摩诃婆罗多 · 章 7.156
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.156.1
तस्मिन्प्रविष्टे दुर्धर्षे सृञ्जयानमितौजसि ।
अमृष्यमाणे संरब्धे का वोऽभूद्वै मतिस्तदा ॥ ७.१५६.१ ॥
当那位难以抵挡的英雄进入之时,你们无法忍受那些力量无量的斯兰遮耶人而愤怒,那时你们心中产生了什么想法?
7.156.2
दुर्योधनं तथा पुत्रमुक्त्वा शास्त्रातिगं मम ।
यत्प्राविशदमेयात्मा किं पार्थः प्रत्यपद्यत ॥ ७.१५६.२ ॥
对我那违背经典的儿子难敌说了这些话之后,当那心量无限者进入时,普利塔之子作何回应?
7.156.3
निहते सैन्धवे वीरे भूरिश्रवसि चैव ह ।
यदाऽभ्यगान्महातेजाः पाञ्चालानपराजितः ॥ ७.१५६.३ ॥
当信度英雄与薄利室罗婆斯被杀之后,那位光辉伟大、无人能胜的英雄向般遮罗人冲来。
7.156.4
किममन्यत दुर्धर्षे प्रविष्टे शत्रुतापने ।
दुर्योधनस्तु किं कृत्यं प्राप्तकालममन्यत ॥ ७.१५६.४ ॥
当那难以抵挡、令敌人痛苦的英雄进入时,他心中作何想?而难敌认为当时应尽的时宜之责是什么?
7.156.5
के च तं वरदं वीरमन्वयुर्द्विजसत्तमम् ।
के चास्य पृष्ठतोऽगच्छन्वीराः शूरस्य युध्यतः।
के पुरस्तादवर्तन्त निघ्नन्तः शास्त्रवान्रणे ॥ ७.१५६.५ ॥
谁追随那位施予恩惠的英雄、婆罗门中的至尊?哪些英雄跟随在那奋战的勇士身后?又有哪些精通兵法的战士在战场上击杀敌人,站在他前方?
7.156.6
मन्येऽहं पाण्डवान्सर्वान्भारद्वाजशरार्दितान् ।
शिशिरे कम्पमाना वै कृशा गाव इव प्रभो ॥ ७.१५६.६ ॥
主啊,我想,所有被婆罗堕阇之箭所伤的般度子孙,都已如寒冬中颤抖的瘦弱牛群。
7.156.7
प्रविश्य स महेष्वासः पाञ्चालानरिमर्दनः ।
कथं नु पुरुषव्याघ्रः पञ्चत्वमुपजग्मिवान् ॥ ७.१५६.७ ॥
那位大弓箭手、摧敌者、人中之虎,进入般遮罗军中后,如何走向了死亡?
7.156.8
सर्वेषु योधेषु च सङ्गतेषु ।
रात्रौ समेतेषु महारथेषु।
संलोड्यमानेषु पृथग्बलेषु ।
के वस्तदानीं मतिमन्त आसन् ॥ ७.१५६.८ ॥
夜间众战士聚集,大车战士会合,各自的军队彼此冲撞之时,你们之中谁是有智慧的?
7.156.9
हतांश्चैव विषक्तांश्च पराभूतांश्च शंससि ।
रथिनो विरथांश्चैव कृतान्युद्धेषु मामकान् ॥ ७.१५६.९ ॥
你所说的我方之人,有阵亡的、陷入困境的、被击败的,有车兵也有无车的,都是在战斗中如此。
7.156.10
तेषां संलोड्यमानानां पाण्डवैर्हतचेतसाम् ।
अन्धे तमसि मग्नानामभवत्का मतिस्तदा ॥ ७.१५६.१० ॥
那些被般度之子搅乱、心神丧失、沉入盲目黑暗的人们,那时心中有何打算?
7.156.11
प्रहृष्टांश्चाप्युदग्रांश्च सन्तुष्टांश्चैव पाण्डवान् ।
शंससीहाप्रहृष्टांश्च विभ्रष्टांश्चैव मामकान् ॥ ७.१५६.११ ॥
你在这里说般度之子欢欣、振奋、满足,而说我方之人不欢喜、已然沦落。
7.156.12
कथमेषां तदा तत्र पार्थानामपलायिनाम् ।
प्रकाशमभवद्रात्रौ कथं कुरुषु सञ्जय ॥ ७.१५६.१२ ॥
桑耶,那时夜里,那些不逃跑的普利塔之子怎么会有光亮?在俱卢之中又是如何发生的?
