マハーバーラタ · 章 7.176
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.176.1
यत्तद्वैकर्तनः कर्णो राक्षसश्च घटोत्कचः ।
निशीथे समसज्जेतां तद्युद्धमभवत्कथम् ॥ ७.१७६.१ ॥
ヴィカルタナの子カルナと羅刹ガトートカチャが真夜中に戦ったとき、その戦いはどのように起こったのか。
7.176.2
कीदृशं चाभवद्रूपं तस्य घोरस्य रक्षसः ।
येन वैकर्तनः कर्णः सङ्ग्रामे तेन निर्जितः ॥ ७.१७६.२ ॥
ヴィカルタナの子カルナを戦いで打ち破ったというその恐ろしい羅刹は、どのような姿であったのか。
7.176.3
रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च ।
किम्प्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा ॥ ७.१७६.३ ॥
彼の戦車はどのようなものか。彼の幻術と全ての武器はどうであったか。彼の馬はどれほどの大きさであったか。戦車の旗と弓はどのようであったか。
7.176.4
कीदृशं वर्म चैवास्य शिरस्त्राणं च कीदृशम् ।
पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि सञ्जय ॥ ७.१७६.४ ॥
彼の鎧はどのようなものか、兜はどのようなものか。私が尋ねている、サンジャヤよ、語れ。お前は熟練しているのだから。
7.176.5
लोहितोक्षो महाकायस्ताम्रास्यो निम्नितोदरः ।
ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः ॥ ७.१७६.५ ॥
赤い目、巨大な体、銅色の顔、くぼんだ腹、逆立つ毛、黄褐色のひげ、杭のような耳、大きな顎を持つ。
7.176.6
आकर्णदारितास्यश्च तीक्ष्णदंष्ट्रः करालवान् ।
सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः ॥ ७.१७६.६ ॥
耳まで裂けた口、鋭い牙、恐ろしい姿、非常に長い銅色の舌と唇、垂れた眉、太い鼻。
7.176.7
नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयङ्करः ।
महाकायो महाबाहुर्महाशीर्षो महाबलः ॥ ७.१७६.७ ॥
その身は紺色、首は赤く、山のように大きく恐ろしかった。大きな身体、大きな腕、大きな頭、大いなる力を持っていた。
7.176.8
विकृतः परुषस्पर्शो विकचोद्वृद्धपिण्डकः ।
स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान् ॥ ७.१७६.८ ॥
その姿は醜く、肌は粗く、髪は乱れ、隆起した肉塊があった。尻は太く、臍は深く隠れ、弛んで垂れ下がる大きな肉体を持っていた。
7.176.9
तथैव हस्ताभरणी महामायोऽङ्गदी तथा ।
उरसाऽधारयन्निष्कमग्निमालां यथाऽचलः ॥ ७.१७६.९ ॥
同じく、手に飾りを付け、大いなる幻力を持ち、腕輪を着けていた。胸には火の首飾りのような金の首飾りを掛け、山のように立っていた。
7.176.10
तस्य हेममयं चित्रं बहुरूपाङ्गशभितम् ।
तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत ॥ ७.१७६.१० ॥
その頭には、多くの形や図像で飾られた金の見事な冠が、アーチのように輝いていた。
7.176.11
कुण्डले बालसूर्याभे मालां हेममयीं शुभाम् ।
धारयन्विपुलं कांस्यं कवचं च महाप्रभम्।
ताराजालनिभं राजन्पूर्णचन्द्रसमप्रभम् ॥ ७.१७६.११ ॥
昇る太陽のような二つの耳飾り、美しい金の首飾り、そして大いに輝く広い青銅の鎧を身に着け、王よ、彼は星の網のように、満月の光のように輝いていた。
7.176.12
कण्ठसूत्रं महच्चापि तपनीयमधारयत् ।
स तेन विभ्राजत वै सविद्युदिव तोयदः ॥ ७.१७६.१२ ॥
また首には大きな純金の首飾りを着けていた。それによって彼は、稲妻を伴う雨雲のように輝いた。
7.176.13
किङ्किणीशतनिर्घोपं रक्तध्वजपताकिनम् ।
ऋक्षचर्मावनद्वाङ्गं नल्वमात्रं महारथम् ॥ ७.१७६.१३ ॥
百の鈴の音を響かせ、赤い旗と幟を掲げ、熊の皮で覆われた、ナルヴァほどの大きさの大戦車。
7.176.14
सर्वायुधवरोपेतमास्थितं ध्वजमालिनम् ।
अष्टचक्रसमायुक्तं मेघगम्भीरनिःस्वनम् ॥ ७.१७६.१४ ॥
あらゆる優れた武器を備え、旗の花環で飾られ、八つの車輪を付けた、雷雲のように深く轟く戦車。
7.176.15
मत्तमातङ्गसङ्काशा लोहिताक्षा विभीपणाः ।
