Mahābhārata · Adhyāya 7.163
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.163.1
सोमदत्तं तु सम्प्रेक्ष्य विधुन्वानं महद्धनुः ।
सात्यकिः प्राह यन्तारं सोमदत्ताय मां वह ॥ ७.१६३.१ ॥
Seeing Somadatta shaking his great bow, Sātyaki said to the charioteer: "Drive me toward Somadatta."
7.163.2
न ह्यहत्वा रणे शत्रुं सोमदत्तं महाबलम् ।
निवर्तिष्ये रणात्सूत सत्यमेतद्वचो मम ॥ ७.१६३.२ ॥
"Charioteer, I will not turn back from the battle without slaying the mighty enemy Somadatta; this is my true word."
7.163.3
ततः सम्प्रैषयद्यन्ता सैन्धवांस्तान्मनोजवान् ।
तुरङ्गामाञ्छङ्खवर्णान्सर्वशब्दातिगान्रणे ॥ ७.१६३.३ ॥
Then the charioteer urged forward those Sindhu horses, swift as thought, conch-colored, surpassing every sound in battle.
7.163.4
तेऽवहन्युयुधानं तु मनोमारुतरंहसः ।
यथेन्द्रं हरयो राजन्पुरा दैत्यवधोद्यतम् ॥ ७.१६३.४ ॥
O king, those horses, swift as mind and wind, bore Yuyudhāna just as the tawny steeds once bore Indra, intent on slaying the demons of old.
7.163.5
तमापतन्तं सम्प्रेक्ष्य सात्वतं रभसं रणे ।
सोमदत्तो महाबाहुरसम्भ्रान्तो न्यवर्तत ॥ ७.१६३.५ ॥
Seeing the Sātvata (Sātyaki) rushing upon him impetuously in battle, the mighty-armed Somadatta, unflustered, turned to face him.
7.163.6
विमुञ्चञ्छरवर्षाणि पर्जन्य इव वृष्टिमान् ।
छादयामास शैनेयं जलदो भास्करं यथा ॥ ७.१६३.६ ॥
Releasing showers of arrows like a rain-laden cloud, he covered the descendant of Śini (Sātyaki), as a cloud covers the sun.
7.163.7
असम्भ्रान्तश्च समरे सात्यकिः कुरुपुङ्गवम् ।
छादयामास बाणौघैः समन्ताद्भरतर्षभ ॥ ७.१६३.७ ॥
In battle the undaunted Sātyaki covered the bull of the Kurus on every side with a flood of arrows, O bull of the Bharatas.
7.163.8
सोमदत्तस्तुतं षष्ट्या विव्याधोरसि माधवम् ।
सात्यकिश्चापि तं राजन्नविध्यत्सायकैः शितैः ॥ ७.१६३.८ ॥
Somadatta pierced Mādhava's chest with sixty arrows, and Sātyaki, O king, pierced him in turn with sharp arrows.
7.163.9
तावन्योन्यं शरैः कृत्तौ व्यराजेतां नरर्षभौ ।
सुपुष्पौ पुष्पसमये पुष्पिताविव किंशकौ ॥ ७.१६३.९ ॥
Those two bulls among men, wounded by each other's arrows, shone like two kiṃśuka trees in bloom in the flowering season.
7.163.10
रुधिरोक्षितसर्वाङ्गौ कुरुवृष्णियशस्करौ ।
परस्परमवेक्षेतां दहन्ताविव लोचनैः ॥ ७.१६३.१० ॥
With every limb smeared with blood, the two who brought glory to the Kurus and the Vṛṣṇis looked at each other as if they would burn each other with their eyes.
7.163.11
रथमण्डलमार्गेषु चरन्तावरिमर्दनौ ।
घोररूपौ हितावास्तां वृष्टिमन्ताविवाम्बुदौ ॥ ७.१६३.११ ॥
Moving along the paths of the chariot circles, crushers of enemies, terrible in form, the two were like rain-bearing clouds.
