Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.178

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.178.1

तमागतमभिप्रेक्ष्य भीमकर्माणमाहवे ।
हर्षमाहारयाञ्चक्रुः कुरवः सर्व एव ते ॥ ७.१७८.१ ॥

众库卢人看见他在战场上以可怖的功业而来,都表现出欢喜。

7.178.2

तथैव तव पुत्रास्ते दुर्योधनपुरोगमाः ।
अप्लुवाः प्लवमासाद्य तर्तुकामा इवार्णवम् ॥ ७.१७८.२ ॥

同样,你的儿子们以难敌为首,就像不会游泳的人得到了木筏,想要渡过大海一样。

7.178.3

पुनर्जातमिवात्मानं मन्वानाः पुरुषर्षभाः ।
अलायुधं राक्षसेन्द्रं स्वागतेनाभ्यपूजयन् ॥ ७.१७८.३ ॥

那些人中雄牛自认为重获新生,以热情的欢迎礼敬罗刹王阿罗耶陀。

7.178.4

तस्मिंस्त्वमानुषे युद्धे वर्तमाने महाभये ।
कर्णराक्षसयोर्नक्तं दारुणप्रतिदर्शने ॥ ७.१७८.४ ॥

在那场非人的大恐怖之战中,夜间正在卡尔纳与罗刹之间进行,罗刹形貌可怖,

7.178.5

न द्रौणिर्न कृपद्रोणौ न शल्यो न च माधवः ।
एक एव तु तेनासीद्योद्धा कर्णो रणे वृषा ॥ ७.१७८.५ ॥

德罗纳之子不在,克利帕与德罗纳不在,沙利耶不在,摩陀婆也不在;战场上唯一的战士只有那头公牛般的迦尔纳。

7.178.6

उपप्रैक्षन्त पाञ्चालाः स्मयमानाः सराजकाः ।
व्यभ्रमंस्तावकाश्चापि घूर्णमानास्ततस्ततः ॥ ७.१७८.६ ॥

般遮罗人与诸王一同微笑观望;你的人马也晕眩旋转,四处徘徊。

7.178.7

चुक्रुशुर्नेदमस्तीति द्रोणद्रौणिकृपादयः ।
तत्कर्म दृष्ट्वा सम्भ्रान्ता हैडिम्बस्य रणाजिरे ॥ ७.१७८.७ ॥

德罗纳、德罗尼、克里帕等人高喊:“这不是!”见到希迪姆巴的那一行为,他们在战场上惊慌失措。

7.178.8

सर्वमाविग्नमभवद्धाहाभूतमचेतनम् ।
तव सैन्यं महाराज निराशं कर्णजीविते ॥ ७.१७८.८ ॥

大王啊,您的全军慌乱不安,惊呼“唉呀”,昏然失去知觉,对迦尔纳的性命已然绝望。

7.178.9

दुर्योधनस्तु सम्प्रेक्ष्य कर्णमार्तिं परां गतम् ।
अलायुधं राक्षसेन्द्रं समाहूयेदमब्रवीत् ॥ ७.१७८.९ ॥

然而难敌见迦尔纳陷入极度痛苦,便召唤罗刹王阿拉尤陀,说道:

7.178.10

एष वैकर्तनः कर्णो हैडिम्बेन समागतः ।
कुरुते कर्म सुमहद्यदस्योपयिकं मृधे ॥ ७.१७८.१० ॥

看那毗迦尔坦之子迦尔纳正与希迪姆巴交战;他在战斗中做着与他相称的伟大之事。

7.178.11

पश्यैतान्पार्थिवाञ्शूरान्निहतान्भैमसेनिना ।
नानाशस्त्रैरभिहतान्पादपानिव दन्तिना ॥ ७.१७८.११ ॥

看这些英勇的国王,被比玛森之子杀死,被种种兵器击倒,如同被大象推倒的树木。

7.178.12

तवैष भारः समरे ज्ञातिमध्ये मया कृतः ।
तवैवानुमते वीर तं विक्रम्य निबर्हय ॥ ७.१७८.१२ ॥

英雄啊,这一重任我在战斗中、在亲族之中托付给你;经你同意,便以勇力将他杀灭吧。

7.178.13

पुरा वैकर्तनं कर्णमेष पापो घटोत्कचः ।
मायाबलं समाश्रित्य कर्षयत्यरिकर्शन ॥ ७.१७८.१३ ॥

