Vedyatra वेदयात्रा
Search

Mahābhārata · Adhyāya 7.171

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

Read with meanings

7.171.1

तस्मिन्सुतुमुले युद्धे वर्तमाने भयावहे ।
धृष्टद्युम्नो महाराज द्रोणमेवाभ्यवर्तत ॥ ७.१७१.१ ॥

While that very tumultuous and terrifying battle was raging, great king, Dhṛṣṭadyumna advanced straight against Droṇa.

7.171.2

सन्दधानो धनुःश्रेष्ठं ज्यां विकुर्षन्पुनः पुनः ।
अभ्यद्रवत द्रोणस्य रथं रुक्मविभूषितम् ॥ ७.१७१.२ ॥

Fitting the finest bow with an arrow and drawing the bowstring again and again, he rushed at Droṇa's chariot, adorned with gold.

7.171.3

धृष्टद्युम्नमथायान्तं द्रोणस्यान्तचिकीर्षया ।
परिवव्रुर्महाराज पाञ्चालाः पाण्डवैः सह ॥ ७.१७१.३ ॥

Then, as Dhṛṣṭadyumna came on with the intent of bringing about Droṇa's end, great king, the Pāñcālas surrounded him together with the Pāṇḍavas.

7.171.4

तथा परिवृतं दृष्ट्वा द्रोणमाचार्यसत्तमम् ।
पुत्रास्ते सर्वतो यत्ता ररक्षुर्द्रोणमाहवे ॥ ७.१७१.४ ॥

Seeing the best of teachers, Droṇa, thus surrounded, your sons, alert on all sides, protected Droṇa in battle.

7.171.5

बलार्णवौ ततस्तौ तु समेयातां निशामुखे ।
गातोद्धूतौ क्षुब्धसत्वौ भैरवौ सागराविव ॥ ७.१७१.५ ॥

Then, at the onset of night, those two oceans of armies came together, stirred up and with agitated courage, like two terrible seas.

7.171.6

ततो द्रोणं महाराज पाञ्चाल्यः पञ्चभिः शरैः ।
विव्याध हृदये तूर्णं सिंहनादं ननाद च ॥ ७.१७१.६ ॥

Then, great king, the Pāñcāla prince swiftly pierced Droṇa in the chest with five arrows and let out a lion's roar.

7.171.7

तं द्रोणः पञ्चविंशत्या विद्धा भारत संयुगे ।
चिच्छेदान्येन भल्लेन धनुरस्य महास्वनम् ॥ ७.१७१.७ ॥

O Bhārata, in battle Droṇa pierced him with twenty-five arrows, and with another crescent-headed arrow cut his loud-twanging bow.

7.171.8

धृष्टद्युम्नस्तु निर्विद्धो द्रोणेन भरतर्षभ ।
उत्ससर्ज धनुस्तूर्णं सन्दश्य दशनच्छदम् ॥ ७.१७१.८ ॥

But Dhṛṣṭadyumna, pierced by Droṇa, O bull of the Bharatas, biting his lip, swiftly threw down his bow.

7.171.9

ततः क्रुद्धो महाराज धृष्टद्युम्नः प्रतापवान् ।
आददेऽन्यद्धनुःश्रेष्ठं द्रोणस्यान्तचिकीर्षया ॥ ७.१७१.९ ॥

Then, O great king, enraged and mighty Dhṛṣṭadyumna, desiring to bring Droṇa's end, took up another finest bow.

7.171.10

विकृष्य च धनुश्चित्रमाकर्णात्परवीरहा ।
द्रोणस्यानत्करं घोरं व्यसृजत्सायकं ततः ॥ ७.१७१.१० ॥

Then the slayer of foe heroes, drawing his wondrous bow to the ear, released at Droṇa a terrible arrow that could not be warded off.

7.171.11

स विसृष्टो बलवता शरो घोरो महामृधे ।
भासयामास तत्सैन्यं दिवाकर इवोदितः ॥ ७.१७१.११ ॥

That terrible arrow, released by the mighty one, lit up that army in the great battle like the risen sun.

7.171.12

तं तु दृष्ट्वा शरं घोरं देवगन्धर्वमानवाः ।
स्वस्त्यस्तु समरे राजन्द्रोणायेत्यब्रुवन्वचः ॥ ७.१७१.१२ ॥

O king, seeing that terrible arrow, gods, gandharvas and men spoke these words: 'May there be well-being for Droṇa in battle!'