कालवर्णासमायुक्ता बलवन्तः शतं हयाः ॥ ७.१७६.१५ ॥
狂った象のような、赤い目の恐ろしい、死の色をした力強い百頭の馬。
7.176.16
वहन्तो राक्षसं घोरं वालवन्तो जितश्रमाः ।
विपुलाभिः सटाभिस्ते हेषमाणा मुहुर्मुहुः ॥ ७.१७६.१६ ॥
恐ろしい羅刹を運び、尾を持ち、疲れを知らず、広いたてがみの馬たちは、幾度も嘶いた。
7.176.17
मुखैर्नानाविधाकारैर्वगवन्तो हयोत्तमाः ।
रथेऽस्य युक्ता गकर्जन्तोऽवहंस्ते राक्षसाधिपम् ॥ ७.१७६.१७ ॥
さまざまな形の口で嘶き咆哮する最上の馬たちは、彼の戦車に繋がれて羅刹の王を運んだ。
7.176.18
राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः ।
घोररूपो महाकायः करालो विकृताननः।
रश्मिभिः सूर्यरश्म्याह्वैः सञ्जग्राह हयान्रणे ॥ ७.१७६.१८ ॥
彼の御者は羅刹ヴィルーパークシャで、顔は燃え輝き耳環をつけ、恐ろしい姿で巨大な体を持ち、凶悪で顔は歪んでいた。戦場で彼は「太陽光線」と呼ばれる手綱で馬を制した。
7.176.19
स तेन सहितस्तस्थावरुणेन यथा रविः ।
संसक्त इव चाभ्रेण यथाऽद्रिर्महता महान् ॥ ७.१७६.१९ ॥
彼は彼と共に立ち、アルナと共にいる太陽のように、また雲に包まれた大きな山のようであった。
7.176.20
दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः ।
रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः ॥ ७.१७६.२० ॥
彼の戦車には天に届くほどの大旗が高くそびえ、その上には血のように赤い頭をした肉食の禿鷲がおり、きわめて恐ろしかった。
7.176.21
वासवाशनिनिर्घोषं दृढज्यमतिविक्षिपन् ।
व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम् ॥ ७.१७६.२१ ॥
インドラの雷鳴のような響きを立て、強い弦を力強く引きしぼる、周囲一キシュク、長さ十二アラトニの弓。
7.176.22
रथाक्षमात्रैरिपुभिः सर्वाः प्रच्छादयन्दिशः ।
तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात् ॥ ७.१७६.२२ ॥
戦車の車軸ほどの長さの矢で四方を覆い、英雄を奪うその夜に、彼はカルナへ向かって進んだ。
7.176.23
तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः ।
अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः ॥ ७.१७६.२३ ॥
戦車の上にしっかりと立ち弓を引くと、その弓鳴りは雷の轟きのように聞こえた。
7.176.24
तेन वित्रास्यमानानि तव सैन्यानि भारत ।
समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः ॥ ७.१७६.२४ ॥
バーラタよ、その音に怯えたあなたの軍勢は、みな海の大波のように一斉に震えた。
7.176.25
तमापतन्तं सम्प्रेक्ष्य विरूपाक्षं विभीषणम् ।
उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत् ॥ ७.१७६.२५ ॥
醜い目をした恐ろしいヴィルーパークシャが突進してくるのを見て、ラーダーの子カルナは笑みを浮かべるように急いで彼を食い止めた。
7.176.26
ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात् ।
मातङ्ग इव मातङ्गं यूथर्षभमिवर्षभः ॥ ७.१७६.२६ ॥
するとカルナは矢を放ちながら近くから彼に襲いかかった。象が象に、群れの雄牛が別の雄牛に向かうように。
7.176.27
स सन्निपातस्तुमुलस्तयोरासीद्विशाम्पते ।
कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव ॥ ७.१७६.२७ ॥
人の主よ、王よ、その二人の衝突は激しかった。カルナと羅刹の間で、インドラとシャンバラの間のように。
7.176.28
तौ प्रगृह्य महावेगे धनुषी भीमनिःस्वने ।
प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः ॥ ७.१७६.२८ ॥
恐ろしい弦音を立てる二張りの弓を、大きな速さで取って、二人は大きな矢で互いを覆い隠した。
7.176.29
ततः पूर्णायतोत्सृष्टैरिषुभिर्नतपर्वभिः ।
न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी ॥ ७.१७६.२९ ॥
そして、十分に引き絞った弓から放たれた、節の曲がった矢で、二人は互いを防ぎ、青銅の鎧を貫いた。
