摩诃婆罗多 · 章 7.153
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.153.1
ततो दुर्योधनो राजा द्रोणेनैवं प्रचोदितः ।
अमर्षवशमापन्नो युद्धायैव मनो दधे।
अब्रवीच्च तदा कर्णं पुत्रो दुर्योधनस्तव ॥ ७.१५३.१ ॥
于是,被德罗纳如此鼓动的国王难敌,为愤怒所控,一心只想着战斗。那时,你的儿子难敌对迦尔纳说道。
7.153.2
पश्य कृष्णसहायेन पाण्डवेन किरीटिना ।
आचार्यविहितं व्यूहं भित्त्वा देवैः सुदुर्भिदम् ॥ ७.१५३.२ ॥
看哪,以黑天为助手的戴冠般的般度之子,破坏了老师所布的阵势,那阵势连诸神也难以攻破。
7.153.3
तव व्यायच्छमानस्य द्रोणस्य च महात्मनः ।
मिषतां योधमुख्यानां सैन्धवो विनिपातितः ॥ ७.१५३.३ ॥
在您的大德德罗纳奋力作战之时,诸位主将眼看着,信度王被击倒了。
7.153.4
पश्य राधेय पृथ्वीशाः पृथिव्यां प्रवरा युधि ।
पार्थेनैकेन निहताः सिंहेनेवेतरे मृगाः ॥ ७.१५३.४ ॥
看哪,罗陀之子!地上最优秀的君王在战场上被单独一人的般度之子所杀,正如狮子杀死其他鹿群。
7.153.5
मम व्यायच्छमानस्य समरे शत्रुसूदन ।
अल्पावशेषं सैन्यं मे कृतं शक्रात्मजेन ह ॥ ७.१५३.५ ॥
征服敌人者啊!我在战场上为己奋战,然而因因陀罗之子,我的军队只剩下少许。
7.153.6
कथं वै युध्यमानस्य द्रोणस्य युधि फल्गुनः ।
भिन्द्यात्सुदुर्भिदं व्यूहं यतमानोऽपि संयुगे ॥ ७.१५३.६ ॥
当德罗纳奋战之时,法尔古那(阿周那)即使在战斗中尽力,又怎能攻破那极难攻破的阵势呢?
7.153.7
प्रतिज्ञाया गतः पारं हत्वा सैन्धवमर्जुनः ॥ ७.१५३.७ ॥
阿周那杀死信度王后,已完成了他的誓愿。
7.153.8
पश्य राधेय पृथ्वीशान्पृथिव्यां पातितान्बहून् ।
पार्थेन निहतान्सङ्ख्ये महेन्द्रोपमविक्रमान् ॥ ७.१५३.८ ॥
看啊,罗陀之子,那些倒在地上、被普利塔之子在战场上杀死、勇武堪比因陀罗的众王。
7.153.9
अनिच्छतः कथं वीर द्रोणस्य युधि पाण्डवः ।
भिन्द्यात्सुदुर्भिदं व्यृहं यतमानस्य शुप्मिणः ॥ ७.१५३.९ ॥
英雄啊,在战斗中德罗纳并不愿意,他却仍在努力,般度之子怎能冲破那难以冲破的德罗纳之阵?
7.153.10
दयितः फल्गुनो नित्यमाचार्यस्य महात्मनः ।
ततोऽस्य दत्तवान्द्वारमयुद्धेनैव शत्रुहन् ॥ ७.१५३.१० ॥
法尔古那一向受到大德师傅的喜爱,因此,杀敌者啊,他不经战斗便为他让出了通道。
7.153.11
अभयं सिन्धुराजाय दत्त्वा द्रोणः परन्तपः ।
प्रादात्किरीटिने द्वारं पश्यन्निर्गुणतां मयि ॥ ७.१५३.११ ॥
灼烧敌人的德罗纳,给予信度王庇护,并给戴冠者阿周那让出通道,他看到我的德行不足。
7.153.12
यद्यदास्यदनुज्ञां वै पूर्वमेव गृहान्प्रति ।
प्रम्थातुं सिन्धुराजस्य न भवेज्जीवितक्षयः ॥ ७.१५३.१२ ॥
若信度王事先请求回家的许可,他就不会丧命了。
7.153.13
जयद्रथो जीवितार्थी गच्छमानो गृहान्प्रति ।
मयाऽनार्येण संरुद्धो द्रोणात्प्राप्याभयं रणे ॥ ७.१५३.१३ ॥
信多罗求生心切,欲返回家中,在战场上被我这卑劣之人阻截;他从德罗那处获得了庇护。
7.153.14
रक्षामि सैन्धवं युद्धे नैनं प्राप्स्यति फल्गुनः ।
मम सैन्यविनाशाय रुद्धो विप्रेण सैन्धवः ॥ ७.१५३.१४ ॥
我将在战斗中保护信度王;朋迦那不能得到他。为了毁灭我的军队,婆罗门阻挡了信度王。
7.153.15
तस्य मे मन्दभाग्यस्य यतमानस्य संयुगे ।
हतानि सर्वसैन्यानि हतो राजा जयद्रथः ॥ ७.१५३.१५ ॥
我这薄命之人在战斗中竭力而为,然而所有军队都被杀尽,国王信多罗也被杀死了。
7.153.16
पश्य योधवरान्कर्ण शतशोऽथ सहस्रशः ।
पार्थनामाङ्कितैर्वाणैः सर्वे नीता यमक्षयम् ॥ ७.१५३.१६ ॥
卡尔纳啊,看吧!成百上千的勇士被刻有贡杜之子名字的箭矢送往阎摩的居所。
7.153.17
कथमेकरथेनाजौ बहूनां नः प्रपश्यताम् ।
विपन्नः सैन्धवो राजा योधाश्चैव सहस्रशः ॥ ७.१५३.१७ ॥
在战斗中,我们众人眼睁睁看着,怎么会有一辆战车使信度王和成千上万的勇士丧命?
