摩诃婆罗多 · 章 7.150
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.150.1
ततो राजानमभ्येत्य धर्मपुत्रं युधिष्ठिरम् ।
ववन्दे सम्प्रहृष्टात्मा हते पार्थेन सैन्धवे ॥ ७.१५०.१ ॥
于是心中大喜,他走近国王、法之子坚战,向他行礼——此时般度之子(阿周那)已杀死了信度王。
7.150.2
दिष्ट्या वर्धसि राजेन्द्र हतशत्रुर्नरोत्तम ।
दिष्ट्या निस्तीर्णवांशैव प्रतिज्ञामनुजस्तव ॥ ७.१५०.२ ॥
幸运啊,诸王之主,人中之杰!你的敌人已被杀死,你正在昌盛。幸运的是,你的幼弟已完成了他的誓言。
7.150.3
स त्वेवमुक्तः कृष्णेन हृष्टः परपुरञ्जयः ।
ततो युधिष्ठिरो राजा रथादाप्लुत्य भारत।
पर्यष्वजत्तदा कृष्णावानन्दाश्रुपरिप्लुतः ॥ ७.१५०.३ ॥
克里希那如此说后,这位攻占敌城的人十分欢喜。于是,婆罗多啊,国王坚战跳下战车,泪水盈眶,拥抱了两位克里希那。
7.150.4
प्रमृज्य वदनं शुभ्रं पुण्डरीकसमप्रभम् ।
अब्रवीद्वासुदेवं च पाण्डवं च धनञ्जयम् ॥ ७.१५०.४ ॥
他拭去那张如莲花般光亮的白净面孔,对婆苏提婆(克里希那)和般度之子财首(阿周那)说道。
7.150.5
प्रियमेतदुपश्रुत्य त्वत्तः पुष्करलोचन ।
नान्तं गच्छामि हर्षस्य तितीर्षुरुदधेरिव ॥ ७.१५०.५ ॥
莲花眼的人啊,听到你带来的这喜讯,我的欢喜仿佛要渡过大海,却还未到达彼岸。
7.150.6
अत्यद्भुतमिदं कृष्ण कृतं पार्थेन धीमता ।
दिष्ट्या पश्यामि सङ्ग्रामे तीर्णभारौ महारथौ ॥ ७.१५०.६ ॥
克里希那啊,这件极其奇妙的事是智慧的帕尔塔所完成的。我幸而在战场上看到那两位大车战士已经担负起重任、圆满完成。
7.150.7
दिष्ट्या च निहतः पापः सैन्धवः पुरुषाधमः ।
दिष्ट्या शत्रुगणाश्चैव निमग्नाः शोकसागरे ॥ ७.१५०.७ ॥
幸而作恶的信度王,人中最卑劣者已被杀死;幸而敌军众人已沉没于悲伤之海。
7.150.8
कृष्ण दिष्ट्या मम प्रीतिर्महती प्रतिपादिता ।
त्वया गुप्तेन गोविन्द घ्नता पापं जयद्रथम् ॥ ७.१५०.८ ॥
克里希那啊,幸而我得了大欢喜;戈文达啊,在你的庇护下,斩杀了罪人闍耶陀罗。
7.150.9
किन्तु नात्यद्भुतं तेषां येषां नस्त्वं समाश्रयः ।
न तेषां दुष्कृतं किञ्चित्त्रिषु लोकेषु विद्यते।
सर्वलोकगुरुर्येषां त्वं नाथो मधुसूदन ॥ ७.१५०.९ ॥
然而对于以你为我们依归的人,这并不十分奇异。对于以你为主、作为一切世界导师的人,摩图苏陀那啊,三界之中并无任何恶行。
7.150.10
त्वत्प्रसादाद्धि गोविन्द वयं जेष्यामहे रिपून् ।
यथा पुरा प्रसादात्ते दानवान्पाकशासनः ॥ ७.१५०.१० ॥
戈文达啊,凭你的恩典,我们必能战胜敌人,正如往昔凭你的恩典,破阿迦之因陀罗(帝释)击败了檀那婆。
7.150.11
पृथिव्या विजयो वापि त्रैलोक्यविजयोऽपि वा ।
ध्रुवो हि तेषां वार्ष्णेय येषां तुष्टोऽसि मानद ॥ ७.१५०.११ ॥