此前,这恶人瓶首(Ghaṭotkaca)凭借幻术之力,正在拖拽毗迦尔丹之子迦尔纳,那折磨敌人者啊。

7.178.14

एवमुक्तः स राज्ञा तु राक्षसो भीमविक्रमः ।
तथेत्युक्त्वा महाबाहुर्घटोत्कचमुपाद्रवत् ॥ ७.१७८.१४ ॥

国王如此吩咐,那位威力可怖、臂力强大的罗刹说道“就这样吧”,便冲向瓶首。

7.178.15

ततः कर्णं समुत्सृज्य भैमसेनिरपि प्रभो ।
प्रत्यमित्रमुपायान्तमर्दयामास मार्गणैः ॥ ७.१७८.१५ ॥

此时,主啊,薄称之子(瓶首)也舍弃迦尔纳,以箭矢重创前来的敌人。

7.178.16

तयोः समभवद्युद्धं क्रुद्धयो राक्षसेन्द्रयोः ।
मत्तयोर्वासिताहेतोर्दीपयोरिव कानने ॥ ७.१७८.१६ ॥

那两位愤怒的罗刹之王之间爆发了战斗,犹如森林中两头因雌象发情而狂暴的象王相斗。

7.178.17

रक्षसा विप्रमुक्तस्तु कर्णोऽपि रथिनां वरः ।
अभ्यद्रवद्भीमसेनं रथेनादित्यवर्चसा ॥ ७.१७८.१७ ॥

迦尔纳被罗刹放开,作为车战中最优秀者,也乘着如太阳般光辉的战车冲向毗摩沙那。

7.178.18

तमायान्तमनादृत्य दृष्ट्वा ग्रस्तं घटोत्कचम् ।
अलायुधेन समरे सिंहेनेव गवां पतिम् ॥ ७.१७८.१८ ॥

他不理会迎面而来的敌人,看见瓶首在战场上被阿罗耶陀所擒,就像狮子扑向牛群之主。

7.178.19

रथेनादित्यवपुषा भीमः प्रहरतां वरः ।
किरञ्छरौघान्प्रययावलायुधरथं प्रति ॥ ७.१७८.१९ ॥

最优秀的勇士怖军乘坐如太阳般耀眼的战车,洒下一阵阵箭雨,向阿罗耶陀的战车冲去。

7.178.20

तमायान्तमभिप्रेक्ष्य स तदाऽलायुधः प्रभो ।
घटोत्कचं समुत्सृज्य भीमसेनं समाह्वयत् ॥ ७.१७८.२० ॥

主公啊,阿罗耶陀见他逼近,便放下甘陀迦恰,向怖军挑战。

7.178.21

तं भीमः सहसाऽभ्येत्य राक्षसान्तकरः प्रभो ।
सगणं राक्षसेन्द्रं तं शरवर्षैरवाकिरत् ॥ ७.१७८.२१ ॥

主公啊,灭罗刹者怖军突然逼近,以箭雨覆盖了那罗刹王及其部众。

7.178.22

तथैवालायुधो राजञ्शिलाधौतैरजिह्मगैः ।
अभ्यवर्षत कौन्तेयं पुनःपुनररिन्दम ॥ ७.१७८.२२ ॥

大王啊,阿罗耶陀同样一次又一次地以磨于石上的笔直箭矢覆盖了贡蒂之子。啊,降伏敌人者。

7.178.23

तथा ते राक्षसाः सर्वे भीमसेनमुपाद्रवन् ।
नानाप्रहरणा भीमास्त्वत्सुतानां जयैषिणः ॥ ७.१७८.२३ ॥

同样,那些罗刹手持各种兵器,形貌可怖,为求您的儿子们获胜,一齐扑向怖军。

7.178.24

स ताड्यमानो बहुभिर्भीमसेनो महाबलः ।
पञ्चभिः पञ्चभिः सर्वांस्तानविध्यच्छितैः शरैः ॥ ७.१७८.२४ ॥

虽被众人击打,大力的怖军仍以每人五支利箭射穿了他们每一个。

7.178.25

ते वध्यमाना भीमेन राक्षसाः क्रूरबुद्धयः ।
विनेदुस्तुमुलान्नादान्दुद्रुवुस्ते दिशो दश ॥ ७.१७८.२५ ॥