7.163.12
शरसम्भिन्नगात्रौ तु सर्वतः शखलीकृतौ ।
श्वाविधाविव राजेन्द्र दृश्येतां शरविक्षतौ ॥ ७.१६३.१२ ॥
Their bodies pierced by arrows, riddled all over like sieves, they were seen, O lord of kings, like porcupines wounded by arrows.
7.163.13
सुवर्णपुङ्खैरिषुभिराचितौ तौ व्यराजताम् ।
खद्योतैरावृतौ राजन्प्रावृषीव वनस्पती ॥ ७.१६३.१३ ॥
Covered with arrows of golden feathers, those two shone, O king, like two trees surrounded by fireflies in the rainy season.
7.163.14
सम्प्रदीपितसर्वाङ्गौ सायकैस्तैर्महारथौ ।
अदृश्येतां रणे क्रुद्धावुल्काभिरिव कुञ्जरौ ॥ ७.१६३.१४ ॥
With all their limbs blazing with arrows, those two great charioteers appeared enraged in battle like two elephants surrounded by torches.
7.163.15
ततो युधि महारज सोमदत्तो महारथः ।
अर्धचन्द्रेम चिच्छेद माधवस्य महद्धनुः ॥ ७.१६३.१५ ॥
Then, O great king, in battle the great charioteer Somadatta cut the great bow of Mādhava (Sātyaki) with a half-moon arrow.
7.163.16
अथैनं पञ्चविंशत्या सायकानां समार्पयत् ।
त्वरमाणस्त्वराकाले पुनश्च दशभिः शरैः ॥ ७.१६३.१६ ॥
Then, hastening, he struck him with twenty-five arrows, and again, in that moment of haste, with ten arrows.
7.163.17
अथान्यद्धनुरादाय सात्यकिर्वेगवत्तरम् ।
पञ्चभिः सायकैस्तूर्णं सोमदत्तमविध्यत ॥ ७.१६३.१७ ॥
Then Sātyaki, taking up another bow, swiftly pierced Somadatta with five arrows of great speed.
7.163.18
ततोऽपरेण भल्लेन ध्वजं चिच्छेद काञ्चनम् ।
बाह्लीकस्य रणे राजन्सात्यकिः प्रहसन्निव ॥ ७.१६३.१८ ॥
Then Sātyaki, with another broad-headed arrow, cut down the golden banner of Bāhlīka, O king, laughing as it were in battle.
7.163.19
सोमदत्तस्त्वसम्भ्रान्तो दृष्ट्वा केतुं निपातितम् ।
शैनेयं पञ्चविंशत्या सायकानां समाचिनोत् ॥ ७.१६३.१९ ॥
Somadatta, undismayed, seeing his banner brought down, covered Śaineya (Sātyaki) with twenty-five arrows.
7.163.20
सात्वतोऽपि रणे क्रुद्धः सोमदत्तस्य धन्विनः ।
धनुश्छिच्छेद भल्लेन क्षुरप्रेण शितेन ह ॥ ७.१६३.२० ॥
Sātvata (Sātyaki) too, enraged in battle, cut through the bow of the archer Somadatta with a sharp bhalla and a razor-headed arrow.
7.163.21
अथैनं रुक्मपुङ्खानां शतेन नतपर्वणाम् ।
आचिनोद्बहुधा राजन्भग्नदंष्ट्रमिव द्विपम् ॥ ७.१६३.२१ ॥
Then, O king, with a hundred arrows gold-feathered and bent-jointed, he covered him many times over, like an elephant with broken tusks.
7.163.22
अथान्यद्धनुरादाय सोमदत्तो महारथः ।
सात्यकिं छादयामास शरवृष्ट्या महाबलः ॥ ७.१६३.२२ ॥
Then the great charioteer Somadatta, taking up another bow, the very mighty one covered Sātyaki with a shower of arrows.
