摩诃婆罗多 · 章 7.148
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.148.1
एवस्मिन्नेव काले तु त्वरमाणे दिवाकरे ।
अब्रवीत्पाण्डवं तत्र त्वरमाणो जनार्दनः ॥ ७.१४८.१ ॥
此时,太阳正急速西沉,贾纳尔达那也急切地对般度之子说道。
7.148.2
पार्थ पार्थ शिरो ह्येनद्यत्कृते न पतेद्भुवि ।
श्रूयतां तद्यथावृत्तं कारणं सैन्धवं प्रति ॥ ७.१४८.२ ॥
般度之子啊,般度之子啊!请听关于信度王所发生之事,此乃此首不会落地的原因。
7.148.3
वृद्धक्षत्रः सैन्धवस्य पिता जगति विश्रुतः ।
स च घोरेण तपसा दैन्धवं प्राप्तवान्सुतम् ॥ ७.१४८.३ ॥
信度王之父伏陀刹特罗在世间闻名;他以严酷苦行得到一子,名为信度婆。
7.148.4
जयद्रथममित्रघ्नं वागुवाचाशरीरिणी ।
नृपमन्तर्हिता वाणी मेघदुन्दुभिनिःस्वना ॥ ७.१४८.४ ॥
一个无形的声音,如雷鸣鼓响,对杀敌的王者贾亚达拉陀说道。
7.148.5
तवात्मजो मनुष्येन्द्र कुलशीलदमादिभिः ।
गुणैर्भविष्यति विभो सदृशो वंशयोर्द्वयोः।
क्षत्रियप्रवरो लोके नित्यं शूराभिसत्कृतः ॥ ७.१४८.५ ॥
人主啊,你的儿子将以门第、品德、克己等德行,与两个家族相称;大能者啊,他将成为世上刹帝利中最杰出者,始终受英雄们的敬重。
7.148.6
शिरश्छेत्स्यति सङ्क्रुद्धः शत्रुश्चालक्षितो भुवि ॥ ७.१४८.६ ॥
一个愤怒而隐藏于大地上的敌人,将斩下他的头颅。
7.148.7
एतच्छ्रुत्वा सिन्धुराजो ध्यात्वा चिरमरिन्दमः ।
ज्ञातीन्सर्वानुवाचेदं पुत्रस्नेहाभिचोदितः ॥ ७.१४८.७ ॥
信德王是敌人的制服者。听到此言后,他沉思良久,因爱子之情所驱使,便对所有亲族说了这番话。
7.148.8
सङ्ग्रामे युध्यमानस्य वहतो महतीं धुरम् ।
धरण्यां मम पुत्रस्य पातयिष्यति यः शिरः ॥ ७.१४८.८ ॥
在战斗中奋力作战、承担重任的人,若使我儿之头坠落于地——
7.148.9
तस्यापि शतधा मूर्धा फलिष्यति न संशयः ।
यदि चेदस्ति मे लाभस्तपसो वा दमस्य वा ॥ ७.१४८.९ ॥
他的头也必将碎裂成百片,毫无疑问。若我因苦行或克己而有所得——
7.148.10
एवमुक्त्वा ततो राज्ये स्थापयित्वा जयद्रथम् ।
वृद्धक्षत्रो वनं यातस्तपश्चोग्रं समास्थितः ॥ ७.१४८.१० ॥
说完这些话,老刹多罗便让胜车继承王位,然后前往森林,开始严酷的苦行。
7.148.11
सोऽयं तप्यति तेजस्वी तपो घोरं दुरासदम् ।
स्यमन्तपञ्चकादस्माद्बहिर्वानरकेतन ॥ ७.१४८.११ ॥
那位光辉的人在这个五湖之外修行着可怕而难以忍受的苦行,啊,持猴旗者!