7.176.30
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ ।
रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः ॥ ७.१७६.३० ॥
二人は爪で戦う二頭の虎、牙で戦う二頭の大象のようであった。戦車の槍と矢で、互いを傷つけ合った。
7.176.31
सञ्छिन्दन्तौ च गात्राणि सन्दधानौ च सायकान् ।
दहन्तौ च शरोल्काभिर्दुष्प्रेक्ष्यौ च बभूवतुः ॥ ७.१७६.३१ ॥
二人は手足を切り裂き、矢をつがえ、矢の火炬で焼き、見ることも難しくなった。
7.176.32
तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ ।
विभ्राजेतां यथा वारि स्रवन्तौ गैरिकाचलौ ॥ ७.१७६.३२ ॥
全身に傷を受け、血の流れに浸った二人は、水を流す赤土の山のように輝いた。
7.176.33
तौ शराग्रविनुन्नाङ्गौ निर्भिन्दन्तौ परस्परम् ।
नाकम्पयेतामन्योन्यं यतमानौ महाद्युती ॥ ७.१७६.३३ ॥
矢の先に手足を打たれ、互いを刺し貫き、努めた二人の大いに輝く者は、互いを揺るがすことができなかった。
7.176.34
तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत् ।
प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे ॥ ७.१७६.३४ ॥
始まったその夜戦は、王よ、長い間互角のように続いた。カルナとラークシャサは戦場で賭博師のように命を賭けていた。
7.176.35
तस्य सन्दधतस्तीक्ष्णाञ्छरांश्चासक्तमस्यतः ।
धनुर्घोषेण वित्रस्ताः स्वे परे च तदाऽभवन् ॥ ७.१७६.३५ ॥
彼が鋭い矢をつがえて絶え間なく放つと、弓の響きに味方も敵も恐怖した。
7.176.36
घटोत्कचं यदा कर्णो विशेषयति नो नृप ।
ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः ॥ ७.१७६.३६ ॥
カルナがガトートカチャを圧倒し我らから引き離していたとき、王よ、武器に通じた者の中の最上の者が神聖な武器を現した。
7.176.37
कर्णेन सन्धितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः ।
प्रादुश्चक्रे महामायां राक्षसीं पाण्डुनन्दनः ॥ ७.१७६.३७ ॥
カルナが放った神聖な武器を見て、パーンドゥの子ガトートカチャは大いなる羅刹の幻術を現した。
7.176.38
शूलमुद्गरधारिण्या शैलपादपहस्तया ।
रक्षसां घोररूपाणां महत्या सेनया वृतः ॥ ७.१७६.३८ ॥
槍と棍棒を振るい、手に山の峰や木を握る、恐ろしい姿の羅刹たちの大軍に取り囲まれて。
7.176.39
तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः ।
भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम् ॥ ७.१७६.३९ ॥
大弓を振り上げた彼を見て、王たちは怯えた。まるで万物の終焉である死神が、時の杖の激しい刃を携えて近づいてくるかのように。
7.176.40
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः ।
प्रसुस्रुवुर्गजा मूत्रं विव्यधुश्च नरा भृशम् ॥ ७.१७६.४० ॥
ガトートカチャの放った獅子吼に怯え、象たちは小便を漏らし、人々も大いに苦しんだ。
7.176.41
ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः ।
अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः ॥ ७.१७६.४१ ॥
やがて真夜中、羅刹の軍勢が放った極めて激しく巨大な石の雨が四方から降り注いだ。
7.176.42
आयसानि च चक्राणि भुशुण्ड्यः शक्तितोमराः ।
पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टसास्तथा ॥ ७.१७६.४२ ॥
鉄の円盤、ブシュンディー、槍と投槍、三叉戟、百殺器と剣が絶え間なく降り注いだ。
7.176.43
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिप ।
पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः ॥ ७.१७६.४३ ॥
人の王よ、その恐ろしく極めて凄惨な戦いを見て、あなたの息子たちと戦士たちは苦悩し、混乱して逃げ去った。
7.176.44
तत्रैकोऽस्तबलश्लाघी कर्णो मानी न विव्यथे ।
व्यधमच्च शरैर्मायां तां घटोत्कचनिर्मिताम् ॥ ७.१७६.४४ ॥
