Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.187

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.187.1

त्रिभागमात्रेषायां रात्र्यां युद्धमवर्तत ।
कुरूणां पाण्डवानां च संहृष्टानां विशाम्पते ॥ ७.१८७.१ ॥

人主啊,在夜晚只剩三分之一时,充满激情的俱卢族与般度族之间的战斗开始了。

7.187.2

अथ चन्द्रप्रभां मुष्णन्नादित्यस्य पुरःसरः ।
अरुणोऽभ्युदयाञ्चक्रे ताम्रीकृर्वन्निवाम्बरम् ॥ ७.१८७.२ ॥

于是太阳的先驱阿卢那夺去月光而升起,使天空仿佛染成了红色。

7.187.3

प्रकाशमकरोद्व्योम जगत्संरञ्जयन्निव ।
प्राच्यां दिशि सहस्रांशोररुणेनारुणीकृतम्।
तापनीयं यथा चक्रं भ्राजते रविमण्डलम् ॥ ७.१८७.३ ॥

他使天空明亮,仿佛为世界着色。东方的千光太阳之轮被阿卢那染红,闪耀如精炼的金轮。

7.187.4

ततो रथाश्वांश्च मनुष्ययाना… ।
न्युत्सृज्य सर्वे कुरुपाण्डुयोधाः।
दिवाकरस्याभिमुखं जपन्तः ।
सन्ध्यागताः प्राञ्जलयो बभूवुः ॥ ७.१८७.४ ॥

于是俱卢与般度的所有战士,舍弃战车、战马与人力抬的车辇……,面向太阳,低声诵念,投入晨昏之礼,合掌而立。

7.187.5

ततो द्वैधीकृते सैन्ये द्रोणः सोमकपाण्डवान् ।
अभ्यद्रवत्सपाञ्चालान्दुर्योधनपुरोगमः ॥ ७.१८७.५ ॥

于是军队一分为二,德罗纳在难敌的前导下攻击了索摩卡、般度族与般遮罗人。

7.187.6

द्वैधीकृतान्कुरून्दृष्ट्वा माधवोऽर्जुनमब्रवीत् ।
सपत्नान्सव्यतः कुर्याः सव्यसाचिन्निमान्कुरून् ॥ ७.१८७.६ ॥

摩陀婆见俱卢分为两部,对阿周那说:"右手神箭者啊,请把这些敌对的俱卢置于你的左侧。"

7.187.7

स माधवमनुज्ञाय कुरुष्वेति धनञ्जयः ।
द्रोणकर्णौ महेष्वासौ सव्यतः पर्यवर्तत ॥ ७.१८७.७ ॥

得到摩度婆(克里希那)允许,说了一声“去做吧”,阿周那便从左侧绕过了两位大弓箭手德罗纳和迦尔纳。

7.187.8

अभिप्रायं तु कृष्णस्य ज्ञात्वा परपुरञ्जयः ।
आजिशीर्षगतं पार्थं भीमसेनोऽभ्युवाच ह ॥ ७.१८७.८ ॥

婆罗多之子毗摩说,理解了克里希那的意图之后,征服敌城者毗摩sena对站在战阵前列的般度之子(阿周那)说道。

7.187.9

अर्जुनार्जुन बीभत्सो शृणुष्वैतद्वचो मम ।
यदर्थं क्षत्रिया सूते तस्य कालोऽयमागतः ॥ ७.१८७.९ ॥

阿周那啊,阿周那啊,毗跋蹉!请听我这句话。刹帝利所生之目的,那个时刻已经来到。

7.187.10

अस्मिंश्चेदागते काले श्रेयो न प्रतिपत्स्यसे ।
असम्भावितरूपस्त्वं सुनृशंसं करिष्यसि ॥ ७.१८७.१० ॥

若此时已到而你仍不得善果,你将现出难以想象的形相,做出极其残忍的事情。

7.187.11

सत्यश्रीधर्मयशसां वीर्येणानृण्यमाप्नुहि ।
भिन्ध्यनीकं युधांश्रेष्ठ प्रतिज्ञां सफलां कुरु ॥ ७.१८७.११ ॥

凭你的勇力偿还真理、吉祥、法与名誉的债务。战士中最杰出的人啊,击破敌军,使你的誓言成就!

