।
शक्राशनिस्फोटसमं सुघोरं ।
विकृष्यमाणस्य धनञ्जयेन ॥ ७.१४७.१ ॥
听到那张弓的轰鸣,如死神之弓般拉满,其弦响之可怖犹如因陀罗霹雳之炸裂,乃是持弓者达那闍耶所拉之弓。
7.147.2
त्रासोद्विग्नं तथोद्धान्तं त्वदीयं तद्बलं नृप ।
युगान्तवातसङ्क्षुब्धं चलद्वीचितरङ्गितम्।
प्रलीनमीनमकरं सागराम्भ इवाभवत् ॥ ७.१४७.२ ॥
陛下,您的军队因恐惧而惊扰慌乱,如同劫末之风所搅动的大海之水,随波涛起伏,鱼与海兽都已潜伏不见。
7.147.3
मध्यन्दिनगतं सूर्यमापतन्तमिवाम्बरे ।
न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् ॥ ७.१४७.३ ॥
正如正午时分坠落天空的太阳不可直视,一切众生也不能正视般若王子之子阿周那(般度之子)。
7.147.4
स रणे व्यचरत्पार्थः प्रेक्ष्यमाणो धनञ्जयः ।
युगपद्दिक्षु सर्वासु सर्वाण्यस्त्राणि दर्शयन् ॥ ७.१४७.४ ॥
达那闍耶·般度之子在战场上驰骋,众人注视着他,同时向各个方向展示一切武器。
7.147.5
आददानं महाराज सन्दधानं च पाण्डवम् ।
उत्कर्षन्तं सृजन्तं च न स्म पश्याम लाघवात् ॥ ७.१४७.५ ॥
大王啊,我们看不见般度之子取箭、搭弦、拉弓、放箭,因为他极其迅捷。
7.147.6
ततः क्रुद्धो महाबाहुरैन्द्रमस्त्रं दुरासदम् ।
प्रादुश्चक्रे महाराज त्रासयन्सर्वभारतान् ॥ ७.१४७.६ ॥
于是,愤怒的大臂者显出因陀罗的无敌之箭,大王啊,令一切婆罗多人恐惧。
7.147.7
ततः शराः प्रादुरासन्दिव्यास्त्रप्रतिमन्त्रिताः ।
प्रदीपाश्च शिखिमुखाः शतशोऽथ सहस्रशः ॥ ७.१४७.७ ॥
于是,以神圣武器咒语加持的箭矢出现了,光芒闪耀、箭头如火,成百上千。
7.147.8
आकर्णपूर्णनिर्मुक्तैरग्न्यर्कांशुनिभैः शरैः ।
नभोऽभवत्तद्दुष्प्रेक्ष्यमुल्काभिरिव संवृतम् ॥ ७.१४७.८ ॥
箭矢自拉满至耳的弓中射出,犹如火光与日光,天空变得难以直视,仿佛被火把覆盖。
7.147.9
ततः शस्त्रान्धकारं तत्कौरवैः समुदीरितम् ।
अशक्यं मनसाऽप्यन्यैः पाण्डवः सम्भ्रमन्निव ॥ ७.१४७.९ ॥
于是,考拉瓦所掀起的那片兵器之暗,连他人在心中也无法穿越,般度之子似乎惊慌地注视着。
7.147.10
नाशयामास विक्रम्य शरैर्दिव्यास्त्रमन्त्रितैः ।
नैशं तमोंशुभिः क्षिप्रं दिनादाविव भास्करः ॥ ७.१४७.१० ॥
他以勇猛之力,用以神圣武器咒语加持的箭矢迅速将其摧毁,犹如清晨太阳以光芒驱散夜色。
7.147.11
ततस्तु तावकं सैन्यं दीप्तैः शरगभस्तिभिः ।
आक्षिपत्पल्वलाम्बूनि निदाघार्क इव प्रभुः ॥ ७.१४७.११ ॥
于是他以炽热的箭矢之光炙烤你的军队,犹如盛夏之主太阳使池塘江水干涸。
7.147.12
ततो दिव्यास्त्रविदुषा प्रहिताः सायकांशवः ।
समाप्लवन्द्विषत्सैन्यं लोकं भागोरिवांशवः ॥ ७.१४७.१२ ॥
