摩诃婆罗多 · 章 7.16
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.16.1
तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान् ।
दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया ॥ ७.१६.१ ॥
见你庞大的军队溃散,勇猛的伐楼舍那独自以兵器的幻术在战场上阻住了般度之子。
7.16.2
शरा दश दिशो मुक्ता वृषसेनेन संयुगे ।
विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान् ॥ ७.१६.२ ॥
在战斗中,伐楼舍那向十方放出箭矢;箭矢穿透人、马、战车与象,四散飞去。
7.16.3
तस्य दीप्ता महाबाणा विविश्चेरुः सहस्रशः ।
भानोरिव महाराज घर्मकाले मरीचयः ॥ ७.१६.३ ॥
大王啊,他那闪耀的大箭成千上万地射入,如同炎夏的日光。
7.16.4
तेनार्दिता महाराज रथिनः सादिनस्तथा ।
निपेतुरुर्व्यां सहसा वातभग्ना इव द्रुमाः ॥ ७.१६.४ ॥
大王啊,被他折磨的车兵与骑兵,忽然纷纷倒在地上,如同被风吹折的树木。
7.16.5
हयौघांश्च रथौघांश्च गजौघांश्च महारथः ।
अपातयद्रणे राजञ्शतशोऽथ सहस्रशः ॥ ७.१६.५ ॥
大王啊,这位大车战士在战场上使成百上千的马群、战车群与象群倒下。
7.16.6
दृष्ट्वा तमेकं समरे विचरन्तमभीतवत् ।
सहिताः सर्वराजानः परिवव्रुः समन्ततः ॥ ७.१६.६ ॥
见他独自在战场上来回驰骋,仿佛无所畏惧,众王便一同从四面将他包围。
7.16.7
नाकुलिस्तु शतानीको वृषसेनं समभ्ययात् ।
विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः ॥ ७.१६.७ ॥
那库拉之子沙塔尼迦向跋利舍塞那冲去,用十支穿透要害的铁箭射中了他。
7.16.8
तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत् ।
तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः ॥ ७.१६.८ ॥
迦尔纳之子斩断了他的弓,射倒了他的旗帜。于是想要保护兄长的德劳帕蒂之子们冲了上去。
7.16.9
कर्णात्मजं शरव्रातैरदृश्यं चक्रुरञ्जसा ।
तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः ॥ ७.१६.९ ॥
他们以密集的箭雨迅速使迦尔纳之子隐没于视线之外。于是以德罗纳之子为首的车战勇士咆哮着冲向他们。
7.16.10
छादयन्तो महाराज द्रौपदेयान्महारथान् ।
शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव ॥ ७.१६.१० ॥
大王啊,他们迅速以各式各样的箭矢遮蔽德劳帕蒂之子这些大车战士,犹如乌云遮蔽群山。
7.16.11
तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः ।
पाञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः ॥ ७.१६.११ ॥
渴望保护诸子的般度之子们迅速迎战;般遮罗、迦伽雅、摩蹉与商阇耶人也都举起兵器。
7.16.12
तद्युद्धमभवद्धोरं सुमहद्रोमहर्षणम् ।
त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः ॥ ७.१६.१२ ॥
那场战斗变得极其可怕、令人毛骨悚然——在你的部下与般度之子之间,犹如天神与檀那婆之间的争斗。
7.16.13
एवं युयुधिरे वीराः संरब्धाः कुरुपाण्डवाः ।
परस्परमुदीक्षन्तः परस्परकृतागसः ॥ ७.१६.१३ ॥
如此,愤怒的英雄们,俱卢族与般度族,彼此互相注视,各自对对方有过错,相互厮杀。
7.16.14
तेषां ददृशिरे कोपाद्वपूम्ष्यमिततेजसाम् ।
युयुत्सूनामिवाकाशे पतत्त्रिवरभोगिनाम् ॥ ७.१६.१४ ॥
那些光芒无限、渴望战斗的人,因愤怒而显现的身躯,如同天空中最好的飞禽与蛇。
7.16.15
भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः ।
बभासे स रणोद्देशः कालसूर्यैरिवोदितैः ॥ ७.१६.१५ ॥
那战场因婆罗多、迦尔纳、克里帕、德罗纳、德罗纳之子、般茶罗之子与萨提亚基而光芒四射,宛如升起的死亡之日。
7.16.16
प्रजानां संक्षये घोरे यथा सूर्योदयो भवेत् ।
शूराणामुदयस्तद्वदासीत्पुरुषसत्तम ॥ ७.१६.१६ ॥
人中之雄啊,正如在可怕的众生毁灭之中太阳升起,英雄们的崛起也是如此。
7.16.17
तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम् ।
महाबलानां बलिभिर्दानवानां यथा सुरैः ॥ ७.१६.१७ ॥
于是,强大的勇士们彼此击杀,战斗喧嚣激烈,如同天神与阿修罗相争。
7.16.18
ततो युधिष्ठिरानीकमुद्धूतार्णवनिःस्वनम् ।
त्वदीयमवधीत्सैन्यं संप्रद्रुतमहारथम् ॥ ७.१६.१८ ॥
然后,坚战的军队如翻腾的大海般咆哮,击溃了你们的军队,其大车武士已溃散逃走。
7.16.19
तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम् ।
अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत ॥ ७.१६.१९ ॥
德罗纳见那支被敌人狠狠击溃、四散溃逃的军队,说道:“勇士们,不必再逃了!”
