Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.149

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.149.1

तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना ।
मामका यदकुर्वन्त तन्ममाचक्ष्व सञ्जय ॥ ७.१४९.१ ॥

那位英雄信度王被萨维耶萨钦(阿周那)杀死之后,桑阁耶啊,请告诉我,我方的人做了什么。

7.149.2

पश्यतां सर्वसैन्यानां मामकानां महारणे ।
अहन्यत कथं युद्धे सैन्धवः सव्यसाचिना ॥ ७.१४९.२ ॥

在大战中,当我方所有军队都在观看时,信度王是怎样被萨维耶萨钦杀死的?

7.149.3

कथं द्रौणिकृपैर्गुप्तः कर्णेन च महारणे ।
फल्गुनाग्निमुखं घोरं प्रविष्टः साधु सैन्धवः ॥ ७.१४९.३ ॥

信度王在那场大战中,虽有德罗尼之子、克里帕和迦尔纳守护,却怎样进入了法尔古那(阿周那)可怕的火焰之口?

7.149.4

तस्मिन्हते महेष्वासे मन्दात्मा स सुयोधनः ।
भ्रातृबिः सहितः सूत किमकार्षीदनन्तरम् ॥ ७.१४९.४ ॥

御者啊,那位大弓手被杀之后,愚昧的苏约达那与他的兄弟们随后做了什么?

7.149.5

सैन्धवं निहतं दृष्ट्वा रणे पार्थेन भारत ।
अमर्षवशमापन्नः कृपः शारद्वतस्ततः ॥ ७.१४९.५ ॥

婆罗多啊,沙罗堕多之子克里帕见信度王在战场上被普利塔之子(阿周那)杀死,便被愤怒所控制。

7.149.6

महता शरवर्षेण पाण्डवं समवाकिरत् ।
द्रौणिश्चाभ्यद्रवद्राजन्रथमास्थाय फल्गुनम् ॥ ७.१४९.६ ॥

他以密集的箭雨覆盖了般度之子(阿周那);大王啊,德罗尼之子登上战车,向法尔古那冲去。

7.149.7

तावेतौ रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमौ ।
उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम् ॥ ७.१४९.७ ॥

这两位车战勇士中的最优者,各自从战车上向两边倾泻锐利的箭雨。

7.149.8

स तथा शरवर्षाभ्यां सुमहद्ध्यां महाभुजः ।
पीड्यमानः परामार्तिमगमद्रथिनां वरः ॥ ७.१४९.८ ॥

大臂的车战勇士,被二人巨大的箭雨如此逼迫,陷入了极大的痛苦。

7.149.9

सोऽजिघांसुर्गुरुं सङ्ख्ये गुरोस्तनयमेव च ।
चकाराचार्यकं तत्र कुन्तीपुत्रो धनञ्जयः ॥ ७.१४९.९ ॥

贡蒂之子持明(阿周那)不愿在战场上杀害师长及师长之子,于是在那里承担起了师长的角色。

7.149.10

अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च ।
मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत् ॥ ७.१४९.१० ॥

他以自己的兵器挡开德罗纳之子和沙罗陀筏多的兵器,不愿杀害他们,便放出了速度缓慢的箭。

7.149.11

तेन नातिभृशं त्रस्तौ विशिखैर्भृशपीडितौ ।
बहुत्वात्तु परामार्तिं शराणां तावगच्छताम् ॥ ७.१४९.११ ॥

他们并未被他的箭吓得太甚,但因箭的数量极多,二人深受折磨,陷入了极大的痛苦。

7.149.12

अथ शारद्वतो राजन्कौन्तेयशरपीडितः ।
अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह ॥ ७.१४९.१२ ॥

于是,国王啊,沙罗陀筏多被贡蒂之子的箭射伤,跌坐在战车的底板上,昏厥过去。

7.149.13

विह्वलं तमभिज्ञाय भर्तारं शरपीडितम् ।
हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत् ॥ ७.१४९.१३ ॥

御者认出主人已被箭射伤、昏乱不堪,以为他已被杀,便将他带离了战场。

7.149.14

तस्मिन्भग्ने महाराज कृपे शारद्वते युधि ।
अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम् ॥ ७.१४९.१४ ॥

