摩诃婆罗多 · 章 7.164
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.164.1
वर्तमाने यथा यद्धे घोररूपे भयावहे ।
तमसा संवृते लोके रजसा च महीपते ॥ ७.१६४.१ ॥
大地之主啊,当那场可怖而令人恐惧的战斗正在进行时,世界被黑暗与尘土所笼罩。
7.164.2
नापश्यन्त रणे योधाः परस्परमवस्थिताः ।
अनुमानेन संज्ञाभिर्युद्धं तद्ववृधे महत् ॥ ७.१६४.२ ॥
战场上站立的勇士彼此看不见,只能凭猜测和暗号辨认;那场大战愈演愈烈。
7.164.3
नरनागाश्वमथनं परमं रोमहर्षणम् ।
द्रोणकर्णकृपा वीरा भीमपार्षतसात्यकाः।
अन्योन्यं क्षोभयामासुः सैन्यानि नृपसत्तम ॥ ७.१६४.३ ॥
人、象、马被践踏杀戮,那场极为骇人的战斗发生了;德罗纳、迦尔纳、克利巴、怖军、般遮罗之子与萨谛奇等英雄彼此搅乱对方的军队。诸王之中最杰出者啊。
7.164.4
वध्यमानानि सैन्यानि समन्तात्तैर्महारथैः ।
तमसा संवृते चैव समन्ताद्विप्रदुद्रुवुः ॥ ७.१६४.४ ॥
那些大车将所杀的军队,四面被杀,又被黑暗笼罩,纷纷向四面八方逃散。
7.164.5
ते सर्वतो विद्रवन्तो योधा विध्वस्तचेतनाः ।
अहन्यन्त महाराज धावमानाश्च संयुगे ॥ ७.१६४.५ ॥
那些士兵四处奔逃,心神已乱,大王啊,他们在战场上奔跑之时便被杀死。
7.164.6
महारथसहस्राणि जघ्नुरन्योन्यमाहवे ।
अन्ये तमसि मूढानि पुत्रस्य तव मन्त्रिते ॥ ७.१६४.६ ॥
成千上万的大车武士在战斗中相互攻击;其他人在黑暗中迷乱,按照你儿子的谋划而行。
7.164.7
ततः सर्वाणि सैन्यानि सेनागोपाश्च भारत ।
व्यमुह्यन्त रणे तत्र तमसा संवृते सति ॥ ७.१६४.७ ॥
那时,婆罗多啊,在那场战斗中,当一切都被黑暗笼罩时,所有军队和军队的守卫都陷入了迷乱。
7.164.8
तेषां संलोड्यमानानां पाण्डवैर्विहतौजसाम् ।
अन्धे तमसि मग्नानामासीत्किं वो मनस्तदा ॥ ७.१६४.८ ॥
当他们被般度之子逼迫、力量衰竭、沉没于盲目的黑暗之中时,你们的心境如何?
7.164.9
कथं प्रकाशस्तेषां वा मम सैन्यस्य वा पुनः ।
बभूव लोके तमसा तथा सञ्जय संवृते ॥ ७.१६४.९ ॥
桑讷耶啊,当世界如此被黑暗笼罩时,他们或我的军队又是如何重见光明的?