7.163.23
सोमदत्तं तु सङ्क्रुद्धो रणे विव्याध सात्यकिः ।
सात्यकिं शरजालेन सोमदत्तोऽप्यपीडयत् ॥ ७.१६३.२३ ॥
But Sātyaki, greatly enraged in battle, pierced Somadatta; and Somadatta too afflicted Sātyaki with a net of arrows.
7.163.24
दशभिः सात्वतस्यार्थे भीमोऽहन्बाह्लिकात्मजम् ।
सोमदत्तोप्यसम्भ्रान्तो भीममार्च्छच्छितैः शरैः ॥ ७.१६३.२४ ॥
For Sātvata's sake Bhīma struck the son of Bāhlīka with ten arrows; and Somadatta, undismayed, struck Bhīma with sharp arrows.
7.163.25
ततस्तु सात्वतस्यार्थे भीमसेनो नवं दृढम् ।
मुमोच परिघं घोरं सोमदत्तस्य वक्षसि ॥ ७.१६३.२५ ॥
Then, for Sātvata's sake, Bhīmasena hurled a new, firm, terrible iron club at Somadatta's chest.
7.163.26
तमापतन्तं वेगेन परिघं घोरदर्शनम् ।
द्विधा चिच्छेद समरे प्रहसन्निव कौरवः ॥ ७.१६३.२६ ॥
The Kaurava, as if laughing, cut in two in battle that terrible-looking club coming down with speed.
7.163.27
स पपात द्विधा च्छिन्न आयसः परिघो महान् ।
महीधरस्येव महच्छिखरं वज्रदारितम् ॥ ७.१६३.२७ ॥
That great iron club, cut in two, fell like a mountain peak split by a thunderbolt.
7.163.28
ततस्तु सात्यकी राजन्सोमदत्तस्य संयुगे ।
धनुश्चिच्छेद भल्लेन हस्तावापं च पञ्चभिः ॥ ७.१६३.२८ ॥
Then, O king, Sātyaki in battle cut Somadatta's bow with one bhalla and his arm-guard with five arrows.
7.163.29
ततश्चतुर्भिश्च शरैस्तूर्णं तांस्तुरगोत्तमान् ।
समीपं प्रेषयामास प्रेतराजस्य भारत ॥ ७.१६३.२९ ॥
Then with four arrows he swiftly sent those excellent horses to the presence of Yama, king of the dead, O Bhārata.
7.163.30
सारथेश्च शिरः कायाद्भल्लेन नतपर्वणा ।
जहार नरशार्दूलः प्रहसञ्छिनिपुङ्गवः ॥ ७.१६३.३० ॥
And the tiger among men, bull of the Śinis, laughing, struck off the charioteer's head from his body with a bent-jointed bhalla.
7.163.31
ततः शरं महाघोरं ज्वलन्तमिव पावकम् ।
मुमोच सात्वतो राजन्स्वर्णपुङ्गं शिलाशितम् ॥ ७.१६३.३१ ॥
Then, O king, Sātyaki released a most terrible arrow, blazing like fire, gold-feathered and whetted on stone.
7.163.32
स विमुक्तो बलवता शैनेयेन शरोत्तमः ।
घोरस्तस्योरसि विभो निपपाताशु भारत ॥ ७.१६३.३२ ॥
That excellent and terrible arrow, released by the mighty Śaineya, O mighty one, O Bhārata, swiftly fell upon his chest.
7.163.33
सोऽतिविद्धो महाराज सात्वतेन महारथः ।
सोमदत्तो महाबाहुर्निपपात ममार च ॥ ७.१६३.३३ ॥
Sorely pierced by Sātvata, O great king, that great charioteer, mighty-armed Somadatta, fell and died.
7.163.34
तं दृष्ट्वा निहतं तत्र सोमदत्तं महारथाः ।
महता शरवर्षेण युयुधानमुपाद्रवन् ॥ ७.१६३.३४ ॥
Seeing Somadatta slain there, the great charioteers rushed at Yuyudhāna (Sātyaki) with a great shower of arrows.