7.156.13
रात्रियुद्धे तदा राजन्वर्तमाने सुदारुणे ।
द्रोणमभ्यद्रवन्सर्वे पाण्डवाः सह सोमकैः ॥ ७.१५६.१३ ॥
君王啊,当那场夜战极为惨烈地进行时,所有般度子与索摩迦人一同冲向德罗纳。
7.156.14
ततो द्रोणः केकयांश्च धृष्टद्युम्नस्य चात्मजान् ।
सम्प्रैषयत्प्रेतलोकं सर्वानिषुभिराशुगैः ॥ ७.१५६.१४ ॥
于是德罗纳以疾飞的箭将克迦耶人和德里斯塔德永那的诸子全部送往死亡之界。
7.156.15
तस्य प्रमुखतो राजन्येऽवर्तन्त महारथाः ।
तान्सर्वान्प्रेषयामास पितृलोकं स भारत ॥ ७.१५६.१५ ॥
君王啊,凡在他面前出现的大车勇士,婆罗多的后裔啊,他都送往祖灵之界。
7.156.16
प्रमथ्नन्तं तदा वीरान्भारद्वाजं महारथम् ।
अभ्यवर्तत सङ्क्रुद्धः शिबी राजा प्रतापवान् ॥ ७.१५६.१६ ॥
那时,勇猛而愤怒的国王尸毗,向正在碾压众英雄的大车勇士婆罗堕阁(德罗纳)冲去。
7.156.17
तमापतन्तं सम्प्रेक्ष्य पाण्डवानां महारथम् ।
विव्याध दशभिर्द्रोणः सर्वपारशवैः शितैः ॥ ७.१५६.१७ ॥
德罗纳看见般度子那位大车勇士冲来,便以十支锐利的“一切巴拉夏瓦”箭射穿了他。
7.156.18
तं शिबिः प्रतिविव्याध त्रिंशता निशितैः शरैः ।
सारथिं चास्य भुल्लेन स्मयमानो न्यपातयत् ॥ ७.१५६.१८ ॥
尸毗以三十支锐利的箭还射他,并微笑着用一支薄刃箭将他的御者射倒。
7.156.19
तस्य द्रोणो हयान्हत्वा सारथिं च महात्मनः ।
अथाऽस्य सशिरस्त्राणं शिरः कायादपाहरत् ॥ ७.१५६.१९ ॥
德罗纳杀死了那位大德者的马和御者,然后将他连同头盔从身上砍下了头颅。
7.156.20
ततोऽस्य सारथिं क्षिप्रमन्यं दुर्योधनोऽदिशत् ।
स तेन सङ्गृहीताश्वः पुनरभ्यद्रवद्रिपून् ॥ ७.१५६.२० ॥
于是难敌迅速为他另派了一名御者;他与之一起控制住马匹,再次冲向敌人。
7.156.21
कलिङ्गानामनीकेन कालिङ्गस्य सुतो रणे ।
पूर्वं पितृवधात्क्रुद्धौ भीमसेनमुपाद्रवत् ॥ ७.१५६.२१ ॥
迦陵伽王之子率迦陵伽军,因父亲被杀而早已愤怒,在战场上冲向毗摩先那。
7.156.22
स भीमं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ।
विशोकं त्रिभिरानर्च्छद्वजमेकेन पत्रिणा ॥ ७.१५६.२२ ॥
他先以五箭射中毗摩,又以七箭再次射中;以三箭击中毗奢迦,并以一支带羽箭射断了旗帜。
7.156.23
कलिङ्गानां तु तं शूरं क्रुद्धं क्रुद्धो वृकोदरः ।
रथाद्रथमभिद्रुत्य मुष्टिनाऽभिजघान ह ॥ ७.१५६.२३ ॥
毗摩的怒火也向这位愤怒的迦陵伽勇士燃起;狼腹从一辆战车跃到另一辆,用拳头击打了他。
7.156.24
तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा ।
सर्वाण्यस्थीनि सहसा प्रापतन्वै पृथक्पृथक् ॥ ७.१५६.२४ ॥
在战斗中被强大的般遮婆的拳头击中,他全身的骨头突然一根一根地断裂坠落。
7.156.25
तस्मिन्हते तदा तेन सिंहनादो महानभूत् ।
पाञ्चालानां महाराज साधुसाध्विति पाण्डवम् ॥ ७.१५६.२५ ॥
他被杀死时,从他那里发出了巨大的狮吼。大王啊,般遮罗人向般度之子高呼:“善哉,善哉!”
