Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.183

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.183.1

एकवीरवधे मोघा शक्तिः सूतात्मजे यदा ।
कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान् ॥ ७.१८३.१ ॥

当御者之子的长矛在杀死独一勇士时落空,他为何舍弃众人,不将它投向帕尔特ha?

7.183.2

तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः ।
एकवीरवधे कस्माद्युद्धे न जयमादधे ॥ ७.१८३.२ ॥

若他被杀,般度之子与斯林阇耶人必将全部被杀。在杀死独一勇士时,他为何未能在战斗中取得胜利?

7.183.3

आहूतो न निवर्तेयमिति तस्य महाव्रतम् ।
स्वयं मार्गयितव्यः स सूतपुत्रेण फल्गुनः ॥ ७.१८३.३ ॥

他的大誓言是:“受到挑战,我绝不退缩。”御者之子本应亲自去寻找法尔古那。

7.183.4

ततो द्वैरथमानीय फल्गुनं शक्तदत्तया ।
जघान न वृषा कस्मात्तन्ममाचक्ष्व सञ्जय ॥ ७.१८३.४ ॥

既然将法尔古那引至单挑之中,那雄牛为何不用帝释所赐之矛将他击倒?桑闍耶,请告诉我。

7.183.5

नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः ।
शत्रुभिर्व्यंसितः पापः कथं नु स जयेदरीन् ॥ ७.१८३.५ ॥

我的儿子定然无智且无助;被敌人所欺的那个罪人,又怎能战胜敌人呢?

7.183.6

या ह्यस्य परमा शक्तिर्जयस्य च परायणम् ।
सा शख्तिर्वासुदेवेन व्यंसिता च घटोत्कचे ॥ ७.१८३.६ ॥

那支作为他至高力量与胜利主要依靠的长矛,被婆苏提婆转向了迦托特迦查。

7.183.7

कुणेर्यथा हस्तगतं हियेद्बिल्वं बलीयसा ।
तथा शक्तिरमोघा सा मोघीभूता घटोत्कचे ॥ ७.१८३.७ ॥

如同独臂人手中的木苹果被更强者夺走,那支不可失的神矛对迦托迦制成了无效。

7.183.8

यथा वराहस्य शुनश्च युध्यतो… ।
स्तयोरभावे श्वपचस्य लाभः।
मन्ये विद्वन्वासुदेवस्य तद्व… ।
द्युद्धे लाभः कर्णहैडिम्बयोर्वै ॥ ७.१८३.८ ॥

当野猪与狗相斗时,……;在它们缺席时,贱民获利。智者啊,我认为婆苏提婆的那……;在战斗中,迦尔纳与海丁巴都有所获。

7.183.9

घटोत्कचो यदि हन्याद्वि कर्णं ।
परो लाभः स भवेत्पाण्डवानाम्।
वैकर्तनो वा यदि तं निहन्या… ।
त्तथापि कृत्यं शक्तिनाशात्कृतं स्यात् ॥ ७.१८३.९ ॥

若迦托迦杀死迦尔纳,那将是般度之子的最大利益。或者若维卡尔丹(迦尔纳)杀死他,那么神矛毁灭,事情也已完成。

7.183.10

इति प्राज्ञः प्रज्ञयैतद्विचिन्त्य ।
घटोत्कचं सूतपुत्रेण युद्धे।
अघातयद्वासुदेवो नृसिंहः ।
प्रियं कुर्वन्पाण्डवानां हितं च ॥ ७.१८३.१० ॥

智者如此以智慧思量之后,便让御者之子(迦尔纳)在战斗中杀死了迦托迦。人狮婆苏提婆如此行事,为般度之子行利益与善事。

7.183.11

एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप ।
नियोजयामास तदा द्वैरथे राक्षसेश्वरम् ॥ ७.१८३.११ ॥

国王啊,得知此意图后,摧毁摩图者(克利希那)便令迦尔纳与罗刹之主(迦托迦)单独决战。

7.183.12

घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः ।
अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव ॥ ७.१८३.१२ ॥