7.148.12
तस्माज्जयद्रथस्य त्वं शिरश्छित्त्वा महामृधे ।
दिव्येनास्त्रेण रिपुहन्घोरेणाद्भुतकर्मणा ॥ ७.१४८.१२ ॥
因此,啊,敌人的杀戮者,行奇迹之事者,你要在大战中以神圣而可怕的武器斩下胜车的头颅。
7.148.13
सकुण्डलं सिन्धुपतेः प्रभञ्जनसुतानुज ।
उत्सङ्गे पातयस्वास्य वृद्धक्षत्रस्य भारत ॥ ७.१४८.१३ ॥
婆罗多之子啊,风神之子的幼弟,让信度之主带着耳环的头颅落在老刹多罗的膝上吧。
7.148.14
अथ त्वमस्य मूर्धानं पातयिष्यसि भूतले ।
तवापि शतधा मूर्धा फलिष्यति न संशयः ॥ ७.१४८.१४ ॥
那时你将使他的头颅落地,而你自己的头颅也将裂成百片,此事毫无疑问。
7.148.15
यथा चेदं न जानीयात्स राजा तपसि स्थितः ।
तथा कुरु कुरुश्रेष्ठ दिव्यमस्त्रमुपाश्रितः ॥ ७.१४८.१५ ॥
为使那位安住苦行的国王不知此事,最优秀的俱卢啊,借助神圣武器照此行事吧。
7.148.16
न ह्यसाध्यमकार्यं वा विद्यते तव किञ्चन ।
समस्तेष्वपि लोकेषु त्रिषु वासवनन्दन ॥ ७.१४८.१६ ॥
婆娑之子啊,对你而言,无论何事都不是不可成就或不可做到的,即便在三界之中也是如此。
7.148.17
यथैतत्सैन्धवशिरः शरैरेव धनञ्जय ।
वृद्धक्षत्रे पतत्येव तथा नीतिर्विधीयताम् ॥ ७.१४८.१७ ॥
财富征服者啊,正如信度王的头颅仅凭箭矢便落入老刹多罗的膝上,就这样安排计策吧。
7.148.18
ततः सुमहदाश्चर्यं तत्रापश्याम भारत ।
स्यमन्तपञ्चकाद्बाह्यं शिरो यद्व्यहरत्ततः ॥ ७.१४८.१८ ॥
婆罗多之子啊,那时我们在那里看到了极大的奇迹:那颗头颅在萨曼塔潘恰卡之外被抛掷而去。
7.148.19
एतस्मिन्नेव काले तु वृद्धक्षत्रो महीपतिः ।
सन्ध्यामुपास्ते तेजस्वी सम्बन्धी तव मारिष ॥ ७.१४८.१९ ॥
就在此时,光辉的国王跋陀克沙特罗(Vṛddhakṣatra)——你的亲属,尊贵的人啊——正在进行黄昏祷告。
7.148.20
उपासीनस्य तस्याथ कृष्णकेशं सकुण्डलम् ।
सिन्धुराजस्य मूर्धानमुत्सङ्गे समपातयत् ॥ ७.१४८.२० ॥
于是,那位正在礼拜静坐者的膝上,被人使一颗黑发戴耳环的信度王之首坠落于此。
7.148.21
तस्योत्सङ्गे निपतितं शिरस्तच्चारुकुण्डलम् ।
वृद्धक्षत्रस्य नृपतेरलक्षितमरिन्दम ॥ ७.१४८.२१ ॥
那颗戴着精美耳环的头颅落在跋陀克沙特罗王的膝上,他竟未察觉,啊,制敌者。
7.148.22
कृतजप्यस्य तस्याथ वृद्धक्षत्रस्य भारत ।
प्रोत्तिष्ठतस्तत्सहसा शिरोऽगच्छद्वरातलम् ॥ ७.१४८.२२ ॥
啊,婆罗多的后裔,跋陀克沙特罗念诵完毕正要起身时,那颗头颅突然落到了上好的地面上。
7.148.23
ततस्तस्य नरेन्द्रस्य पुत्रमूर्धनि भूतले ।
गते तस्यापि शतधा मूर्धाऽगच्छदरिन्दम ॥ ७.१४८.२३ ॥