7.163.35
छाद्यमानं शरैर्दृष्ट्वा युयुधानं युधिष्ठिरः ।
पाण्डवाश्च महाराज सह सर्वैः प्रभद्रकैः।
महत्या सेनया सार्धं द्रोणानीकमुपाद्रवन् ॥ ७.१६३.३५ ॥
Seeing Yuyudhāna covered with arrows, Yudhiṣṭhira and the Pāṇḍavas, O great king, together with all the Prabhadrakas and a great army, rushed at Droṇa's army.
7.163.36
ततो युधिष्ठिरः क्रुद्धस्तावकानां महाबलम् ।
शरैर्विद्रावयामास भारद्वाजस्य पश्यतः ॥ ७.१६३.३६ ॥
Then Yudhiṣṭhira, enraged, put your mighty army to flight with arrows while Bharadvāja's son (Droṇa) looked on.
7.163.37
सैन्यानि द्रावयन्तं तु द्रोणो दृष्ट्वा युधिष्ठिरम् ।
अभिदुद्राव वेगेन क्रोधसंरक्तलोचनः ॥ ७.१६३.३७ ॥
Seeing Yudhiṣṭhira routing the armies, Droṇa, his eyes reddened with anger, rushed at him with speed.
7.163.38
ततः सुनिशितैर्बाणैः पार्थं विव्याध सप्तभिः ।
युधिष्ठिरोऽपि सङ्क्रुद्धः प्रतिविव्याध पञ्चभिः ॥ ७.१६३.३८ ॥
Then with very sharp arrows he pierced Pārtha with seven. Yudhiṣṭhira, also enraged, pierced him in return with five.
7.163.39
सोऽतिविद्धो महाबाहुः सृक्विणी परिसंलिहन् ।
युधिष्ठिरस्य चिच्छेद ध्वजं कार्मुकमेव च ॥ ७.१६३.३९ ॥
Grievously wounded, the mighty-armed one, licking the corners of his mouth, cut off Yudhiṣṭhira's banner and bow.
7.163.40
स च्छिन्नधन्वा त्वरितस्त्वराकाले नृपोत्तमः ।
अन्यदादत्त वेगेन कार्मुकं समरे दृढम् ॥ ७.१६३.४० ॥
With his bow cut, that best of kings swiftly, in that moment of haste, quickly seized another strong bow in battle.
7.163.41
ततः शरसहस्रेण द्रोणं विव्याध पार्थिवः ।
साश्वसूतध्वजरथं तदद्भुतमिवाभवत् ॥ ७.१६३.४१ ॥
Then the king pierced Droṇa with a thousand arrows, and his chariot, with its horses, charioteer and banner, became as if wondrous.
7.163.42
ततो मुहूर्तं व्यथितः शरपातप्रपीडितः ।
निषसाद रथोपस्थे द्रोणो भरतसत्तम ॥ ७.१६३.४२ ॥
Then Droṇa, distressed for a moment and afflicted by the rain of arrows, sat down on the floor of the chariot, best of the Bharatas.
7.163.43
प्रतिलभ्य ततः संज्ञां मुहूर्ताद्द्विजसत्तमः ।
क्रोधेन महताऽऽविष्टो वायव्यास्त्रमवासृजत् ॥ ७.१६३.४३ ॥
Then, regaining consciousness after a moment, Droṇa, best of the twice-born, filled with great anger, discharged the Vāyavya weapon.
7.163.44
असम्भ्रान्तस्ततः पार्थो वायव्येनैव वीर्यवान् ।
तदस्त्रमस्त्रेण रणे स्तम्भयामास भारत ॥ ७.१६३.४४ ॥
Then the undisturbed and mighty Pārtha, with the Vāyavya weapon itself, checked that weapon with a weapon in battle, O Bhārata.