大智慧的遍人(黑天)派遣大威力的迦托迦拖,以挫败因你的恶谋而生的那支不可失之武器,哦国王。

7.183.13

तदैव कृतकार्या हि वयं स्याम कुरूद्वह ।
न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात् ॥ ७.१८३.१३ ॥

哦,库鲁中最优秀者,若黑天不从大车将迦尔纳手中保护那位普利塔之子,那么我们当时便已完成使命了。

7.183.14

साश्वध्वजरथः सङ्क्ये धृतराष्ट्र पतेद्भुवि ।
विना जनार्दनं पार्थो योगानामीश्वरं प्रभुम् ॥ ७.१८३.१४ ॥

哦,持国,在战斗中,那位普利塔之子连同马匹、旗帜与战车,若无那位主宰诸瑜伽的主人遍人,必将倒于地上。

7.183.15

तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिव ।
जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः ॥ ७.१८३.१५ ॥

哦,国王,普利塔之子受到种种方法的护佑,又受黑天庇护,便能战胜面前的敌人。

7.183.16

सविशेषं त्वमेयात्मा कृष्णो रक्षेन्न फल्गुनम् ।
हन्यात्क्षिप्रं हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः ॥ ७.१८३.१६ ॥

若无那位自性无量的黑天特别护佑法尔古那,那支投枪便会迅速击杀昆提之子,正如雷霆击倒大树。

7.183.17

विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः ।
यस्यैष समतिक्रान्तो वधोपायो जयं प्रति ॥ ७.१८३.१७ ॥

我的儿子,既是敌人,又是恶谋者,还自以为智慧;他已经错失了这条通往胜利的杀戮之计。

7.183.18

स वा कर्णो महाबुद्धिः सर्वशस्त्रभृतां वरः ।
न मुक्तवान्कथं सूत ताममोघां धनञ्जये ॥ ७.१८३.१८ ॥

智慧超群、为持械者之首的迦尔纳,为何不将那支无失之箭射向财主(阿周那),御者啊?

7.183.19

तवापि समतिक्रान्तमेतद्गावल्गणे कथम् ।
एतमर्थं महाबुद्धे यत्त्वया नावबोधितः ॥ ७.१८३.१९ ॥

嘎瓦尔嘎尼啊,这件事你怎么也忽略了?大智者啊,你为何没有把这件事告诉我?

7.183.20

दुर्योधनस्य शकुनेर्मम दुःशासनस्य च ।
रात्रौ रात्रौ भवत्येषा नित्यमेव विकत्थना ॥ ७.१८३.२० ॥

杜尤陀那、沙恭尼、我(持国)以及难降的这种自夸,每夜都在日复一日地发生。

7.183.21

श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनञ्जयम् ।
प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः ॥ ७.१८३.२१ ॥

明日,抛开所有军队,杀死财主(阿周那),迦尔纳啊;此后我们便将般度与般遮罗之子当作仆役来享用。

7.183.22

अथवा निहते पार्थं पाण्डवान्यतमं ततः ।
स्थापयेद्यदि वार्ष्णेयस्तस्मात्कृष्णो हि हन्यताम् ॥ ७.१८३.२२ ॥

或者,若在阿周那被杀之后,福利氏的后裔克里希那拥立般度之子中的某一人,那么就应当杀死克里希那。

7.183.23

कृष्णो हि मूलं पाण्डूनां पार्थः स्कन्ध इवोद्गतः ।
शाखा इवेतरे पार्थाः पाञ्चालाः पत्रसंज्ञिताः ॥ ७.१८३.२३ ॥

克里希那确实是般度诸子的根;阿周那如同挺立的树干;其余的普利塔之子如同枝条,而般遮罗人则被称为树叶。

7.183.24

कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः ।
कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः ॥ ७.१८३.२४ ॥