被毗摩击打的残忍心性的罗刹发出震天的吼叫,向十方奔逃。

7.178.26

तांस्त्रास्यमानान्भीमेन दृष्ट्वा रक्षो मबहालम् ।
अभिदुद्राव वेगेन शरैश्चैनमवाकिरत् ॥ ७.१७८.२६ ॥

见他们被毗摩惊吓,那大力罗刹疾速冲向他,以箭雨倾注于他。

7.178.27

तं भीमसेनः समरे तीक्ष्णाग्रैरक्षिणोच्छरैः ॥ ७.१७८.२७ ॥

毗摩娑那在战中以锋利箭头的箭射穿了他。

7.178.28

अलायुधस्तु तानस्तान्भीमेन विशिखान्रणे ।
चिच्छेद कांश्चित्समरे त्वरया कांश्चिदग्रहीत् ॥ ७.१७८.२८ ॥

阿罗耶陀在战中斩断了毗摩射来的部分箭,又迅速抓住了另一些。

7.178.29

स तं दृष्ट्वा राक्षसेन्द्रं भीमो भीमपराक्रमः ।
गदां चिक्षेप वेगेन वज्रपातोपमां तदा ॥ ७.१७८.२९ ॥

见到那罗刹之主,威猛无比的毗摩便以雷霆坠落般的力量投出了铁杵。

7.178.30

तामापतन्तीं वेगेन गदां ज्वालाकुलां ततः ।
गदया ताडयामास सा गदा भीममाव्रजत् ॥ ७.१७८.३० ॥

于是他用另一根铁杵击打那疾速飞来、烈焰缠绕的铁杵;然而那铁杵却直朝毗摩冲去。

7.178.31

स राक्षसेन्द्रं कौन्तेयः शरवर्षैरवाकिरत् ।
तानप्यस्याकरोन्मोघान्राक्षसो निशितैः शरैः ॥ ७.१७८.३१ ॥

俱盾之子以箭雨覆盖罗刹之主,罗刹却以他锐利的箭使这些箭也落空。

7.178.32

ते चापि राक्षसाः सर्वे रजन्यां भीमरूपिणः ।
शासनाद्राक्षसेन्द्रस्य निजघ्नू रथकुञ्जरान् ॥ ७.१७८.३२ ॥

那些形貌可怖的罗刹们在夜间遵照罗刹之主的命令,杀戮战车与象群。

7.178.33

पाञ्चालाः सृञ्जयाश्चैव वाजिनः परमद्विपाः ।
न शान्तिं लेभिरे तत्र राक्षसैर्भृशपीडिताः ॥ ७.१७८.३३ ॥

般遮罗与叙尼耶人、骑兵与良象,被罗刹们深深困扰,在那里找不到片刻安宁。

7.178.34

तं तु दृष्ट्वा महाघोरं वर्तमानं महाहवम् ।
अब्रवीत्पुण्डरीकाक्षो धनञ्जयमिदं वचः ॥ ७.१७८.३४ ॥

看到这场极为可怖的大战正在进行,莲花眼者对财主说出了这些话。

7.178.35

पश्य भीमं महाबाहुं राक्षसेन्द्रवशं गतम् ।
पदमस्यानुगच्छ त्वं मा विचारय पाण्डव ॥ ७.१७८.३५ ॥

看那大臂的怖军已落入罗刹之主的掌握。般度之子啊,循着他的足迹前去,不要犹豫。

7.178.36

धृष्टद्युम्नः शिखण्डी च युधामन्यूत्तमौजसौ ।
सहितौ द्रौपदेयाश्च कर्णं यान्तु महारथाः ॥ ७.१७८.३६ ॥

愿德律斯塔德尤姆那、湿迦叶丁、尤陀摩尼与乌塔玛奥賈斯,连同德罗波蒂之子们,诸大车士一同前往迎战迦尔纳。

7.178.37

नकुलः सहदेवश्च युयुधानश्च वीर्यवान् ।
इतरान्राक्षसान्घ्नन्तु शासनात्तव पाण्डव ॥ ७.१७८.३७ ॥

