Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.173

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.173.1

विद्रुतं स्वबलं दृष्ट्वा वध्यमानं महात्मभिः ।
क्रोधेन महताऽविष्टः पुत्रस्तव विशाम्पते ॥ ७.१७३.१ ॥

你的儿子看到自己的军队被伟大的英雄们击溃和屠杀,人主啊,便被巨大的愤怒所笼罩。

7.173.2

अभ्येत्य सहसा कर्णं द्रोणं च जयतां वरम् ।
अमर्षवशमापन्नो वाक्यज्ञो वाक्यमब्रवीत् ॥ ७.१७३.२ ॥

他突然走近胜利者中最优秀的迦尔纳和德罗纳,善于言辞的他被愤慨所支配,说出了这些话。

7.173.3

भवद्ध्भामिह सङ्ग्रामः क्रुद्धाभ्यां सम्प्रवर्तितः ।
आहवे निहतं दृष्ट्वा सैन्धवं सव्यसाचिना ॥ ७.१७३.३ ॥

你们二人在愤怒中在此发动了这场战斗,因为看见信度王在战斗中被左手善射者所杀。

7.173.4

निहन्यमानां पाण्डूनां बलेन मम वाहिनीम् ।
भूत्वा तद्विजये शक्तावशक्ताविव पश्यतः ॥ ७.१७३.४ ॥

我的军队被般度之子们的力量所屠杀时,你们二人明明能够保证其胜利,却像无能为力一样旁观。

7.173.5

यद्यहं भवतोस्त्याज्यो न वाच्योऽस्मि तदैव हि ।
आवां पाण्डुसुतान्सङ्ख्ये जेष्याव इति मानदौ ॥ ७.१७३.५ ॥

若你们二人认为我是应当被抛弃、不必与之交谈的人,那么就这样吧;因为我们二人彼此尊重,将在战斗中战胜般度之子。

7.173.6

तदैवाहं वचः श्रुत्वा भवद्ध्यामनुसम्पतम् ।
नाकरिष्यमिदं पार्थैर्वैरं योधविनाशनम् ॥ ७.१७३.६ ॥

那时,我听了你们的话并重新来到你们身边,就不会与般度之子结下这毁灭武士的仇怨了。

7.173.7

यदि नाहं परित्याज्यो भवद्भ्यां पुरुषर्षभौ ।
युध्यतामनुरूपेण विक्रमेण सुविक्रमौ ॥ ७.१७३.७ ॥

人中雄牛啊,若你们二人不弃我,便以与战斗相称的勇力,啊,大勇者们。

7.173.8

वाक्प्रतोदेन तौ वीरौ प्रणुन्नौ तनयेन ते ।
प्रावर्तयेतां सङ्ग्रामं घट्टिताविव पन्नगौ ॥ ७.१७३.८ ॥

那两位英雄被你的儿子以言语之刺激励,便挑起了战斗,仿佛两条被触动的蛇。

7.173.9

ततस्तौ रथिनां श्रेष्ठौ सर्वलोकधनुर्धरौ ।
शैनेयप्रमुखान्पार्थानभिदुद्रुवत् रणे ॥ ७.१७३.९ ॥

于是那两位车战者中的最优者,诸世界的弓箭手,在战场上冲向以纯尼耶为首的般度之子。

7.173.10

तथैव सहिताः पार्थाः सर्वसैन्येन संवृताः ।
अभ्यवर्तन्त तौ वीरौ नर्दमानौ मुहुर्मुहुः ॥ ७.१७३.१० ॥

同样,聚集在一起、被全军环绕的般度之子们,朝着那两位反复怒吼的英雄进发。

7.173.11

अथ द्रोणो महेष्वासो दशभिः शिनिपुङ्गवम् ।
अविध्यत्त्वरितं क्रुद्धः सर्वशस्त्रभृतां वरः ॥ ७.१७३.११ ॥

于是大弓手德罗纳愤怒地迅速以十支箭射穿了持兵器者中最优秀的、希尼族的雄牛。

7.173.12

कर्णश्च दशभिर्बाणैः पुत्रश्च तव सप्तभिः ।
दशभिर्वृषसेनश्च सौबलश्चापि सप्तभिः।
एते कौरव सङ्क्रन्दे शैनेयं पर्यवाकिरन् ॥ ७.१७३.१२ ॥

迦尔纳以十箭,你的儿子以七箭,伐栗沙犀那以十箭,沙恭尼之子也以七箭,啊,俱卢子孙,他们在那喧嚣中从四面向纯尼耶倾下箭雨。

7.173.13

दृष्ट्वा च समरे द्रोणं निघ्नन्तं पाण्डवीं चमूम् ।
विव्यधुः सोमकास्तूर्णं समन्ताच्छरवृष्टिभिः ॥ ७.१७३.१३ ॥

