Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.154

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.154.1

तदुदीर्णं रथाश्वौघं बलं तव जनाधिप ।
पाण्डुसेनामतिक्रम्य योधयामास सर्वतः ॥ ७.१५४.१ ॥

啊,人主,你那由战车与战马汹涌而成的大军越过般度军阵,四面八方展开了激战。

7.154.2

पाञ्चालाः कुरवश्चैव योधयन्तः परस्परम् ।
यमराष्ट्राय महते परलोकाय दीक्षिताः ॥ ७.१५४.२ ॥

般遮罗与俱卢相互厮杀,都已受了献身于伟大阎摩国——彼岸世界的誓愿。

7.154.3

शूराः शूरैः समागम्य शरतोमरशक्तिभिः ।
विव्यधुः समरेऽन्योन्यं निन्युश्चैव यमक्षयम् ॥ ७.१५४.३ ॥

勇士遇勇士,在战场上以箭矢、投枪与长矛互相射刺,并将彼此送往阎摩之所。

7.154.4

रथिनां रथिभिः सार्धं रुधिरस्रावदारुणम् ।
प्रावर्तत महद्युद्धं निघ्नतामितरेतरम् ॥ ७.१५४.४ ॥

车兵与车兵之间,一场因血流成河而惨烈的大战开始了,他们相互砍杀。

7.154.5

वारणाश्च महाराज समासाद्य परस्परम् ।
विषाणैर्दारयामासुः सुसङ्क्रुद्धा मदोत्कटाः ॥ ७.१५४.५ ॥

大王啊,象群相遇,它们怒不可遏、发情而狂暴,用象牙互相撕裂。

7.154.6

हयारोहान्हयारोहाः प्रासशक्तिपरश्वथैः ।
बिभिदुस्तुमुले युद्धे प्रार्थयन्तो महद्यशः ॥ ७.१५४.६ ॥

骑兵在喧嚣的战斗中以投枪、长矛和战斧刺杀骑兵,皆渴求伟大的荣名。

7.154.7

पत्तयश्च महाबाहो शतशः शस्त्रपाणयः ।
अन्योन्यमार्दयन्राजन्नित्यं यत्ताः पराक्रमे ॥ ७.१५४.७ ॥

啊,大臂者!手持兵器的数百步兵,啊,国王,始终奋勇争先,相互逼迫。

7.154.8

गोत्राणां नामधेयानां कुलानां चैव मारिष ।
श्रवणाद्धि विजानीमः पाञ्चालान्कुरुभिः सह ॥ ७.१५४.८ ॥

啊,尊者!我们正是从听闻氏族、名号与家族之中得知,般遮罗人与俱卢人同在。

7.154.9

तेऽन्योन्यं समरे योधाः शरशक्तिपरश्वथैः ।
प्रैषयन्परलोकाय विचरन्तो ह्यभीतवत् ॥ ७.१५४.९ ॥

那些战士在战场上以箭、矛、斧将彼此送往彼岸,无畏地来回驰骋。

7.154.10

शरैर्दश दिशो राजंस्तेषां मुक्तैः सहस्रशः ।
न भ्राजन्ते यथा पूर्वं भास्करस्य च नाशनात् ॥ ७.१५४.१० ॥

啊,国王!他们射出的千万箭矢遮蔽了十方,它们不再像先前那样闪耀,仿佛太阳已经消失。

7.154.11

तथा प्रयुध्यमानेषु पाण्डवेयेषु भारत ।
दुर्योधनो महाराज व्यवागाहत तद्बलम् ॥ ७.१५४.११ ॥

啊,婆罗多的后裔!当般度之子如此作战时,啊,大王,难敌冲入了那支军队。

7.154.12

सैन्धवस्य वधेनैव भृशं दुःखसमन्वितः ।
मर्तव्यमिति संचिन्त्य प्राविशच्च द्विषद्बलम् ॥ ७.१५४.१२ ॥

因信度王之死而极度悲痛,心想“必须死去”,他便冲入了敌军之中。

7.154.13

नादयन्रथघोषेण कम्पयन्निव मेदिनीम् ।
अभ्यवर्तत पुत्रस्ते पाण्डवानामनीकिनीम् ॥ ७.१५४.१३ ॥

你的儿子以战车的轰鸣震动大地,向般度之子的军队冲去。

7.154.14

स सन्निपातस्तुमुलस्तस्य तेषां च भारत ।
अभवत्सर्वसैन्यानामभावकरमो महान् ॥ ७.१५४.१४ ॥

婆罗多之子啊,他与他们之间的那场冲突极为混乱,对所有军队而言都是巨大的毁灭。

7.154.15

तथा हतेषु सैन्येषु तथा कृच्छ्रगतः स्वयम् ।
कच्चिद्दुर्योधनः सूत नाकार्षीत्पृष्ठतो रणम् ॥ ७.१५४.१५ ॥

御者啊,当军队如此覆灭、他自己也陷入困境时,难道难敌没有从战场上转身逃走吗?