大王啊,当沙罗堕多之子克利巴在战中被击溃时,马嘶也离开了般度之子的战车,转到另一辆战车上。

7.149.15

दृष्ट्वा शारद्वतं पार्थो मूर्च्छितं शरपीडितम् ।
धिग्धिङ्मामिति चैवोक्त्वा कृपणं पर्यदेवयत्।
अश्रुपूर्णमुखो दीनो वचनं चेदमब्रवीत् ॥ ७.१४९.१५ ॥

看到沙罗堕多之子克利巴昏迷并被箭射伤,般度之子说道:“我真可耻,我真可耻!”他悲痛地哀叹,满面泪水,悲伤地说出了这些话。

7.149.16

पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान् ।
कुलान्तकरणे पापे जातमात्रे सुयोधने ॥ ७.१४९.१६ ॥

智慧的刹多(毗图罗)见此情景,对国王说道:在毁灭家族的罪人难敌降生之时……

7.149.17

नीयतां परलोकाय साध्वयं कुलपांसनः ।
अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम् ॥ ७.१४९.१७ ॥

“应当将这个家族之耻送往彼世,因为从他身上将给诸位俱卢的首领带来巨大的危险。”

7.149.18

तदिदं समनुप्राप्तं वचनं सत्यवादिनः ।
तत्कृते ह्यद्य पश्यामि शरतल्पगतं गुरुम् ॥ ७.१४९.१८ ॥

这位讲真话者的话如今应验了;因为这个缘故,今天我看到我尊敬的老师躺在箭床之上。

7.149.19

धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम् ।
को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः ॥ ७.१४९.१९ ॥

耻辱归于武士之行,耻辱归于力量与勇气!像我这样的人,谁会背叛婆罗门、导师呢?

7.149.20

ऋषिपुत्रो ममाचार्यो द्रोणस्य परमः सखा ।
एष शेते रथोपस्थे कृपो मद्बाणपीडितः ॥ ७.१४९.२० ॥

这位仙人之子、我的导师、德罗纳的至交克里帕,被我的箭所伤,躺在车厢底板上。

7.149.21

अकामयानेन मया विशिखैरर्दितो भृशम् ।
अवसीदन्रथोपस्थे प्राणान्पीडयतीव मे ॥ ७.१४९.२१ ॥

我本不愿如此,他却被我的箭重重折磨。他的生命之气在车底渐渐衰弱,仿佛也在折磨着我。

7.149.22

पुत्रशोकाभितप्तेन शरैरभ्यर्दितेन च ।
अभ्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै ॥ ७.१४९.२२ ॥

我因失子之痛而灼热,以箭攻击他;我虽然遵循十法,仍以许多箭射伤了他。

7.149.23

शरार्दितः स हि मया प्रेक्षमाणो महाद्युतिः ।
शोचयत्येष नियतं भूयः पुत्रवधाद्धि माम्।
कृपणं स्वरथे सन्नं पश्य कृष्ण यथागतम् ॥ ७.१४९.२३ ॥

那位光芒万丈的英雄被箭所伤,望着我,必定因杀子之事而再次使我悲痛。黑天啊,看他在自己的战车上悲惨地倒下,正如他来时的模样。

7.149.24

उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः ।
प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते ॥ ७.१४९.२४ ॥

那些人中的俊杰,从导师处获得学问,在此舍弃欲望,便能得到神性。

7.149.25

ये च विद्यामुपादाय गुरुभ्यः पुरुषाधमाः ।
घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः ॥ ७.१४९.२५ ॥

那些从师长处得到学问,却反而杀害这些师长的下劣之人——这些作恶者必定堕入地狱。

7.149.26

तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम् ।
आचार्यं शरवर्षेण रथे सादयता कृपम् ॥ ७.१४९.२६ ॥

今日我所做的这件事必定通往地狱:以箭雨将师长克里帕从战车上射落。

7.149.27

यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः ।
न कथञ्चन कौरव्य प्रहर्तव्यं गुराविति ॥ ७.१४९.२७ ॥

从前我受学时,克里帕对我说:“俱卢之后啊,无论如何不可打击师长。”

7.149.28

तदिदं वचनं साधोराचार्यस्य महात्मनः ।
नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता ॥ ७.१४९.२८ ॥

那位伟大而善良的师长之言,我在战场上未曾遵守,反而向他本人降下箭雨。

7.149.29

नमस्तस्मै सुपूज्याय गौतमायापलायिने ।
धिगस्तु मम वार्ष्णेय यदस्मै प्रहराम्यहम् ॥ ७.१४९.२९ ॥

向那位尊贵的、从不逃避的乔达摩克里帕致敬!吠利史尼之子啊,我竟然打击他,实在可耻!