7.153.18
अद्य मे भ्रातरः क्षीणाश्चित्रसेनादयो रणे ।
भामसनं समासाद्य पश्यतां नोदुरात्मनाम् ॥ ७.१५३.१८ ॥
今天我的兄弟们,以citrasena为首,在战斗中死去,他们接近了可怕的婆罗多(比玛),而那些心怀恶意的人眼看着。
7.153.19
आचार्यं मा विगर्हस्व शक्त्याऽसौ युध्यते द्विजः ।
यथाबलं यथोत्साहं त्यक्त्वा जीवितमात्मनः ॥ ७.१५३.१९ ॥
不要责备老师;那位婆罗门凭自己的力量,依照自己的能力与热忱作战,已经舍弃了自己的性命。
7.153.20
यद्येनं समतिक्रम्य प्रविष्टः श्वेतवाहनः ।
नात्र सूक्ष्मोऽपि दोषःस्यादाचार्यस्य कथञ्चन ॥ ७.१५३.२० ॥
若白马之主阿周那越过他而进入,那么老师在此没有丝毫过失。
7.153.21
कृती दक्षो युवा शूरः कृतास्त्रो लघुविक्रमः ।
दिव्यास्त्रयुक्तमास्थाय रथं वानरलक्षणम् ॥ ७.१५३.२१ ॥
他技艺娴熟、敏捷机警、年少英勇、精通兵器、勇猛迅捷,已登上装饰猴子标记、配备神兵的战车。
7.153.22
कृष्णेन च गृहीताश्वमभेद्यकचावृतः ।
गाण्डीवमजरं दिव्यं धनुरादाय वीर्यवान् ॥ ७.१५३.२२ ॥
克利须那执着他的马缰,他被不可穿透的发髻覆盖,这位勇猛者已取起不朽的神弓甘狄拔。
7.153.23
प्रवर्षन्निशितान्बाणान्बाहुद्रविणदर्पितः ।
यदर्जुनोऽभ्ययाद्द्रोणमुपपन्नं हि तस्य तत् ॥ ७.१५३.२३ ॥
阿周那凭臂力之富而自豪,倾泻锐利的箭雨,冲向德罗纳,这对他而言本是理所应当。
7.153.24
आचार्यः स्थविरो राजञ्शीघ्रयाने तथाऽक्षमः ।
बाहुव्यायामचेष्टायामशक्तस्तु नराधिप ॥ ७.१५३.२४ ॥
老师年迈了,大王;在疾速驾驭战车上他同样无能为力;人主啊,在臂力的运用与行动上,他确实已经力不从心。
7.153.25
तेनैवमभ्यतिक्रान्तः श्वेताश्वः कृष्णसारथिः ।
तस्य दोषं न पश्यामि द्रोणस्यानेन हेतुना ॥ ७.१५३.२५ ॥
被他如此超越的白马者,以克里希那为御者——因此我看不出德罗纳有何过失。
7.153.26
अजय्यान्पाण्डवान्मन्ये द्रोणोनास्त्रविदा मृधे ।
तथा ह्येनमतिक्रम्य प्रविष्टः श्वेतवाहनः ॥ ७.१५३.२६ ॥
我认为,即便对精通武器的德罗纳,般度之子在战斗中也是不可战胜的;因为越过他,白马者便进入了。
7.153.27
सततं चेष्टमानानां निकृत्या विक्रमेण च ।
दैवादिष्टोऽन्यथाभावो न मन्ये विद्यते क्वचित् ॥ ७.१५३.२७ ॥
对于不停努力的人,无论以诡计还是以勇力,我认为在任何地方都不存在与天命所定结果相反的变化。
7.153.28
यतो नो युध्यमानानां परं शक्त्या सुयोधन ।
सैन्धवो निहतो युद्धे दैवमत्र परं स्मृतम् ॥ ७.१५३.२८ ॥
苏尤陀那啊,尽管我们竭尽全力作战,信度王仍在战斗中被杀;此事之中,天命被视为至高。
7.153.29
परं यत्नं कुर्वतां च त्वया सार्धं रणाजिरे ।