7.16.20
भारद्वाजममर्षश्च विक्रमश्च समाविशत् ।
समुद्धृत्य निषङ्गाच्च धनुर्ज्यामवमृज्य च।
महाशरधनुष्पाणिर्यन्तारमिदमब्रवीत् ॥ ७.१६.२० ॥
愤怒与勇气充满了德罗纳。他从箭囊中抽出箭,擦拭弓弦,手持大箭与弓,对御者说了这番话。
7.16.21
सारथे याहि यत्रैष पाण्डरेण विराजता ।
ध्रियमाणेन च्छेण राजा तिष्ठति धर्मराट् ॥ ७.१६.२१ ॥
御者啊,驱车前往那位在白色华盖之下站立的君王所在之处。他是正法之王。
7.16.22
तदेतद्दीर्यते सैन्यं धार्तराष्ट्रमनेकधा ।
एतत्संस्तम्भयिष्यामि प्रतिवार्य युधिष्ठिरम् ॥ ७.१६.२२ ॥
持国之子们的这支军队正以种种方式溃散。我将阻住坚战,使它重新稳固。
7.16.23
न हि मामभिवर्षन्तं संयुगे तात पाण्डवाः ।
मात्स्यपाञ्चालराजानः सर्वे च सहसोमकाः ॥ ७.१६.२३ ॥
亲爱的,即便般度之子、摩茨亚与般遮罗诸王,以及所有的苏摩迦人合力,也无法阻止我在战场上倾泻箭雨。
7.16.24
अर्जुनो मत्प्रसादाद्धि महास्त्राणि समाप्तवान् ।
न मामुत्सहते तात न भीमो न च सात्यकिः ॥ ७.१६.२४ ॥
阿周那正是因我的恩惠才掌握了大神兵。亲爱的,阿周那、怖军和萨提奇都不敢与我对抗。
7.16.25
मत्प्रसादाद्धि बीभत्सुः परमेष्वासतां गतः ।
ममैवास्त्रं विजानाति धृष्टद्युम्नोऽपि पार्षतः ॥ ७.१६.२५ ॥
凭借我的恩典,毗跋图(阿周那)已达到大弓手的境界;连般遮罗之子猛光也知道我的兵器之术。
7.16.26
नायं संरक्षितुं कालः प्राणांस्तात जयैषिणा ।
याहि सर्गं पुरस्कृत्य यशसे च जयाय च ॥ ७.१६.२६ ॥
亲爱的,求胜之人此时不是保全性命的时候。为了荣誉与胜利,你应将冲锋置于前列而去。
7.16.27
एवं सञ्चोदितो यन्ता द्रोणमभ्यवहत्ततः ॥ ७.१६.२७ ॥
如此被催促之后,御者便驱动德罗纳的战车向前。
7.16.28
तदाऽश्वहृदयेनाश्वानभिमन्त्र्याशु हर्षयन् ।
रथेन सवरूथेन भास्वरेण विराजता ॥ ७.१६.२८ ॥
于是,他以马之心术迅速为马念咒,使其欢喜,乘着带华盖、光辉灿烂的战车前进。
7.16.29
तं करूशाश्च मात्स्याश्च चेदयश्च ससात्वताः ।
पाण्डवाश्च सपाञ्चालाः सहिताः पर्यवारयन् ॥ ७.१६.२९ ॥
迦卢沙、鱼族、雉底与萨埵多族,连同般度子与般遮罗人,合力将他包围。
7.16.30
ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः ।
प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत् ॥ ७.१६.३० ॥
于是红马之主怒不可遏,如四牙象一般冲入般度军中,直奔坚战而去。
7.16.31
तमाविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः ।
तस्य द्रोणो धनुश्छित्वा तं द्रुतं समुपाद्रवत् ॥ ७.१६.३१ ॥
坚战以带鹤羽的利箭射中他。于是德罗纳斩断了他的弓,迅速向他冲去。
7.16.32
चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः ।
दधार द्रोणमायान्तं वेलेव सरितां पतिम् ॥ ७.१६.३२ ॥
般遮罗人的荣耀、车轮的守护者王子,阻挡着逼近的德罗纳,如同岸边拦住江河之主大海。
7.16.33
द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम् ।
सिंहनादरवो ह्यासीत्साधुसाध्विति भाषितम् ॥ ७.१६.३३ ॥
众人见王子阻挡了婆罗门中的雄杰德罗纳,便发出如狮吼般的声音,并高呼:“善哉!善哉!”