そこで武器の力を誇る誇り高きカルナだけは苦悩しなかった。彼は矢によって、ガトートカチャが作り出したその幻影を打ち消した。
7.176.45
मायायां तु प्रहीणायाममर्षाच्च घटोत्कचः ।
विससर्ज शरान्धोरान्सूत पुत्रं त आविशन् ॥ ७.१७६.४५ ॥
幻影が破られると、ガトートカチャは怒りに駆られ、御者の子に恐ろしい矢を放った。その矢は彼の身体に突き刺さった。
7.176.46
ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे ।
विविशुर्धरणीं बाणाः सङ्क्रुद्धा इव पन्नगाः ॥ ७.१७६.४६ ॥
すると血にまみれたその矢は、その大戦でカルナを貫き、怒った蛇のように大地へ潜り込んだ。
7.176.47
सूतपुत्रस्तु सङ्क्रद्धो लघुहस्तः प्रतापवान् ।
घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः ॥ ७.१७६.४७ ॥
しかし御者の子は、怒り、手の速く、威力ある者として、ガトートカチャを素通りし、十本の矢で彼を射抜いた。
7.176.48
घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु ।
चक्रं दिव्यं सहस्रारमगृह्णाद्व्यथितो भृशम् ॥ ७.१७६.४८ ॥
御者の子に急所を深く射抜かれたガトートカチャは、ひどく苦しみ、千の輻を持つ神聖な円盤を手に取った。
7.176.49
क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम् ।
चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया ॥ ७.१७६.४९ ॥
怒れるビーマセーナの息子は、殺そうという思いから、御者の子(カルナ)に向けて、剃刀の刃のような、若い太陽のように輝く、宝玉で飾られた武器を投げつけた。
7.176.50
प्रविद्वमतिवेगेन विक्षिप्तं कर्णसायकैः ।
अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि ॥ ७.१७६.५० ॥
カルナの矢に貫かれ、非常な勢いで投げられたその武器は、不運な者の決意のように空しく地面に落ちた。
7.176.51
घटोत्कचस्तु सङ्क्रुद्धो दृष्ट्वा चक्रं निपातितम् ।
कर्णं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम् ॥ ७.१७६.५१ ॥
しかしガトートカチャは、自分の円盤が落とされたのを見て激怒し、スヴァルバーヌ(ラーフ)が太陽を覆うように、カルナを矢で覆った。
7.176.52
सूतपुत्रस्त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः ।
घटोत्कचरथं तूर्णं छादयामास पत्रिभिः ॥ ७.१७६.५२ ॥
しかし御者の子(カルナ)は、ルドラ、ウペーンドラ、インドラに並ぶ武勇をもち、動じることなく、すばやくガトートカチャの戦車を矢で覆った。
7.176.53
घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा ।
क्षिप्ता भ्राम्य शरैः साऽपि कर्णेनाभ्याहताऽपतत् ॥ ७.१७६.५३ ॥
そのときガトートカチャは怒り、金の飾りをつけた棍棒を振り回して投げつけた。しかしカルナの矢に打たれ、それも落ちた。
7.176.54
ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन् ।
प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात् ॥ ७.१७६.५४ ॥
そこで巨大な身体のガトートカチャは空へ跳び上がり、黒い嵐雲のように咆哮して、空から木々の雨を降らせた。
7.176.55
ततो मायाविनं कर्णो भीमसेनसुतं दिवि ।
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः ॥ ७.१७६.५५ ॥
そのときカルナは、空中にいる幻術に長けたビーマセナの息子を、四方から矢で射貫いた。太陽が光線で濃い雲を貫くように。
7.176.56
तस्य सर्वान्हयान्हत्वा सञ्छिद्य शतधा रथम् ।
अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान् ॥ ७.१७६.५६ ॥
彼の馬をすべて殺し、戦車を百の断片に切り裂いて、カルナは雨をもたらす雨神パルジャニャのように矢の雨を降らせた。
7.176.57
न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम् ।
सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा ॥ ७.१७६.५७ ॥
彼の身体には指二本分の隙間さえ貫かれずに残っていなかった。一瞬のうちに彼は、全身を覆われた山嵐のように見えた。
7.176.58