7.187.12

स सव्यसाची भीमेन चोदितः केशवेन च ।
कर्णद्रोणावतिक्रम्य समन्तात्पर्यवारयत् ॥ ७.१८७.१२ ॥

在毗摩与克沙婆的催促下,左右开弓者(阿周那)越过迦尔纳与德罗纳,从四面将他们包围。

7.187.13

तमाजिशीर्षमायान्तं दहन्तं क्षत्रियर्षभान् ।
पराक्रान्तं पराक्रम्य ततः क्षत्रियपुङ्गवाः।
नाशक्नुवन्वारयितुं वर्धमानमिवानलम् ॥ ७.१८७.१३ ॥

他来到战阵前端,焚烧刹帝利中的雄牛,以勇力进攻,当时刹帝利中的英杰竟无法阻挡他,犹如蔓延的烈火。

7.187.14

अथ दुर्योधनः कर्णः शकुनिश्चापि सौबलः ।
अभ्यवर्षञ्छरव्रातैः कुन्तीपुत्रं धनञ्जयम् ॥ ७.१८७.१४ ॥

于是难敌、迦尔纳,以及苏波罗之子沙古尼,也向昆蒂之子阿周那倾泻箭雨。

7.187.15

तेषामस्त्राणि सर्वेषामुत्तमास्त्रविदां वरः ।
कदर्थीकृत्य राजेन्द्र शरवर्षैरवाकिरत् ॥ ७.१८७.१५ ॥

诸王之主啊!他是精通上乘兵器者中的翘楚,使他们的兵器失去效用,并以箭雨遮蔽了他们。

7.187.16

अस्त्रैरस्त्राणि संवार्य लघुहस्तो धनञ्जयः ।
सर्वानविध्यन्निशितैर्दशभिर्दशभिः शरैः ॥ ७.१८७.१६ ॥

以兵器挡兵器,手法灵巧的檀那阇耶用利箭射穿了他们所有人,每人十箭。

7.187.17

उद्धूता रजसो वृष्टिः शरवृष्टिस्तथैव च ।
तमश्च घोरं शब्दश्च तदा समभवन्महान् ॥ ७.१८७.१७ ॥

扬起的尘雨,同样的箭雨,可怖的黑暗与恐怖的喧声,当时都大规模地涌现出来。

7.187.18

न द्यौर्न भूमिर्न दिशः प्राज्ञायन्त तथागते ।
सैन्येन रजसा मूढं सर्वमन्घमिवाभवत् ॥ ७.१८७.१८ ॥

那时天、地与方位都无法辨识;一切都被军队的尘土弄得昏昧,仿佛盲瞎了一般。

7.187.19

नैव ते न वयं राजन्प्राज्ञासिष्म परस्परम् ।
शब्दमात्रेण जानीमो वयं ते च परस्परम्।
उद्देशेन हि तेन स्म समयुध्यन्त पार्थिवाः ॥ ७.१८७.१९ ॥

啊,国王!我们与他们都无法辨认彼此,仅凭声音才能相互识别。царей依照那一目标彼此交战。

7.187.20

विरथा रथिनो राजन्समासाद्य परस्परम् ।
केशेषु समसज्जन्त कवचेषु भुजेषु च ॥ ७.१८७.२० ॥

啊,国王!失去战车的车兵相遇后,彼此抓住头发、铠甲和手臂。

7.187.21

हताश्वा हतसूताश्च निश्चेष्टा रथिनो हताः ।
जीवन्त इव तत्र स्म व्यदृश्यन्त भयार्दिताः ॥ ७.१८७.२१ ॥