般度之子以克里希纳为依靠,以克里希纳为力量,以克里希纳为主。克里希纳是他们的至上归宿,如群星中的月亮。

7.183.25

तस्मात्पर्णानि शाखाश्च स्कन्धं चोत्सृज्य सूतज ।
कृष्णं हि विद्वि पाण्डूनां मूलं सर्वत्र सर्वदा ॥ ७.१८३.२५ ॥

因此,御者之子啊,舍弃枝叶与树干吧,应知克里希纳确是般度之子的根本,无处不在,永远如此。

7.183.26

हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम् ।
कृत्स्ना वसुमती राजन्वशे तस्य न संशयः ॥ ७.१८३.२६ ॥

大王啊,若迦尔纳杀死了耶达瓦人的欢喜——达舍尔哈,整个大地无疑都将归他所掌控。

7.183.27

यदि हि स निहतः शयीत भूमौ ।
यदुकुलपाण्डवनन्दनो महात्मा।
ननु तव वसुधा नरेन्द्र सर्वा ।
सगिरिसमुद्रवना वशं व्रजेत ॥ ७.१८३.२७ ॥

若那位大德,即耶度族与般度之子的欢喜者,被杀倒在地上,那么,人主啊,连同山岳、海洋与森林在内的整个大地,必将归你所有。

7.183.28

सा तु बुद्धिः कृताऽप्येवं जाग्रति त्रिदशेश्वरे ।
अप्रमेये हृषीकेशे युद्धकाले त्वमुह्यत ॥ ७.१८३.२८ ॥

此计虽已如此谋定,然而三十三天之主(因陀罗)尚在警醒,无量的希利喜开舍(克里希纳)亦在,你却在战时陷入迷惑。

7.183.29

अर्जुनं चापि राधेयात्सदा रक्षति केशवः ।
न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे ॥ ७.१८३.२९ ॥

克舍婆(克里希纳)始终保护阿周那免于罗陀之子(迦尔纳);在战场上,他确实不愿让阿周那去与御者之子相对。

7.183.30

अन्यांश्चास्मै रथोदारानुपास्थापयदच्युतः ।
अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो ॥ ७.१८३.३० ॥

阿周那的保护者又让其他优秀的车将站到他身前,心想:“我如何能使那无失之矛归于徒劳呢?”哦,主上。

7.183.31

यश्चैवं रक्षते पार्थं कर्णात्कृष्णो महामनाः ।
आत्मानं स कथं राजन्न रक्षेत्पुरुपोत्तमः ॥ ७.१८३.३१ ॥

如此从迦尔纳手中保护般度之子(阿周那)的伟大心胸的克里希纳,哦,国王,那位人中至尊怎会不保护自己呢?

7.183.32

परिचिन्त्य तु पश्यामि चक्रायुधमरिन्दमम् ।
न सोऽस्ति त्रिषु लोकेषु यो जयेत जनार्दनम् ॥ ७.१८३.३२ ॥

我仔细思量,看到三界之中无人能战胜手持轮宝的、制服敌人的遮那陀那(克里希纳)。

7.183.33

ततः कृष्णं महाबाहुं सात्यकिः सत्यविक्रमः ।
पप्रच्छ रथशार्दूलः कर्णं प्रति महारथः ॥ ७.१८३.३३ ॥

于是,勇力真实的、车将中的猛虎、大车将萨提亚奇,向大臂的克里希纳询问关于迦尔纳之事。

7.183.34

अयं च प्रत्ययः कर्णे शक्तिश्चामितविक्रमा ।
किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा ॥ ७.१८३.३४ ॥

迦尔纳有此信心,而那武器也有无量的威力。那么,这位御者之子为何不把它射向法尔古那(阿周那)呢?

