Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.15

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.15.1

बहूनि सुवुचित्राणि द्वन्द्वयुध्दानि सञ्जय् ।
त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुताम् ॥ ७.१५.१ ॥

桑闍耶啊,聽你敘述的許多奇妙單挑之戰,我渴望獲得天眼。

7.15.2

न हि देवासुरं युध्दमीदृग्भूतं भवेदिति ।
चिन्तयामि च युध्दानि श्रुत्वा घोराणि सञ्जय । ॥ ७.१५.२ ॥

桑闍耶啊,我想,諸天與阿修羅之戰也不可能如此,聽了這些可怕的戰鬥之後我如此思量。

7.15.3

आश्चर्यभूतं लोकेषु कथयिप्यन्ति मानवाः ।
कुरुणां पाण्डवानां च युध्दं देवासुरोपमम् ॥ ७.१५.३ ॥

世間之人將驚歎地講述:俱盧與般度之戰,猶如諸天與阿修羅之戰。

7.15.4

न हि मे तृप्तिरस्तीह शृण्वतो युध्दमुत्तमम् ।
तस्मादार्तायनेर्युध्दं सौभद्रस्य च शंस मे ॥ ७.१५.४ ॥

聽此上好的戰鬥,我仍不滿足;故請為我講述阿爾塔耶尼與妙賢之子的戰鬥。

7.15.5

सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायसीं गदाम् ।
समुत्क्षिप्य नदन्कुध्दः प्रचस्कन्द रथोत्तमात् ॥ ७.१५.५ ॥

沙利耶見其御者被殺,舉起全鐵的鐵棒,怒吼著從上好的戰車躍下。

7.15.6

तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम् ।
जवेनाभ्यपतद्भीमः प्र्गृह्य महतीं गदाम् ॥ ७.१५.६ ॥

如燃燒的時間之火,如手持杖的死神,毗摩以迅猛之勢撲向他,手執大鐵棒。

7.15.7

सौभद्रोऽप्यशनिप्रख्यां प्रगृह्य महतीं गदाम् ।
एह्येहीत्यव्रवीच्छल्यं यत्राद्भीमेन वारितः ॥ ७.१५.७ ॥

萨乌跋陀罗也手持如雷电般的大铁锤,对沙利耶说:“来吧,来吧!”——那时他已被毗摩阻拦。

7.15.8

वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान् ।
शल्यमासाद्य समरे तस्यौ गिरिरिवाचलः ॥ ७.१५.८ ॥

毗摩阻止了萨乌跋陀罗之后,威猛的毗摩森那在战场上走向沙利耶,如山岳般屹立不动。

7.15.9

तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम् ।
ससाराभिमुखस्तूर्ण शार्दूल इव कुञ्जरम् ॥ ७.१५.९ ॥

同样,摩德罗国王看到威猛的毗摩,便迅速迎面冲去,如老虎扑向大象。

7.15.10

तं दीप्तमिव कालाग्निं पाशहस्तमिवान्तकम् ।
जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् ॥ ७.१५.१० ॥

毗摩手持大铁锤,迅速扑向他——他如燃烧的劫火,如手执绳索的死神。

7.15.11

ततस्तूर्यनिनादाश्च शङ्खानां च सहस्रशः ।
सिंहनादाश्च संजज्ञुर्भेरीणां च महास्वनाः ॥ ७.१५.११ ॥

此时号角之声、成千上万的法螺之声、狮吼以及战鼓的巨响同时响起。

7.15.12

पश्यतां शतशो ह्यासीदन्योन्यमभिधावताम् ।
पाण्डवानां कुरुणां च साधुसाध्विति निः स्वनः ॥ ७.१५.१२ ॥

当成百上千的人注视着彼此冲杀的勇士时,般度族与俱卢族双方同时发出“好!好!”的喝彩声。

7.15.13

नहि मद्राधिपादन्यः सर्वराजसु भारत् ।
सोदृमुत्सहते वेगं भीमसेनस्य संयुगे ॥ ७.१५.१३ ॥

婆罗多啊,在所有国王中,除了摩德罗王,没有人能在战斗中承受比玛森的冲击。

7.15.14

तथा मद्राधिपस्यापि गदावेगं महात्मनः ।
सोहुमुत्सहते लोके युधि कोऽन्यो वृकोदरात् ॥ ७.१५.१४ ॥

同样,世上除了狼腹,谁能在战斗中承受伟大的摩德罗王之杵的冲击?