7.164.10
ततः सर्वाणि सैन्यानि हतशिष्टानि यानि वै ।
सेनागोप्तॄनथादिश्य पुनर्व्यूहमकल्पयत् ॥ ७.१६४.१० ॥
那时,所有在杀戮中幸存的军队,向军队的守卫下达命令后,又重新布下了阵势。
7.164.11
द्रोणः पुरस्ताज्जघने तु शल्य… ।
स्तथा द्रौणिः कृतवर्मा सौबलश्च।
स्वयं तु सर्वाणि बलानि राज… ।
न्राजाऽभ्ययाद्गोपयन्वै निशायाम् ॥ ७.१६४.११ ॥
德罗纳在前,沙利耶在后;德罗尼(阿湿婆塘)、克里塔瓦尔曼和萨乌巴拉(沙恭尼)也如此。国王亲自在夜间前进,保护着全部军队……
7.164.12
उवाच सर्वांश्च पदातिसङ्घा… ।
न्दुर्योधनः पार्थिवसान्त्वपूर्वम्।
उत्सृज्य सर्वे परमायुधानि ।
गृह्णीत हस्तैर्ज्वलितान्प्रदीपान् ॥ ७.१६४.१२ ॥
难敌先以王者的安慰之语,对所有步兵部队说道……让所有人放下精良的武器,手中持起燃烧的灯火。
7.164.13
ते चोदिताः पार्थिवसत्तमेन ।
ततः प्रहृष्टा जगृहुः प्रदीपान् ॥ ७.१६४.१३ ॥
在诸王中最优者的催促下,他们欣喜地拿起了灯。
7.164.14
देवर्षिगन्धर्वसुरर्षिसङ्घा ।
विद्याधराश्चाप्सरसां गणाश्च।
नागाः सयक्षोरगकिन्नराश्च ।
हृष्टा दिविस्था जगृहुः प्रदीपान् ॥ ७.१६४.१४ ॥
神、仙人、乾闼婆与天仙众,持明者,阿普萨罗斯群,龙、夜叉、蛇神与紧那罗,欣喜地站在天空中拿起了灯。
7.164.15
दिग्धैर्वतेभ्यश्च समापतन्तो… ।
ऽदृश्यन्त दीपाः ससुगन्धितैलाः।
विशेषतो नारदपर्वताभ्यां ।
सम्बोध्यमानाः कुरुपाण्डवार्थम् ॥ ७.१६४.१५ ॥
从灯芯上滴落……灯盏显现出来,以上好香油点燃,尤其是当那罗陀与波尔瓦塔为俱卢与般度的利益而召请之时。
7.164.16
सा भूय एव ध्वजिनी विभक्ता ।
व्यरोचताग्निप्रभया निशायाम्।
महाधनैराभरणैश्च दिव्यैः ।
शस्त्रैश्च दीप्तैरपि सम्पतद्भिः ॥ ७.१६४.१६ ॥
那支军队再次被分开,在夜里被火光照耀;大财富、天界饰物以及一同坠落的闪耀兵器。
7.164.17
रथेरथे पञ्च विदीपकास्तु ।
प्रदीपकास्तत्र गजे त्रयश्च।
प्रत्यश्वमेकश्च महाप्रदीपः ।
कृतास्तु तैः पाण्डवैः कौरवेयैः ॥ ७.१६४.१७ ॥
每辆战车上有五盏灯,象上三盏,每匹马配一盏大灯;这是般度与俱卢两方所做的。
7.164.18
क्षणेन सर्वे विहिताः प्रदीपा ।
व्यादीपयन्तो ध्वजिनीं तवासु ॥ ७.१६४.१८ ॥
顷刻之间,所有灯盏都已布置妥当,照亮了你的军队。
7.164.19
सर्वास्तु सेना व्यतिसेव्यमानाः ।
पदातिभिः पावकतैलहस्तैः।
प्रकाश्यमाना ददृशुर्निशायां ।
यथान्तरिक्षे जलदास्तडिद्भिः ॥ ७.१६४.१९ ॥
夜里,所有军队在手持火与油的步兵推动下被照亮,看去如同天空中被闪电照亮的云层。
7.164.20
प्रकाशितायां तु ततो ध्वजिन्यां ।
द्रोणोऽग्निकल्पः प्रतपन्सपत्नान्।
रराज राजेन्दर सुवर्णवर्मा ।
मध्यं गतः सूर्य इवांशुमाली ॥ ७.१६४.२० ॥