于是,精通神圣武器者所发的箭矢之光如洪水般淹没敌军,犹如日光遍照世界。
7.147.13
अथापरे समुत्सृष्टा विशिखास्तिग्मतेजसः ।
हृदयान्याशु वीराणां विविशुः प्रियबन्धुवत् ॥ ७.१४७.१३ ॥
随后,其他锐利闪光的箭被射出,迅速刺入英雄们的心中,如同亲密的亲属一般。
7.147.14
य एनमीयुः समरे त्वद्योधाः शूरमानिनः ।
शलभा इव ते दीप्तमग्निं प्राप्य ययुः क्षयम् ॥ ७.१४७.१४ ॥
你那些自以为英勇的战士在战场上迎战他,却如飞蛾扑向熊熊烈火般走向毁灭。
7.147.15
एवं स मृद्रञ्शत्रूणां जीवितानि यशांसि च ।
पार्थश्चचार सङ्ग्रामे मृत्युर्विग्रहवानिव ॥ ७.१४७.१५ ॥
如此,帕尔塔在战场上穿行,碾碎敌人的生命与名声,仿佛死神亲自化作了身躯。
7.147.16
स किरीटानि वस्त्राणि साङ्गदान्विपुलान्भुजान् ।
सकुण्डलयुगान्कर्णान्केषाञ्चिदहरच्छरैः ॥ ७.१४७.१६ ॥
他用箭从一些人身上夺去王冠、衣裳、带臂钏的宽阔臂膀,以及带耳环对的耳朵。
7.147.17
सतोमरान्गजस्थानां सप्रासान्हयसादिनाम् ।
सचर्मणः पदातीनां रथिनां च सधन्वनः।
सप्रतोदान्नियन्तॄणां बाहूंश्चिच्छेद पाण्डवः ॥ ७.१४७.१७ ॥
般度之子砍断了象上战士连同标枪的手臂,骑兵连同长矛的手臂,步兵连同盾牌的手臂,车士连同弓的手臂,御者连同鞭子的手臂。
7.147.18
प्रदीप्तोग्रशरार्जिष्मान्बभौ तत्र धनञ्जयः ।
सविस्फुलिङ्गाग्रशिखो ज्वलन्निव हुताशनः ॥ ७.१४७.१८ ॥
财富征服者在那里光芒四射,闪亮的猛烈箭矢燃烧着,如同火焰顶端迸射火花的熊熊烈火。
7.147.19
तं देवराजप्रतिमं सर्वशस्त्रभृतां वरम् ।
युगपद्दिक्षु सर्वासु रथस्थं पुरुषर्षभम् ॥ ७.१४७.१९ ॥
他如同众神之王,是所有持武器者中最优秀的,同时在所有方向站在战车上,是人中之牛。
7.147.20
निक्षिपन्तं महास्त्राणि प्रेक्षणीयं धनञ्जयम् ।
नृत्यन्तं रथमार्गेषु धनुर्ज्यातलनादिनम् ॥ ७.१४७.२० ॥
财主(阿周那)令人瞩目,发出大威力的箭,在战车道上舞动,弓弦发出响声。
7.147.21
निरीक्षितुं न शेकुस्ते यत्नवन्तोऽपि पार्थिवाः ।
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे ॥ ७.१४७.२१ ॥
那些国王即使努力,也无法直视他,正如无法直视正午天空中炽烈的太阳。
7.147.22
दीप्तोग्रसम्भृतशरः किरीटी विरराज ह ।
वर्षास्विवोदीर्णजलः सेन्द्रधन्वाम्बुदो महान् ॥ ७.१४७.२२ ॥
头戴宝冠的(阿周那)烈焰熊熊,满载箭矢,闪耀如雨季中充满水、带着彩虹的巨大云朵。
7.147.23
महास्त्रसंप्लुवे तस्मिञ्जिष्णुना सम्प्रवर्तिते ।
सुदुस्तरे महाघोरे ममज्जुर्योधपुङ्गवाः ॥ ७.१४७.२३ ॥
在阿周那发动的那场大兵器洪流中,那洪流难以渡过且极为可怕,优秀的战士们沉没了。
7.147.24
उत्कृत्तवदनैर्देहैः शरीरैः कृत्तबाहुभिः ।