न हयान्न रथं तस्य न ध्वजं न घटोत्कचम् ।
दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम् ॥ ७.१७६.५८ ॥
戦場で、矢の奔流に完全に覆われた彼の馬も、戦車も、旗も、ガトートカチャも、彼らには見えなかった。
7.176.59
स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन् ।
मायायुद्धेन मायावी सूतपुत्रमयोधयत् ॥ ७.१७६.५९ ॥
しかしその幻術使いは、カルナの神聖な武器を別の武器で断ち切りながら、幻術の戦いで御者の子と戦った。
7.176.60
सोऽयोधयत्तदा कर्णं मायया लाघवेन च ।
अलक्ष्यमाणानि दिवि शरजालानि चापतन् ॥ ७.१७६.६० ॥
そのとき彼は幻術と素早さによってカルナと戦い、目に見えない矢の網が空から降り注いだ。
7.176.61
भैमसेनिर्महामायो मायया कुरुसत्तम ।
विचचार महाकायो मोहयन्निव भारत ॥ ७.१७६.६१ ॥
クル族の最良者よ!ビーマセーナの息子は大いなる幻力をもち、幻術によって動き回った。バーラタよ、巨大な身体で、人々を惑わすかのように歩き回った。
7.176.62
स तु कृत्वा विरूपाणि वदनान्यशुभानि च ।
अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया ॥ ७.१७६.६२ ॥
恐ろしく不吉な顔を作り出し、幻術によって御者の子の神聖な武器を飲み込んだ。
7.176.63
पुनश्चापि महाकायः सञ्छिन्नः शतधा रणे ।
गतसत्वो निरुत्साहः पतितः खाद्व्यदृश्यत ॥ ७.१७६.६३ ॥
その巨体は戦場で百片に切り裂かれ、生気を失い気力もなく、空から落ちるのが見えた。
7.176.64
तं हतं मन्यमानाः स्म प्राणदन्कुरुपुङ्गवाः ।
अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत ॥ ७.१७६.६४ ॥
彼が殺されたと思い、クルの勇者たちは大声で叫んだ。すると彼は新しい別の身体をもって、あらゆる方角に現れた。
7.176.65
पुनश्चापि महाकायः शतशीर्षः शतोदरः ।
व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः ॥ ७.१७६.६५ ॥
再びその巨体が現れた。百の頭と百の腹をもち、マイナーカ山のように大きな腕をもっていた。
7.176.66
अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः ।
सागरोर्मिरिवोद्वूतस्तिर्यगूर्ध्वमवर्तत ॥ ७.१७६.६६ ॥
再び親指ほどの大きさになったその羅刹は、海の波のように跳ね上がり、斜めに、そして上へと動いた。
7.176.67
वसुधां दारयित्वा च पुनरप्यु न्यमज्जत ।
अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः ॥ ७.१७६.६७ ॥
大地を裂いて、彼は再び沈み込んだ。すると今度は別の場所から再び浮かび上がるのが見えた。
7.176.68
सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते ।
क्षितिं खं च दिशश्चैव माययाऽभ्येत्य दंशितः ॥ ७.१७६.६८ ॥
降り立つと、彼は再び黄金で飾られた戦車の上に立った。幻術によって大地、天空、そして四方に及び、彼は鎧に身を包んでいた。
7.176.69
गत्वा कर्णरथाभ्याशं व्यचरत्कुण्डलाननः ।
प्राह वाक्यमसम्भ्रान्तः सूतपुत्रं विशाम्पते ॥ ७.१७६.६९ ॥
カルナの戦車の近くへ行き、耳飾りで飾られた顔で歩き回った。人々の主よ、動じることなく彼は御者の子にこれらの言葉を言った。
7.176.70
तिष्ठेदानीं क्व मे जीवन्सूतपुत्र गमिष्यसि ।
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रमाजिरे ॥ ७.१७६.७० ॥
今すぐ止まれ!御者の子よ、私から生きて逃げてどこへ行くというのか。今日この戦場で、お前の戦意を打ち砕いてやる。
7.176.71
इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम् ।
उत्पपातान्तरिक्षं च जहास च सुविस्तरम्।
कर्णमभ्यहनच्चैव गजेन्द्रमिव केसरी ॥ ७.१७६.७१ ॥
こう言うと、怒りで目を赤く染めた残忍な勇力の羅刹は空へ跳び上がり、大声で笑った。そして獅子が象王に飛びかかるように、カルナを打ち据えた。
7.176.72
रथाक्षमात्रेरिषुभिरभ्यवर्षद्धटोत्कचः। ॥ ७.१७६.७२ ॥
ガトートカチャは戦車の車軸ほどの大きさの矢で、雨のように降り注いだ。
7.176.73