7.171.13

तं तु सायकमायान्तमाचार्यस्य रथं प्रति ।
कर्णो द्वादशधआ राजंश्चिच्छेद कृतहस्तवत् ॥ ७.१७१.१३ ॥

Karṇa, like a skilled archer, cut that arrow coming toward the teacher's chariot into twelve pieces, O king.

7.171.14

स च्छिन्नो बहुधा राजन्सूतपुत्रेण धन्विना ।
निपपात शरस्तूर्णं निर्विषो भुजगो यथा ॥ ७.१७१.१४ ॥

That arrow, cut into many pieces by Karṇa, the charioteer's son, the archer, O king, fell swiftly like a serpent without venom.

7.171.15

छित्त्वा तु समरे बाणं शरैः सन्नतपर्वभिः ।
धृष्टद्युम्नं ततः कर्णो विव्याध दशभिः शरैः ॥ ७.१७१.१५ ॥

Having cut that arrow in battle, Karṇa then pierced Dhṛṣṭadyumna with ten arrows of bent joints.

7.171.16

पञ्चभिर्द्रोणपुत्रस्तु स्वयं द्रोणस्तु सप्तभिः ।
शल्यश्च दशभिर्बाणैस्त्रिभिर्दुःशासनस्तथा ॥ ७.१७१.१६ ॥

Drona's son with five arrows, Droṇa himself with seven, Śalya with ten arrows, and Duḥśāsana likewise with three.

7.171.17

दुर्योधनस्तु विंशत्या शकुनिश्चापि पञ्चभिः ।
पाञ्चाल्यं त्वरयाऽविध्यन्सर्व एव महारथाः ॥ ७.१७१.१७ ॥

Duryodhana with twenty arrows, Śakuni also with five, and all the great chariot-warriors swiftly pierced the Pāñcāla prince.

7.171.18

स विद्धः सप्तभिर्घोरैर्द्रोणस्यार्थे महाहवे ।
सर्वानसम्भ्रमाद्राज प्रत्यविद्ध्यत्त्रिभिस्त्रिभिः।
द्रोणं द्रौणिं च कर्णं च विव्याध च तवात्मजम् ॥ ७.१७१.१८ ॥

Pierced by seven terrible arrows in that great battle for Droṇa's sake, he, O king, without confusion pierced every one of them in return with three arrows each: he pierced Droṇa, Drauṇi, Karṇa, and your son as well.

7.171.19

ते भिन्ना धन्विना तेन धृष्टद्युम्नं पुनर्मृधे ।
विव्यधुः पञ्चभिस्तूर्णमेकैको रथिनां वरः ॥ ७.१७१.१९ ॥

Pierced by that archer, they again struck Dhṛṣṭadyumna in battle, swiftly, each with five arrows, each the best of chariot-warriors.

7.171.20

द्रुमसेनस्तु सङ्क्रुद्धो राजन्विव्याध पत्रिणा ।
त्रिभिश्चान्यैः शरैस्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् ॥ ७.१७१.२० ॥

But Drumasena, enraged, O king, swiftly pierced him with one arrow and then with three and others, and said, 'Stop, stop!'

7.171.21

स तु तं प्रतिविव्याध त्रिभिस्तीक्ष्णैरजिह्मगैः ।
स्वर्णपुङ्खैः शिलाधौतैः प्राणान्तकरमैर्युधि ॥ ७.१७१.२१ ॥

But he pierced him in return with three sharp, straight-flying, gold-feathered arrows, sharpened on stone, death-dealing in battle.

7.171.22

भल्लेनान्येन तु पुनः सुवर्णोज्ज्वलकुण्डलम् ।
निचकर्त शिरः कायाद्द्रुमसेनस्य वीर्यवान् ॥ ७.१७१.२२ ॥

Then the mighty one, with another crescent-headed arrow, cut off the head of Drumasena from his body, the head bright with golden earrings.

7.171.23

तच्छिरो न्यपतद्भूमौ सन्दष्टौष्ठपुटं रणे ।
महावातसमुद्धूतं पक्वं तालफलं यथा ॥ ७.१७१.२३ ॥

That head, its lips clenched with its teeth, fell to the ground in battle, like a ripe palm fruit shaken loose by a great wind.