跋利史尼啊,赐人尊荣者!凡你所喜悦的人,征服大地或征服三界,也必定会成就。
7.150.12
न तेषां विद्यते पापं सङ्ग्रामे वा पराजयः ।
त्रिदशेश्वर नाथस्त्वं येषां तुष्टोऽसि माधव ॥ ७.१५०.१२ ॥
摩陀婆啊,凡你所喜悦、以你这诸天之主为主者,既无罪过,也无战场上的败绩。
7.150.13
त्वत्प्रसादाद्धृषीकेश शक्रः सुरगणेश्वरः ।
त्रैलोक्यविजयं श्रीमान्प्राप्तवान्रणमूर्धनि ॥ ७.१५०.१३ ॥
哈里希克什啊,凭你的恩典,光荣的诸天之主因陀罗在阵前获得了三界的征服。
7.150.14
तव चैव प्रसादेन त्रिदशास्त्रिदशेश्वराः ।
अमरत्वं गताः कृष्ण लोकांश्चाश्नुवतेऽक्षयान् ॥ ७.१५०.१४ ॥
克里希纳啊,正是凭你的恩典,三十位天神与三十之主得到了不死,并享受着不灭的世界。
7.150.15
स्थितः सर्वात्मना नित्यं प्रियेषु च हितेषु च ।
त्वां चैवास्माभिराश्रित्य कृतः शस्त्रसमुद्यमः।
सुरैरिवासुरवधे शक्रं शक्रानुजाहवे ॥ ७.१५०.१५ ॥
你总是以全部自我安住于亲爱者和善友之中,我们依靠你而投入了兵器的努力,正如诸神在诛杀阿修罗之战中与因陀罗之弟并肩作战一般。
7.150.16
असंभाव्यमिदं कर्म देवैरपि जनार्दन ।
त्वद्बुद्धिबलवीर्येण कृतवानेष फल्गुनः ॥ ७.१५०.१६ ॥
杰纳尔达纳啊,这件事即使诸神也难以想象;然而这位法尔古那凭借你的智慧、力量与勇气完成了它。
7.150.17
बाल्यात्प्रभृति ते कृष्ण कर्माणि श्रुतवानहम् ।
अमानुषाणि दिव्यानि महान्ति च बहूनि च।
तदैवाज्ञासिषं शत्रून्हतान्प्राप्तां च मेदिनीम् ॥ ७.१५०.१७ ॥
克里希纳啊,自童年起我便听闻你那非凡人的、神圣的、伟大而众多的事迹;那时我便知道敌人已被杀死,大地已得到。
7.150.18
त्वत्प्रसादसमुत्थेन विक्रमेणारिसूदन ।
सुरेशत्वं गतः शक्रो हत्वा दैत्यान्सहस्रशः ॥ ७.१५०.१८ ॥
杀敌者啊,凭借从你的恩典中生出的勇猛,因陀罗杀死了成千上万的达蒂亚,获得了诸神之主的地位。
7.150.19
त्वत्प्रसादाद्वृषीकेश जगत्स्थावरजङ्गमम् ।
स्ववर्त्मनि स्थितं वीर जपरहोमेषु वर्तते ॥ ७.१५०.१९ ॥
Hṛṣīkeśa啊,由于你的恩典,动与不动的世界安立于自己的道路上;英雄啊,它专注于念诵与火祭。
7.150.20
एकार्णवमिदं पूर्वं सर्वमासीत्तमोमयम् ।
त्वत्प्रसादान्माहाबाहो जगत्प्राप्तं नरोत्तम ॥ ७.१५०.२० ॥
从前,这一切是一片由黑暗构成的单一大海;大臂者啊,人中最上者啊,由于你的恩典,世界才得以产生。
7.150.21
स्रष्टारं सर्वलोकानां परमात्मानमव्ययम् ।
ये पश्यन्ति हृषीकेश न ते मुह्यन्ति कर्हिचित् ॥ ७.१५०.२१ ॥
凡见到你——一切世界的创造者、至上我、不灭者——的人,hṛṣīkeśa啊,永不迷惑。
7.150.22
पुराणं परमं देवं देवदेवं सनातनम् ।
ये प्रपन्नाः सुरगुरुं न ते मुह्यन्ति कर्हिचित् ॥ ७.१५०.२२ ॥
