Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.185

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.185.1

व्यासेनैवमथोक्तस्तु धर्मराजो युधिष्ठिरः ।
स्वयं कर्णवधाद्वीरो निवृत्तो भरतर्षभ ॥ ७.१८५.१ ॥

毗耶娑如此劝告后,法王坚战这位英雄亲自从杀死迦尔纳的战斗中撤了回来,婆罗多族的雄牛啊。

7.185.2

घटोत्कचे तु निहते सूतपुत्रेण ता निशाम् ।
दुःखामर्षवशं प्राप्तो धर्मराजो युधिष्ठिरः ॥ ७.१८५.२ ॥

当迦吒迦恃被御者之子(迦尔纳)杀死后,那一夜,法王坚战陷入悲痛与愤怒之中。

7.185.3

दृष्ट्वा भीमेन महतीं वार्यमाणां चमूं तव ।
धृष्टद्युम्नमुवाचेदं कुम्भयोनिं निवारय ॥ ७.१८५.३ ॥

他见你的大军被毗摩所阻,便对持国子德玄(束)说:“阻止俱卢仙(德罗纳)。”

7.185.4

त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात् ।
सशरः कवची खङ्गी धन्वी च परतापनः।
अभिद्रव रणे हृष्टो मा च ते भीः कथञ्चन ॥ ७.१८५.४ ॥

你正是为了毁灭德罗纳而从祭火中诞生的。持箭、披甲、握剑、执弓,令敌人痛苦的勇士啊,在战场上欢欣地冲上前去,愿你丝毫不要恐惧。

7.185.5

जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधरः ।
अभिद्रवन्तु संहृष्टाः कुम्भयोनिं समन्ततः ॥ ७.१८५.५ ॥

愿阎摩耶、尸根丁、道尔穆基与耶首陀罗欣喜地从四面八方冲向俱卢仙(德罗纳)。

7.185.6

नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः ।
द्रुपदश्च विराटश्च पुत्रभातृसमन्वितौ ॥ ७.१८५.६ ॥

无种与偕天,德罗波蒂的诸子与普拉巴德拉迦,还有德鲁帕达与毗罗吒,连同他们的儿子与兄弟。

7.185.7

सात्यकिः केकयाश्चैव पाण्डवश्च धनञ्जयः ।
अभिद्रवन्तु वेगेन कुम्भयोनिवधेप्सया ॥ ७.१८५.७ ॥

愿萨谛奇、柯迦耶诸王子与般度之子持弓(阿周那)以疾速冲上前去,欲杀瓶生者(德罗纳)。

7.185.8

तथैव रथिनः सर्वे हस्त्यश्वं यच्च किञ्चन ।
पदाताश्च रणे द्रोणं पातयन्तु महारथम् ॥ ७.१८५.८ ॥

同样,愿所有车兵、象马以及其他一切,并步卒,在战场上将大车士德罗纳击倒。

7.185.9

तथाऽऽज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना ।
अभ्यद्रवन्त वेगेन कुम्भयोनिवधेप्सया ॥ ७.१८५.९ ॥

受大度的般度之子如此命令,他们全都疾速冲上前去,欲杀瓶生者(德罗纳)。

7.185.10

आगच्छतस्तान्सहसा सर्वोद्योगेन पाण्डवान् ।
प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः ॥ ७.१८५.१० ॥

持兵器者中最优秀的德罗纳,在战场上迎击那些以全力突然冲来的般度之子。

7.185.11

ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान् ।
अभ्यद्रवत्सुसङ्क्रुद्ध इच्छन्द्रोणस्य जीवितम् ॥ ७.१८५.११ ॥

于是国王难敌极为愤怒,欲取德罗纳之命,以全力冲向般度之子。

7.185.12

ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम् ।
पाण्डवानां कुरूणां च गर्जतामितरेतरम् ॥ ७.१८५.१२ ॥

于是般度之子与俱卢人之间爆发了战斗;车辆与士兵已经疲惫,双方彼此怒吼。

7.185.13

निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे ।
नाभ्यपद्यन्त समरे काञ्चिच्चेष्टां महारथाः ॥ ७.१८५.१३ ॥

大王啊,那些被睡意蒙蔽、在战斗中极度疲惫的大车战士,在战斗中竟毫无作为。

7.185.14

त्रियामा रजनी चैषा घोररूपा भयानका ।
सहस्रयामप्रतिमा बभूव प्राणहारिणी ॥ ७.१८५.१४ ॥

