Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.177

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.177.1

तस्मिंस्तथा वर्तमाने कर्णराक्षसयोर्मृधे ।
अलायुधो राक्षसेन्द्रो वीर्यवानभ्यवर्तत ॥ ७.१७७.१ ॥

卡尔纳与罗刹之战正如此进行时,强大的罗刹王阿罗耶陀前进了。

7.177.2

महत्या सेनया युक्तो दुर्योधनमुपागमत् ।
राक्षसानां विरूपाणां सहस्रैः परिवारितः।
नानारूपधरैर्वीरैः पूर्ववैरमनुस्मरन् ॥ ७.१७७.२ ॥

他率领大军来到难敌身边,被成千上万丑陋的罗刹环绕,与变化各种形貌的勇士们一起,追念往日的仇恨。

7.177.3

तस्य ज्ञातिर्हि विक्रान्तो ब्राह्मणादो बको हतः ।
किर्णीरश्च महातेजा हिडिम्बश्च सखा तदा ॥ ७.१७७.३ ॥

因为他的亲族、勇猛的食婆罗门者跋迦已被杀死;而威光赫赫的吉尔米罗和朋友兴畅婆当时也被杀了。

7.177.4

स दीर्घकालाध्युपितं पूर्ववैरमनुस्मरन् ।
विज्ञायैतन्निशायुद्धं जिघांसुर्भीममाहवे ॥ ७.१७७.४ ॥

他追念心中长久培育的旧仇,得知这场夜战之后,便想在战斗中杀死怖军。

7.177.5

स मत्त इव मातङ्गः सङ्क्रुद्व इव चोरगः ।
दुर्योधनमिदं वाक्यमब्रवीद्युद्वलालसः ॥ ७.१७७.५ ॥

他像发狂的大象,像愤怒的毒蛇,渴望战斗,对难敌说出了这些话。

7.177.6

विदितं ते महाराज यथा भीमेन राक्षसाः ।
हिडिम्बबककिर्मीरा निहता मम बान्धवाः ॥ ७.१७७.६ ॥

大王,您知道怖军如何杀害了我的亲族罗刹兴畅婆、跋迦和吉尔米罗。

7.177.7

परामर्शश्च कन्याया हिडिम्बायाः कृतः पुरा ।
किमन्यद्राक्षसानन्यानस्मांश्च परिभूय ह ॥ ७.१७७.७ ॥

往昔曾提及少女希底巴。轻蔑其他罗刹与我们,还有什么可说的呢?

7.177.8

तमहं सगणं राजन्सवाजिरथकुञ्जरम् ।
हैडिम्बिं च सहामात्यं हन्तुमभ्यागतः स्वयम् ॥ ७.१७७.८ ॥

大王啊,我亲自前来,要将他连同其部众、马匹、战车与象群一并杀死,还有希底巴之子连同其大臣。

7.177.9

अद्य कुन्तीसुतान्सर्वान्वासुदेवपुरोगमान् ।
हत्वा सम्भक्षयिष्यामि सर्वैरनुचरैः सह ॥ ७.१७७.९ ॥

今日,我将杀死以婆苏提婆为首的所有贡蒂之子,并与我所有的随从一同将他们吞噬。

7.177.10

निवारय बलं सर्वं वयं योत्स्याम पाण्डवान् ॥ ७.१७७.१० ॥

制止全军;我们将与般度之子作战。

7.177.11

तस्यैतद्वचनं श्रुत्वा हृष्टो दुर्योधनस्तदा ।
प्रतिपूज्याब्रवीद्वाक्यं भ्रातृभिः परिवारितः ॥ ७.१७७.११ ॥

杜尔约达那听了他的话,甚为欢喜,在众兄弟簇拥下,向他致敬,随即说了这些话。

7.177.12

त्वां पुरस्कृत्य सगणं वयं योत्स्यामहे परान् ।
न हि वैरान्तमनसः स्थास्यन्ति मम सैनिकाः ॥ ७.१७७.१२ ॥