凡皈依古老、至上、神中之神、永恒的诸神导师者,永不迷惑。
7.150.23
अनादिनिधनं देवं लोककर्तारमव्ययम् ।
ये भक्तास्त्वां हृषीकेश दुर्गाण्यतितरन्ति ते ॥ ७.१५०.२३ ॥
皈依你的虔信者——无始无终的神、世界的创造者、不灭者——hṛṣīkeśa啊,他们能度过艰难。
7.150.24
परं पुराणं पुरुषं पराणां परमं च यत् ।
प्रपद्यतस्तत्परमं परा भूतिर्विधीयते ॥ ७.१५०.२४ ॥
皈依至上、古老的神我——他是诸至上者中最高者——的人,将获得至上的福祉。
7.150.25
गायन्ति चतुरो वेदा यश्च देवेषु गीयते ।
तं प्रपद्य महात्मानं भूतिमश्नाम्यनुत्तमाम् ॥ ७.१५०.२५ ॥
四吠陀歌颂那在诸神之中被歌颂的人。我皈依这位大德,获得至上的繁荣。
7.150.26
परमेश परेशेश तिर्यगीश नरेश्वर ।
सर्वेश्वरेश्वरेशेन नमस्ते पुरुषोत्तम ॥ ७.१५०.२६ ॥
至高之主,诸至上者之主,傍生之主,人王,一切主宰之主,人中至尊,向您致敬!
7.150.27
त्वमीशेशेश्वरेशान प्रभो वर्धस्व माधव ।
प्रभवाप्यय सर्वस्य सर्वात्मन्पृथुलोचन ॥ ७.१५०.२७ ॥
您是诸主之主、统治者、主宰。摩陀婆啊,愿您昌盛!您是万物的起源与终结;一切的自我,广目者啊!
7.150.28
धनञ्जयसखा यश्च धनञ्जयहितश्च यः ।
धनञ्जयस्य गोप्ता तं प्रपद्य सुखमेधते ॥ ७.१५०.२८ ॥
那作为阿周那之友、阿周那之益友、阿周那之护持者的人,皈依他,便在安乐中增长。
7.150.29
मार्कण्डेयः पुराणर्षिश्चरितज्ञस्तवानघ ।
माहात्म्यमनुभावं पुरा फीर्तितवान्मुनिः ॥ ७.१५०.२९ ॥
无罪者啊,古代仙人摩根德耶,知晓您的事迹,昔日曾宣说您的伟大与威力。
7.150.30
असितो देवलश्चैव नारदश्च महातपाः ।
पितामहश्च मे व्यासस्त्वामाहुर्विधिमुत्तमम् ॥ ७.१५०.३० ॥
阿悉多、提婆罗、大苦行者那罗陀,以及我的祖父毗耶娑,都称您为至上的安排者。
7.150.31
त्वं तेजस्त्वं परं ब्रह्म त्वं सत्यं त्वं महत्तपः ।
त्वं श्रेयस्त्वं यशश्चाग्र्यं कारणं जगतस्तथा ॥ ७.१५०.३१ ॥
你是光明,你是至上梵,你是真理,你是伟大的苦行。你是至善,你是荣耀,你也是世界的首要根源。
7.150.32
त्वया सृष्टमिदं सर्वं जगत्स्थावरजङ्गमम् ।
प्रलये समनुप्राप्ते त्वां वै निविशते पुनः ॥ ७.१५०.३२ ॥
这整个世界由你所创造,无论静止或运动的一切。当劫末来临时,它又重新归入你之中。
7.150.33
अनादिनिधनं देवं विश्वस्येशं जगत्पते ।
धातारमजमव्यक्तमाहुर्वेदविदो जनाः ॥ ७.१५०.३३ ॥
无始无终的神,宇宙之主,世界之主,创造者,不生者,不显者——通晓吠陀的人如此称呼他。
7.150.34
भूतात्मानं महात्मानमनन्तं विश्वतोमुखम् ।
अपि देवा न जानन्ति गुह्यमाद्यं जगत्पतिम्।
नारायणं परं देवं परमात्मानमीश्वरम् ॥ ७.१५०.३४ ॥
众生之魂,大我,无限者,面向一切方向者,连诸神也不知晓的——隐秘的、原初的世界之主,至上之神,至上之我,主宰那罗延。