这三更之夜变得形貌可怖、骇人,如同千更之长,夺人性命。

7.185.15

वध्यतां च तथा तेषां क्षतानां च विशेषतः ।
घोरा रात्रिः समाजज्ञे निद्रान्धानां विशेषतः ॥ ७.१८५.१५ ॥

对于被杀者和受伤者,尤其是被睡意蒙蔽的人来说,那可怕的夜晚感觉格外煎熬。

7.185.16

सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः ।
तव चैव परेषां च गतास्त्रा विगतेषवः ॥ ७.१८५.१६ ॥

所有刹帝利都士气低落、心灰意冷;无论是你方还是敌方,武器和箭矢都已耗尽。

7.185.17

ते तदा पारयन्तश्च भ्रमन्तश्च विशेषतः ।
स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम् ॥ ७.१८५.१७ ॥

于是他们坚持着,多半在四处奔走,心中念着自己的职责,没有离开自己的军队。

7.185.18

अस्त्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः ।
रथेष्वन्ये गजेष्वन्ये हयेष्वन्ये च भारत ॥ ७.१८५.१८ ॥

另一些人丢下武器,被睡意蒙蔽而躺下:有的在战车上,有的在象上,有的在马上,婆罗多啊。

7.185.19

निद्रान्धा नो बुबुधिरे काञ्चिच्चेष्टां नराधिप ।
तानन्ये समरे योधाः प्रेषयन्ति यमक्षयम् ॥ ७.१८५.१९ ॥

人主啊,被睡眠蒙蔽双眼的人察觉不到任何动静;其他战士则在战场上将他们送往阎摩之所。

7.185.20

स्वप्नायमानांस्त्वपरे परानतिविचेतसः ।
आत्मानं समरे जघ्नुः स्वानेव च परानपि ॥ ७.१८५.२० ॥

而其他人沉睡昏沉、心智全然迷乱,在战场上击伤了自己、自己人,也击伤了敌人。

7.185.21

नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे ॥ ७.१८५.२१ ॥

被睡眠蒙蔽双眼的他们,在那场大战中口中乱叫着各种言语。

7.185.22

अस्माकं च महाराज परेभ्यो बहवो जनाः ।
योद्धव्यमिति तिष्ठन्तो निदासंरक्तलोचनाः ॥ ७.१८५.२२ ॥

大王啊,我方也有许多人站立着,心想“必须作战”,双眼因睡意而发红,面对着敌人。

7.185.23

संसर्पन्तो रणे केचिन्निद्रान्धास्ते तथापरान् ।
जघ्रुः शूरा रणे शूरांस्तस्मिंस्तमसि दारुणे ॥ ७.१८५.२३ ॥

一些在战场上爬行的人,被睡眠蒙蔽,也同样击伤他人;在那可怕的黑暗中,勇士杀害了勇士。

7.185.24

हन्यमानमथात्मावनं परैश्च बहवो जनाः ।
नाभ्यजानन्त समरे निद्रया मोहिता भृशम् ॥ ७.१८५.२४ ॥

许多人被敌人击打,却无法认出战场上自卫的办法;他们被睡眠完全迷惑,毫无察觉。

7.185.25

तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः ।
उवाच वाक्यं बीभत्सुरुच्चैः सन्नादयन्दिशः ॥ ७.१८५.२५ ॥

般遮(阿周那),人中雄牛,见他们如此情状,高声说出这些话,使四方回响。

7.185.26

श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः ।
तमसा च वृते सैन्ये रजसा बहुलेन च ॥ ७.१८५.२६ ॥

你们都疲惫不堪,被睡意蒙蔽,连同你们的坐骑;军队被黑暗和浓厚的尘土所笼罩。

7.185.27

ते यूयं यदि मन्यध्वमुपारमत सैनिकाः ।
निमीलयत चात्रैव रणभूमौ मुहूर्तकम् ॥ ७.१८५.२७ ॥

士兵们,若你们这样认为,便停止战斗,就在这战场上,闭目片刻吧。

7.185.28

ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः ।
संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः ॥ ७.१८५.२८ ॥

之后,摆脱睡意、得到休息,待月亮升起,俱卢与般度的后人啊,你们将为了天堂再次彼此争斗至死。

7.185.29

तद्वचः सर्वधर्मज्ञा धार्मिकस्य विशाम्पते ।
अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन् ॥ ७.१८५.२९ ॥