7.149.30

तथा विलपमाने तु सव्यसाचिनि तं प्रति ।
ततो राजन्हृष्टीकेशः संङ्गामशिरसि स्थितम्।
तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्यैनमब्रवीत् ॥ ७.१४९.३० ॥

大王,正当萨维亚萨钦如此悲叹之时,希利史凯莎拥抱了站在战阵前列、已完成誓愿的毗跋蹉,对他说道。

7.149.31

दिष्ठ्या सम्पादिता जिष्णो प्रतिज्ञा महती त्वया ।
दिष्ट्या विनिहतः पापो वृद्धक्षत्रः सहात्मजः ॥ ७.१४९.३१ ॥

胜利者啊,幸运的是你完成了你的大誓;幸运的是恶人伏陀刹多罗与其子一同被杀。

7.149.32

धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत ।
सीदेत समरे जिष्णो नात्र कार्या विचारणा ॥ ७.१४९.३२ ॥

婆罗多的后裔啊,即便是诸神之军,遇到持国之子的军队也会在战场上陷没;胜利者啊,此事不应有疑问。

7.149.33

न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित् ।
त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम् ॥ ७.१४९.३३ ॥

人中之虎啊,我在三界中细想,除了你,再也找不到能与这支军队作战的人。

7.149.34

महाप्रभावा बहवस्त्वया तुल्याधिकापि वा ।
समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात् ॥ ७.१४९.३४ ॥

为了持国之子的缘故,许多与你同等或胜过你的大力王者已经聚集。

7.149.35

ते त्वां प्राप्य रणे क्रुद्धा नाभ्यवर्तन्त दंशिताः ।
तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम् ॥ ७.१४९.३५ ॥

他们虽然愤怒并披甲,遇到你时却在战场上不敢向你进攻;你的威武与力量如同楼陀罗、因陀罗与阎摩的愤怒。

7.149.36

नेदृशं शक्नुयात्कश्चिद्रमे कर्तुं पराक्रमम् ।
यादृशं कृतवानद्य त्वमेकः शत्रुतापनः ॥ ७.१४९.३६ ॥

在战场上,若非你今日独自所建的功业,他人断不能做到,你是敌人的克星啊。

7.149.37

एवमेव हते कर्णे सानुबन्धे दुरात्मनि ।
वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम् ॥ ७.१४९.३७ ॥

如此,待作恶的迦尔纳连同其党羽被杀之后,我将再次为您——征服敌人、击杀仇敌的您——增光。

7.149.38

तमर्जुनः प्रत्युवाच प्रसादात्तव माधव ।
प्रतिज्ञेयं मया तीर्णा विबुधैरपि दुस्तरा ॥ ७.१४९.३८ ॥

阿周那回答他说:摩陀婆啊,蒙您恩典,我已完成了这一誓愿,即便诸天神也难以完成。

7.149.39

अनाश्चार्यो जयस्तेषां येषां नाथोऽसि केशव ।
त्वत्प्रसादान्महीं कृत्स्नां संप्राप्स्यति युधिष्ठिरः ॥ ७.१४९.३९ ॥

凡以您为主者,胜利毫无疑问,哦,羯舍婆。蒙您恩典,坚战将获得整个大地。

7.149.40

तवैष भारो धार्ष्णेय तवैव विजयः प्रभो ।
वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन ॥ ७.१४९.४० ॥

此重任属于您,哦,持首族之后裔;胜利也属于您,哦,主。我们当由您增益,是您的仆从,哦,摩图苏陀那。

7.149.41

एवमुक्तस्ततः कृष्णः शनकैर्वाहयन्हयान् ।
दर्शयामास पार्थाय क्रूरमायोधनं महत् ॥ ७.१४९.४१ ॥

闻言之后,克里希那缓缓驱策马匹,向帕尔塔展示了那可怖而广大的战场。

7.149.42

प्रार्थयन्तो जये युद्धे प्रथितं च महद्यशः ।
पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः ॥ ७.१४९.४२ ॥

那些渴望战争胜利与伟大显赫荣名的勇猛国王,如今已被您的箭矢射杀,躺卧在大地上。

7.149.43

विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः ।
सञ्छिन्नभिन्नमर्माणो वैक्लव्यं परमं गताः ॥ ७.१४९.४३ ॥