7.150.35
ज्ञानयोनिं हरिं विष्णुं मुमुक्षूणां परायणम् ।
परं पुराणं पुरुषं पुराणानां परं च यत् ॥ ७.१५०.३५ ॥
智慧的源泉,哈里,毗湿奴,求解脱者的至上归依,至上古老的补卢沙,即使在往世书中也是至上者。
7.150.36
एवमादिगुणानां ते कर्मणां दिवि चेह च ।
अतीतभूतभव्यानां सङ्ख्याताऽत्र न विद्यते ॥ ७.१५०.३६ ॥
你这样的以及其他的功德,你在天上和此处的事业,过去、现在和未来的一切——在此无法计数。
7.150.37
सर्वतो रक्षणीयाः स्म शक्रेणेव दिवौकसः ।
यैस्त्वं सर्वगुणोपेतः सुहृन्न उपपादितः ॥ ७.१५०.३७ ॥
正如天界居民被因陀罗从四面八方守护,你这位具备一切美德的人也应当被四面守护,正是你使我们的朋友得以安然无恙。
7.150.38
इत्येवं धर्मराजेन हरिरुक्तो महायशाः ।
अनुरूपमिदं वाक्यं प्रत्युवाच जनार्दनः ॥ ७.१५०.३८ ॥
法王如此说后,大名鼎鼎的哈里·阇那陀那以这些恰当的话作了回答。
7.150.39
भवता तपसोग्रेण धर्मेण परमेण च ।
साधुत्वादार्जवाच्चैव हतः पापो जयद्रथः ॥ ७.१५०.३९ ॥
凭借你的严苛苦行、至高的法、善良与正直,恶人胜车才被杀死。
7.150.40
अयं च पुरुषव्याघ्र त्वदनुध्यानसंवृतः ।
हत्वा योधसहस्राणि न्यहञ्जिष्णुर्जयद्रथम् ॥ ७.१५०.४० ॥
而这位人中之虎,因你对他的冥想而受护佑,杀死数千勇士,击倒了胜车,即胜利者(阿周那)。
7.150.41
कृतित्वे बाहुवीर्ये च तथैवासम्भ्रमेऽपि च ।
शीघ्रतामोधबुद्धित्वे नास्ति पार्थसमः क्वचित् ॥ ७.१५०.४१ ॥
论技艺、臂力,同样论镇定、迅捷与无误的智慧,无论何处都没有人能与普利塔之子相比。
7.150.42
तदयं भरतश्रेष्ठ भ्राता तेऽद्य यदर्जुनः ।
सैन्यक्षयं रणे कृत्वा सिन्धुराजशिरोऽहरत् ॥ ७.१५०.४२ ॥
因此,婆罗多族中最杰出者啊,你的兄弟阿周那今日在战场上造成了军队的覆灭,取下了信度王的头颅。
7.150.43
ततो धर्मसुतो जिष्णुं परिष्वज्य विशाम्पते ।
प्रमृज्य वदनं तस्य पर्याश्वासयत प्रभुः ॥ ७.१५०.४३ ॥
人主啊,于是法之子主公拥抱胜利者(阿周那),擦拭他的面容,并安慰了他。
7.150.44
अतीव सुमहत्कर्म कृतवानसि फल्गुन ।
असह्यं चाविषह्यं च देवैरपि सवासवैः ॥ ७.१५०.४४ ॥
法尔古那啊,你完成了极其伟大的功绩,即使是包括因陀罗在内的诸神也难以承受、无法战胜。
7.150.45
दिष्टा निस्तीर्णभारोऽसि हतारिश्चासि शत्रुहन् ।
दिष्ट्या सत्या प्रतिज्ञेयं कृता हत्वा जयद्रथम् ॥ ७.१५०.४५ ॥
幸运的是,你扛起了重担并杀死了敌人,灭敌者啊。幸运的是,这真实的誓言因杀死胜车而得以实现。
7.150.46
एवमुक्त्वा गुडाकेशं धर्मराजो महायशाः ।
पस्पर्श पुण्यगन्धेन पृष्ठे हस्तेन पार्थिवाः ॥ ७.१५०.४६ ॥
说完这些,大名声的法王(坚战)用散发功德之香的手触摸了固达克舍(阿周那)的背。大地之主啊!