7.171.24

तान्स विद्धा पुनर्योधान्वीरः सुनिशितैः शरैः ।
राधेयस्याच्छिनद्भल्लैः कार्मुकं चित्रयोधिनः ॥ ७.१७१.२४ ॥

Having pierced those warriors again with very sharp arrows, that hero cut with crescent-headed arrows the bow of the skilled archer of Karṇa, son of Rādhā.

7.171.25

न तु तन्ममृषे कर्णो धनुषश्छेदनं तथा ।
निकर्तनमिवात्युग्रं लाङ्गूलस्य महाहरिः ॥ ७.१७१.२५ ॥

But Karṇa did not endure the cutting of his bow thus, as a great lion does not endure the most fierce cutting of its tail.

7.171.26

सोऽन्यद्धनुः समादाय क्रोधरक्तेक्षणः श्वसन् ।
अभ्यद्रवच्छरौघैस्तं धृष्टद्युम्नं महाबलम् ॥ ७.१७१.२६ ॥

Taking up another bow, his eyes red with rage and breathing hard, he rushed at the mighty Dhṛṣṭadyumna with a volley of arrows.

7.171.27

दृष्ट्वा कर्णं तु संरब्धं ते वीराः षड्रथर्षभाः ।
पाञ्चाल्यपुत्रं त्वरिताः परिवव्रुर्जिघांसया ॥ ७.१७१.२७ ॥

Seeing Karṇa enraged, those six foremost charioteers swiftly surrounded the son of the Pañcāla king, desiring to kill him.

7.171.28

षण्णां योधप्रवीराणां तावकानां पुरस्कृतम् ।
मृत्योरास्यमनुप्राप्तं धृष्टद्युम्नमममंस्महि ॥ ७.१७१.२८ ॥

We considered Dhṛṣṭadyumna, set before by your six foremost warriors, to have reached the mouth of death.

7.171.29

पतस्मिन्नेव काले तु दाशार्हो विकिरञ्छरान् ।
धृष्टद्युम्नं पराक्रान्तं सात्यकिः प्रत्यपद्यत ॥ ७.१७१.२९ ॥

At that very moment, Sātyaki of the Dāśārha line, showering arrows, came to the aid of the valiant Dhṛṣṭadyumna.

7.171.30

तमायान्तं महेष्वासं सात्यकिं युद्धदुर्मदम् ।
राधेयो दशभिर्बाणैः प्रत्यविध्यदजिह्मगैः ॥ ७.१७१.३० ॥

Seeing Sātyaki, the great archer, proud in battle, approaching, Karṇa, son of Rādhā, pierced him in return with ten unswerving arrows.

7.171.31

तं सात्यकिर्महाराज विव्याध दशभिः शरैः ।
पश्यतां सर्ववीराणां मा गास्तिष्ठेति चाब्रवीत् ॥ ७.१७१.३१ ॥

Great king, Sātyaki pierced him with ten arrows, and while all the heroes watched, he said: 'Do not go; stand!'

7.171.32

स सात्यकेस्तु बलिनः कर्णस्य च महात्मनः ।
आसीत्समागमो राजन्बलिवासवयोरिव ॥ ७.१७१.३२ ॥

O king, that encounter of the mighty Sātyaki and the great-souled Karṇa was like the battle of Bali and Vāsava.

7.171.33

त्रासयन्रथघोषेण क्षत्रियान्क्षत्रियर्षभः ।
राजीवलोचनं कर्णं सात्यकिः प्रत्यविध्यत ॥ ७.१७१.३३ ॥

Sātyaki, the bull among warriors, terrifying the warriors with the thunder of his chariot, pierced Karṇa, the lotus-eyed.

7.171.34

कम्पयन्निव घोषेण धनुषो वसुधां बली ।
सूतपुत्रो महाराज सात्यकिं प्रत्ययोधयत् ॥ ७.१७१.३४ ॥

Great king, the mighty son of a charioteer, as if shaking the earth with the twang of his bow, fought against Sātyaki.

7.171.35

विपाठकर्णिनाराचैर्वत्सदन्तैः क्षुरैरपि ।
कर्णः शरशतैश्चापि शैनेयं प्रत्यनिद्व्यत ॥ ७.१७१.३५ ॥

Karṇa struck back at Śaineya with vipāṭha, karṇin and nārāca arrows, with calf-tooth and razor-headed arrows, and with hundreds of arrows.