兵器与饰物散落,马、车与象皆已毁坏,要害被斩断刺穿,他们陷入了极度的无助。

7.149.44

ससत्वा गतसत्वाश्च प्रभया परया युताः ।
सजीवा इव लक्ष्यन्ते गतसत्वा नराधिपाः ॥ ७.१४९.४४ ॥

虽然失去生命,却仍带着至高的光彩,仿佛活着一般,这些国王躺卧在那里。

7.149.45

तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः ।
वाहनैरायुधैश्चैव सम्पूर्णां पश्य मेदिनीम् ॥ ७.१४९.४५ ॥

看那大地,布满了他们金羽的箭矢、各种锋利的兵器、车辆与武器。

7.149.46

वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः ।
उष्णीषैर्मकुटैः स्रग्भिश्चूडामणिभिरम्बरैः ॥ ७.१४९.४६ ॥

(大地上布满)铠甲、盾牌、项链、带耳环的头颅、头巾、王冠、花环、顶珠和衣饰。

7.149.47

कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सप्रभैः ।
अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी ॥ ७.१४९.४७ ॥

以项链、臂钏、闪耀的金饰以及其他各式饰物,婆罗多啊,大地熠熠生辉。

7.149.48

अनुकर्षैरुपासङ्गैः पताकाभिर्ध्वजैस्तथा ।
उपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः ॥ ७.१४९.४८ ॥

以车轴支架、车具、旗幡、旌旗、器械、底座和带有绑缚的车辕。

7.149.49

चक्रैः प्रमथितैश्चित्रैरक्षैश्च बहुधा रणे ।
युगैर्योक्त्रैः कलापैश्च धनुर्भिः सायकैस्तथा ॥ ७.१४९.४९ ॥

战场上散落着破碎的车轮、彩绘的车轴、四处抛散的轭、缰绳、鞍饰,还有弓和箭。

7.149.50

परिस्तोमैः कुथाभिश्च परिघैरङ्कुशैस्तथा ।
शक्तिभिर्भिण्डिपालैश्च तूणैः शूलैः परश्वथैः ॥ ७.१४९.५० ॥

马衣与覆布,铁棍与铁钩,长矛与投枪(bhiṇḍipāla),箭袋,短戟与战斧。

7.149.51

प्रासैश्च तोमरैश्चैव कुन्तैर्यष्टिभिरेव च ।
शतघ्नीभिर्भुशुण्डीभिः खङ्गैः परशुभिस्तथा ॥ ७.१४९.५१ ॥

投枪与铁尖镖,长矛与木杖,百杀器(shataghnī)与铁球投枪(bhuśuṇḍī),刀剑与战斧。

7.149.52

मुसलैर्मुद्गरैश्चैव गदाभिः कुणपैस्तथा ।
सुवर्णविकृताभिश्च कशाभिर्भरतर्षभ ॥ ७.१४९.५२ ॥

木杵与铁锤,棍棒与尸体,还有饰以黄金的皮鞭,啊,婆罗多之牛。

7.149.53

घण्टाभिश्च गजेन्द्राणां भाण्डैश्च विविधैरपि ।
स्रग्भिश्च नानाभरणैर्बस्त्रैश्चैव महाधनैः।
अपविद्धैर्बभौ भूमिर्ग्रहैर्द्यौरिव शारदी ॥ ७.१४९.५३ ॥

大象的铃铛、各种器皿、花环、种种饰物和贵重的衣物散落满地,大地闪耀,犹如秋夜的天空缀满星辰。

7.149.54

पृथिव्यां पृथिवीहेतोः पृथिवीपतयो हताः ।
पृथिवीमुपगुह्याङ्गैः सुप्ताः कान्तामिव प्रियाम् ॥ ७.१४९.५४ ॥

为了大地,大地的君主们在大地上被杀;他们以肢体拥抱大地,如拥抱心爱的人一般安睡着。

7.149.55

इमांश्च गिरिकूटाभान्नागानैरावतोपमान् ।
क्षरतः शोणितं भूरि शस्त्रच्छेददरीमुखैः।
दरीमुखैरिव गिरीन्गैरिकाम्बुपरिस्रवान् ॥ ७.१४९.५५ ॥