7.150.47
एवमुक्तौ महात्मानावुभौ केशवपाण्डवौ ।
तावब्रूतां तदा कृष्णौ राजानं पृथिवीपतिम् ॥ ७.१५०.४७ ॥
被如此称呼之后,那两位大德——羯舍婆(黑天)与般度之子——便对这位大地之主说话。
7.150.48
तव कोपाग्निना दग्धः पापो राजञ्जयद्रथः ।
उत्तीर्णं चापि सुमहद्धार्तराष्ट्रबलं रणे ॥ ७.१५०.४८ ॥
大王啊,在你愤怒的火焰中,邪恶的胜车已被焚毁;而在战场上,持国之子们那庞大的军队也已被突破。
7.150.49
हन्यन्ते निहताश्चैव विनङ्क्ष्यन्ति च केशव ।
तव क्रोधहता ह्येते कौरवाः शत्रुसूदन ॥ ७.१५०.४९ ॥
啊,克沙瓦,这些俱卢人正被杀戮,已被杀戮,也将灭亡。啊,灭敌者,他们是被你的愤怒所击倒的。
7.150.50
त्वां हि चक्षुर्हणं वीर कोपयित्वा सुयोधनः ।
समित्रबन्धुः समरे प्राणांस्त्यक्ष्यति दुर्मतिः ॥ ७.१५०.५० ॥
啊,英雄,他激怒了你之后,心怀恶念的苏雅陀那将与朋友和亲属一同在战场上丧命。
7.150.51
तव क्रोधहतः पूर्वं देवैरपि सुदुर्जयः ।
शरतल्पगतः शेते भीष्मः कुरुपितामहः ॥ ७.१५०.५१ ॥
先前被你的愤怒击倒,即使诸神也难以战胜的俱卢祖父毗湿摩,正躺在箭床上。
7.150.52
दुर्लभो विजयस्तेषां सम्प्रामे रिपुघातिनाम् ।
याता मृत्युवशं ते वै येषां क्रुद्धोऽपि माधव ॥ ७.१५०.५२ ॥
啊,摩陀婆,即便是杀敌的勇士,若你对之发怒,他们在战斗中也难以获胜;他们必定归于死亡之手。
7.150.53
राज्यं प्राणाः श्रियः पुत्राः सौख्यानि विविधानि च ।
अचिरात्तस्य नश्यन्ति येषां क्रुद्धोऽसि मानद ॥ ७.१५०.५३ ॥
啊,赐予尊荣者,凡你所怒之人,其王国、性命、财富、子嗣和种种欢乐,很快都会消逝。
7.150.54
विनष्टान्कौरवान्मन्ये सपुत्रपशुबान्धवान् ।
राजधर्मपरे नित्यं त्वयि क्रुद्धे परन्तप ॥ ७.१५०.५४ ॥
啊,焚敌者,我想当你发怒时,俱卢人连同他们的子嗣、牲畜和亲族都已灭亡;他们始终遵从王者之法。
7.150.55
ततो भीमो महाबाहुः सात्यकिश्च महारथः ।
अभिवाद्य गुरुं ज्येष्ठं मार्गणैः क्षतविक्षतौ।
क्षितावास्तां महेष्वासौ पाञ्चाल्यपरिवारितौ ॥ ७.१५०.५५ ॥
于是臂力强大的毗摩与大车士萨提亚基,向年长的师尊行礼后,被箭射伤,躺在地上,被般遮罗人所包围。
7.150.56