भुजैश्च पाणिनिर्मुक्तैः पाणिभिर्व्यङ्गुलीकृतैः ॥ ७.१४७.२४ ॥
那些面孔被割裂的躯体,手臂被砍断的身体,从手中脱落的臂膀,手指被残害的手。
7.147.25
कृत्ताग्रहस्तैः करिभिः कृत्तदन्तैर्मदोत्कटैः ।
हयैश्च विधुरग्रीवै रथैश्च शकलीकृतैः ॥ ७.१४७.२५ ॥
象鼻被斩断、象牙折断、因发情而狂暴的大象,颈项折断的马匹,以及被击碎成碎片的战车。
7.147.26
निकृत्तान्त्रैः कृत्तपादैस्तथाऽन्यैः कृत्तसन्धिभिः ।
निश्चेष्टैर्विस्फुरद्भिश्च शतशोऽथ सहस्रशः ॥ ७.१४७.२६ ॥
肠子流出者、双脚被砍断者、关节被斩断者,以及其他人,或静止不动,或仍在抽搐,成百上千。
7.147.27
मृत्योराघातललितं तत्पार्थायोधनं महत् ।
अपश्याम महीपाल भीरूणां भयवर्धनम् ॥ ७.१४७.२७ ॥
大地之主啊,我们看见了般度之子那片巨大的战场,它因死亡的打击而显得迷人,却增加了怯懦者的恐惧。
7.147.28
आक्रीडमिव रुद्रस्य पुराभ्यर्दयतः पशून् ।
गजानां क्षुरनिर्मुक्तैः करैः सभुजगेव भूः ॥ ७.१४७.२८ ॥
如往昔楼陀罗折磨牲畜的游戏一般,大地仿佛与蛇一同,布满了象鼻和被利刃切断的手臂。
7.147.29
क्वजिद्बभौ स्रग्विणीव वक्त्रपद्मैः समाचिता ।
विचित्रोष्णीषमुकुटैः केयूराङ्गदकुण्डलैः ॥ ७.१४७.२९ ॥
大地在此处那里闪耀,如同佩戴花环的女子,点缀着莲花般的面容,装饰着色彩斑斓的头巾与王冠、臂钏、手镯和耳环。
7.147.30
स्वर्णचित्रतनुत्रैश्च भाण्डैश्च गजवाजिनाम् ।
किरीटशतसङ्गीर्णा तत्र तत्र समाचिता।
विराज भृशं चित्रा मही नववधूरिव ॥ ७.१४७.३० ॥
这片斑斓的大地,到处散落着金色的铠甲、象马的饰具和数百顶王冠,闪耀无比,宛如新娶的新娘。
7.147.31
मज्जामेदःकर्दमिनीं शोणितौघतरङ्गिणीम् ।
मर्मास्थिभिरगाधां च केशशैवलशाद्वलाम् ॥ ७.१४७.३१ ॥
那是一条由骨髓与脂肪淤泥构成的河流,血流成波浪,因要害与骨骼而深不可测,长满了如发丝般的水草与青苔。
7.147.32
शिरोबाहूपलतटां रुग्णक्रोडास्थिसङ्कटाम् ।
चित्रध्वजपताकाढ्यां छत्राचापोर्मिमालिनीम् ॥ ७.१४७.३२ ॥
河岸由头颅与臂膀堆成的石块构成,被碎裂的胸膛与骨骼挤得狭窄,满布彩色旗帜与幡旗,以伞盖和弓箭的波浪为花环。
7.147.33
विगतासुमहाकायां गजदेहाभिसङ्कुलाम् ।
रथोडुपशताकीर्णां हयसङ्घातरोधसम् ॥ ७.१४७.३३ ॥
这是一条满是庞大无生命躯体的河流,挤满象的尸体,散布着数百辆如船般的战车,两岸被马的尸堆所堵塞。
7.147.34
रथचक्रयुगेषाक्षकूबरैरतिदुर्गमाम् ।
प्रासासिशक्तिपरशुविशिखाहिदुरासदाम् ॥ ७.१४७.३४ ॥
因战车的车轮、轭、辕、轴与车厢而极其难以通行,因矛、剑、枪、斧、箭及如蛇般的兵器而难以接近。
7.147.35
बलकङ्कुमहानक्रां गोमायुमकरोत्कटाम् ।
गृघ्रोदग्रमहाग्राहां शिवाविरुतभैरवाम् ॥ ७.१४७.३५ ॥