我们以你为首,率领全军与敌人作战。我的士兵们心怀终结仇恨之念,将坚定屹立。

7.177.13

एवमस्त्विति राजानमुक्त्वा राक्षसपुङ्गवः ।
अभ्ययात्त्वरितो भैमिं सहितः पुरुषादकैः ॥ ७.१७७.१३ ॥

他对国王说:“就这样吧。”说罢,罗刹中的俊杰便迅速前往毗摩之子,与食人罗刹同行。

7.177.14

दीप्यमानेन वपुषा रथेनादित्यवर्चसा ।
तादृशेनैव राजेन्द्र यादृशेन घटोत्कचः ॥ ७.१७७.१४ ॥

王中之王啊,他的战车与瞿陀迦之车一般,身体光芒闪耀,如太阳般明亮。

7.177.15

तस्याप्यतुलनिर्घोपो बहुतोरणचित्रितः ।
ऋक्षचर्मावनद्वाङ्गो नल्वमात्रो महारथः ॥ ७.१७७.१५ ॥

他的战车也有无可比拟的轰鸣,饰以许多拱门,车身蒙着熊皮——一位身高如一个“纳尔瓦”的大车战士。

7.177.16

तस्यापि तुरगाः शीघ्रा हस्तिकायाः खरस्वनाः ।
शतं युक्ता महाकाया मांसशोणितभोजनाः ॥ ७.१७७.१६ ॥

他的马也快速,身躯如象,嘶鸣刺耳——百匹并驾,身躯庞大,以血肉为食。

7.177.17

तस्यापि रथनिर्घोपो महामेघरवोपमः ।
स्यापि सुमहच्चापं दृढज्यं कनकोज्ज्वलम् ॥ ७.१७७.१७ ॥

他的战车轰鸣如大云之雷;他的弓也极其巨大,弦张得紧,闪耀如金。

7.177.18

तस्याप्यक्षसमा बाणा रुक्म पुङ्खाः शिलाशिताः ।
सोऽपि वीरो महाबाहुर्यथैव स घटोत्कचः ॥ ७.१७७.१८ ॥

他的箭也粗如车轴,羽翎金色,在石上磨砺;那位大臂的英雄也正如瞿陀迦一般。

7.177.19

तस्यापि गोमायुबलाभिगुप्तो ।
बभूव केतुर्ज्वलनार्कतुल्यः।
स चापि रूपेण घटोत्कचस्य ।
श्रीमत्तमो ह्यन्तकसन्निकाशः ॥ ७.१७७.१९ ॥

他的旗帜也由一群豺狼守护,如同燃烧的火与太阳。他的外貌与迦托迦查相似,光彩最为耀眼,宛如死神。

7.177.20

दीप्ताङ्गदो दीप्तकिरीटमाली ।
बद्धस्रगुष्णीषनिबद्धखङ्गः।
गदी भुशुण्डी मुसली हली च ।
शरासनी वारणतुल्यवर्ष्मा ॥ ७.१७७.२० ॥

佩戴闪耀的臂环,头戴闪耀的冠冕与花环,剑系在花环与头巾上;手持铁杵、火枪、木杵、犁与弓,身躯如象一般。

7.177.21

रथेन तेनानलवर्चसा तदा ।
विद्रावयन्पाण्डववाहिनीं ताम्।
रराज सह्ख्ये परिवर्तमानो ।
विद्युन्माली मेघ इवान्तरिक्षे ॥ ७.१७७.२१ ॥

那时,他乘着那如火般光辉的战车,驱散般度之子的军队,在战场上盘旋,如同天空中缠绕着闪电花环的乌云,光彩夺目。

7.177.22

ते चापि सर्वप्रवरा नरेन्द्रा ।
महाबला वर्मिमश्चर्मिणश्च।
हर्षान्विता युयुधुस्तस्य राजन् ।
समन्ततः पाण्डवयोधवीराः ॥ ७.१७७.२२ ॥

那些最优秀的王者,强大、披甲持盾,充满喜悦;大王啊,与他一起,般度的勇士英雄们从四面八方作战。