看这些如山峰般、堪比爱罗婆多的大象,它们被兵器砍出的洞口般伤口中大量流出鲜血,如同涌出赭红色泉水的群山。

7.149.56

तांश्च बाणहतान्वीर पश्य निष्टनतः क्षितौ ।
हयांश्च पतितान्पश्य स्वर्णभाण्डविभूषितान् ॥ ७.१४९.५६ ॥

英雄啊,看那些被箭射中、在地上呻吟的人;也看那些倒下的、饰以金饰的战马。

7.149.57

गन्धर्वनगराकारान्रथांश्च निहतेश्वरान् ।
छिन्नध्वजपताकाक्षान्विचक्रान्हतसारथीन् ॥ ७.१४९.५७ ॥

看那些如乾闥婆城般的战车,主人已死,旗帜、幡幢与车轴俱断,车轮尽失,御者已亡。

7.149.58

निकृत्तकूबरयुगान्भग्नेषान्बन्धुरान्प्रभो ।
पश्य पार्थ हयान्भूमौ विमानोपमदर्शनान् ॥ ७.१४९.५८ ॥

主啊,看地上那些美丽的战马,轭与辕已断,车杆已碎,宛如天界的车乘。阿周那啊。

7.149.59

पत्तींश्च निहतान्वीर शतशोऽथ सहस्रशः ।
धनुर्भृतश्चर्मभृतः शयानान्रुधिरोक्षितान् ॥ ७.१४९.५९ ॥

英雄啊,看那成百上千被杀的步兵,手持弓与盾,浸满鲜血躺在地上。

7.149.60

महीमालिङ्ग्य सर्वाङ्गैः पांसुध्वस्तशिरोरुहान् ।
पश्य योधान्महाबाहो त्वच्छरैर्भिन्नविग्रहान् ॥ ७.१४९.६० ॥

大臂者啊,看那些以全身拥抱大地的战士,发丝散落尘中,身体被你的箭所穿透。

7.149.61

निपातितद्विपरथाजिसङ्कुल… ।
मसृग्वसापिशितसमृद्धकर्दमम्।
निशाचरश्ववृकपिशाचमोदनं ।
महीतलं नरवर पश्य दुर्दृशम् ॥ ७.१४९.६१ ॥

看那被倒下的象与战车充塞的战场,被血、脂与肉浸透的泥泞,成为夜行者、狗、狼与毕舍遮之宴飨的大地,它令人不忍睹视,人中之杰啊。

7.149.62

इदंमहत्त्वय्युपपद्यते प्रभो ।
रणाजिरे कर्म यशोऽभिवर्धनम्।
शतक्रतौ चापि च देवसत्तमे ।
महाहवे जघ्नुषि दैत्यदानवान् ॥ ७.१४९.६२ ॥

主啊,此番在战场上所成的伟业,能增益荣名,与你相称,正如当年诸神中最优的因陀罗,行过百次祭祀者,在大战中杀死檀那婆与达提耶之时一样。

7.149.63

एवं सन्दर्शयन्कृष्णो रणभूमिं किरीटिने ।
स्वैः समेतः समुदितैः पाञ्चजन्यं व्यनादयत् ॥ ७.१४९.६३ ॥

于是克里希那向戴冠者展示战场,与自己已备妥的随从会合,吹响了般遮左那贝壳。

7.149.64

सात्यकिः पार्थमभ्यायाद्भीमसेनश्च पाण्डवः ।
युधामन्यूत्तमौजौ च पाञ्चालस्यात्मजावुभौ ॥ ७.१४९.६४ ॥

萨提亚基走向般度之子帕尔特,般度子毗摩先也来了,还有般遮罗王的两个儿子优陀摩尼与乌达摩陀。

7.149.65

ते निवार्य शरैर्द्रौणिं कर्णं च सह भूमिपैः ।
आगच्छन्रथिनश्चैव यत्र राजा युधिष्ठिरः ॥ ७.१४९.६५ ॥

他们以箭阻挡了德罗尼之子与迦尔纳,以及随诸王而来的车战者,于是来到了国王坚战所在之处。

7.149.66

स दर्शयन्नेव किरीटिनेऽरिहा ।
जनार्दनस्तामरिभूमिमञ्जसा।
अजातशत्रुं समुपेत्य पाण्डवं ।
निवेदयामास हतं जयद्रथम् ॥ ७.१४९.६६ ॥

灭敌者遮那陀那向戴冠者指示敌方之地,迅速来到般度子无敌王身旁,宣告胜利者贤主已被杀死。