有如鹭鹭与鹤般的巨鳄,因豺狼与海怪而凶猛,有如秃鹫般高耸凶猛的大鳄,因豺狼的嚎叫而可怖。
7.147.36
नृत्यत्प्रेतपिशाचाद्यैर्भूताकीर्णां सहस्रशः ।
गतासुयोधनिश्चेष्टशरीरशतवाहिनीम् ॥ ७.१४७.३६ ॥
成千上万的舞动的鬼魂、毗舍遮与其他妖灵充斥其间,河中漂着数百具已死勇士不动的尸身。
7.147.37
महाप्रतिभयां रौद्रां घोरां वैतरणीमिव ।
नदीं प्रवर्तयामास भीरूणां भयवर्धिनीम् ॥ ७.१४७.३७ ॥
他使一条如同可怖的吠多兰尼河般的河流奔涌,极其恐怖、暴烈、骇人,使怯懦者更加恐惧。
7.147.38
तं दृष्ट्वा तस्य विक्रान्तमन्तकस्येव रूपिणः ।
अभूतपूर्वं कुरुषु भयमागाद्रणाजिरे ॥ ७.१४७.३८ ॥
见他的威勇如同化身的死神,战场上的俱卢人心中生出前所未有的恐惧。
7.147.39
तत आदाय वीराणामस्त्रैरस्त्राणि पाण्डवः ।
आत्मानं रौद्रमाचष्ट रौद्रकर्मण्यधिष्ठितः ॥ ७.१४७.३९ ॥
于是般度之子以自己的兵器承接众英雄的兵器,投身于暴烈之事,显出暴烈之相。
7.147.40
ततो रथवरान्राजन्नत्यतिक्रामदर्जुनः ॥ ७.१४७.४० ॥
于是,大王啊,阿周那越过了那些上好的战车。
7.147.41
मध्यन्दिनगतं सूर्यं प्रतपन्तमिवाम्बरे ।
न शेकुः सर्वभूतानि पाण्डवं प्रतिवीक्षितुम् ॥ ७.१४७.४१ ॥
如正午天空中炽烈的太阳,一切众生都无法直视般度之子。
7.147.42
प्रसृतांस्तस्य गाण्डीवाच्छरव्रातान्महात्मनः ।
सङ्ग्रामे सम्प्रपश्यामो हंसपङ्क्तिरिवाम्बरे ॥ ७.१४७.४२ ॥
我们在战场上看到那大德者的甘狄拔弓射出的箭群,如同天空中的雁行。
7.147.43
विनिवार्य स वीराणामस्त्रैरस्त्राणि सर्वतः ।
दर्शयन्रौद्रमात्मानमुग्रे कर्मणि धिष्ठितः ॥ ७.१४७.४३ ॥
他以兵器从四面挡开众英雄的兵器,立于猛烈的战事之中,显出他可怖的身形。
7.147.44
स तान्रथवरान्राजन्नत्याक्रामत्तदाऽर्जुनः ।
मोहयन्निव नाराचैर्जयद्रथवधेप्सया ॥ ७.१४७.४४ ॥
大王,那时阿周那越过那些上好的战车,仿佛以铁箭使它们迷惑,心中渴望杀死胜车。
7.147.45
विसृजन्दिक्षु सर्वासु शरानच्युतसारथिः ।
सरथो व्यचरत्तूर्णं प्रेक्षणीयो धनञ्जयः ॥ ७.१४७.४५ ॥
向四面八方放箭,车夫为不倒者(克里希那)的财主阿周那,与他的战车迅速往来,令人一见难忘。
7.147.46
भ्रमन्त इव शूरस्य शरव्राताः महात्मनः ।
अदृश्यन्तान्तरिक्षस्थाः शतशोऽथ सहस्रशः ॥ ७.१४७.४६ ॥
这位英雄大心者的箭群仿佛盘旋飞舞,停在空中,成百上千地可见。
7.147.47
आददानं महेष्वासं सन्दधानं च सायकम् ।
विसृजन्तं च कौन्तेयं नानुपश्याम वै तदा ॥ ७.१४७.४७ ॥
拿起箭、搭箭、射出——那大弓手、贡蒂之子,我们当时竟一概看不见。
7.147.48
तथा सर्वा दिशो राजन्सर्वांश्च रथिनो रणे ।
आकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत्।