7.156.26
तं कर्णो भ्रातरश्चास्य नामृष्यन्त परन्तप ।
ते भीमसेनं नाराचैर्जघ्नुराशीविषोपमैः ॥ ७.१५६.२६ ॥
迦尔纳和他的兄弟们不能忍受此事。敌人的克星啊,他们用如毒蛇般的铁箭射伤了毗摩森。
7.156.27
ततः शत्रुरथं त्यक्त्वा भीमो द्रुमरथं गतः ।
द्रुमं चास्यन्तमनिशं मुष्टिना समपोथयत् ॥ ७.१५६.२७ ॥
于是毗摩舍弃敌人的战车,来到一辆树木战车旁,不停地用拳头把那棵树的顶端完全捣碎。
7.156.28
यथा काचमणिर्न्यस्तो मुष्टिनैकेन लीलया ।
स हतः सर्वथा चूर्णो रक्तमेवोदपद्यत ॥ ७.१५६.२८ ॥
如同一颗玻璃珠被一只拳头轻轻一捏,他被击中并完全碎成粉末,从中涌出的只有鲜血。
7.156.29
तथा चूर्णमभूत्तत्र कर्णभ्राता द्रुमस्तथा ।
स तदा पाण्डुपुत्रेण बलिनाऽभिहतोऽपतत् ॥ ७.१५६.२९ ॥
同样,那棵迦尔纳之兄的树也在那里碎成粉末;然后,被般度的有力之子击中,它倒下了。
7.156.30
तं निहत्य महाराज भीमसेनो महाबलः ।
जयरातरथं प्राप्य मुहुः सिंह इवानदत् ॥ ७.१५६.३० ॥
大王啊,杀死他之后,大力的毗摩森来到胜车(胜车王)的战车旁,像狮子一样一次又一次地吼叫。
7.156.31
जयरातं तु चरणे गृह्य भीमो महाबलः ।
सूतं चास्य महाबाहुर्गृह्य राजंस्तथैव च ॥ ७.१५६.३१ ॥
大力的毗摩抓住了胜车的脚;大王啊,那长臂者也同样抓住了他的御者。
7.156.32
पादयोर्गृह्य तौ वीरौ भीमः कर्णस्य पश्यतः ।
भूमावाविद्ध्य जघ्ने स तौ च प्राणैर्व्ययुज्यताम् ॥ ७.१५६.३२ ॥
在迦尔纳注视之下,毗摩抓住那两位英雄的双脚,将他们摔在地上击杀,二人便丧了性命。
7.156.33
कर्णस्तु पाण्डवे शक्तिं काञ्चनीं समवासृजत् ।
ततस्तामेव जग्राह प्रहसन्पाण्डुनन्दनः ॥ ७.१५६.३३ ॥
迦尔纳向般度之子投出一支金色的枪;般度之子便笑着接住了那支枪。
7.156.34
कर्णायैव च दुर्धर्षश्चिक्षेपाजौ वृकोदरः ।
तामापतन्तीं चिच्छेद शकुनिस्तैलपायिना ॥ ७.१५६.३४ ॥
不可战胜的狼腹(毗摩)在战斗中将它掷向迦尔纳;当它飞来时,饮油者沙恭尼将它斩断。
7.156.35
एतत्कृत्वा महत्कर्म रणेऽद्भुतपराक्रमः ।
पुनः स्वरथमास्थाय दुद्राव तव वाहिनीम् ॥ ७.१५६.३५ ॥
在战场上完成这一伟业之后,这位英勇非凡者重新登上自己的战车,冲向你的军队。
7.156.36
तमायान्तं जिघांसन्तं भीमं क्रुद्धमिवान्तकम् ।
न्यवारयन्महाबाहुं तव पुत्रा विशाम्पते।
महता शरवर्षेण च्छादयन्तो महारथाः ॥ ७.१५६.३६ ॥
人民之主啊,你的儿子们阻住了长臂的毗摩——他正怒气冲冲地前来,想要杀戮,犹如愤怒的死神;大车勇士们以密集的箭雨遮蔽他,将他挡住。
7.156.37
दुर्मदस्य ततो भीमः प्रहसन्निव संयुगे ।
सारथिं च हयांश्चैव शरैर्निन्ये यमक्षयम् ॥ ७.१५६.३७ ॥
于是毗摩在战斗中仿佛含笑,以箭将杜尔摩陀的御者和马匹送往阎摩之所。
7.156.38
दुर्मदस्तु ततो यानं दुष्कर्णस्यावचक्रमे ।
तावेकरथमारूढौ भ्रातरौ परतापनौ। ॥ ७.१५६.३८ ॥
于是杜尔摩陀走向杜什卡尔纳的战车;这两位折磨敌人的兄弟共乘一辆战车。
7.156.39
सङ्ग्रामशिरसो मध्ये भीमं द्वावप्यधावताम् ।
यथाम्बुपतिमित्रौ हि तारकं दैत्यसत्तमम् ॥ ७.१५६.३९ ॥
