摩诃婆罗多 · 章 7.169
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.169.1
शतानीकं शरैस्तूर्णं निर्दहन्तं चमूं तव ।
चित्रसेनस्तव सुतो वारयामास भारत ॥ ७.१६९.१ ॥
桑闍耶说:婆罗多啊,你的儿子奇特森迅速阻挡了以箭焚烧你军队的舍塔尼迦。
7.169.2
नाकुलिश्चित्रसेनं तु विद्ध्वा पञ्चभिराशुगैः ।
स तु तं प्रतिविव्याध दशभिर्निशितैः शरैः ॥ ७.१६९.२ ॥
桑闍耶说:无拘立以五支迅疾之箭射中奇特森,而他又以十支利箭还射之。
7.169.3
चित्रसेनो महाराज शतानीकं पुनर्युधि ।
नवभिर्निशितैर्बाणैराजघान स्तनान्तरे ॥ ७.१६९.३ ॥
桑闍耶说:大王啊,奇特森在战斗中又以九支利箭射中舍塔尼迦的胸膛正中。
7.169.4
नाकुलिस्तस्य विशिखैर्वर्म सन्नतपर्वभिः ।
गात्रात्सञ्चावयामास तदद्भुतमिवाभवत् ॥ ७.१६९.४ ॥
桑闍耶说:无拘立以其箭(箭杆有弯曲的节)使其铠甲从身上滑落;这仿佛是一件奇异之事。
7.169.5
सोपेतवर्मा पुत्रस्ते विरराज भृशं नृप ।
उत्सृज्य काले राजेन्द्र निर्मोकमिव पन्नगः ॥ ७.१६९.५ ॥
桑闍耶说:你的儿子铠甲脱落后,大放光彩,大王啊,如同蛇于时节蜕去旧皮。
7.169.6
ततोऽस्य निशितैर्बाणैर्ध्वजं चिच्छेद नाकुलिः ।
धनुश्चैव महाराज यतमानस्य संयुगे ॥ ७.१६९.६ ॥
桑闍耶说:于是无拘立以利箭斩断其旗帜,大王啊,也断其弓——当时他正在战斗中奋力。
7.169.7
स च्छिन्नधन्वा समरे विवर्मा च महारथः ।
धनुरन्यन्महाराज जग्राहारिविदारणम् ॥ ७.१६९.७ ॥
那位弓已断、无甲的大车战士,大王啊,在战场上拿起了另一张能劈开敌人的弓。
7.169.8
ततस्तूर्णं चित्रसेनो नाकुलिं नवभिः शरैः ।
विव्याध समरे क्रुद्धो भरतानां महारथः ॥ ७.१६९.८ ॥
于是,婆罗多族的大车战士奇多罗塞那愤怒地在战场上以九支箭迅速射穿了那卡库拉之子。
7.169.9
शतानीकोऽथ सङ्क्रुद्धश्चित्रसेनस्य मारिष ।
जघान चतुरो वाहान्सारथिं च नरोत्तमः ॥ ७.१६९.९ ॥
于是,人中之最的舍塔尼迦大怒,尊者啊,击杀了奇多罗塞那的四匹马和御者。
7.169.10
अवप्लुत्य रथात्तस्माच्चित्रसेनो महारथः ।
नाकुलिं पञ्चविंशत्या शराणामार्दयद्बली ॥ ७.१६९.१० ॥
奇多罗塞那这位强大的大车战士从车上跳下,以二十五支箭折磨那卡库拉之子。
7.169.11
तस्य तत्कुर्वतः कर्म नकुलस्य सुतो रणे ।
अर्धचन्द्रेण चिच्छेद चापं रत्नविभूषितम् ॥ ७.१६९.११ ॥
他正做那件事时,那卡库拉之子在战斗中以一支半月形箭斩断了他那镶嵌宝石的弓。
7.169.12
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ।
आरुरोह रथं तूर्णं हार्दिक्यस्य महात्मनः ॥ ७.१६९.१२ ॥