विव्याध च चतुःषष्ट्या शराणां नतपर्वणाम् ॥ ७.१४७.४८ ॥
大王,阿周那如此使四方与战场上所有车战者陷入混乱,随即冲向胜车,以六十四支弯曲箭杆的箭射穿了他。
7.147.49
सैन्धवाभिमुखं यान्तं योधाः सम्प्रेक्ष्य पाण्डवम् ।
न्यवर्तन्त रणाद्वीरा निराशास्तस्य जीविते ॥ ७.१४७.४९ ॥
众勇士见般度之子向信度王而去,对其性命已无希望,便从战场上撤退了。
7.147.50
यो योऽभ्यधावदाक्रन्दे तावकः पाण्डवं रणे ।
तस्यतस्यान्तगा बाणाः शरीरे न्यपतन्प्रभो ॥ ७.१४७.५० ॥
主公啊,凡是在呼喊声中冲向般度之子的您的每一位战士,箭矢都射入了他的身体。
7.147.51
कबन्धसङ्कुलं चक्रे तव सैन्यं महारथः ।
अर्जुनो जयतां श्रेष्ठः शरैरग्न्यंशुसन्निभैः ॥ ७.१४७.५१ ॥
胜者中最优秀的大车将阿周那,以如火光般的箭矢,使您的军队布满了无头的躯干。
7.147.52
एवं तत्तव राजेन्द्र चतुरङ्गबलं तदा ।
व्याकुलीकृत्य कौन्तेयो जयद्रथमुपाद्रवत् ॥ ७.१४७.५२ ॥
诸王之主啊,般度之子如此扰乱了您的四军,便冲向胜车。
7.147.53
द्रौणिं पञ्चाशताऽविध्यद्वृषसेनं त्रिभिः शरैः ।
कृपायमाणः कौन्तेयः कृपं नवभिरार्दयत् ॥ ७.१४७.५३ ॥
般度之子出于怜悯,以五十支箭射中德罗纳之子,以三箭射中跋利沙犀那,以九箭击中俱卢。
7.147.54
शल्यं षोडशभिर्बाणैः कर्णं द्वात्रिंशता शरैः ।
सैन्धवं तु चतुःषष्ट्या विद्व्वा सिंह इवानदत् ॥ ७.१४७.५४ ॥
他以十六箭射中沙利耶,以三十二箭射中迦尔纳,以六十四箭射中信度王胜车,然后如狮子般吼叫。
7.147.55
सैन्धवस्तु तथा विद्धः शरैर्गाण्डीवधन्वना ।
न चक्षमे सुसङ्क्रुद्धस्तोत्रार्दित इव द्विपः ॥ ७.१४७.५५ ॥
被持甘提弓者的箭如此射中,信度王大怒,无法忍受,犹如被刺棒折磨的大象。
7.147.56
स वराहध्वजस्तूर्णं गार्ध्रपत्रानजिह्मगान् ।
क्रुद्धाशीविषसङ्काशान्कर्मारपरिमार्जितान् ॥ ७.१४७.५६ ॥
野猪旗者迅速射出以秃鹫羽为翎、飞行笔直、如愤怒毒蛇、经铁匠磨光的箭。
7.147.57
आकर्णपूर्णांश्चिक्षेप फल्गुनस्य रथं प्रति ।
त्रिभिस्तु विद्वा गोविन्दं नाराचैः षड्भिरर्जुनम् ॥ ७.१४७.५७ ॥
他将拉满至耳的箭射向普尔古那的战车;以三箭射中戈文达,以六枚铁箭射中阿周那。
7.147.58
अष्टभिर्वाजिनोऽविध्यद्ध्वजं चैकेन पत्रिणा ।
भूयश्चैवार्जुनं सङ्ख्ये शरवर्षैरवाकिरत् ॥ ७.१४७.५८ ॥
以八箭射中马匹,以一支有羽之箭射中旗帜;随后又在战中以箭雨覆盖阿周那。
7.147.59
स विक्षिप्यार्जुनस्तूर्णं सैन्धवप्रहिताञ्शरान् ।
युगपत्तस्य चिच्छेद शराभ्यां सैन्धवस्य ह।
सारथेश्च शिरः कायाद्व्वजं च समलङ्कृतम् ॥ ७.१४७.५९ ॥