此时军队被照亮,德罗纳如火一般焚烧敌人,啊,王中之王,身披金甲,光芒耀眼,如同正午的光线四射的太阳。
7.164.21
जाम्बूनदेष्वाभरणेषु चैव ।
निष्केषु शुद्धेषु शरासनेषु।
पीतेषु शस्त्रेषु च पावकस्य ।
प्रतिप्रभास्तत्र तदा बभूवुः ॥ ७.१६४.२१ ॥
那时,在赡部那金的饰物、纯金的金片、弓上、镀金的兵器以及火中,都映出了反射的光芒。
7.164.22
गदाश्च शैक्याः परिघाश्च शुभ्रा ।
रथेषु शक्त्यश्च विवर्तमानाः।
प्रतिप्रभारश्मिभिराजमीढ ।
पुनःपुनः सञ्जनयन्ति दीपान् ॥ ७.१६४.२२ ॥
钢制的狼牙棒、明亮的铁杵,以及在战车上旋转的长矛,啊,阿贾米达的后裔,以其反射的光线一次又一次地发出如灯一般的光芒。
7.164.23
छत्राणि वालव्यजनानि खङ्गा ।
दीप्ता महोल्काश्च तथैव राजन्।
व्याघूर्णमानाश्च सुवर्णमाला ।
व्यायच्छतां तत्र तदा विरेजुः ॥ ७.१६४.२३ ॥
啊,国王,伞盖、牦牛尾拂尘、宝剑、熊熊燃烧的大火炬,以及摇摆的金色花环,在举着它们的人手中,那时在那里闪耀。
7.164.24
शस्त्रप्रभाभिश्च विराजमानं ।
दीपप्रभाभिश्च तदा बलं तत्।
प्रकाशितं चाभरणप्रभाभि… ।
र्भृशं प्रकाशं नृपते बभूव ॥ ७.१६४.२४ ॥
那支军队在兵器的光芒与灯火的光辉中闪耀;又被饰物的光彩所照亮,大王啊,变得异常明亮。
7.164.25
पीतानि शस्त्राण्यसृगुक्षितानि ।
वीरावधूतानि तनुच्छदानि।
दीप्तां प्रभां प्राजनयन्त तत्र ।
तपात्यये विद्युदिवान्तरिक्षे ॥ ७.१६४.२५ ॥
那些沾满鲜血、被英雄挥舞的金黄色兵器与铠甲,在那里放出炽烈的光芒,如同盛夏尽头天空中的闪电。
7.164.26
प्रकम्पितानामभिधातवेगै… ।
रभिघ्नतां चापततां जवेन।
वक्राण्यकाशन्त तदा नराणां ।
वाय्वीरितानीव महाम्बुजानि ॥ ७.१६४.२६ ॥
那些因打击之力而颤抖者、施击者以及迅速倒下者的弯曲身躯,此时闪耀如被风吹动的巨大莲花。
7.164.27
महावने दारुमये प्रदीप्ते ।
यथा प्रभा भास्करस्यापि नश्येत्।
तथा तदाऽऽसीद्वजिनी प्रदीप्ता ।
महाभया भारत भीमरूपा ॥ ७.१६४.२७ ॥
就像巨大的木材森林燃烧起来,连太阳的光芒也会黯淡,那时那支军队也燃烧起来,婆罗多啊,极为可怖,形貌骇人。
7.164.28
तत्संप्रदीप्तां बलमस्मदीयं ।
निशाम्य पार्थास्त्वरितास्तथैव।
सर्वेषु सैन्येषु पदातिसङ्घा… ।
नचोदयंस्तेऽपि चक्रुः प्रदीपान् ॥ ७.१६४.२८ ॥
看到我方那支熊熊燃烧的军队,普利塔之子们也急忙,其他各军的步兵群也……他们也点起了灯火。
7.164.29
गजेगजे सप्त कृपाः प्रदीपा ।
रथेरथे चैव दश प्रदीपाः।
द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये ।
ध्वजेषु चान्ये जघनेषु चान्ये ॥ ७.१६४.२९ ॥
每头象七盏灯,每辆战车十盏灯;两盏在马背上,其他在四周两侧,其他在旗幡上,还有的在后方。
7.164.30
सेनासु सर्वासु च पार्श्वतोऽन्ये ।