在战阵前列之中,二人同时向毗摩冲去,犹如水主的两位朋友扑向达typeName之最——塔拉卡。
7.156.40
ततस्तु दुर्मदश्चैव दुष्कर्णश्च तवात्मजौ ।
रथमेकं समारुह्य भीमं बाणैरविध्यताम् ॥ ७.१५६.४० ॥
于是您的两个儿子杜尔摩陀与杜什卡尔纳共乘一辆战车,以箭射穿了毗摩。
7.156.41
ततः कर्णस्य मिषतो द्रौणेर्दुर्योधनस्य च ।
कृपस्य सोमदत्तस्य बाह्लीकस्य च पाण्डवः ॥ ७.१५६.४१ ॥
那时,迦尔纳、德罗纳之子、难敌、克里帕、苏摩达多与跋利迦注视之时,般度之子(毗摩)……
7.156.42
दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम् ।
पादप्रहारेण धरां प्रावेशयदरिन्दमः ॥ ७.१५६.४२ ॥
那位征服敌人的英雄,以脚一踢,便将杜尔摩陀与杜什卡尔纳的战车踩进了地里。
7.156.43
ततः सुतौ ते बलिनौ शूरौ दुष्कर्णदुर्मदौ ।
मुष्टिनाऽऽहत्य सङ्क्रुद्धौ ममर्द चरणेन ह ॥ ७.१५६.४३ ॥
于是你那两位强壮勇猛的儿子,杜什卡尔纳与杜尔玛达,怒不可遏,以拳击之,又以足践踏。
7.156.44
ततो हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाऽब्रुवन् ।
रुद्रोऽयं भीमरूपेण धार्तराष्ट्रेषु युध्यति ॥ ७.१५६.४४ ॥
于是军中一片哀号。诸王见到怖军,便说:“此人乃是以可怖之形出现的楼陀罗,正在与持国之子们作战。”
7.156.45
एवमुक्त्वा पलायन्ते सर्वे भारत पार्थिवाः ।
विसंज्ञा वाहयन्वाहान्न च द्वौ सह धावतः ॥ ७.१५६.४५ ॥
婆罗多,诸王说完便全部逃散。他们惊慌失措地驱策马匹,两人并行竟也无法同奔。
7.156.46
ततो बले भृशलुलिते निशामुखे ।
सुपूजितो नृपवृषभैर्वृकोदरः।
महाबलः कमलविबुद्धलोचनो ।
युधिष्ठिरं नृपतिमपूजयद्बली ॥ ७.१५६.४६ ॥
当夜幕降临、军队大乱之时,备受诸王中雄杰敬重的大力狼腹,睁着如莲花般张开的双眼,向国王坚战致敬。
7.156.47
ततो यमौ द्रुपदविराटकेकया ।
युधिष्ठिरश्चापि परां मुदं ययुः।
वृकोदरं भृशमनुपूजयंश्च ते ।
यथान्धके प्रतिनिहते हरं सुराः ॥ ७.१५६.४७ ॥
于是双生子、德鲁帕达、毗罗吒、柯迦耶王以及坚战都极为欢喜,并轮流大力敬重狼腹,正如诸神在安陀迦被杀之后敬重哈罗(湿婆)一般。
7.156.48
ततः सुतास्ते वरुणात्मजोपमा ।
रुपान्विताः सह गुरुणा महात्मना।
वृकोदरं सरथपदातिकुञ्जरा ।
युयुत्सवो भृशमभिपर्यवारयन् ॥ ७.१५६.४८ ॥
于是你的诸子,相貌堪比伐楼那之子,与大德师尊一同,率车兵、步兵与象兵,急欲交战,从四面猛烈包围狼腹,阻住了他。
7.156.49
ततो यमौ द्रुपदसुताः ससैनिका ।
युधिष्ठिरद्रुपदविराटसात्वताः।
घटोत्कचो जयविजयौ द्रुमो वृकः ।
ससृञ्जयास्तव तनयानवारयन् ॥ ७.१५६.४९ ॥
于是双生子、德鲁帕达之子率军,与坚战、德鲁帕达、毗罗吒、萨谛瓦塔,以及迦托迦恰、胜、胜利、德鲁摩与伐迦,连同srñjaya们,开始阻挡你的儿子们。
7.156.50
ततोऽभवत्तिमिरघनैरिवावृते ।
महाभये भयदमतीव दारुणम्।
निशामुखे वृकबलगृध्रमोदनं ।
महात्मना नृपवर युद्धमद्भुतम् ॥ ७.१५६.५० ॥
于是,夜幕降临时,仿佛被浓密的黑暗云层笼罩,在巨大而极其可怖、令人恐惧的恐慌之中,爆发了一场奇异的战斗,啊,诸王之最,使豺狼、军队与秃鹫欢喜。