那古罗、萨诃提婆与勇猛的尤尤陀那,啊般度之子,依你之命,让他们去杀其余的罗刹。

7.178.38

त्वमपीमां महाबाहो चमूं द्रोणपुरस्कृताम् ।
मारयस्व नरव्याघ्र महद्धि भयमागतम् ॥ ७.१७८.३८ ॥

你也应击杀这支由德罗纳率领的军队,啊人中虎,因为大难已经降临。

7.178.39

एवमुक्ते तु कृष्णेन यथोद्दिष्टा महारथाः ।
जग्मुर्वैकर्तनं कर्णं राक्षसांश्चैव तान्रणे ॥ ७.१७८.३९ ॥

克里希那如此说后,诸大车战士依所指示,前往毗迦尔坦之子迦尔纳处,以及战场上那些罗刹。

7.178.40

अथ पूर्णायतोत्सृष्टैः शरैराशीविषोपमैः ।
धनुश्चिच्छेद भीमस्य राक्षसेन्द्रः प्रतापवान् ॥ ७.१७८.४० ॥

于是勇猛的罗刹王以拉满射出、如毒蛇般的箭,斩断了毗摩的弓。

7.178.41

हयांश्चास्य शितैर्बाणैः सारथिं च महाबलः ।
जघान मिषतः सङ्ख्ये भीमसेनस्य राक्षसः ॥ ७.१७८.४१ ॥

那位大力罗刹在战斗中,当着毗摩森那的面,以利箭杀死了他的马匹与御者。

7.178.42

सोऽवतीर्य रथोपस्थाद्धताश्वो हतसारथिः ।
तस्मै गुर्वीं गदां घोरां विनदन्नुत्ससर्ज ह ॥ ७.१७८.४२ ॥

马匹与御者皆已殒命,他便从战车的台板上跃下,怒吼着向那人掷出一柄沉重可怖的铁杵。

7.178.43

ततस्तां भीमनिर्घोषामापतन्तीं महागदाम् ।
गदया राक्षसो घोरो निजघान ननाद च ॥ ७.१७८.४३ ॥

此时,凶猛的罗刹见巨大铁杵挟着可怖的轰鸣向他袭来,便以自己的铁杵迎击,并怒吼起来。

7.178.44

तद्दृष्ट्वा राक्षसेन्द्रस्य घोरं कर्म भयावहम् ।
भीमसेनः प्रहृष्टात्मा गदामाशु परामृशत् ॥ ७.१७८.४४ ॥

毗摩娑那看见罗刹之王那可怖而令人恐惧的行为,心中欢喜,立即握起了自己的铁杵。

7.178.45

तयोः समभवद्युद्धं तुमुलं नररक्षसोः ।
गदानिपातसंहादैर्भुवं कम्पयतोर्भृशम् ॥ ७.१७८.४५ ॥

人与罗刹二者之间爆发了激烈的恶战,铁杵击打的轰响使大地剧烈震颤。

7.178.46

गदाविमुक्तौ तौ भूयः समासाद्येतरेतरम् ।
मुष्टिभिर्वज्रसंहादैरन्योन्यमभिजघ्नतुः ॥ ७.१७८.४६ ॥

二人抛下铁杵后,再次近身相搏,以如雷霆般轰响的拳头彼此猛击。

7.178.47

रथचक्रैर्युगैरक्षैरधिष्ठानैरुपस्करैः ।
यथासन्नमुपादाय निजघ्नतुरमर्षणौ ॥ ७.१७८.४७ ॥

二位愤怒的勇士随手抓起近旁之物——车轮、车轭、车轴、车台和车上的各种器具——相互击打。

7.178.48

तौ विक्षरन्तौ रुधिरं समासाद्येतरेतरम् ।
मत्ताविव महानागौ चकृपाते पुनः पुनः ॥ ७.१७८.४८ ॥

二人浑身滴血,彼此相对,反复交锋,如同两头发狂的巨象,因愤怒而颤抖、冲撞。

7.178.49

तावपश्यद्वृषीकेशः पाण्डवानां हिते रतः ।
स भीमसेनरक्षार्थं हैडिम्बिं पर्यचोदयत् ॥ ७.१७८.४९ ॥

专注于般度诸子之利的毗利轭舍(黑天)看见了他们二人。随后,为了保护毗摩森, 他督促希丁巴之子(迦托迦恰)。