हत्वाऽस्माकं पौरुषं वै दैवं पश्चात्करोति नः ॥ ७.१५३.२९ ॥
在战场上与你一同付出巨大努力的我们的男子气概被摧毁之后,天命随后对我们做了这样的事。
7.153.30
दैवोपसृष्टपुरुषो यत्कर्म कुरुते क्वचित् ।
कृतं कृतं हि तत्तस्यट दैवेन विनिपात्यते ॥ ७.१५३.३० ॥
被天命所控制的人,无论在何处做了何事,即便已经做成,也会被天命所毁。
7.153.31
यत्कर्तव्यं मनुष्येण व्यवसायवता सदा ।
तत्कार्यमविशङ्केन सिद्धिर्दैवे प्रतिष्ठिता ॥ ७.१५३.३१ ॥
有决心的人应当始终做应做之事,不必犹疑;成功则系于天命。
7.153.32
निकृत्या वञ्चिताः पार्था विषयोगैश्च भारत ।
दग्धा जतुगृहे चापि द्यूतेन च पराजिताः ॥ ७.१५३.३२ ॥
婆罗多啊!普利塔的儿子们被诡计所欺,遭毒害,在漆宫中被焚,又在掷骰之戏中败北。
7.153.33
राजनीतिं समाश्रित्य प्रहिताश्चैव काननम् ।
यत्नेन च कृतं तत्तद्दैवेन विनिपातितम् ॥ ७.१५३.३३ ॥
遵循王道之策,他们被驱入森林;凡以努力所做之事,皆为天命所推翻。
7.153.34
युध्यस्व यत्नमास्थय दैवं कृत्वा निरर्थकम् ।
यततस्तव तेषां च दैवं मार्गेण यास्यति ॥ ७.१५३.३४ ॥
依靠努力而战,视天命为无用。无论你与他们如何努力,天命自会循其自身之道而行。
7.153.35
न तेषां मतिपूर्वं हि सुकृतं दृश्यते क्वचित् ।
दुष्कृतं तव वा वीर बुद्ध्या हीनं कुरूद्वह ॥ ७.१५३.३५ ॥
他们的善行从未见是出于深思熟虑而作;英雄啊,库鲁之最,你的恶行也显得缺乏智慧。
7.153.36
दैवं प्रमाणं सर्वस्य सुकृतस्येतरस्य वा ।
अनन्यकर्म दैवं हि जागर्ति स्वपतामपि।
तेन युक्तो हि पुरुषः कार्याकार्ये नियुज्यते ॥ ७.१५३.३६ ॥
天命是一切的尺度,无论是善行还是其他。天命之行并非他物,即使在众人沉睡时它也醒着;与之相连的人,便被驱使去做应做与不应做之事。
7.153.37
बहूनि तव सैन्यानि योधाश्च बहवस्तव ।
न तथा पाण्डुपुत्राणामेवं युद्धमवर्तत ॥ ७.१५३.३७ ॥
你的军队众多,你的战士也很多;然而与般度之子的战斗并非如此进行。
7.153.38
तैरल्पैर्बहवो यूयं क्षयं नीताः प्रहारिणः ।
शङ्के दैवस्य तत्कर्म पौरुषं येन नाशितम् ॥ ७.१५३.३८ ॥
被这少数人所击杀的,有许多像你们这样的战士;我怀疑这是天命所为,它摧毁了你们的男子气概。
7.153.39
एवं संभाषमाणानां बहु तत्तज्जनाधिप ।
पाण्डवानामनीकानि समदृश्यन्त संयुगे ॥ ७.१५३.३९ ॥
人主啊,他们这样谈论良久之时,战场上显现出般度五子的军队。
7.153.40
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् ।
तावकानां परैः सार्धं राजन्दुर्मन्त्रिते तव ॥ ७.१५३.४० ॥
于是,大王啊,因你的恶谋,你的部众与敌人交战,战车与象兵交错混杂。