7.16.34
कुमारस्तु ततो द्रोणं सायकेन महाहवे ।
विव्याधोरसि सङ्क्रुद्धः सिंहवच्च नदन्मुहुः ॥ ७.१६.३४ ॥
于是王子在大战中极为愤怒,以一支箭射中德罗纳的胸膛,并如狮子般一次又一次地怒吼。
7.16.35
संवार्य च रणे द्रोणं कुमारस्तु महाबलः ।
शरैरनेकसाहस्रैः कृतहस्तो जितश्रमः ॥ ७.१६.३५ ॥
在战场上阻挡德罗纳的这位大力王子,以成千上万支箭射击他;他手艺娴熟,已战胜疲劳。
7.16.36
तं शूरमार्यव्रतिनं मन्त्रास्त्रेषु कृतश्चमम् ।
चक्ररक्षतं परामृद्रात्कुमारं द्विजपुङ्गवः ॥ ७.१६.३६ ॥
这位英勇、持守高尚誓愿、凭努力精通咒语兵器、守护车轮的王子,被婆罗门中的雄杰德罗纳压制了。
7.16.37
स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः ।
तव सैन्यस्य गोप्तासीद्भारद्वाजो द्विजर्षभः ॥ ७.१६.३७ ॥
他到达军队中央,巡行于各个方向,成为你军的守护者——二生者中最杰出的婆罗堕遮(德罗纳)。
7.16.38
शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् ।
नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः ॥ ७.१६.३८ ॥
以十二箭射中尸根陀,以二十箭射中乌single曼妙(乌塔曼陀耶),以五箭射中那库拉,以七箭射中萨哈迪瓦。
7.16.39
युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः ।
सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः ॥ ७.१६.३९ ॥
以十二箭射中坚战,以各三箭射中德罗波蒂之子们,以五箭射中萨谛奇,以十箭射中摩差王。
7.16.40
व्यक्षोभयद्रणे योधान्यथामुख्यमभिद्रवन् ।
अभ्यवर्ततं सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम् ॥ ७.१६.४० ॥
在战场上依次扰乱各位战士,他们前进,想要擒获昆蒂之子坚战。
7.16.41
युगन्धरस्ततो राजन्भारद्वाजं महारथम् ।
वारयामास सङ्क्रुद्वं वातोद्धतमिवार्णवम् ॥ ७.१६.४१ ॥
于是,大王,陀那陀罗(Yugandhara)阻挡了盛怒的大车士婆罗堕遮,如同阻挡被风掀起的大海。
7.16.42
युधिष्ठिरं स विद्ध्वा तु शरैः सन्नतपर्वभिः ।
युगन्धरं तु भल्लने रथनीडादपातयत् ॥ ७.१६.४२ ॥
他以弯曲节羽的箭射中坚战,又以一支薄刃箭将瑜伽陀罗从车座上射落。
7.16.43
तं विजित्य महातेजा भारद्वाजो महामनाः ।
अभ्यवर्तत सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम् ॥ ७.१६.४३ ॥
击败了他之后,光芒巨大、心胸宽广的婆罗堕阇(德罗纳)向他进发,欲擒获贡蒂之子坚战。
7.16.44
ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः ।
व्याघ्रदत्तश्च पाञ्चल्यः सिंहसेनश्च वीर्यवान् ॥ ७.१६.४४ ॥
随后,毗罗吒与德鲁帕达、羯迦耶人、萨谛奇、尸毗、般遮罗的虎施,以及勇猛的师子军(纷纷前进)。
7.16.45
एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम् ।
आवव्रुस्तस्य पन्थानं किरन्तः सायकान्बहून् ॥ ७.१६.४५ ॥
他们及其他许多人,欲保护坚战,纷纷洒下众多箭矢,阻断了他的道路。
7.16.46
व्याघ्रदत्तस्तु पाञ्चाल्यो द्रोणं विव्याध मार्गणैः ।
पञ्चाशता शितै राजंस्तत उच्चुक्रुशुर्जनाः ॥ ७.१६.४६ ॥
然而般遮罗的虎施以五十支利箭射中德罗纳,大王啊;于是众人大声呼喊。
7.16.47