7.171.36

तथैव युध्यमानोऽपि वृष्णीनां प्रवरो युधि ।
अभ्यवर्षच्छरैः कर्णं तद्युद्धमभवत्समम् ॥ ७.१७१.३६ ॥

Likewise, Sātyaki, foremost of the Vṛṣṇis, fighting in battle, showered arrows upon Karṇa, and that battle became an equal one.

7.171.37

तावकाश्च महाराज कर्णपुत्रश्च दंशितः ।
सात्यकिं विव्यधुस्तूर्ण समन्तान्निशितैः शरैः ॥ ७.१७१.३७ ॥

O great king, your men and the son of Karṇa, armored, swiftly pierced Sātyaki on all sides with sharp arrows.

7.171.38

अस्त्रैरस्त्राणि संवार्य तेषां कर्णस्य वा विभो ।
अविद्व्यत्सात्यकिः क्रुद्धो वृषसेनं स्तनान्तरे ॥ ७.१७१.३८ ॥

O lord, Sātyaki, enraged, warded off their weapons and Karṇa's with his own weapons, and pierced Vṛṣasena in the chest.

7.171.39

तेन बाणेन निर्विद्धो वृषसेनो विशाम्पते ।
न्यपतत्स रथे मूढो धनुरुत्सृज्य वीर्यवान् ॥ ७.१७१.३९ ॥

Pierced by that arrow, O lord of men, Vṛṣasena, though valiant, stunned, dropped his bow and fell down on his chariot.

7.171.40

ततः कर्णो हतं मत्वा वृषसेनं महारथम् ।
पुत्रशोकाभिसन्तप्तः सात्यकिं प्रत्यपीडयत् ॥ ७.१७१.४० ॥

Then Karṇa, tormented by grief for his son, thinking the great charioteer Vṛṣasena slain, pressed hard against Sātyaki.

7.171.41

पीड्यमानस्तु कर्णेन युयुधानो महारथः ।
विव्याध बहुभिः कर्णं त्वरमाणः पुनःपुनः ॥ ७.१७१.४१ ॥

But though pressed by Karṇa, the great charioteer Yuyudhāna hastily pierced Karṇa again and again with many arrows.

7.171.42

स कर्णं दशभिर्विद्ध्वा वृषसेनं च सप्तभिः ।
स हस्तावापधनुषी तयोश्चिच्छेद सात्वतः ॥ ७.१७१.४२ ॥

Having pierced Karṇa with ten arrows and Vṛṣasena with seven, the Sātvata Sātyaki cut the bows of both of them.

7.171.43

तावन्ये धनुषी सज्जे कृत्वा शत्रुभयङ्करे ।
युयुधानमाविध्येतां समन्तान्निशितैः शरैः ॥ ७.१७१.४३ ॥

Then those two others, having strung their bows that strike terror into enemies, pierced Yuyudhāna on all sides with sharp arrows.

7.171.44

वर्तमाने तु सङ्ग्रमे तस्मिन्वीरवरक्षये ।
अतीव शुश्रुवे राजन्गाण्डीवस्य महास्वनः ॥ ७.१७१.४४ ॥

And in that battle, in the destruction of the best of heroes, O king, the great sound of the Gāṇḍīva was heard exceedingly.

7.171.45

श्रुत्वा तु रथनिर्घोषं गाण्डीवस्य च निःस्वनम् ।
सूतपुत्रोऽब्रवीद्राजन्दुर्योधनमिदं वचः ॥ ७.१७१.४५ ॥

Hearing the roar of the chariot and the sound of the Gāṇḍīva, O king, the son of the charioteer (Karṇa) spoke these words to Duryodhana.

7.171.46

एष सर्वां चमूं हत्वा मुख्यांश्चैव नरर्षभान् ।
पौरवांश्च महेष्वासो विक्षिपन्नुत्तमं धनुः ॥ ७.१७१.४६ ॥

This great archer, having slain the entire army and the chief bulls among men and the Paurava warriors, is brandishing his excellent bow.