7.154.16

एकस्य च बहुनां च सन्निपातो महानभूत् ।
विशेषतो हि नृपतेर्विषमं प्रतिभाति मे ॥ ७.१५४.१६ ॥

一人与众多之间发生了大规模的冲突;尤其对于国王而言,在我看来这是不对等的。

7.154.17

सोऽत्यन्तसुखसंवृद्धो रक्ष्यो लोकस्य चेश्वरः ।
एको बहून्समासाद्य कच्चिन्नासीत्पराङ्मुखः ॥ ७.१५४.१७ ॥

他在极度安逸中长大,本应守护世界并成为其主宰,如今独自面对众多敌人,难道从未转身退却过吗?

7.154.18

द्रोणः कर्णः कृपश्चैव कृतवर्मा च सात्वतः ।
नावारयन्कथं युद्धे राजानं राज्यकाङ्क्षिणः ॥ ७.१५४.१८ ॥

德罗纳、迦尔纳、克里帕,以及萨特婆塔的克里塔瓦尔曼,为何不在战场上阻止那位渴望王位的国王?

7.154.19

सर्वोपायैर्हि युद्धेषु रक्षितव्यो महीपतिः ।
एषा नीतिः परा युद्धे दृष्टा तत्र मनीषिभिः ॥ ७.१५४.१९ ॥

在战争中,应以一切方法保护君王;这是智者所见的战争最高策略。

7.154.20

प्रविष्टे वै मम सुते परेषां वै महद्बलम् ।
मामका रथिनां श्रेष्ठाः किमकुर्वत स़ञ्जय ॥ ७.१५४.२० ॥

我的儿子进入敌人的大军之时,我方最优秀的车战勇士做了什么,桑闪耶?

7.154.21

राजन्सङ्ग्राममाश्चर्यं पुत्रस्य तव भारत ।
एकस्य च बहूनां च शृणु मे ब्रुवतो ध्रुवम् ॥ ७.१५४.२१ ॥

大王啊,婆罗多后裔,你儿子的那场战斗真是奇妙——一人对抗众人。请听我确切地说。

7.154.22

द्रोणेन वार्यमाणोऽसौ कर्णेन च कृपेण च ।
प्राविशत्पाण्डवीं सेनां मकरः सागरं यथा ॥ ७.१५४.२२ ॥

尽管德罗纳、迦尔纳和克利巴竭力阻拦,他仍冲入般度军中,如摩羯鱼入海。

7.154.23

किरन्निषुसहस्राणि तत्रतत्र तथातथा ।
पाञ्चालान्पाण्डवांश्चैव विव्याध निशितैः शरैः ॥ ७.१५४.२३ ॥

他四处射出数千支箭,以各种方式,用锐利的箭射穿了般遮罗人和般度人。

7.154.24

यथोदयगतः सूर्यो रश्मिभिर्नाशयेत्तमः ।
तथा पुत्रस्तव बलं नाशयत्तन्महाबलः ॥ ७.१५४.२४ ॥

犹如初升的太阳以光芒驱散黑暗,你那大力的儿子也摧毁了那支军队。

7.154.25

यथा मध्यन्दिने सूर्यं प्रतपन्तं गभस्तिभिः ।
तथा तव सुतं मध्ये प्रतपन्तं शरार्चिभिः।
न शेकुर्भारतं युद्धे पाण्डवाः समुदीक्षितुम् ॥ ७.१५४.२५ ॥

如同正午的太阳以光芒灼烧,你的儿子在战阵中央以箭的火焰燃烧;般度诸子在战场上无法直视婆罗多。

7.154.26

पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ।
पर्यधावन्त पाञ्चाला वध्यमाना महात्मना ॥ ७.१५४.२६ ॥

失去了战胜敌人的勇气,一心只想逃跑,般遮罗人在那大德者的杀戮下四散奔逃。

7.154.27

रुक्मपुङ्खैः प्रसन्नाग्रैस्तव पुत्रेण धन्विना ।
अर्द्यमानाः शरैस्तूर्णं न्यपतन्पाण्डुसैनिकाः ॥ ७.१५४.२७ ॥

被你那善射的儿子以金羽、锋亮箭头的箭矢迅速击伤,般度军的士兵纷纷倒下。

7.154.28

व्यद्रवंश्च भयाद्योधा दृष्ट्वा तं परमाहवे ।
व्यात्ताननमिव प्राप्तमन्तकं प्राणहारिणम् ॥ ७.१५४.२८ ॥