7.183.35

दुःशासनश्च कर्णश्च शकुनिश्च मसैन्धवः ।
सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः। ॥ ७.१८३.३५ ॥

难降、迦尔纳、沙恭尼以及信度王遮耶陀罗陀,以难敌为首,经常密谋商议。

7.183.36

कर्णकर्ण महेष्वास रणेऽमितपराक्रम ।
नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर ॥ ७.१८३.३६ ॥

啊,迦尔纳,啊,迦尔纳,伟大的弓手,战场上武勇无量!胜利者中最优秀的人,你的这股力量应当施放在别人身上。

7.183.37

ऋते महारथात्कर्ण कुन्तीपुत्राद्वनञ्जयात् ।
स हि तेषामतियशा देवानामिव वासवः ॥ ७.१८३.३७ ॥

啊,迦尔纳,除了大战车手、昆提之子达南遮耶,他是他们之中最负盛名的,如同诸神中的因陀罗。

7.183.38

तस्मिन्विनिहते पार्थे पाण्डवाः सृञ्जयैः सह ।
भविष्यन्ति गतात्मानः सुरा इव निरग्नयः ॥ ७.१८३.३८ ॥

当那位普利塔之子被杀之后,般度之子与苏尼雅耶人将心神沮丧,如同失去圣火的诸神。

7.183.39

तथेति च प्रतिज्ञातं कर्णेन शिनिपुङ्गव ।
हृदि नित्यं च कर्णस्य वधो गाण्डीवधन्वनः ॥ ७.१८३.३९ ॥

啊,希尼族的英杰,迦尔纳说了“就这样吧”而立下了誓言;而迦尔纳心中时刻想着杀死执持甘狄拔弓者的念头。

7.183.40

अहमेव तु राधेयं मोहयामि युधांवर ।
ततो नावासृजच्छक्तिं पाण्डवे श्वेतवाहने ॥ ७.१८३.४० ॥

但我自己会迷惑罗陀之子(迦尔纳),战士中的英杰;因此他没有将那股力量对准白马的般度之子。

7.183.41

फल्गुनस्य हि सा मृत्युरिति चिन्तयतोऽनिशम् ।
न निद्रा न च मे हार्षो मनसोऽस्ति युधांवर ॥ ७.१८३.४१ ॥

我日夜思量那便是法尔古那(阿周那)的死亡,因此心中既无睡眠,也无欢喜,啊,战士中的英杰。

7.183.42

घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुङ्गव ।
मृत्योरास्यान्तरान्मुक्तं पस्याम्यद्य धनञ्जयम् ॥ ७.१८३.४२ ॥

诗尼之最啊,我虽见迦托特迦被击倒,如今却见财征已脱离死亡之口。

7.183.43

न पिता न च मे माता न यूयं भ्रातरस्तथा ।
न च प्राणास्तथा रक्ष्या यथा बीभत्सुराहवे ॥ ७.१८३.४३ ॥

无论我的父亲、母亲,还是你们兄弟,甚至我自己的生命,在战场上都不及比跋蹉(阿周那)那样值得守护。

7.183.44

त्रैलोक्यराज्याद्यत्किञ्चिद्भवेदन्यत्सुदुर्लभम् ।
नेच्छेयं सात्वताहं तद्विना पार्थं धनञ्जयम् ॥ ७.१८३.४४ ॥

即便是三界之王权,或其他极难得到之物,我身为萨特凡多,若无财征(阿周那)也不愿求取。

7.183.45

अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत् ।
मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनञ्जयम् ॥ ७.१८३.४५ ॥

因此,优优陀那啊,今日我心中大喜,仿佛见到已死而复归的贡手财征。

7.183.46

अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः ।
न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम् ॥ ७.१८३.४६ ॥

因此,我在战中派遣一罗刹去对付迦尔纳;因为夜战之中,无人能压制迦尔纳。

7.183.47

इति सात्यकये प्राह तदा देवकिनन्दनः ।
धनञ्जयहिते युक्तस्तत्प्रिये सततं रतः ॥ ७.१८३.४७ ॥

于是提婆基之子对萨谛耶基如此说道;他常专心于财征的福祉,时时以其所喜为乐。