7.171.47

पार्थो विजयते तत्र गाण्डीवनिनदो महान् ।
श्रूयते रथघोषश्च वासवस्येव नर्दतः ॥ ७.१७१.४७ ॥

There Pārtha is winning; the great roar of the Gāṇḍīva and the rumble of the chariot are heard, like Vāsava thundering.

7.171.48

करोति पाण्डवो व्यक्तं कर्मौपयिकमात्मनः ।
एषा विदार्यते राजन्बहुधा भारती चमूः ॥ ७.१७१.४८ ॥

The Pāṇḍava is plainly doing the deed fitting for himself; this army of the Bhāratas, O king, is being torn apart in many ways.

7.171.49

विप्रकीर्णान्यनीकानि न हि तिष्ठन्ति कर्हिचित् ।
वातेनेव समुद्धूतमभ्रजालं विदीर्यते ॥ ७.१७१.४९ ॥

Scattered formations never hold together; like a net of clouds driven up by the wind, they are torn apart.

7.171.50

सव्यसाचिनमासाद्य भिन्ना नौरिव सागरे ॥ ७.१७१.५० ॥

Having met Savyasācin, they are scattered like a boat broken in the ocean.

7.171.51

द्रवतां योधमुख्यानां गाण्डीवप्रेषितैः शरैः ।
विद्धानां शतशो राजञ्श्रूयते निःस्वनो महान् ॥ ७.१७१.५१ ॥

O king, the great cry of chief warriors fleeing, pierced by hundreds of arrows sent from the Gāṇḍīva, is heard.

7.171.52

शृणु दुन्दुभिनिर्घोषमर्जुनस्य रथं प्रति ।
निशीथे राजशार्दूल स्तनयित्नोरिवाम्बरे ॥ ७.१७१.५२ ॥

Listen to the roar of drums toward Arjuna's chariot, O tiger among kings, like thunder in the sky at midnight.

7.171.53

हाहाकाररवांश्चैव सिंहनादांश्च पुष्कलान् ।
शृणु शब्दान्बहुविधानर्जुनस्य रथं प्रति ॥ ७.१७१.५३ ॥

Listen to the cries of alas and the abundant lion-roars, the many kinds of sounds rising toward Arjuna's chariot.

7.171.54

अयं मध्ये स्थितोऽस्माकं सात्यकिः सात्वतां वरः ।
इह चेल्लभ्यते लक्ष्यं कृत्स्नाञ्जेष्यामहे परान् ॥ ७.१७१.५४ ॥

Here, standing in the midst of our forces, is Sātyaki, the best of the Sātvatas; if the target is reached here, we shall conquer all our enemies.

7.171.55

एष पाञ्चालराजस्य पुत्रो द्रोणेन सङ्गतः ।
सर्वतः संवृतो योधैः शूरैश्च रथसत्तमैः ॥ ७.१७१.५५ ॥

This son of the king of the Pāñcālas, confronting Droṇa, is surrounded on all sides by warriors, heroes and the best of chariot-fighters.

7.171.56

सात्यकिं यदि हन्याम धृष्टद्युम्नं च पार्षतम् ।
असंशयं महाराज ध्रुवो नो विजयो भवेत् ॥ ७.१७१.५६ ॥

If we could slay Sātyaki and Dhṛṣṭadyumna, the son of Pṛṣata, then, great king, without doubt our victory would be certain.

7.171.57

सौभद्रवदिमौ वीरौ परिवार्य महारथौ ।
प्रयतायो महाराज निहन्तुं वृष्णिपार्षतौ ॥ ७.१७१.५७ ॥

Surrounding these two heroic great chariot-warriors, like the son of Subhadrā, strive, great king, to slay the Vṛṣṇi and the son of Pṛṣata.

7.171.58

सव्यसाची पुरोऽभ्येति द्रोणानीकाय भारत ।
संसक्तं सात्यकिं ज्ञात्वा बहुभिः कुरुपुङ्गवैः ॥ ७.१७१.५८ ॥

Bhārata, Savyasācī Arjuna advances toward Droṇa's army, knowing that Sātyaki is engaged by many bulls among the Kurus.

7.171.59

तत्र गच्छन्तु बहवः प्रवरा रथसत्तमाः ।
यावत्पार्थो न जानाति सात्यकिं बहुभिर्वृतम् ॥ ७.१७१.५९ ॥

Let many excellent best of chariot-fighters go there, before Pārtha (Arjuna) comes to know that Sātyaki is surrounded by many.