马匹与御者被杀,静止不动的车兵虽已死去,却在那里似乎仍活着,被恐惧所折磨。

7.187.22

हतान्गजान्समाश्लिष्य पर्वतानिव वाजिनः ।
गतसत्वा व्यदृश्यन्त तथैव सह सादिभिः ॥ ७.१८७.२२ ॥

马匹依附于死去的象身,看起来如同山峦;它们已无生气,与骑手一同呈现出那般景象。

7.187.23

ततस्त्वभ्यवसृत्यैव सङ्ग्रामादुत्तरां दिशम् ।
आतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन् ॥ ७.१८७.२३ ॥

于是德罗纳从战阵退向北方,站在那里,在战斗中如无烟之火般燃烧。

7.187.24

तमाजिशीर्षादेकान्तमपक्रान्तं निशम्य तु ।
समकम्पन्त सैन्यानि पाण्डवानां विशाम्पते ॥ ७.१८७.२४ ॥

人民之主啊,听说德罗纳已独自从战阵前列退去,般度之子的军队便都颤抖起来。

7.187.25

भ्राजमानं श्रिया युक्तं ज्वलन्तमिव तेजसा ।
द्रोणं दृष्ट्वा परे त्रेसुश्चेरुर्मम्लुश्च भारत ॥ ७.१८७.२५ ॥

见德罗纳光辉灿烂、威光如焚,敌军惊恐,四处奔走,神色萎靡,婆罗多啊。

7.187.26

आह्वयन्तं परानीकं प्रभिन्नमिव वारणम् ।
नैनमाशंसिरे जेतुं दानवा वासवं यथा ॥ ७.१८७.२६ ॥

德罗纳挑战敌军,如同发情的象,敌人未曾指望能胜过他,正如达那婆不指望能战胜婆娑。

7.187.27

केचिदासन्निरुत्साहाः केचित्क्रुद्धा मनस्विनः ।
विस्मिताश्चाभवन्केचित्केचिद्वृष्टाऽभवन्युधि ॥ ७.१८७.२७ ॥

有些人失去了斗志,有些人愤怒而意志坚定;有些人惊讶,有些人在战斗中欢喜。

7.187.28

हस्तैर्हस्ताग्रमपरे प्रत्यपिम्पन्नराधिपाः ।
अपरे दशनैरोष्ठानदशन्क्रोधमूर्च्छिताः ॥ ७.१८७.२८ ॥

有些国王用手互相摩擦指尖;其他人则怒不可遏,用牙齿咬住嘴唇。

7.187.29

व्याक्षिपन्नायुधान्यन्ये ममृदुश्चापरे भुजान् ।
अन्ये चान्वपतन्द्रोणं त्यक्तात्मानो महौजसः ॥ ७.१८७.२९ ॥

有些人抛掉兵器,有些人攥紧手臂;另一些人舍弃性命,扑向大力的德罗纳。

7.187.30

पाञ्चालास्तु विशेषेण द्रोणसायकपीडिताः ।
समसज्जन्त राजेन्द्र समरे भृशवेदनाः ॥ ७.१८७.३० ॥

般遮罗人尤其被德罗纳的箭所折磨,诸王之王啊,他们在战斗中痛苦万分,彼此紧紧相拥。

7.187.31

ततो विराटद्रुपदौ द्रोणं प्रति ययू रणे ।
तथा चरन्तं सङ्ग्रामे भृशं समरदुर्जयम् ॥ ७.१८७.३१ ॥

于是毗罗吒与德鲁巴达在战场上冲向德罗纳,他如此在阵中驰骋,在战斗中极难被战胜。

7.187.32

द्रुपदस्य ततः पौत्रास्त्रय एव विशाम्पते ।
चेदयश्च महेष्वासा द्रोणमेवाभ्ययुर्युधि ॥ ७.१८७.३२ ॥

于是德鲁巴达的三个孙子,以及众多的大弓箭手车底人,在战斗中都直奔德罗纳而去。

7.187.33

तेषां द्रुपदपौत्राणां त्रयाणां निशितैः शरैः ।
त्रिभिर्द्रोणोऽहरत्प्राणांस्ते हता न्यपतन्भुवि ॥ ७.१८७.३३ ॥