随后,那位国王之子的头颅落于地上,啊,制敌者,他自己的头颅也碎成了一百片。
7.148.24
ततः सर्वाणि सैन्यानि विस्मयं जग्मुरुत्तमम् ।
वासुदेवश्च बीभत्सुं प्रशशंस महारथम् ॥ ७.१४८.२४ ॥
于是所有军队都陷入了极大的惊异之中,婆苏提婆赞扬了大车战士毗跋蘇(阿周那)。
7.148.25
ततो दृष्ट्वा विनिहतं सिन्धुराजं जयद्रथम् ।
कर्मणा तेन पार्थस्य विस्मिताः सर्वदेवताः ॥ ७.१४८.२५ ॥
此时见信度王胜敌被杀,帕尔塔的这一功业使诸天神全都惊异。
7.148.26
सर्वदा समरे यस्य गोप्ता नित्यं जनार्दनः ।
कथं तस्य जयो न स्यादिति भूतानि मेनिरे ॥ ७.१४८.२६ ॥
在战斗中一直有遮那陀那守护之人,怎会不胜?众生如此认为。
7.148.27
एतदर्थं शिरस्तस्य व्यापयामास पाण्डवः ।
स्यमन्तपञ्चकाद्बाह्यं शरैरेव यथाक्रमम् ॥ ७.१४८.२७ ॥
为此,般度之子以箭依次将他的头射出了萨曼塔潘查卡之外。
7.148.28
कृत्वा तच्च महत्कर्म निहत्य च जयद्रथम् ।
अस्त्रं पाशुपतं पार्थः संहर्तुमुपचक्रमे ॥ ७.१४८.२८ ॥
完成了那大功业并杀死了jayadratha后,帕尔塔开始收回帕舒帕塔武器。
7.148.29
संहरत्यपि कौन्तेये तदस्त्रं तत्र भारत ।
ववौ शीतः सुगन्धश्च पवनो ह्लादयन्निव ॥ ७.१४८.२९ ॥
婆罗多啊,当昆提之子收回那武器时,那里吹起清凉芬芳的风,仿佛令人欢喜。
7.148.30
संहारं च प्रमोक्षं च दृष्ट्वा तत्र दिवौकसः ।
विस्मयं परमं जग्मुः प्रशशंसुश्च पाण्डवम् ॥ ७.१४८.३० ॥
天界居民见那武器的收回与释放,无比惊叹,并称赞般度之子。
7.148.31
एवमस्त्रेण तान्वीरो योधयित्वा धनञ्जयः ।
जयद्रथशिरः पश्चाद्व्यापयामास पाण्डवः ॥ ७.१४८.३१ ॥
帕ṇḍava 达那闍耶以武器在战斗中如此击败了那些勇士之后,随即将胜车(Jayadratha)的头颅射飞出去。
7.148.32
तच्छिरश्च्यावमानं तु ददृशुस्तावका युधि ।
शल्यकर्णकृपा राजन्मोहिताः सव्यसाचिना ॥ ७.१४८.३२ ॥
在战斗中,那颗头颅被抛出,你的战士们看到了,大王;沙利耶、迦尔纳和克里帕被善用双手的(阿周那)弄得迷惑不已。
7.148.33
शिरसि च्याविते तस्य शरैराशीविषोपमैः ।
पश्चात्कायोऽपतद्भूमिं शोचयन्सर्वपार्थिवान् ॥ ७.१४८.३३ ॥
他的头颅被如毒蛇般的箭射断,身体向后倒在地上,使所有的国王都为之悲叹。
7.148.34
दृष्ट्वा तु निहतं सङ्ख्ये सिन्धुराजं महारथम् ।
पुत्राणां तव नेत्रेभ्यो दुःखादास्रं प्रवर्तत ॥ ७.१४८.३४ ॥
看到大车将、信度王在战斗中被杀,你的儿子们的眼中因悲痛而流下了眼泪。
7.148.35
ततो विनिहते राजन्सिन्धुराजे किरीटिना ।