7.171.60

ते त्वरध्वं तथा शूराः शराणां मोक्षणे भृशम् ।
यथा त्विह व्रजत्येष परलोकाय माधवः।
तथा कुरु महाराज सुनीत्या सुप्रयुक्तया ॥ ७.१७१.६० ॥

Heroes, hasten greatly in releasing arrows, so that this Mādhava goes to the other world from right here. Great king, do so by good policy and well-employed strategy.

7.171.61

कर्णस्य मतमास्थाय पुत्रस्ते प्राह सौबलम् ।
यथेन्द्रः समरे राजन्प्राह विष्णुं यशस्विनम् ॥ ७.१७१.६१ ॥

Adopting Karṇa's counsel, your son spoke to Saubala, O king, as Indra once spoke to the glorious Viṣṇu in battle.

7.171.62

वृतः सहस्रैर्दशभिर्गजानामनिवर्तिनाम् ।
रथैश्च दशसाहस्रैस्तूर्णं याहि धनञ्जयम्। ॥ ७.१७१.६२ ॥

Surrounded by ten thousand elephants that never turn back, and ten thousand chariots, go quickly to Dhanañjaya.

7.171.63

दुःशासनो दुर्विषहः सुबाहुर्दुः प्रधर्षणः ।
एते त्वामनुयास्यन्ति पत्तिभिर्बहुभिर्वृताः ॥ ७.१७१.६३ ॥

Duḥśāsana, Durviṣaha and Subāhu, hard to overcome, surrounded by many foot soldiers, will follow you.

7.171.64

जहि कृष्णौ महाबाहो धर्मराजं च मातुल ।
नकुलं सहदेवं च भीमसेनं तथैव च ॥ ७.१७१.६४ ॥

Strike down the two Kṛṣṇas, O mighty-armed uncle, and Dharmarāja, and Nakula, Sahadeva and Bhīmasena as well.

7.171.65

देवानामिव देवेन्द्रे जयाशा त्वयि मे स्थिता ।
जहि मातुल कौन्तेयानसुरानिव पावकिः ॥ ७.१७१.६५ ॥

As the hope of victory of the gods rests in Indra, lord of the gods, so my hope of victory rests in you, uncle. Strike down the sons of Kuntī as Pāvaki struck down the demons.

7.171.66

एवमुक्तो ययौ पार्थान्पुत्रेण तव सौबलः ।
महत्या सेनया सार्धं सह पुत्रैश्च ते विभो ॥ ७.१७१.६६ ॥

Thus addressed by your son, Saubala went toward the sons of Pṛthā with a great army, together with your sons, O mighty lord.

7.171.67

प्रियार्थं तव पुत्राणां दिधक्षुः पाण्डुनन्दनान् ।
ततः प्रववृते युद्धं तावकानां परैः सह ॥ ७.१७१.६७ ॥

For the sake of your sons, desiring to burn the sons of Pāṇḍu, then a battle began between your people and the enemies.

7.171.68

प्रयाते सौबले राजन्पाण्डवानामनीकिनीम् ।
बलेन महता युक्ताः सूतपुत्रस्तु सात्वतम् ॥ ७.१७१.६८ ॥

When Saubala had gone away, O king, toward the army of the Pāṇḍavas, the son of the charioteer, endowed with great force, went against the Sātvata.

7.171.69

अभ्ययात्त्वरितो युद्धे किरञ्शरशतान्बहून् ।
तथैव पार्थिवाः सर्वे सात्यकिं पर्यवारयन् ॥ ७.१७१.६९ ॥

He advanced swiftly into battle, scattering hundreds upon hundreds of arrows; likewise all the kings surrounded Sātyaki.

7.171.70

भारद्वाजस्ततो गत्वा धृष्टद्युम्नरथं प्रति ।
महद्युद्धं तदासीत्तुं द्रोणस्य निशि भारत।
धृष्टद्युम्नेन वीरेण पाञ्चालैश्च सहाद्भुतम् ॥ ७.१७१.७० ॥

Then the son of Bharadvāja (Droṇa) went toward Dhṛṣṭadyumna's chariot. O Bhārata, that was a great battle of Droṇa at night, wondrous, with the hero Dhṛṣṭadyumna and with the Pāñcālas.