人主啊,那些通晓一切法的军队赞同这位正义者的话,并彼此这样说道。

7.185.30

चुक्रुशुः कर्णकर्णेनि तथा दुर्योधनेति च ।
उपारमत पाण्डूनां विरता हि वरूथिनी ॥ ७.१८५.३० ॥

他们高呼“迦尔纳,迦尔纳!”和“难敌!”;般度之军停止进攻,退去了。

7.185.31

तथा विक्रोशमानस्य फल्गुनस्य ततस्ततः ।
उपारमत पाण्डूनां सेना तव च भारत ॥ ७.१८५.३१ ॥

阿周那四处大声呼喊之时,般度之子的军队与你的军队都停了下来,婆罗多啊。

7.185.32

तामस्य वाचं देवाश्च ऋषयश्च महात्मनः ।
सर्वसैन्यानि चाक्षुद्रां प्रहृष्टाः प्रत्यपूजयन् ॥ ७.१८५.३२ ॥

这位大德之人高尚的话语,被诸天神、仙人与一切军队欢喜地致敬回应。

7.185.33

तत्सम्पूज्य वचोऽक्रूरं सर्वसैन्यानि भारत ।
मुहूर्तमस्वपन्राजञ्श्रान्तानि भरतर्षभ ॥ ७.१८५.३३ ॥

众军敬重那温和的言语,疲惫之中,片刻沉睡,王啊,婆罗多之雄。

7.185.34

सा तु सम्प्राप्य विश्रामं ध्वजिनी तव भारत ।
सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत् ॥ ७.१८५.३४ ॥

你的军队得到休息,婆罗多啊,获得安宁,并敬重英雄阿周那。

7.185.35

त्वयि वेदास्तथास्त्राणि त्वयि बुद्धिपराक्रमौ ।
धर्मस्त्वयि महाबाहो दया भूतेषु चानघ ॥ ७.१८५.३५ ॥

你身上有吠陀与兵器;你身上有智慧与勇力。大臂者啊,你身上有法;无瑕者啊,你对众生有慈悲。

7.185.36

यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते ।
मनसश्च प्रियानर्थान्वीर क्षिप्रमवाप्नुहि ॥ ७.१८५.३६ ॥

我们既已安心,所愿为你求得的安宁,愿它归于你,普利塔之子啊。英雄啊,愿你迅速获得你心中所爱的目标。

7.185.37

इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः ।
निद्रया समवाक्षिप्तास्तूष्णीमासन्विशाम्पते ॥ ७.१८५.३७ ॥

如此,赞叹那人中之虎的大车战士们被睡眠所困,默然无语,人民之主啊。

7.185.38

वीरा वारणकुम्भेषु सुषुपुर्युद्धकर्शिताः ।
रात्रौ रतिपरिश्रान्ताः कामिनीनां कुचेष्विव ॥ ७.१८५.३८ ॥

征战疲惫的英雄们睡在象额上,如同夜间因欢爱而疲倦之人睡在女子的胸前。

7.185.39

अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे ।
गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ ॥ ७.१८५.३९ ॥

有人睡在马背上,有人睡在车座中,有人睡在象肩上,另有人睡在地上。

7.185.40

सायुधाः सगदाश्चैव सखङ्गाः सपरश्वथाः ।
सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक् ॥ ७.१८५.४० ॥

其他人带着兵器、铁锤、剑、斧、矛与铠甲,各自分开睡去。

7.185.41

गजास्ते पन्नगाभोगैर्हस्तैर्भूरेणुगुण्ठितैः ।
निद्रान्धा वसुधां चक्रुर्घ्राणनिः श्वासशीतलाम् ॥ ७.१८५.४१ ॥

那些象鼻如蛇盘曲、身披尘土的大象,被睡眠蒙蔽双眼,以鼻息使大地变得清凉。

7.185.42

सुप्ताः शुशुभिरे तत्र निःश्वसन्तो महीतले ।
विकीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः ॥ ७.१८५.४२ ॥

他们在那里睡于地面,呼吸起伏,光彩照人,如同被大蛇吐息所散落的群山。

7.185.43

समां च विषमां चक्रुः खुराग्रैर्विकृतां महीम् ।
हयाः काञ्चनयोक्त्रास्ते केसरालम्बिभिर्युगैः।
सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः ॥ ७.१८५.४३ ॥

那里的马以蹄尖踏坏了平坦与崎岖的大地;那些配有金辔、系于车上的马匹,啊,王中之王,都垂着鬃毛,四处睡去。

7.185.44

एवं हयाश्च नागाश्च योधाश्च भरतर्पभ ।
युद्धाद्विरम्य सुषुपुः श्रमेण महताऽन्विताः ॥ ७.१८५.४४ ॥