在大战中看到他,战士们惊恐而逃,仿佛夺命的死神张口降临。

7.154.29

न तादृशं रमे कर्म कृतवन्तस्तु तावकाः ।
यादृशं कृतवान्राजा पुत्रस्तव विशाम्पते ॥ ७.१५४.२९ ॥

人主啊!你的部下从未做过如你的王子所做的那样的事;我并不为此而欢喜。

7.154.30

पुत्रेण तव सा सेना पाण्डवी मथिता रणे ।
नलिनी द्विरदेनेव समन्तात्फुल्लपङ्कजा ॥ ७.१५४.३० ॥

如同大象在四面搅动盛开莲花的池塘,你的儿子在战中搅乱了般度的军队。

7.154.31

क्षीणतोयानिलार्काभ्यां हतत्विडिव पद्मिनी ।
बभूव पाण्डवी सेना तव पुत्रस्य तेजसा ॥ ७.१५४.३१ ॥

如同池水枯竭、被风与日所毁的莲池,般遮军的光彩被你儿子的威势所夺。

7.154.32

पाण्डुसेनां हतां दृष्ट्वा तव पुत्रेण भारत ।
भीमसेनपुरोगास्तु पाञ्चालाः समुपाद्रवन् ॥ ७.१५४.३२ ॥

婆罗多啊!见般遮军队被你的儿子所杀,以毗摩先那为首的般遮罗人冲杀上前。

7.154.33

स भीमसेनं दशभिर्माद्रीपुत्रौ त्रिभिस्त्रिभिः ।
विराटद्रुपदौ षड्भिः शतेन च शिखण्डिनम् ॥ ७.१५४.३३ ॥

他以十箭射毗摩先那,以三箭射摩德利的两子各人,以六箭射毗罗吒与德鲁波陀各人,以百箭射湿婆坎丁。

7.154.34

धृष्टद्युम्नं च सप्तत्या धर्मपुत्रं च सप्तभिः ।
केकयांश्चैव चेदींश्च बहुभिर्निशितैः शरैः ॥ ७.१५४.३४ ॥

他以七十箭射法子,以七箭射法王之子,以众多利箭射俱耶与支提人。

7.154.35

सात्वतं पञ्चभिर्विद्धा द्रौपदेयांस्त्रिभिस्त्रिभिः ।
घटोत्कचं च समरे विद्ध्वा सिंह इवानदत् ॥ ७.१५४.३५ ॥

他以五箭射萨特瓦塔(萨提亚奇),以三箭射德罗波蒂之子各人,并在战斗中射中迦托德迦查,遂如狮子般吼叫。

7.154.36

शतशश्चापरान्योधान्सद्विपांश्च महारणे ।
शरैरवचकर्तोग्रैः क्रुद्धोऽन्तक इव प्रजाः ॥ ७.१५४.३६ ॥

在大战中,他以凶猛的箭矢连同象只斩杀了数以百计的其他战士,如同暴怒的死神毁灭众生。

7.154.37

सा तेन पाण्डवी सेना वध्यमाना शिलीमुखैः ।
तव पुत्रेण सङ्ग्रामे विदुद्राव नराधिप ॥ ७.१५४.३७ ॥

在战场上被你的儿子以箭射击,那支般度军四散奔逃,人主啊。

7.154.38

तं तपन्तमिवादित्यं कुरुराजं महाहवे ।
नाशकन्वीक्षितुं राजन्पाण्डुपुत्रस्य सैनिकाः ॥ ७.१५४.३८ ॥

大王啊,在那场大战中,般度之子的士兵无法直视如太阳般炽烈的库鲁王。

7.154.39

ततो युधिष्ठिरो राजा कुपितो राजसत्तम ।
अभ्यधावत्कुरुपतिं तव पुत्रं जिघांसया ॥ ७.१५४.३९ ॥

于是,王中之最啊,愤怒的国王坚战想要杀死库鲁之主、你的儿子,向他猛冲过去。

7.154.40

तावुभौ युधि कौरव्यौ समीयतुररिन्दमौ ।
स्वार्थहेतोः पराक्रान्तौ दुर्योधनयुधिष्ठिरौ ॥ ७.१५४.४० ॥

在战斗中,那两位库鲁族的敌人征服者,难敌与坚战,为各自的目的奋勇相遇。

7.154.41

ततो दुर्योधनः क्रुद्धः शरैः सन्नतपर्वभिः ।
विव्याध दशभिस्तूर्णं ध्वजं चिच्छेद चेषुणा ॥ ७.१५४.४१ ॥

于是愤怒的难敌迅速用十支弯曲关节的箭射穿他,又以一箭射断了他的旗帜。

7.154.42

इन्द्रसेनं त्रिभिश्चैव ललाटे जघ्निवान्नृप ।
सारथिं दयितं राज्ञः पाण्डवस्य महात्मनः ॥ ७.१५४.४२ ॥