शरवृष्टिं च तां कर्णो दूरात्प्राप्तामशातयत् ॥ ७.१७६.७३ ॥
カルナは遠くから飛来したその矢の雨を切り落とした。
7.176.74
दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ ।
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः ॥ ७.१७६.७४ ॥
バラタの牡牛よ、カルナによって幻術が破られたのを見て、ガトートカチャは身を隠し、再び幻術を生み出した。
7.176.75
सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसङ्कटैः ।
शूलप्रासासिमुसलजलप्रस्रवणो महान् ॥ ७.१७६.७५ ॥
彼は非常に高い山となった。その頂は木々に覆われ、槍・投げ槍・剣・棍棒の流れが湧き出る、巨大なものであった。
7.176.76
तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम् ।
प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे ॥ ७.१७६.७६ ॥
かの山を見た。それは黒い眼墨の山のようで、瀑布のように猛烈な武器を降らせていたが、カルナは動じなかった。
7.176.77
स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदैरयत् ।
ततः सोऽस्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत ॥ ७.१७६.७७ ॥
するとカルナは微笑むかのように神の武器を放った。その武器に打たれた山の王は、まさしく滅びた。
7.176.78
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि ।
अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत् ॥ ७.१७६.७८ ॥
すると彼は空に虹を伴う濃紺の雲となり、御者の子の上に極めて猛烈な石の雨を降らせた。
7.176.79
अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः ।
व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषः ॥ ७.१७६.७९ ॥
そのとき武器に通じた者の中で最も優れたヴァイカルタナの子、牡牛のカルナは風の武器を番え、その黒い劫雲を散らした。
7.176.80
स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः ।
जघानास्त्रं महाराज घटोत्कचसमीरितम् ॥ ७.१७६.८० ॥
カルナは矢の群れで四方を覆い、大王よ、ガトートカチャが放った武器を打ち砕いた。
7.176.81
ततः प्रहस्य समरे भैमसेनिर्महाबलः ।
प्रादुश्चक्रे महामायां कर्णं प्रति महारथम् ॥ ७.१७६.८१ ॥
そのとき武勇のビーマセーナの子は戦場で笑いながら、大戦車兵カルナの前に大いなる幻術を現した。
7.176.82
स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम् ।
घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम्
सिंहशार्दूलसदृशैर्मत्तमातङ्गविक्रमैः। ॥ ७.१७६.८२ ॥
彼は再び戦車で近づいてくる戦車兵の最良者ガトートカチャを見た。恐れを知らぬ彼は、獅子や虎のような、狂象の勇猛さをもつ多くのラークシャサに囲まれていた。
7.176.83
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा ।
नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः ॥ ७.१७६.८३ ॥
象の上の者、戦車の上の者、そして馬上の者たち。様々な武器を携え、恐ろしく、様々な鎧で飾られていた。
7.176.84
वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम् ।
दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम् ॥ ७.१७६.८४ ॥
マルトたちに囲まれたインドラのように、残忍なラークシャサに囲まれたガトートカチャを見て、大弓手カルナはそのラークシャサと戦った。
7.176.85
घटोत्कचस्ततः कर्णं विद्धा पञ्चभिराशुगैः ।
ननाद भैरवं नादं भीषयन्सर्वपार्थिवान् ॥ ७.१७६.८५ ॥
そこでガトートカチャは五本の速い矢でカルナを射抜き、諸王を恐れさせる恐ろしい咆哮をあげた。
7.176.86
भूयश्चाञ्जलिकेनाथ स मार्गणगणं महत् ।
कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः ॥ ७.१७६.८६ ॥
さらにガトートカチャは合掌形(アンジャリカ)の矢で、カルナの手にある弓を素早く断ち切り、大量の矢も断ち切った。