在战场上,见德罗纳正在杀戮般度军队,索摩迦人迅速从四面八方以箭雨射向他。

7.173.14

तत्र द्रोणोऽहरत्प्राणान्क्षत्रियाणां विशाम्पते ।
रश्मिभिर्भास्करो राजंस्तमांसीव समन्ततः ॥ ७.१७३.१४ ॥

在那里,德罗纳夺去了刹帝利的生命,人主啊,正如太阳以光芒驱散四方的黑暗,大王。

7.173.15

द्रोणेन वध्यमानानां पाञ्चालानां विशाम्पते ।
शुश्रुवे तुमुलः शब्दः क्रोशतामितरेतरम् ॥ ७.१७३.१५ ॥

在德罗纳杀戮般遮罗人之时,人主啊,传来了他们互相呼喊的喧嚣巨响。

7.173.16

पुत्रानन्ये पितॄनन्ये भ्रातॄनन्ये च मातुलान् ।
भागिनेयान्वयस्यांश्च तथा सम्बन्धिबान्धवान्।
उत्सृज्योत्सृज्य गच्छन्ति त्वरिता जीवितेप्सवः ॥ ७.१७३.१६ ॥

有人抛下儿子,有人抛下父亲,有人抛下兄弟、舅父、外甥、同伴以及亲属和族人,急忙逃命而去。

7.173.17

अपरे मोहिता मोहात्तमेवाभिमुखा ययुः ।
पाण्डवानां रणे योधाः परलोकं गताः परे ॥ ७.१७३.१७ ॥

有人因迷惑而昏乱,径直迎向他而去;般度之子的一些战士则在战场上归于彼岸世界。

7.173.18

सा तथा पाण्वी सेना पीड्यमाना महात्मना ।
निशि सम्प्राद्रवद्राजन्नुत्सृज्योल्काः सहस्रशः ॥ ७.१७३.१८ ॥

般度的那支军队被这位伟大者如此逼迫,大王啊,在夜里丢下成千上万的火炬逃走了。

7.173.19

पश्यतो भीमसेनस्य विजयस्याच्युतस्य च ।
ययमोर्धर्मपुत्रस्य पार्षतस्य च पश्यतः ॥ ७.१७३.१९ ॥

当毗摩森那、胜者(阿周那)与不坏者(克里希那)注视着,当双子、法之子(坚战)与般遮罗之子(猛光)注视着。

7.173.20

तमसा संवृते लोके न प्राज्ञायत किञ्चन ।
कौरवाणां प्रकाशेन दृश्यन्ते विद्रुताः परे ॥ ७.१७३.२० ॥

世界被黑暗笼罩,什么都辨认不清;借着俱卢族的光亮,才看见敌人在逃窜。

7.173.21

द्रवमाणं तु तत्सैन्यं द्रोणकर्णौ महारथौ ।
जघ्नतुः पृष्ठतो राजन्किरन्तौ सायकान्बहून् ॥ ७.१७३.२१ ॥

大王啊!德罗纳与迦尔纳两位大车勇士,从后面射击那逃奔的军队,箭如雨下。

7.173.22

पाञ्चालेषु प्रभग्नेषु क्षीयमाणेषु सर्वतः ।
जनार्दनो दीनमानाः प्रत्यभाषत फल्गुनम् ॥ ७.१७३.२२ ॥

般遮罗军在四面被击溃、毁灭之时,心情沮丧的阇那陀那(克里希那)对般古那(阿周那)作答。

7.173.23

द्रोणकर्णौ महेष्वासावेतौ पार्षतसात्यकी ।
पाञ्चालांश्चैव सहितौ जघ्नतुः सायकैर्भृशम् ॥ ७.१७३.२३ ॥

这两位大弓箭手德罗纳与迦尔纳,与般遮罗之子(猛光)和萨提亚基一道,用箭猛烈地攻击般遮罗人。

7.173.24

एतयोः शरवर्षेण प्रभग्ना नो महारथाः ।
वार्यमाणापि कौन्तेय पृतना नावतिष्ठते ॥ ७.१७३.२४ ॥

我方的大车勇士在这二人的箭雨下已被击溃;昆提之子啊,即便加以阻拦,军队也站立不住。

7.173.25

तां तु विद्रवतीं दृष्ट्वा ऊचतुः केशवार्जुनौ ।
मा विद्रवत वित्रस्ता भयं त्यजत पाण्डवाः ॥ ७.१७३.२५ ॥

二人见那溃逃的军队,克舍婆与阿周那说道:般度诸子啊,莫因惊恐而逃,弃去恐惧吧。

7.173.26

तावावां सर्वसैन्यैश्च व्यूहैः सम्यगुदायुधैः ।
द्रोणं च सूतपुत्रं च प्रयतावः प्रबाधितुम् ॥ ७.१७३.२६ ॥