阿周那迅速挡开胜车所射之箭,同时以两箭斩断他的弓,斩下御者的头颅,并射落饰有华彩的旗帜。
7.147.60
स च्छिन्नयष्टिः सुमहान्धनञ्जयशराहतः ।
वराहः सिन्धुराजस्य पपातेन्दुसमप्रभः ॥ ७.१४७.६० ॥
那面大野猪旗,旗杆折断,被财主的箭所击中,信度王的那面如月光般明亮的旗帜倒下了。
7.147.61
आदित्यं प्रेक्षमाणस्तु बीभत्सुः सृक्विणी लिहन् ।
अपश्यन्नान्तरं तस्य रक्षिभिः संवृतस्य वै ॥ ७.१४७.६१ ॥
阿周那望着太阳,舔着嘴角,看不到守卫包围中的任何缝隙。
7.147.62
अभवक्त्रोधरक्ताक्षो व्यात्तानन इवान्तकः ।
अथाब्रवीद्वासुदेवः कुन्तीपुत्रं धनञ्जयम् ॥ ७.१४७.६२ ॥
他怒目通红,宛如张口的死神。于是瓦苏提婆对贡蒂之子德南闍耶说道。
7.147.63
नैव शक्यस्त्वया हन्तुं निर्व्याजं भरतर्षभ ।
स्रक्ष्याम्यहमुपायं तमादित्यस्यापवारणे।
ततोऽस्तं गतमादित्यं मंस्यते सिन्धुराडिह ॥ ७.१४७.६३ ॥
婆罗多族的雄牛啊,你无法公开地杀死他。我将设计一个遮蔽太阳的方法;那时信度王便会以为太阳已经落山。
7.147.64
ततोऽस्य विस्मयः पार्थ हर्षश्चैव भविष्यति ।
आत्मजीवितलाभाच्च प्रतिज्ञायाश्च नाशनात् ॥ ७.१४७.६४ ॥
那时,阿周那啊,他会因保住性命而惊讶与欢喜,也因你的誓言被破坏而欢喜。
7.147.65
अस्तङ्गतमिवादित्यं दृष्ट्वा मोहेन बालिशः ।
न हि शक्ष्यत्यथाऽऽत्मानं रक्षितुं हर्षसम्भवात् ॥ ७.१४७.६५ ॥
见太阳仿佛已落,愚人因迷惑,因欢喜而生,将不能保护自己。
7.147.66
एतस्मिन्नेव काले तु प्रहर्तव्यं धनञ्जय ।
जयद्रथस्य क्षुद्रस्य सविदुर्दर्शनार्थिनः ॥ ७.१४७.६६ ॥
德南闍耶啊,此刻你必须打击那卑劣的胜车,他渴望再见太阳。
7.147.67
एवमुक्त्वा ततः पार्थं क्षिप्रमेवाहरत्प्रभाम् ।
जनार्दनेन सृष्टं वै तम आदित्यनाशनम् ॥ ७.१४७.६७ ॥
说罢,他立即向Pārtha显现了由Janārdana所造、遮蔽太阳的那片黑暗。
7.147.68
पार्थस्य बलमज्ञानात्तमो दृष्ट्वा सुदुःखितम् ।
अभवंस्तावका योधा हर्षसङ्कुलचेतसः ॥ ७.१४७.६८ ॥
你的战士因不知Pārtha之力而见黑暗大为苦恼,但他们心中却充满了喜悦。
7.147.69
ते प्रहृष्टा रणे राजन्नपश्यन्सैनिका रविम् ।
उन्नाम्य वक्त्राणि तदा स च राजा जयद्रथः ॥ ७.१४७.६९ ॥
大王啊,那时战场上欢喜的士兵抬起面孔看见了太阳;那位国王Jayadratha也看见了。
7.147.70
वीक्षमाणे ततस्तस्मिन्सिन्धुराजे दिवाकरम् ।
उन्नमय्य शिरोग्रीवां वीक्षते सूर्यमण्डलम्।
तस्य शीघ्रं पृषत्केन कायाच्छीर्षमपाहर ॥ ७.१४७.७० ॥
当信度王望着太阳、仰起头颈凝视日轮之时,迅速用一支箭将他的头从身上斩下。
7.147.71
केशवेनैवमुक्तः सन्नमर्षाद्रक्तलोचनः ।