大王啊,他以三支箭射中了因陀罗塞纳的额头——那位大度的般度王所钟爱的御者。

7.154.43

धनुश्च पुनरन्येन चकर्तास्य महारथः ।
चतुर्भिश्चतुरश्चैव बाणैर्विव्याध वाजिनाः ॥ ७.१५४.४३ ॥

这位大战车勇士又以另一支箭斩断了他的弓,并以四支箭射穿了他的四匹马。

7.154.44

ततो युधिष्ठिरः क्रुद्धो निमेषादिव कार्मुकम् ।
अन्यदादाय वेगेन कौरवं प्रत्यवारयत् ॥ ७.१५४.४४ ॥

于是愤怒的坚战一瞬间拿起另一把弓,迅速阻住了俱卢族战士。

7.154.45

तस्य तान्निघ्नतः शत्रून्रुक्मपृष्ठं महद्धनुः ।
भल्लाभ्यां पण्डवो ज्येष्ठस्त्रिधा चिच्छेद मारिष ॥ ७.१५४.४५ ॥

主公,在他击杀那些敌人之际,长兄般度子以两支薄刃箭将他那镶金背的大弓斩为三段。

7.154.46

विव्याध चैनं दशभिः सम्यगस्तैः शितैः शरैः ।
मर्म भित्त्वा तु ते सर्वे संलग्नाः क्षितिमाविशन् ॥ ७.१५४.४६ ॥

他以十支锋利而精准的兵器将其射中;贯穿要害之后,它们全部嵌入其中,并深入大地。

7.154.47

ततः परिवृता योधाः परिवव्रुर्युधिष्ठिरम् ।
वृत्रेण सह युध्यन्तं यद्वद्देवाः शतक्रतुम् ॥ ७.१५४.४७ ॥

于是被围的战士们包围了坚战,正如诸天围绕与弗栗多交战的百祭(因陀罗)。

7.154.48

ततो युधिष्ठिरो राजा तव पुत्रस्य मारिष ।
शरं च सूर्यरश्म्याभमत्युग्रमनिवारणम्।
हा हतोऽसीति राजानमुक्त्वाऽमुञ्चद्युधिष्ठिरः ॥ ७.१५४.४८ ॥

主公,于是坚战王对国王说道:“唉,你已被击倒!”随即射出一支如日光般闪耀、极其猛烈而无可抵挡的箭。

7.154.49

स तेनाकर्णमुक्तेन विद्धो बाणेन कौरवः ।
निषसाद रथोपस्थे भृशं सम्मूढचेतनः ॥ ७.१५४.४९ ॥

那位俱卢人被这支拉至耳边射出的箭所穿透,神志大乱,坐倒在战车的底板上。

7.154.50

ततः पाञ्चाल्यसेनानां भृशमासीद्रवो महान् ।
हतो राजेति राजेन्द्र मुदितानां समन्ततः ॥ ७.१५४.५० ॥

于是般遮罗军中爆发出巨大的喧嚣:“国王被杀了!”——啊,王中之王,四面八方欢呼的人们这样喊道。

7.154.51

बाणशब्दरवश्चोग्रः शुश्रुवे तत्र मारिष ।
अथ द्रोणो द्रुतं तत्र प्रत्यदृश्यत संयुगे ॥ ७.१५४.५१ ॥

那里传来箭矢之声的猛烈轰鸣,啊,尊者;此时德罗纳迅速出现在战场上。

7.154.52

हृष्टो दुर्योधनश्चापि दृढमादाय कार्मुकम् ।
तिष्ठतिष्ठेति राजानं ब्रुवन्पाण्डवमभ्ययात् ॥ ७.१५४.५२ ॥

欢喜的难敌也握紧硬弓,喊着“站住,站住!”冲向般度王。

7.154.53

प्रत्युद्ययुस्तं त्वरिताः पाञ्चाला जयगृद्धिनः ।
तान्द्रोणः प्रतिजग्राह परीप्सन्कुरुसत्तमम्।
चण्डवातः समुद्वूतो मेघानम्बुमुचो यथा ॥ ७.१५४.५३ ॥

渴望胜利的般遮罗人急忙冲上前去迎战;德罗纳想要保护俱卢族的最优者,便阻拦了他们,正如狂风骤起,阻住了降雨的乌云。

7.154.54

ततो राजन्महानासीत्सङ्ग्रामो भूरिवर्धनः ।
तावकानां परेषां च समेतानां युयुत्सया ॥ ७.१५४.५४ ॥

于是,啊,大王,你的部下与对方之间,因渴望战斗而聚集起来的人们之间,爆发了一场规模极大、不断扩大的大战。