त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम् ।
प्राहसत्सहसा हृष्टस्त्रासयन्वै महारथान् ॥ ७.१६.४७ ॥
师子军迅速射中大车将德罗纳,欢喜之中忽然大笑,使诸大车将心生恐惧。
7.16.48
ततो विष्फार्य नयने धनुर्ज्यामवमृज्य च ।
तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत् ॥ ७.१६.४८ ॥
于是德罗纳睁大双眼,拭去弓弦,发出巨大的拍掌之声,向他猛扑而去。
7.16.49
ततस्तु सिंहसेनस्य शिरः कायात्सकुण्डलम् ।
व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामाहरद्बली ॥ ७.१६.४९ ॥
于是有力的德罗纳以两支薄刃箭,将辛哈塞纳连同耳环的头从身上斩下;又扑向伏伽达塔,也取了他的头。
7.16.50
तान्प्रमृज्य शरव्रातैः पाण्डवानां महारथान् ।
युधिष्ठिररथाभ्याशे तस्थौ मृत्युरिवान्तकः ॥ ७.१६.५० ॥
德罗纳以箭雨驱开般度之子的大车手,站在坚战的战车旁,宛如死神,宛如阎摩。
7.16.51
ततोऽभवन्महाशब्दो राजन्यौधिष्ठिरे बले ।
हृतो राजेति योधानां समीपस्थे यतव्रते ॥ ७.१६.५१ ॥
于是,大王,坚战的军中爆发出巨大的喧哗:国王被劫走了,附近警觉的战士们喊道。
7.16.52
अब्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम् ।
अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति ॥ ७.१६.५२ ॥
那里的士兵见到德罗纳的勇武,说道:今天,德兰陀罗之子国王必定如愿以偿。
7.16.53
अस्मिन्महूर्ते द्रोणस्तु पाण्डवं गृह्य हर्षितः ।
आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे ॥ ७.१६.५३ ॥
此时,欢喜的德罗纳必将擒住一位般度之子,来到我们这边,在德兰陀罗之子的战斗中。
7.16.54
एवं सञ्जल्पतां तेषां तावकानां महारथः ।
आयाज्जवेन कौन्तेयो रथघोषेण नादयन् ॥ ७.१६.५४ ॥
你们的士兵正这样议论时,大车手贡蒂之子疾驰而来,以战车的轰鸣震动四方。
7.16.55
शोणितोदां रथावर्तां कृत्वा विशसने नदीम् ।
शूरास्थिचयसङ्कीर्णां प्रेतकूलापहारिणीम् ॥ ७.१६.५५ ॥
他在屠杀之地造出一条河:河水是血,漩涡是战车,满是英雄的白骨堆,冲走了死者的河岸。
7.16.56
तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम् ।
नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः ॥ ७.१६.५६ ॥
般道那条以箭雨大浪为泡沫、满是矛枪般游鱼的河流,迅速渡过之后,般度之子驱散了俱卢人。
7.16.57
ततः किरीटि सहसा द्रोणानीकमुपाद्रवत् ।
छादयन्निषुजालेन महता मोहयन्निव ॥ ७.१६.५७ ॥
于是持冠者(阿周那)突然冲向德罗纳的军队,以巨大的箭网覆盖它,仿佛要使其迷惑。
7.16.58
शीघ्रमभ्यस्यतो बाणान्सन्दधानस्य चानिशम् ।
नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः ॥ ७.१६.५८ ॥
那位声名显赫的昆蒂之子迅速射箭,不停地将箭搭上弓弦,人们看不到他有任何间隙。
7.16.59
न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी ।
अदृश्यन्त महाराज बाणभूता इवाभवन् ॥ ७.१६.५९ ॥
大王啊,东西南北、虚空、天空,甚至大地都看不见了;它们仿佛都化成了箭矢。
7.16.60
नादृश्यत तदा राजंस्तत्र किञ्चन संयुगे ।
बाणान्धकारे महति कृते गाण्डीवधन्वना ॥ ७.१६.६० ॥