他弓已断,失去战车,马匹被杀,御者已死,便迅速登上了大心者哈尔迪基亚的战车。
7.169.13
द्रुपदं तु सहानीकं द्रोणप्रेप्सुं महारथम् ।
वृषसेनोऽभ्ययात्तूर्णं किरञ्शरशतैस्तदा ॥ ७.१६९.१३ ॥
此时,韦修塞纳迅速攻击与军队同在的德鲁波达,那位渴望得到德罗纳的大车手,并向他倾泻数百支箭。
7.169.14
यज्ञसेनस्तु समरे कर्णपुत्रं महारथम् ।
षष्ट्या शराणां विव्याध बाह्वोरुरसि चानघ ॥ ७.१६९.१४ ॥
但是,无罪者啊,在战斗中,祭祀生以六十支箭射穿了迦尔纳之子那位大车手的双臂和胸膛。
7.169.15
वृषसेनस्तु सङ्क्रुद्धो यज्ञसेनं रथे स्थितम् ।
बहुभिः सायकैस्तीक्ष्णैराजघान स्तनान्तरे ॥ ७.१६९.१५ ॥
然而,愤怒的韦修塞纳用许多锐利的箭射中站在车上的祭祀生的胸膛正中。
7.169.16
तावुभौ शरनुन्नाङ्गौ शरकण्टकितौ रणे ।
व्यभ्राजेतां महाराज श्वाविधौ शललैरिव ॥ ७.१६९.१६ ॥
大王啊,那二人身体被箭射穿,在战斗中布满箭矢,如同豪猪的刺一般闪耀。
7.169.17
रुक्मपुङ्खैः प्रसन्नाग्रैः शरैश्छिन्नतनुच्छदौ ।
रुधिरौघपरिक्लिन्नौ व्यभ्राजेतां महामृधे ॥ ७.१६९.१७ ॥
铠甲被带有金羽、锋尖明亮的箭射碎,浑身浸透血流,二人在那场大战中闪耀。
7.169.18
तपनीयनिभौ चित्रौ कल्पवृक्षाविवाद्भुतौ ।
किंशुकाविव चोत्फुल्लौ व्यकाशेतां रणाजिरे ॥ ७.१६९.१८ ॥
如同黄金般闪耀,奇妙而非凡,宛如如意树,又如盛开的金合欢树,二人在战场上光彩夺目。
7.169.19
वृषसेनस्ततो राजन्द्रुपदं नवभिः शरैः ।
विद्ध्वा विव्याध सप्तत्या पुनरन्यैस्त्रिभिस्त्रिभिः ॥ ७.१६९.१९ ॥
大王啊,于是毗呾舍那以九支箭射中德鲁帕达,又以七十支射之,再以其他各三支射之。
7.169.20
ततः शरसहस्राणि विमुञ्चन्विबभौ तदा ।
कर्णपुत्रो महाराज वर्षमाण इवाम्बुदः ॥ ७.१६९.२० ॥
那时,迦尔纳之子发射数千支箭,大王啊,他光芒四射,如同降雨的云。
7.169.21
द्रुपदस्तु ततः क्रुद्धो वृषसेनस्य कार्मुकम् ।
द्विधा चिच्छेद भल्लेन पीतेन निशितेन च ॥ ७.१६९.२१ ॥
然而德鲁帕达愤怒了,以一支金色锋利的婆罗箭将毗呾舍那的弓斩为两段。
7.169.22
सोऽन्यत्कार्मुकमादाय रुक्मबद्धं नवं दृढम् ।
तूणादाकृष्य विमलं भल्लं पीतं शितं दृढम् ॥ ७.१६९.२२ ॥
他拿起另一张新而坚固、镶金的弓,从箭囊中抽出一支洁净、金色、锋利而坚实的婆罗箭。
7.169.23
कार्मुके योजयित्वा तं द्रुपदं सन्निरीक्ष्य च ।
आकर्णपूर्णं मुमुचे त्रासयन्सर्वसोमकान् ॥ ७.१६९.२३ ॥
他将那支箭搭上弓,凝视德鲁帕达,拉至耳边射出,使所有索摩迦人恐惧。
7.169.24
हृदयं तस्य भित्त्वा च जगाम वसुधातलम् ।