उद्बबर्ह शरं तीक्ष्णममरैरपि दुःसहम् ॥ ७.१४७.७१ ॥
被Keśava这样一说,他怒目通红,拔出一支连诸神都难以承受的锐利之箭。
7.147.72
एवं तूणीशयं घोरमिन्द्राशनिसमप्रभम् ।
वर्मभेदिनमत्यर्थं गन्धमाल्यार्चितं सदा।
विससर्ज ततस्तूर्णं सैन्धवस्य रथं प्रति ॥ ७.१४७.७२ ॥
于是,他迅速将那支躺在箭囊中的可怖之箭射向信度王的战车——此箭光如因陀罗之雷霆,能穿透甲胄,常以香花供奉。
7.147.73
स तु गाण्डीवनिर्मुक्तः शरः श्येन इवाशुनः ।
शकुन्तमिव वृक्षाग्रात्सैन्धवस्याहरच्छिरः ॥ ७.१४७.७३ ॥
那支从甘狄拔弓射出的箭,迅捷如从树梢扑捉飞鸟的鹰,取走了信度王(胜车)的头颅。
7.147.74
प्रपतिष्यति शीर्षे तु कृष्णोऽर्जुनमथाब्रवीत् ।
पार्थ पार्थ शिरो ह्येतद्यथा नेयान्महीतलम्।
तथा कुरु कुरुश्रेष्ठ वक्ष्ये तस्यापि कारणम् ॥ ७.१४७.७४ ॥
克里希纳对阿周那说:"让这颗头不落到地上,俱卢最优秀的人啊,就这样做吧。""啊,普利塔之子,普利塔之子,就这样做;我也会告诉你其中的原因。"
7.147.75
श्रुत्वा तु वचनं तस्य त्वरमाणोऽस्त्रमायया ।
तथाऽहरच्छिरस्तस्य शरैरूर्ध्वं धनञ्जयः।
दुर्हृदामपहर्षाय सुहृदां हर्षणाय च ॥ ७.१४७.७५ ॥
听了他的话,财富征服者(阿周那)急速以武器的幻术,用箭将他的头颅射向空中——使敌人沮丧,使朋友欢喜。
7.147.76
तिर्यगूर्ध्वमधश्चैव पुनरूर्ध्वमथापि च ।
दीर्घकालमवाक्वैव सम्प्रक्रीडन्निवार्जुनः ॥ ७.१४७.७६ ॥
阿周那时而横射,时而向上,时而向下,又再向上,长久地射箭,仿佛在游戏一般。
7.147.77
तत्सैन्यं सर्वतोपश्यन्महदाश्चर्यमद्भुतम् ।
प्रापयत्स शिरो यस्माद्योधयन्नेव पार्थिवान् ॥ ७.१४७.७७ ॥
军队四面都看到了这大而奇妙的奇迹:他一边与众王作战,一边将那颗头颅送到了那里。
7.147.78
शरैः कन्दुकवत्कृत्वा तस्यालोकाय पाण्डवः ।
स्यमन्तपञ्चकाद्बाह्ये शिरस्तदहरच्छरैः ॥ ७.१४७.७८ ॥
般度之子用箭把那颗头颅弄得像球一样,为了让他看见,在Syamantapañcaka之外用箭将其射飞走了。
7.147.79
जयद्रथस्यार्जुनबाणनालं ।
मुखारविन्दं रुधिराम्बुसिक्तम्।
दृष्टं नरैश्चोपरिवर्तमानं ।
विद्याधरोत्सृष्टमिवैकपद्मम् ॥ ७.१४७.७९ ॥
贾耶德拉陀的莲花面,以阿周那的箭为莲茎,浸透在血流之中,人们看见它仰面躺着,仿佛是毗陀罗所抛下的一朵莲花。
7.147.80
स देवशत्रूनिव देवराजः ।
किरीटमाली व्यधमत्सपत्नान्।
यथा तमांस्यभ्युदितस्तमोघ्नः ।
पूर्णां प्रतिज्ञां स समाप्य वीरः ॥ ७.१४७.८० ॥
那位戴冠的英雄,如同天王摧毁众神的敌人,击溃了他的对手;又如升起而驱散黑暗的太阳,他完成了自己的全部誓言。
7.147.81
तं भूमिदेशं च शिरो विनेतुम् ॥ ७.१४७.८१ ॥
直到那片土地,并把头颅带走。