7.176.87
अथान्यद्धनुरादाय दृढं भारसहं महत् ।
विचकर्ष बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम् ॥ ७.१७६.८७ ॥
そこでカルナは、張力に耐える堅固で大きな別の弓を取り、高く掲げられたインドラの虹のように力強く引き絞った。
7.176.88
ततः कर्णो महाराज प्रेषयामास सायकान् ।
सुवर्णपुङ्खाञ्छत्रुघ्नान्खेचरान्राक्षसान्प्रति ॥ ७.१७६.८८ ॥
大王よ、そこでカルナは金の矢羽を持つ、敵を砕く矢を、空を飛ぶラークシャサたちへ放った。
7.176.89
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम् ।
सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम् ॥ ७.१७६.८९ ॥
その矢に苦しめられた、広い胸を持つラークシャサの群れは、獅子に襲われた野生の象の群れのように混乱した。
7.176.90
विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः ।
ददाह भगवान्वह्निर्भूतानीव युगक्षये ॥ ७.१७६.९० ॥
矢で羅刹たちを打ち砕いたその勇者は、馬、御者、象もろとも焼き払った。あたかも聖なる火が劫末に衆生を焼き尽くすように。
7.176.91
स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः ।
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः ॥ ७.१७६.९१ ॥
羅刹の軍を討ち滅ぼして、御者の子は輝いた。昔、三城を焼き払って天に輝いた神マヘーシュヴァラのように。
7.176.92
तेषु राजसहस्रेषु पाण्डवेयेषु मारिष ।
नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव ॥ ७.१७६.९२ ॥
尊き方よ、あの幾千の王たちとパーンドゥの子らの中で、誰一人として彼を見ることさえできませんでした、王よ。
7.176.93
ऋते घटोत्कचाद्राजन्राक्षसेन्द्रान्महाबलात् ।
भीमवीर्यबलोपेतात्क्रुद्ध्द्वैवस्वतादिव ॥ ७.१७६.९३ ॥
王よ、ガトートカチャを除いては。彼は大力の羅刹王で、ビーマの勇気と力を備え、怒れるヴィヴァスヴァットの子ヤマのようでした。
7.176.94
तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत ।
महोल्काभ्यां यथा राजन्सार्जिषः स्नेहबिन्दवः ॥ ७.१७६.९४ ॥
怒れる彼の両眼から火が生じた、王よ。大きな松明から炎を伴う油の滴が落ちるように。
7.176.95
तलं तलेन संहत्य सन्दश्य दशनच्छदम् ।
रथमास्थाय च पुनर्मायया निर्मितं तदा ॥ ७.१७६.९५ ॥
両手を打ち合わせ、唇を歯で噛みしめ、それから幻術で作られた戦車に再び乗った。
7.176.96
युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः ।
स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मां वह ॥ ७.१७६.९६ ॥
象のような、夜叉の顔をしたロバのような馬をつないだ戦車で。怒って彼は御者に言った、「御者の子のところへ私を運べ」と。
7.176.97
स ययौ घोररूपेण रथेन रथिनां वरः ।
द्वैरथं सूतपुत्रेण पुनरेव विशाम्पते ॥ ७.१७६.९७ ॥
戦車の勇士の中で最も優れた彼は、恐ろしい姿の戦車に乗り、再び御者の子と一騎打ちに向かった、民の主よ。
7.176.98
स चिक्षेप पुनः क्रुद्धः सुतपुत्राय राक्षसः ।
अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम् ॥ ७.१७६.९८ ॥
怒った羅刹は再び御者の子に向けて、八つの車輪を持つ、非常に恐ろしい、ルドラが造った雷を投げつけた。
7.176.99
द्वियोजनसमुत्सेधां योजनायामविस्तराम् ।
आयसीं निचितां शूलैः कदम्बमिव केशरैः ॥ ७.१७६.९९ ॥
高さ二ヨージャナ、長さと幅が一ヨージャナで、鉄製、カダンバの花の雄蕊のように槍状の突起に覆われていた。
7.176.100
तामवप्लुत्य जग्राह कर्णो न्यस्य महद्धनुः ।
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे ॥ ७.१७६.१०० ॥
カルナは飛びかかってそれを掴み、大弓を置いてその者めがけて投げ返し、戦車から飛び降りた。
7.176.101
साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा ।
विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः ॥ ७.१७६.१०१ ॥