कश्मलं प्राविशद्राजा वृषसेनशराहतः ॥ ७.१६९.२४ ॥
箭穿透他的心脏,没入大地;被毗呾舍那之箭射中的国王陷入昏厥。
7.169.25
सारथिस्तमपोवाह स्मरन्सारथिचेष्टितम् ।
तस्मिन्प्रभग्ने राजेन्द्र पाञ्चालानां महारथे ॥ ७.१६९.२५ ॥
御者带他离去,回想着御者的策略;大王啊,当般遮罗的那位大车将被击溃之时。
7.169.26
ततस्तु द्रुपदानीकं शरैश्छिन्नतनुच्छदम् ।
सम्प्राद्रवद्रणाद्राजन्निशीथे भैरवे सति ॥ ७.१६९.२६ ॥
于是德鲁帕达的军队被箭矢穿透铠甲,从战场逃散;大王啊,当可怖的夜晚降临之时。
7.169.27
प्रदीपैरपरित्यक्तैर्ज्वलद्भिस्तैः समन्ततः ।
व्यराजद्वसुधा तत्र वीताभ्रा द्यौरिव ग्रहैः ॥ ७.१६९.२७ ॥
那些四面燃烧、未被丢弃的火把,使那里的大地闪耀,如同无云的天空中群星闪烁。
7.169.28
तथाङ्गदैर्निपतितैर्व्यराजत वसुन्धरा ।
प्रावृट्काले महाराज विद्युद्भिरिव तोयदः ॥ ७.१६९.२८ ॥
同样,大地被落下的臂钏照亮,大王啊,正如雨季的云层中闪耀着闪电。
7.169.29
ततः कर्णसुतात्त्रस्ताः सोमका विप्रदुद्रुवुः ।
यथेन्द्रभयवित्रस्ता दानवास्तारकामये ॥ ७.१६९.२९ ॥
于是,被迦尔纳之子吓坏的苏摩迦人四散奔逃,正如达那婆在与塔拉卡的战斗中因因陀罗之惧而逃散。
7.169.30
तेनार्द्यमानाः समरे द्रवमाणाश्च सोमकाः ।
व्यराजन्त महाराज प्रदीपैरवभासिताः ॥ ७.१६९.३० ॥
苏摩迦人在战场上被他折磨,正在奔逃,大王啊,他们被火把照亮,闪闪发光。
7.169.31
तांस्तु निर्जित्य समरे कर्णपुत्रो व्यरोचत ।
मध्यन्दिनमनुप्राप्तो घर्मांशुरिव भारत ॥ ७.१६९.३१ ॥
在战场上击败他们之后,迦尔纳之子闪耀如同抵达正午的太阳,婆罗多啊。
7.169.32
तेषु राजसहस्रेषु तावकेषु परेषु च ।
एक एव ज्वलंस्तस्थौ वृषसेनः प्रतापवान्॥। ॥ ७.१६९.३२ ॥
在那数千位国王之中,无论是你方还是敌方,唯有威猛的伐栗沙那熊熊燃烧地独自屹立。
7.169.33
स विजित्य रणे शूरान्सोमकानां महारथान् ।
जगाम त्वरितस्तत्र यत्र राजा युधिष्ठिरः ॥ ७.१६९.३३ ॥
他在战场上击败了索摩迦的英勇大车武士后,急速前往国王坚战所在之处。
7.169.34
प्रतिविन्ध्यमथ क्रुद्धं प्रदहन्तं रणे रिपून् ।
दुःशासनस्तव सुतः प्रत्यगच्छन्महारथः ॥ ७.१६९.३४ ॥
于是你的儿子大车武士难敌弟杜降那向愤怒地在战场上焚烧敌人的普拉提文底亚迎面而上。
7.169.35
तयोः समागमो राजंश्चित्ररूपो बभूव ह ।
व्यपेतजलदे व्योम्नि बुधभास्करयोरिव ॥ ७.१६९.३५ ॥
国王啊,他们的相遇呈现出奇异的景象,如同无云的天空中水星与太阳相会。
7.169.36
प्रतिविन्ध्यं तु समरे कुर्वाणां कर्म दुष्करम् ।