大王啊,那时在那场战斗中,什么也看不见了,都被持甘提瓦弓者造成的巨大箭影所遮蔽。
7.16.61
सूर्ये चास्तमनुप्राप्ते तमसा चाभिसंवृते ।
नाज्ञायत तदा शत्रुर्न सुहृन्न च कश्चन। ॥ ७.१६.६१ ॥
太阳已落山,被黑暗笼罩,那时无论敌人、朋友还是他人,都无法辨认。
7.16.62
ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः ।
तान्विदित्वा पुनस्त्रस्ता न युद्धमनसः परान् ॥ ७.१६.६२ ॥
于是德罗纳、难敌等人撤退;敌人得知此事,再次惊恐,无心作战,(也随之退去)。
7.16.63
स्वान्यनीकानि बीभत्सुः शनकैरवहारयत् ।
ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः ॥ ७.१६.६३ ॥
毗跋蹉(阿周那)缓缓收回自己的军队;随后欢喜的般度族与献族大大赞颂了波尔陀(阿周那)。
7.16.64
पाञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः ।
एं स्वशिबिरं प्रायाज्जित्वा शत्रून्धनञ्जयः ॥ ७.१६.६४ ॥
般遮罗人也以动听的言辞赞颂他,如同仙人赞颂太阳。征服敌人后,财主(阿周那)回到自己的营帐。
7.16.65
पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः ।
मसारगल्वर्कमुवर्णरूपैर्वज्रप्रवालस्फटिकैश्च मुख्यैः। ॥ ७.१६.६५ ॥
在所有军队之后,欢喜地,阿周那与克舍婆(黑天)同在,乘坐以金刚石、珊瑚、水晶等上等宝石装饰的战车。
7.16.66
चित्रे रथे पाण्डुसुतो बभासे नक्षत्रचित्रे वियतीव चन्द्रः ॥ ७.१६.६६ ॥
在华丽的战车上,般度之子(阿周那)闪耀如同星辰点缀的天空中的月亮。
7.16.67
वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम् ।
ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम् ॥ ७.१६.६७ ॥
herói 向着 Vṛddhakṣatra 之子、他父亲的死敌正面迎去,如虎扑向大象。
7.16.68
तौ परस्परमासाद्य खह्गदन्तनखायुधौ ।
हृष्टवत्सम्प्रजहाते व्याघ्रकेसरिणाविव ॥ ७.१६.६८ ॥
二人以剑、牙与爪为兵器,相遇后欣然相搏,如虎如狮。
7.16.69
सम्पातेष्वभिघातेषु निपातेष्वसिचर्मणोः ।
न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः ॥ ७.१६.६९ ॥
在相撞、打击与劈落的刀盾之间,无人看见那两位人中狮子之间有任何空隙。
7.16.70
अवक्षेपोऽसिनिर्हादः शस्त्रान्तरनिदर्शनम् ।
बाह्यान्तरनिपातश्च निर्विशेमदृश्यत ॥ ७.१६.७० ॥
刺击、剑鸣、兵刃之间的空隙显露,内外的打击——一切看起来仿佛合为一体。
7.16.71
बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम् ।
ददृशाते महात्मानौ सपक्षाविव पर्वतौ ॥ ७.१६.७१ ॥
二位大德沿着外侧与内侧的上佳路线运动,望去如同两座长翼的山。
7.16.72
ततो विक्षिपतः खङ्गं सौभद्रस्य यशस्विनः ।
शरावरणपक्षान्ते प्रजहार जयद्रथः ॥ ७.१६.७२ ॥
于是,当名闻遐迩的 Saubhadra 挥舞宝剑时,Jayadratha 在箭幕的边缘发动攻击。
7.16.73
रुक्मपत्रान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे ।
सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः ॥ ७.१६.७३ ॥
那把大剑卡在闪亮盾牌的金色薄片之间,被信度王军队的力量震动,于是折断了。
7.16.74
भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् ।