7.15.15

पट्टैर्जाम्बूनदैर्वद्धा बभूव जनहर्षणी ।
प्रजज्वाल तदा विध्दा भीमेन महती गदा ॥ ७.१५.१५ ॥

那根以金带缠绕、令众人欢喜的大杵,被毗摩击中时便燃烧起来。

7.15.16

साग्निदीप्ता महारौद्रा गदा सा शुशुभे तदा ॥ ७.१५.१६ ॥

那根燃着火焰、极为可怕的杵,此时闪耀起来。

7.15.17

तथैव चरतो मार्गान्मण्डलानि च सर्वशः ।
महाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा ॥ ७.१५.१७ ॥

同样,沙利耶的杵在各处沿着路线和圆圈回旋,闪耀如巨大的闪电。

7.15.18

तौ वृपाविव नर्दन्तौ मण्डलानि विचेरतुः ।
आवर्तितगदश्रुङ्गावुभौ शल्यवृकोदरौ ॥ ७.१५.१८ ॥

二人如咆哮的公牛,在圆圈中回旋——沙利耶与狼腹,他们的杵如牛角般转动。

7.15.19

क्रोधताम्रेक्षणौ वीरौ शत्रुसङ्घविमर्दनौ ।
महामात्रौ महोत्साहौ गदायुध्दविशारदौ ॥ ७.१५.१९ ॥

那两位英雄双目因愤怒而通红,是摧毁敌军众阵的勇士,大力勇猛,精通棍棒之战。

7.15.20

मण्डलावर्तमार्गेषु गदाविहरणेषु च ।
निर्विशेपमभूद्युध्दं तयोः पुरुषसिंहयोः ॥ ७.१५.२० ॥

在旋转回绕的路径和棍棒的挥舞之间,那两位人中雄狮的战斗势均力敌。

7.15.21

ताडिता भीमसेनेन शल्यस्य महती गदा ।
साग्रिज्वाला महारौद्रा तदा तूर्णमशीर्यत ॥ ७.१५.२१ ॥

沙利耶的大棍被毗摩森那击中,带着火焰,极为可怖,当即迅速碎裂。

7.15.22

तथैव भीमसेनस्य द्विषताऽभिहता गदा ।
वर्षाप्रदोषे खद्योतैर्वृतो वृक्ष इवावभौ ॥ ७.१५.२२ ॥

同样,毗摩森那的棍棒被敌人击中,闪耀如雨季黄昏中被萤火虫环绕的树木。

7.15.23

गदा क्षिप्ता तु समरे मद्रराजेन भारत ।
व्योम दीपयमाना सा ससृजे पावकं मुहुः ॥ ७.१५.२३ ॥

婆罗多之子啊,摩德罗国王在战场上掷出的那根棍棒照亮天空,一再喷出火焰。

7.15.24

तथैव भीमसेनेन द्विषते ग्रेषिता गदा ।
तापयामास तत्सैन्यं महोल्का पतती यथा ॥ ७.१५.२४ ॥

同样,毗摩森那向敌人掷出的棍棒灼烧那支军队,如同坠落的巨大流星。

7.15.25

ते गदे गदिनां श्रेष्ठे समासाद्य परस्परम् ।
श्वसन्त्यौ नागकन्ये व ससृजाते विभावसुम् ॥ ७.१५.२५ ॥

那两柄最优秀的铁杵相互撞击,如同两位嘶嘶作响的龙女,喷射出火焰。

7.15.26

नखैरिव् महाव्याघ्रौ दनैरिव महागजौ ।
तौ विचेरतुरासाद्य गदाग्र्याभ्यां परस्परम् ॥ ७.१५.२६ ॥

就像两只以爪搏斗的大虎,又如两头以牙相斗的大象,二人面对面,各持最好的铁杵彼此周旋。

7.15.27

ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ ।
ददृशाते महात्मानौ किंशुकाविव पुष्पितौ ॥ ७.१५.२७ ॥

随后,被铁杵顶端击中的二位大德,顷刻间浑身沾满鲜血,看去就像两棵盛开的金苏木树。

7.15.28

शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः ।
गदाभिघातसंहादः शक्राशनिरवोपमः ॥ ७.१५.२८ ॥