पश्चात्पुरस्ताच्च समन्ततश्च।
मध्ये तथाऽन्ये ज्वलिताग्निहस्ता ।
व्यदीपयन्पाण्डुसुतस्य सेनाम् ॥ ७.१६४.३० ॥
在所有军队中,有人在两侧,有人在后方、前方和四周,还有人在中间,手持燃烧的火把,照亮了般度之子的军队。
7.164.31
मध्ये तथाऽन्ये ज्वलिताग्निहस्ताः ।
सेनाद्वयेऽपि स्म नरा विचेरुः ॥ ७.१६४.३१ ॥
中间也有其他人手持燃烧的火把;两军之中的人都在来回走动。
7.164.32
सर्वेषु सैन्येषु पदातिसङ्घा ।
विमिश्रिता हस्तिरथाश्वबृन्दैः।
व्यदीपयंस्ते ध्वजिनीं प्रदीप्ता… ।
स्तथा बलं पाण्डवेयाभिगुप्तम् ॥ ७.१६४.३२ ॥
在所有军队中,步兵的队伍与象群、战车、骑兵混杂,用燃烧的火把照亮了军队;般度之子守护的军队也是如此。
7.164.33
तेन प्रदीप्तेन तथा प्रदीप्तं… ।
बलं तवासीद्बलवद्बलेन।
भाः कुर्वता भानुमता ग्रहेण ।
दिवाकरेणाग्निरिवाभिगुप्तः ॥ ७.१६४.३३ ॥
借着那燃烧的光芒,你的军队变得强盛而光亮,犹如火得到光耀的太阳的守护。
7.164.34
तयोः प्रभाः पृथिवीमन्तरिक्षं ।
सर्वा व्यतिक्रम्य दिशश्च वृद्धाः।
तेन प्रकाशेन भृशं प्रकाशं ।
बभूव तेषां तव चैव सैन्यम् ॥ ७.१६४.३४ ॥
二人的光芒越过大地、天空与四方而扩展开来。借着这光亮,你的军队与他们的军队都被照得十分明亮。
7.164.35
तेन प्रकाशेन दिवं गतेन ।
सम्बोधिता देवगणाश्च राजन्।
गन्धर्वयक्षासुरसिद्धसङ्घाः ।
समागमन्नप्सरसश्च सर्वाः ॥ ७.१६४.३५ ॥
那光芒升入天空时,大王啊,诸神之众被惊动了。乾达婆、夜叉、阿修罗、悉陀的群体以及所有阿普萨拉斯都聚集到了那里。
7.164.36
तद्देवगन्धर्वसमाकुलं च ।
यक्षासुरेन्द्राप्सरसां गणैश्च।
हतैश्च शूरैर्दिवमारुहद्भि… ।
रायोधनं दिव्यकल्पं बभूव ॥ ७.१६४.३६ ॥
那片战场挤满了诸神与乾达婆,又充满了夜叉、阿修罗、因陀罗与阿普萨拉斯的群体;阵亡的英雄升向天界之时,它便如同神圣的天界一般。
7.164.37
रथाश्वनागाकुलदीपदीप्तं ।
संरब्धयोधं हतविद्रुताश्वम्।
महद्बलं व्यूढरथाश्वनागं ।
सुरासुरव्यूहसमं बभूव ॥ ७.१६४.३७ ॥
战车、战马与象群之中灯火辉映,充满愤怒的战士,马匹有死者也有奔逃者。那支庞大的军队,战车、战马与战象排列成阵,如同诸神与阿修罗的阵列。
7.164.38
तच्छक्तिसङ्घाकुलचण्डवातं ।
महारथाभ्रं गजवाजिघोषम्।
शस्त्रौगवर्षं रुधिराम्बुधारं ।
निशि प्रवृत्तं रथदुर्दिनं तत् ॥ ७.१६४.३८ ॥
狂风呼啸,满是成束的长矛;大战车武士如云;象与马的嘶吼声震天;兵器如雨倾泻,血流如水。那一场战车的风暴之日,在夜间开始了。
7.164.39
तस्मिन्महाग्निप्रतिमो महात्मा ।
सन्तापंयन्पाण्डवान्विप्रमुख्यः।
गभस्तिभिर्मध्यगतो यथाऽर्को ।
वर्षात्यये तद्वदभून्नरेन्द्र ॥ ७.१६४.३९ ॥
在那场战斗中,这位如大火般的大德,婆罗门中的至尊,折磨般度之子,如同雨季结束时,居于光芒之中的太阳,啊,人主。