अदृश्यत निमेषेण स्वरथं पुनरास्थितः ॥ ७.१६.७४ ॥
他察觉剑已折断,便跳下退了六步,转眼间又出现在自己的战车上。
7.16.75
तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम् ।
सहिताः सर्वराजानः परिवव्रुः समन्ततः ॥ ७.१६.७५ ॥
那位克里希纳之亲的儿子从战斗中脱身,再次登上上好的战车,便被所有国王一同从四面八方团团围住。
7.16.76
ततश्चर्म च खङ्गं च समुत्क्षिप्य महाबलः ।
ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम् ॥ ७.१६.७६ ॥
于是,他高举盾牌与宝剑,这位大力的阿周那之子怒目注视胜车,发出吼声。
7.16.77
सिन्धुराजं परित्यज्य सौभद्रः परवीरहा ।
तापयामास तत्सैन्यं भुवनं भास्करो यथा ॥ ७.१६.७७ ॥
放下信度王不顾,苏跋德拉之子、敌方英雄的杀手,炙烤那支军队,如同太阳炙烤世界。
7.16.78
तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम् ।
चिक्षेप समरे घोरां दीप्तामग्निशिखामिव ॥ ७.१६.७८ ॥
沙利耶在战场上向他投出一支可怖的长矛,全为铁制,饰以黄金,燃烧如火焰之舌。
7.16.79
तामवप्लुत्य जग्राह विकोशं चाकरोदसिम् ।
वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम् ॥ ७.१६.७९ ॥
他跃起抓住那支长矛,拔出了剑,正如迦鲁达抓住坠落的最上蛇王。
7.16.80
तस्य लाषवमाज्ञाय सत्वं चामिततेजसः ।
सहिताः सर्वराजानः सिंहनादमथानदन् ॥ ७.१६.८० ॥
众王看到他的敏捷与这位无量光辉者的勇气,便一同发出狮子般的吼声。
7.16.81
ततस्तामेव शल्यस्य सौभद्रः परवीरहा ।
मुमोच भुजवीर्येण वैदूर्यविकृतां शिताम् ॥ ७.१६.८१ ॥
于是灭敌英雄的萨乌跋陀罗(阿毗曼尤)凭借双臂之力,掷出了沙利耶那支镶嵌青金石的锋利长矛。
7.16.82
सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा ।
जघान सूतं शल्यस्य रथाच्चैनमपातयत् ॥ ७.१६.८२ ॥
那支长矛如放出的毒蛇一般抵达沙利耶的战车,杀死了他的御者,并把沙利耶本人从车上击落。
7.16.83
ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः ।
सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ ॥ ७.१६.८३ ॥
随后是毘罗吒与德鲁帕达、坚战(Dhṛṣṭaketu)、坚战王、萨提亚基、凯迦耶诸王子、怖军、猛光与尸根蒂。
7.16.84
यमौ च द्रौपदेयाश्च साधुसाध्विति चुक्रुशुः ।
बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः ॥ ७.१६.८४ ॥
双生子与德罗波蒂的诸子高呼:“善哉,善哉!”;箭声纷起,狮子般的吼声处处可闻。
7.16.85
प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम् ।
तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम् ॥ ७.१६.८५ ॥
欢喜者纷纷出现,见萨乌跋德罗不退而立,您的儿子们无法忍受敌人胜利的那个征兆。
7.16.86
अथैनं सहसा सर्वे समन्तान्निशितैः शरैः ।
अभ्याकिरन्महाराज जलदा इव पर्वतम् ॥ ७.१६.८६ ॥
于是众人突然从四面以锋利的箭将他覆盖,大王,如同云朵覆盖山岳。
7.16.87
तेषां च प्रियमन्विच्छन्सूतस्य च पराभवम् ।
आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात् ॥ ७.१६.८७ ॥
他想为他们谋求利益,又见御者战败,杀敌者阿尔塔亚尼愤怒地向萨乌跋德罗冲去。