那二位人中狮子的铁杵击打之声响彻四方,宛如帝释天的雷霆霹雳。

7.15.29

गदया मद्रराजेन सव्यदक्षिणमाहतः ।
नाकम्पत तदा भीमो भिद्यमान् इवाचलः ॥ ७.१५.२९ ॥

被摩德罗王的铁杵从左右两侧击中,此时的毗摩并未动摇,犹如正在崩裂的山岳不会震颤。

7.15.30

तथा भीमगदावेगैस्ताड्यमानो महाबलः ।
धैर्यान्मद्राधिपस्तस्थौ वज्रैर्गिरिरिवाहतः ॥ ७.१५.३० ॥

同样,被毗摩铁杵的猛烈力量击中的大力摩德罗王,凭借坚毅而屹立,犹如被雷霆击中的山岳。

7.15.31

आपेततुर्महावेगौ समुच्छ्रितगदावुभौ ।
पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः ॥ ७.१५.३१ ॥

两位速度极快的英雄高举铁杖冲向对方;随后他们站在中间的空隙处,绕圈而行。

7.15.32

अथाप्लुत्य पदान्यष्टौ सन्निपत्य गजाविव ।
सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः ॥ ७.१५.३२ ॥

随后,他们跃进八步,像两头大象一样相撞,突然以铁杖互相击打。

7.15.33

तौ परस्परवेगाच्च गदाभ्यां च भ्रुशाहतौ ।
युगपत्पेततुर्वीरौ क्षिताविन्द्रध्वजाविव ॥ ७.१५.३३ ॥

两位英雄因彼此冲击之力和铁杖的重击而重伤,同时倒地,好似因陀罗的旗幡倾倒。

7.15.34

ततो विह्वलमानं तं निः श्वसन्तं पुनः पुनः ।
शल्यमभ्यपतत्तूर्ण कृतवर्मा महारथः ॥ ७.१५.३४ ॥

于是大车战士胜军(Kṛtavarman)迅速冲向沙利耶(Śalya),此时他踉跄而反复叹息。

7.15.35

दृष्ट्वा चैनं महाराज गदयाऽभिनिपीडितम् ।
विचेष्टन्तं यथा नागं मूर्च्छयाऽभिपरिप्लुतम् ॥ ७.१५.३५ ॥

大王啊,看到他被铁杖重重压制,陷入昏厥,像大象一样挣扎扭动……

7.15.36

ततः स्वरथमारोप्य मद्राणामधिपं रणे ।
अपोवाह रणात्तूर्ण कृतवर्मा महारथः ॥ ७.१५.३६ ॥

于是大车战士胜军将摩德罗国之主抬上自己的战车,迅速将他带离战场。

7.15.37

क्षीववद्वीह्वलो वीरो निमेषात्पुनरुत्थितः ।
भीमोऽपि सुमहाबाहुर्गदापाणिरदृश्यत ॥ ७.१५.३७ ॥

英雄毗摩如醉汉般踉跄,瞬间又站了起来;大臂者手持铁杵,出现在众人眼前。

7.15.38

ततो मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम् ।
सनागपत्त्यश्चरथाः समकम्पन्त मारिष ॥ ७.१५.३८ ॥

那时,见摩德罗王转身败退,您的儿子们与象兵、步兵、马兵和车兵一同战栗,尊者啊。

7.15.39

ते पाण्डवैरर्धमानास्तावका जितकाशिभिः ।
भीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव ॥ ७.१५.३९ ॥

您的士兵被般度子孙和得胜的迦尸人逼迫,惊恐地向四方逃散,如同被风吹散的云朵。

7.15.40

निर्जित्य धार्तराष्ट्रांस्तु पाण्डवेया महारथाः ।
व्यरोचन्त रणे राजन्दीप्यमाना इवाग्रयः ॥ ७.१५.४० ॥

击败了持国之子之后,般度之子的大车勇士们在战场上光辉闪耀,如同熊熊烈火,大王啊。

7.15.41

अथ मङुकभेरिमहामुरजाः पणवानकदुन्दुभिनिर्झरिभिः ।
विनदन्ति भृशं सहशङ्खरवैर्विविधैश्च नरोत्तम सिंहरवैः ॥ ७.१५.४१ ॥

于是,芒苦鼓、大鼓、大穆罗迦鼓、潘那伐鼓、阿那卡鼓、敦敦鼓与尼尔贾里鼓齐声大作,伴着海螺的吹响和各种狮吼,人中之杰啊。