तौ दृष्ट्वा मुदितो वीरौ प्राञ्जली चाग्रतः स्थितौ ।
अभ्यनन्दत कौन्तेयस्तावुभौ भीमसात्यकी ॥ ७.१५०.५६ ॥
昆提之子见此二英雄,心中欢喜,向站在面前合掌的毗摩与萨提亚基致以赞许。
7.150.57
दिष्ट्या पश्यामि वा शूरौ विमुक्तौ सैन्यसागरात् ।
द्रोणग्राहदुराधर्षाद्धार्दिक्यमकरालयात् ॥ ७.१५०.५७ ॥
幸而我看见这两位英雄脱离了军队之海——那海以德罗纳为鳄,以希尔迪奇亚为海兽,难以抵挡。
7.150.58
दिष्ट्या विनिर्जिताः सङ्ख्ये पृथिव्यां सर्वपार्थिवाः ।
युवां विजयिनौ चापि दिष्ट्या पश्यामि संयुगे ॥ ७.१५०.५८ ॥
幸而地上的诸王都在战中被击败;幸而我看见你们二人在此战中也已获胜。
7.150.59
दिष्ट्या द्रोणो जितः सङ्ख्ये हार्दिक्यश्च महाबलः ।
दिष्ट्या विकर्णिभिः कर्णोरणे नीतः पराभवम् ॥ ७.१५०.५९ ॥
幸而德罗纳在战中被击败,强大的希尔迪奇亚也被击败;幸而毗迦尔纳之子们在战中使迦尔纳遭到失败。
7.150.60
विमुखश्च कृतः शल्यो युवाभ्यां पुरुषर्षभौ ।
दिष्ट्या युवां कुशलिनौ सङ्ग्रामात्पुनरागतौ।
पश्यामि रथिनां श्रेष्ठावुभौ युद्धविशारदौ ॥ ७.१५०.६० ॥
你们二位,人中雄牛,使沙利耶后退。幸运的是,你们平安地从战场归来。我看到你们二位,车战中的最优者,精通战事。
7.150.61
मम वाक्यकरौ वीरौ मम गौरवयन्त्रितौ ।
सैन्यार्णवं समुत्तीर्णौ दिष्ट्या पश्यामि वामहम् ॥ ७.१५०.६१ ॥
遵从我言、受我尊敬约束的英雄们,你们二位渡过了军队之海。幸运的是,我看到了你们二位。
7.150.62
समरश्लाघिनौ वीरौ समरेष्वपराजितौ ।
मम वाक्यसमौ चैव दिष्ट्या पश्यामि वामहम् ॥ ७.१५०.६२ ॥
以战为荣、在战斗中无敌的英雄们,你们二位与我的话同样可靠。幸运的是,我看到了你们二位。
7.150.63
इत्युक्त्वा पाण्डवो राजन्युयुधानवृकोदरौ ।
सस्वजे पुरुषव्याघ्रौ हर्षाद्बाष्पं मुपोच ह ॥ ७.१५०.६३ ॥
大王,说完这话,般度之子拥抱了尤尤丹那和狼腹,那两位人中猛虎,并因喜悦而流下了泪水。
7.150.64
ततः प्रमुदितं सर्वं बलमासीद्विशाम्पते ।
पाण्डवानां रणे हृष्टं युद्धाय तु मनो दधे ॥ ७.१५०.६४ ॥
于是,众民之主啊,般度之子的全军极为欢喜;在战场上欣喜振奋,他们一心投入战斗。