如此,马匹、象群与战士,啊,婆罗多中的雄牛,停止了战斗,在极度的疲惫中沉沉睡去。

7.185.45

तत्तथा निद्रया भग्नं तद्बभौ निःस्वनं बलम् ।
कुशलैः शिल्पिभिर्न्यस्तं पटे चित्रमिवाद्भुतम् ॥ ७.१८५.४५ ॥

那支被睡眠如此击碎、寂静无声的军队,闪耀如同巧匠绘于布帛上的奇妙画卷。

7.185.46

ते क्षत्रियाः कुण्डलिनो युवानः ।
परस्परं सायकविक्षताङ्गाः।
कुम्भेषु लीनाः सुषुपुर्गजानां ।
कुचेषु लग्ना इव कामिनीनाम् ॥ ७.१८५.४६ ॥

那些戴着耳环的年轻刹帝利,身体被彼此的箭矢所伤,紧贴着象额入睡,仿佛依偎在情人的胸前。

7.185.47

ततः कुमुदनाथेन कामिनीगण्डपाण्डुना ।
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ॥ ७.१८५.४७ ॥

于是,东方被月亮装点起来——那睡莲之主,苍白如美人的面颊,令双眼喜悦。

7.185.48

दशशताक्षककुब्दरिनिःसृतः ।
किरणकेसरभासुरपिञ्जरः।
तिमिरवारणवृथविदारणः ।
समुदियादुदयाचलकेसरी ॥ ७.१८५.४८ ॥

愿升起那日出山的雄狮——它从千眼之神的方位升起,金黄色,以光芒的鬃毛闪耀,撕裂那黑暗之象群。

7.185.49

हरवृषोत्तमगात्रसमद्युतिः ।
स्मरशरासनपूर्णसमप्रभः।
नववधृस्मितचारुमनोहरः ।
प्रविसृतः कुमुदाकरबान्धवः ॥ ७.१८५.४९ ॥

光辉如湿婆最优良公牛之身,明亮如爱神full张开的弓,可爱迷人如新娘之笑,睡莲池的友伴——月亮升起了。

7.185.50

ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः ।
अरुणं दर्शयामास ग्रसञ्ज्योतिः प्रभां प्रभुः ॥ ७.१८५.५० ॥

随后片刻,带兔形印记的尊者在东方显出绯红,主宰吞没了光明的光辉。

7.185.51

अरुणस्य तु तस्यानु जातरूपसमप्रभम् ।
रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत् ॥ ७.१८५.५१ ॥

在那绯红之后,月亮缓缓地放出一大片光网,其光辉如同黄金。

7.185.52

उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः ।
पर्यगच्छञ्छनैः सर्वा दिशः खं च क्षितिं तथा ॥ ७.१८५.५२ ॥

月光以其光辉驱散黑暗,缓缓遍布四方、天空,同样也遍布大地。

7.185.53

ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत् ।
अप्रख्यमप्रकाशं च जगामाशु तमस्तथा ॥ ७.१८५.५३ ॥

片刻之后,世界仿佛化为光明,模糊而无光的黑暗也迅速消散。

7.185.54

प्रतिप्रकाशिते लोके दिवाभूते निशाकरे ।
विचेरुर्न विचेरुश्च राजन्नक्तञ्चरास्ततः ॥ ७.१८५.५४ ॥

大王啊!月亮升起,世界被照亮如同白昼,夜间游荡的生灵便不再游荡,于是停止了行走。

7.185.55

बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः ।
बुबुधे शतपत्राणां वनं सूर्यांशुभिर्यथा ॥ ७.१८५.५५ ॥

大王啊,那支军队被月光唤醒,犹如百瓣莲花之林在日光照耀下绽放。

7.185.56

यथा चन्द्रोदयोद्धूतः क्षुभितः सागरोऽभवत् ।
तथा चन्द्रोदयोद्धूतः क्षुभितश्च बलार्णवः ॥ ७.१८५.५६ ॥

正如大海因月升而被掀起、变得汹涌,那支军队的海洋也因月升而被搅动,变得汹涌。

7.185.57

ततः प्रववृते युद्धं पुनरेव विशाम्पते ।
लोके लोकविनाशाय परं लोकमभीप्सताम् ॥ ७.१८५.५७ ॥

于是,人主啊,战斗再次爆发,在世间,为了世界的毁灭,为了那些渴望至高世界的人们。