德罗纳以每人三支利箭夺去了德鲁巴达那三个孙子的性命;他们被杀倒地。

7.187.34

ततो द्रोणोऽजयद्युद्धे चेदिकैकेयसृञ्जयान् ।
मात्स्यांश्चैवाजयत्कृत्स्नान्भारद्वाजो महारथान् ॥ ७.१८७.३४ ॥

于是德罗纳在战斗中击败了车底、凯卡耶和苏朗阇耶人,婆罗堕遮之子又击败了摩蹉人的所有大车将。

7.187.35

ततस्तु द्रुपदः क्रोधाच्छरवर्षमवासृजत् ।
द्रोणं प्रति महाराज विराटश्चैव संयुगे ॥ ७.१८७.३५ ॥

于是德鲁巴达怒气冲冲地向德罗纳射出箭雨;大王啊,毗罗吒在战斗中也对德罗纳如此做了。

7.187.36

तं निहत्येषुवर्षं तु द्रोणः क्षत्रियमर्दनः ।
तौ शरैश्छादयामास विराटद्रुपदावुभौ ॥ ७.१८७.३६ ॥

摧毁刹帝利的德罗纳摧毁了那箭雨,并用自己的箭遮蔽了毗罗吒和德鲁巴达二人。

7.187.37

द्रोणेन च्छाद्यमानौ तु क्रुद्धौ सङ्ग्राममूर्धनि ।
द्रोणं शरैर्विव्यधतुः परमं क्रोधमास्थितौ ॥ ७.१८७.३७ ॥

二人被德罗纳所遮蔽,在战阵前列愤怒不已,怀着极大的怒火,用箭射穿了德罗纳。

7.187.38

तत द्रोणो महाराज क्रोधामर्षसमन्वितः ।
भल्लाभ्यां भृशतीक्ष्णाभ्यां चिच्छेद धनुषी तयोः ॥ ७.१८७.३८ ॥

于是,大王,充满愤怒与不甘的德罗纳,用两支极锋利的婆罗箭斩断了二人的弓。

7.187.39

ततो विराटः कुपितः समरे तोमरान्दश ।
दश चिक्षेप च शरान्द्रोणस्य वधकाङ्क्षया ॥ ७.१८७.३९ ॥

于是,在战斗中愤怒的毗罗吒,怀着杀死德罗纳的愿望,投出十支投矛和十支箭。

7.187.40

शक्तिं च द्रुपदो घोरामायसीं स्वर्णभूषिताम् ।
चिक्षेप भुजगेन्द्राभां क्रुद्धो द्रोणरथं प्रति ॥ ७.१८७.४० ॥

德律波陀愤怒地向德罗纳的战车投出一支可怕的铁制长矛,饰以黄金,闪耀如大蛇。

7.187.41

ततो भल्लैः सुनिशितैश्छित्त्वा तांस्तोमारान्दश ।
शक्तिं कनकवैदूर्यां द्रोणश्चिच्छेद सायकैः ॥ ७.१८७.४१ ॥

于是德罗纳以极锋利的婆罗箭斩断那十支投矛,又以箭斩断了饰有黄金与青金石的长矛。

7.187.42

ततो द्रोणः सुपीताभ्यां भल्लाभ्यामरिमर्दनः ।
द्रुपदं च विराटं च प्रेषयामास मृत्यवे ॥ ७.१८७.४२ ॥

于是摧毁敌人的德罗纳,以两支极明亮的婆罗箭,将德律波陀与毗罗吒双双送往死亡。

7.187.43

हते विराटे द्रुपदे केकयेषु तथैव च ।
तथैव चेदिमात्स्येषु पाञ्चालेषु तथैव च ॥ ७.१८७.४३ ॥