我们二人,率领全军与布阵得当的军阵,高举兵器,必将尽力逼迫德罗纳与御者之子。

7.173.27

एतौ हि बलिनौ शूरौ कृतास्त्रौ जितकाशिनौ ।
उपेक्षितौ बलं तूर्णं नाशयेतां निशामिमाम् ॥ ७.१७३.२७ ॥

这二人强大、英勇,精通武艺,以胜利自负;若轻视他们,他们必会在这一夜迅速摧毁此军。

7.173.28

तयोः संवदतोरेवं भीमकर्मा महाबलः। ॥ ७.१७३.२८ ॥

二人正这样交谈之际,那行事可怖、大力无比的人……

7.173.29

आयाद्वृकोदरः शीघ्रं पुनरावर्त्य वाहिनीम् ।
वृकोदरमथायान्तं दृष्ट्वा तत्र जनार्दनः। ॥ ७.१७३.२९ ॥

狼腹迅速折返,重新整顿军队。见狼腹来到那里,谐天(克里希那)……

7.173.30

पुनरेवाब्रवीद्राजन्हर्षयन्निव पाण्डवम् ।
एष भीमो रणश्लाघी वृतः सोमकपाण्डवैः। ॥ ७.१७३.३० ॥

大王啊,他似乎要使般度之子欢喜,又说道:这位在战场上自负的狼腹,已被索摩迦与般度诸子所环绕。

7.173.31

अभ्यवर्तत वेगेन द्रोणकर्णौ महारथौ ।
एतेन सहितो युद्ध्य पाञ्चालैश्च महारथैः। ॥ ७.१७३.३१ ॥

德罗纳与迦尔纳两位大车战士疾速向前冲去。你应与此人,并与般遮罗的大车战士一同作战。

7.173.32

आश्वासनार्थं सैन्यानां सर्वेषां पाण्डुनन्दन ।
ततस्तौ पुरुषव्याघ्रावुभौ माधवपाण्डवौ। ॥ ७.१७३.३२ ॥

般度之子啊,为了安慰所有军队。于是那二位人中之虎,摩陀婆与般度之子,二人都。

7.173.33

द्रोणकर्णौ समासाद्य धिष्ठितौ रणमूर्धनि ।
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्।
ततो द्रोणश्च कर्णश्च परान्ममृदतुर्युधि ॥ ७.१७३.३३ ॥

德罗纳与迦尔纳抵达战阵前沿,屹立不动。于是那支般度长子的大军再次回转。随后德罗纳与迦尔纳在战斗中碾碎了敌人。

7.173.34

स सम्प्रहारस्तुमुलो निशि प्रत्यभवन्महान् ।
यथा सागरयो राजंश्चन्द्रोदयविरुद्धयोः ॥ ७.१७३.३४ ॥

那场冲突在夜间变得猛烈而巨大,大王啊,如同月出之时两片相对的海洋。

7.173.35

तत उत्सृज्य पाणिभ्यां प्रदीपांस्तव वाहिनी ।
युयुधे पाण्डवैः सार्धमुन्मत्तवदसङ्कुला ॥ ७.१७३.३५ ॥

于是你的军队松开手中的灯火,如同疯狂之人一般杂乱无章地与般度诸子作战。

7.173.36

रजसा तमसा चैव संवृते भृशदारुणे ।
केवलं नामगोत्रेण प्रायुध्यन्त जयैषिणः ॥ ७.१७३.३६ ॥

在那场被尘土与黑暗笼罩的极其恐怖的战斗中,渴望胜利的战士们仅凭名字与家族相互辨认而作战。

7.173.37

अश्रूयन्त हि नामानि श्राव्यमाणानि पार्थिवैः ।
प्रहरद्भिर्महाराज स्वयंवर इवाहवे ॥ ७.१७३.३७ ॥

大王啊,那些正在挥击的国王所高声报出的名字被听到,仿佛在战场上举行一场选婿大会。

7.173.38

निःशब्दमासीत्सहसा पुनः शब्दो महानभूत् ।
क्रुद्धानां युध्यमानानां जीयतां जयतामपि ॥ ७.१७३.३८ ॥

忽然寂静,随即又响起巨大的喧声——那是愤怒作战者的,那是战败者的,也是得胜者的。

7.173.39

यत्रयत्र स्म दृश्यन्ते प्रदीपाः कुरुसत्तम ।
तत्रतत्र स्म शूरास्ते निपतन्ति पतङ्गवत् ॥ ७.१७३.३९ ॥

库鲁之最啊,哪里有灯火出现,那些勇士便如飞蛾般在那里倒下。

7.173.40

तथा संयुध्यमानानां विगाढाऽऽसीन्महानिशा ।
पाण्डवानां च राजेन्द्र कौरवाणां च सर्वशः ॥ ७.१७३.४० ॥

如此,在彼此交战的般度子与俱卢子两方各处,王中之王啊,那大夜愈加深沉了。