अपूजयन्महाराज तव सैन्ये महारथाः।
दुःशासनस्त्रिभिर्बाणैर्ललाटे समविध्यत ॥ ७.१६९.३६ ॥
在战斗中,你军中的大车武士赞美了完成艰难功业的普拉提文底亚。大王啊,难敌弟杜降那用三支箭射中了他的额头。
7.169.37
सोऽतिविद्धो बलवता तव पुत्रेण धन्विना ।
विरराज महाबाहुः सशृङ्ग इव पर्वतः ॥ ७.१६९.३७ ॥
被你那勇猛的射手之子深深射中,那大臂英雄如同有山峰的大山般闪耀。
7.169.38
दुःशासनं तु समरे प्रतिविन्ध्यो महारथः ।
नवभिः सायकैर्विद्धा पुनर्विव्याध सप्तभिः ॥ ७.१६९.३८ ॥
然而在战斗中,大车将普拉提文地亚以九支箭射中了杜尚娑那,接着又以七支箭再次射击。
7.169.39
तत्र भारत पुत्रस्ते कृतवान्कर्म दुष्करम् ।
प्रतिविन्ध्यहयानुग्रैः पातयामास सायकैः ॥ ७.१६९.३९ ॥
婆罗多啊,你的儿子在那里完成了一件艰难的功绩:他以猛烈的箭射倒了普拉提文地亚的马。
7.169.40
सारथिं चास्य भल्लेन ध्वजं च समपातयत् ।
रथं च तिलशो राजन्व्यधमत्तस्य धन्विनः ॥ ७.१६९.४० ॥
他以一支薄刃箭射倒了那人的御者和旗帜,国王啊,又将那位射手的战车砸成如芝麻般的碎片。
7.169.41
पताकाश्च सतूणीरा रश्मीन्योक्राणि च प्रभो ।
चिच्छेद तिलशः क्रुद्धःशरैः सन्नतपर्वभिः ॥ ७.१६९.४१ ॥
主啊,他愤怒地以带弯节的箭将旗帜连同箭袋、缰绳和轭木切碎成片。
7.169.42
विरथः स तु धर्मात्मा धनुष्पाणिरवस्थितः ।
अयोधयत्तव सुतं किरञ्शरशतान्बहून् ॥ ७.१६९.४२ ॥
虽已失去战车,那位心地正直的战士仍手持弓站立,射出数百支箭,与你的儿子作战。
7.169.43
क्षुरप्रेण धनुस्तस्य चिच्छेद तनयस्तव ।
अथैनं दशभिर्बाणेश्छिन्नधन्वानमार्दयत् ॥ ७.१६९.४३ ॥
你的儿子用剃刀箭斩断了他的弓,然后用十支箭猛烈攻击这个失去弓的人。
7.169.44
तं दृष्ट्वा विरथं तत्र भ्रातरोऽस्य महारथाः ।
अन्ववर्तन्त सङ्ग्रामे महत्या सेनया सह ॥ ७.१६९.४४ ॥
看到他没有战车,他的众兄弟大战车武士率领大军在战场上追随他向前冲去。
7.169.45
आप्लुतः स ततो यानं सुतसोमस्य भास्वरम् ।
धनुर्गृह्य महाराज विव्याध तनयं तव ॥ ७.१६९.४५ ॥
然后他跃上苏塔索摩那辉煌的战车,拿起弓射伤了你的儿子,伟大的君王啊。
7.169.46
ततस्तु तावकाः सर्वे परिवार्य सुतं तव ।
अभ्यवर्तन्त वेगेन महत्या सेनया वृताः ॥ ७.१६९.४६ ॥
于是你的所有部下围住了你的儿子,被大军环绕着,迅速向前冲去。
7.169.47
ततः प्रववृते युद्धं तव तेषां च भारत ।
निशीथे दारुणे काले यमराष्ट्रविवर्धनम् ॥ ७.१६९.४७ ॥
然后,婆罗多啊,在可怕的午夜,你们与他们之间开始了一场使阎摩之国扩大的战斗。