तमस्तद्वासुदेवेन संहृतं भरतर्षभ ॥ ७.१४८.३५ ॥
大王,当信度王被冠者(阿周那)杀死后,婆苏提婆(黑天)便收回了那片黑暗,婆罗多族之牛啊。
7.148.36
पश्चाज्ज्ञातं महीपाल तव पुत्रैः सहानुगैः ।
वासुदेवप्रयुक्तेयं मायेति नृपसत्तम ॥ ७.१४८.३६ ॥
此后,大地之主啊,你的儿子们及其随从才知道这是婆苏提婆所施的幻术,列王之最啊。
7.148.37
एवं स निहतो राजन्पार्थेनामिततेजसा ।
अक्षौहिणीरष्ट हत्वा जामाता तव सैन्धवः ॥ ७.१४८.३७ ॥
大王,就这样,被无量光辉的般度之子杀死的你的女婿信度王,在歼灭八个阿刹ौ诃妮军队之后倒下了。
7.148.38
हतं जयद्रथं दृष्ट्वा तव पुत्रा नराधिप ।
दुःखादश्रूणि मुमुचुर्निराशाश्चाभवञ्जये ॥ ७.१४८.३८ ॥
看见胜车被杀,人主啊,你的儿子们因悲痛而流泪,对胜利感到绝望。
7.148.39
ततो जयद्रथे राजन्हते पार्थेन केशवः ।
दध्मौ शङ्खं महाबाहुरर्जुनश्च परन्तपः ॥ ७.१४८.३९ ॥
大王,胜车被般度之子杀死后,克沙娃吹响了他的海螺,大臂、焚烧敌人的阿周那也吹响了他的海螺。
7.148.40
भीमश्च वृष्णिसिंहश्च युधामन्युश्च भारत ।
उत्तमौजाश्च विक्रान्तः शङ्खान्दध्मुः पृथक्पृथक् ॥ ७.१४८.४० ॥
婆罗多啊,毗摩、维里希尼之狮(黑天)、优陀摩尊与勇猛的乌坦摩奥佳斯各自分别吹响了海螺。
7.148.41
श्रुत्वा महान्तं तं शब्दं धर्मराजो युधिष्ठिरः ।
सैन्धनं निहतं मेने फल्गुनेन महात्मना ॥ ७.१४८.४१ ॥
听到那巨大的声音,法王坚战认为高尚的福努那已经杀死了信度王。
7.148.42
ततो वादित्रघोषेण स्वान्योधान्पर्यहर्षयत् ।
अभ्यवर्तत सङ्ग्रामे भारद्वाजं युयुत्सया ॥ ७.१४८.४२ ॥
随后,他以乐器的轰鸣激励自己的战士,在战斗中渴望交锋,向跋罗堕阇之子德罗纳挺进。
7.148.43
ततः प्रववृते राजन्नस्तं गच्छति भास्करे ।
द्रोणस्य सोमकैः सार्धं सङ्ग्रामो रोमहर्षणः ॥ ७.१४८.४३ ॥
大王啊,太阳将要落下时,德罗纳与索摩迦人之间令人毛骨悚然的战斗开始了。
7.148.44
ते तु सर्वे प्रयत्नेन भारद्वाजं जिघांसवः ।
सैन्धवे निहते राजन्नयुध्यन्त महारथाः ॥ ७.१४८.४४ ॥
大王啊,信度王被杀之后,那些大车战士全都竭尽全力,想要杀死婆罗堕阇之子(德罗纳)而奋战。
7.148.45
पाण्डवास्तु जयं लब्ध्वा सैन्धवं विनिहत्य च ।
अयोधयंस्तु ते द्रोणं जयोऽन्मत्तास्ततस्ततः ॥ ७.१४८.४५ ॥
般度之子获得胜利并杀死了信度王之后,在胜利的狂喜中与德罗纳交战。
7.148.46
अर्जुनोऽपि ततो योधांस्तावकान्रथसत्तमान् ।
अयोधयन्महाबाहुर्हत्वा सैन्धवकं नृपम् ॥ ७.१४८.४६ ॥
随后,大臂的阿周那也杀死了信度国王,并与你方最优秀的车战士交战。