7.163.45
चिच्छेद च धनुर्दीर्घं ब्राह्मणस्य च पाण्डवः ।
ततोऽन्यद्धनुरादत्त द्रोणः क्षत्रियमर्दनः।
तदप्यस्य शितैर्भल्लैश्चिच्छेद कुरुपुङ्गवः ॥ ७.१६३.४५ ॥
The Pāṇḍava cut the long bow of the brahmin; then Droṇa, crusher of kṣatriyas, took up another bow, and the bull of the Kurus cut that too with his sharp bhalla arrows.
7.163.46
ततोऽब्रवीद्वासुदेवः कुन्तीपुत्रं युधिष्ठिरम् ॥ ७.१६३.४६ ॥
Then Vāsudeva spoke to Yudhiṣṭhira, son of Kuntī.
7.163.47
युधिष्ठिर महाबाहो यत्त्वां वक्ष्यामि तच्छ्रणु ।
उपारमस्व युद्धे त्वं द्रोणाद्भरतसत्तम ॥ ७.१६३.४७ ॥
O Yudhiṣṭhira, mighty-armed one, listen to what I shall tell you. Best of the Bharatas, withdraw from battle with Droṇa.
7.163.48
यतते हि सदा द्रोणो ग्रहणे तव संयुगे ।
नानुरूपमहं मन्ये युद्धमस्य त्वया सह ॥ ७.१६३.४८ ॥
Droṇa always strives in battle to seize you; I do not think a fight with him is fitting for you.
7.163.49
योऽस्य सृष्टो विनाशाय स एवैनं हनिष्यति ।
परिवर्ज्य गुरुं याहि यत्र राजा सुयोधनः ॥ ७.१६३.४९ ॥
He who has been sent for his destruction will himself slay him. Leaving the teacher aside, go to where King Suyodhana is.
7.163.50
राजा राज्ञा हि योद्धव्यो नाराज्ञा युद्धमिष्यते ।
तत्र त्वं गच्छ कौन्तेय हस्त्यश्वरथसंवृतः ॥ ७.१६३.५० ॥
A king must be fought by a king; war is not desired with one who is not a king. There, son of Kuntī, go surrounded by elephants, horses and chariots.
7.163.51
यावन्मात्रेण च मया सहायेन धनञ्जयः ।
भीमश्च रथशार्दूलो युध्यते कौरवैः सह ॥ ७.१६३.५१ ॥
With only as much help as I can give, Dhanañjaya and Bhīma, the tiger among chariot-warriors, are fighting the Kauravas.
7.163.52
वासुदेववचः श्रुत्वा धर्मराजो युधिष्ठिरः ।
मुहूर्तं चिन्तयित्वा तु ततो दारुणमाहवम् ॥ ७.१६३.५२ ॥
Having heard the words of Vāsudeva, Dharma-king Yudhiṣṭhira reflected for a moment; then, concerning that dreadful battle…
7.163.53
प्रायाद्द्रुतममित्रघ्नो यत्र भीमो व्यवस्थितः ।
विनिघ्नंस्तावकान्योधान्व्यादितास्य इवान्तकः ॥ ७.१६३.५३ ॥
The slayer of foes went swiftly to where Bhīma stood, slaying your warriors, like Death with open mouth.
7.163.54
रथघोषेण महता नादयन्वसुधातलम् ।
पर्जन्य इव धर्मान्ते नादयन्वै दिशो दश।
भीमस्य निघ्नतः शत्रून्पार्ष्णिं जाग्रह पाण्डवः ॥ ७.१६३.५४ ॥
Filling the surface of the earth with the great rumble of chariots, resounding the ten directions like a rain-cloud at season's end, the Pāṇḍava guarded the flank of Bhīma as he slew the foes.
7.163.55
द्रोणोऽपि पाण्डुपाञ्चालान्व्यधमद्रजनीमुखे ।
नादयंस्तलघोषेण तव सैन्यानि मारिष ॥ ७.१६३.५५ ॥
Droṇa too crushed the Pāṇḍavas and the Pāñcālas at the onset of night, making your armies resound with the sound of his palm-strike, O sire.