大いなる輝きのそれは、馬、御者、旗ともども戦車を灰に変え、大地を貫いて中へ入った。そこで神々は驚嘆した。
7.176.102
कर्णं तु सर्वभूतानि पूजयामासुरञ्जसा ।
यदप्लुत्य जग्राह देवसृष्टां महाशनिम् ॥ ७.१७६.१०२ ॥
すべての生き物は喜んでカルナを称えた。彼は飛び上がって、神々が造ったあの大いなる雷を掴んだからである。
7.176.103
एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः ।
ततो मुमोच नाराचान्सूतपुत्रः परन्तपः ॥ ७.१७६.१०३ ॥
このようにしてカルナは戦場で再び戦車に登った。そして敵を焼く御者の子は、ナーラーチャの矢を放った。
7.176.104
अशक्यं कर्तुमन्येन सर्वभूतेषु मानद ।
यदकार्षीत्तदा कर्णः सङ्ग्रामे भीमदर्शने ॥ ७.१७६.१०४ ॥
名誉を与える者よ!あの恐ろしい様相の戦いでカルナがなしたことは、あらゆる存在の中で他の誰にもできないことだった。
7.176.105
स हन्यमानो नाराचैर्धाराभिरिव पर्वतः ।
गन्धर्वनगराकारः पुनरन्तरधीयत ॥ ७.१७६.१०५ ॥
ナーラーチャの矢に、山が激流に打たれるように打たれ、ガンダルヴァの都市のような姿となって、再び姿を消した。
7.176.106
एवं स वै महाकायो मायया लाघवेन च ।
अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः ॥ ७.१७६.१०६ ॥
こうして、その大身の敵殲滅者は、幻術と俊敏さによって、あの神聖な武器を打ち砕いた。
7.176.107
निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा ।
असम्भ्रान्तस्तदा कर्णस्तद्रक्षः प्रत्ययुध्यत ॥ ७.१७६.१०७ ॥
その羅刹の幻術によって武器が壊されていく中、カルナは動じることなく、その羅刹と戦った。
7.176.108
ततः क्रुद्धो महाराज भैमसेनिर्महाबलः ।
चकार बहुधाऽऽत्मानं भीषयाणो महारथान् ॥ ७.१७६.१०८ ॥
その時、大王よ、怒り狂った強大なビーマセナの子は、自らを多くの姿に変えて、大戦車兵たちを恐れさせた。
7.176.109
ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः ।
अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः ॥ ७.१७६.१०९ ॥
すると四方から獅子・虎・熊が集まり、火の舌をもつ蛇と鉄の嘴の鳥も現れた。
7.176.110
स कीर्यमाणो विशिखैः कर्णचापच्युतैः शरैः ।
नागराडिव दुष्प्रेक्ष्यस्तत्रैवान्तरधीयत ॥ ७.१७६.११० ॥
迦尔ナの弓から放たれた矢に覆われ、彼は象王のように見定め難いまま、その場で姿を消した。
7.176.111
राक्षसाश्च पिशाचाश्च यातुधानास्तथैव च ।
शालावृकाश्च बहवो वृकाश्च विकृताननाः ॥ ७.१७६.१११ ॥
羅刹・ピシャーチャ・ヤートゥダーナ、そして多くのシャーラーヴリカ(豺)や狼も、顔を歪めて現れた。
7.176.112
ते कर्णं क्षपयिष्यन्तः सर्वतः समुपाद्रवन् ।
अथैनं वाग्भिरुग्राभिस्त्रासयाञ्चिक्रिरे तदा ॥ ७.१७६.११२ ॥
カルナを滅ぼそうとして、四方から彼に襲いかかり、そして恐ろしい言葉で彼を脅した。
7.176.113
उद्यतैर्बहुभिर्घोरैरायुधैः शोणितोक्षितैः ।
तेषामनेकैरेकैकं कर्णो विव्याध सायकैः ॥ ७.१७६.११३ ॥
振り上げられた多くの恐ろしい、血に濡れた武器のそれぞれを、カルナは多くの矢で射抜いた。
7.176.114
प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम् ।
आजघान हयानस्य शरैः सन्नतपर्वभिः ॥ ७.१७६.११४ ॥
その羅刹の幻術を神の武器で退けると、彼は曲がった節の矢で敵の馬を射た。
7.176.115
ते भग्ना विक्षताङ्गाश्च भिन्नपृष्ठाश्च सायकैः ।
वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः ॥ ७.१७६.११५ ॥
彼らは打ち砕かれ、手足を傷つけられ、矢に背を貫かれて、その羅刹が見ている前で大地に倒れた。
7.176.116
स भग्नमायो हैडिम्बिः कर्णं वैकर्तनं तदा ।
एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत ॥ ७.१७६.११६ ॥
幻術を破られた彼は、ヴィカルタナの子カルナに「見よ、お前のために死を用意してやった」と言い、姿を消した。