当毗罗吒与德鲁帕达被杀之时,凯迦耶人中亦然,支第人与摩蹉人中亦然,般遮罗人中亦然。

7.187.44

हतेषु त्रिषु वीरेषु द्रुपदस्य च नप्तृषु ।
द्रोणस्य कर्म तद्दृष्ट्वा कोपदुःखसमन्वितः।
शशाप रथिनां मध्ये धृष्टद्युम्नो महामनाः ॥ ७.१८७.४४ ॥

德鲁帕达的三位英勇孙子被杀之后,目睹德罗纳的所为,心怀大志的德里斯塔德尤姆纳充满愤怒与悲痛,在战车武士之间诅咒了他。

7.187.45

इष्टापूर्तात्तथा क्षात्राद्ब्राह्मण्याच्च स नश्यतु ।
द्रोणो यस्याद्य मुच्येत यं वा द्रोणः पराभवेत् ॥ ७.१८७.४५ ॥

愿他因祭祀与功德,因刹帝利之法,也因婆罗门身份而毁灭。今日德罗纳所放过的人,或德罗纳所击败的人。

7.187.46

इति तेषां प्रतिश्रुत्य मध्ये सर्वधनुष्मताम् ।
आयाद्द्रोणं सहानीकाः पाञ्चाल्यऋ परवीरहा ॥ ७.१८७.४६ ॥

如此在所有弓箭手面前立誓之后,般遮罗人率领军队向德罗纳而来,那是屠杀敌方英雄者。

7.187.47

पाञ्चालास्त्वेकतो द्रोणभ्यघ्नन्पाण्डवैः सह ।
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः।
सोदर्याश्च यथा मुख्यास्तेऽरक्षन्द्रोणमाहवे ॥ ७.१८७.४७ ॥

般遮罗人从一侧与般度之子们一起攻击德罗纳。难敌、迦尔纳、沙恭尼和苏跋罗之子,以及主要的兄弟们,在战斗中保护德罗纳。

7.187.48

रक्ष्यमाणं तथा द्रोणं सर्वैस्तैस्तु महारथैः ।
यतमानास्तु पाञ्चाला न शेकुः प्रतिवीक्षितुम् ॥ ७.१८७.४८ ॥

德罗纳被那些大车战士如此保护着,般遮罗人虽竭力而为,却连正眼看他都做不到。

7.187.49

तत्राक्रुध्यद्भीमसेनो धृष्टद्युम्नस्य मारिष ।
स एनं वाग्भिरुग्राभिस्ततक्ष पुरुषर्षभः ॥ ७.१८७.४९ ॥

在那里,主啊,毗摩娑那对猛光生起了愤怒,那位人中之牛以严厉的言辞刺伤了他。

7.187.50

द्रुपदस्य कुले जातः सर्वास्त्रेष्वस्त्रवित्तमः ।
कः क्षत्रियो मन्यमानः प्रेक्षेतारिमवस्थितम् ॥ ७.१८७.५० ॥

生于德鲁帕达家族,于一切兵器中最为精通,哪位自认为刹帝利的武士会去注视站在面前的敌人?

7.187.51

पितृपुत्रवधं प्राप्य पुंस्त्वं को वा प्रहर्षयेत् ।
विशेषतस्तु शपथं शपित्वा राजसंसदि ॥ ७.१८७.५१ ॥

遭受父亲与儿子被杀之后,哪个有男子气概的人会去取悦他?尤其是在诸王会场上已经发誓之后?

7.187.52

एष वैश्वानर इव समिद्धः स्वेन तेजसा ।
शरचापेन्धनो द्रोणः क्षत्रं दहति तेजसा ॥ ७.१८७.५२ ॥

这位德罗纳以自身光辉如火神毗舍婆那般燃烧,以箭与弓为薪柴,以他的光焰焚烧刹帝利武士。

7.187.53

पुरा करोति निःशेषां पाण्डवानामनीकिनीम् ।
स्थिताः पश्यत मे कर्म द्रोणमेव व्रजाम्यहम् ॥ ७.१८७.५३ ॥

他已在摧毁般度之子的整支大军。站立吧,看我的作为;我正要直奔德罗纳而去。

7.187.54

इत्युक्त्वा प्राविशत्क्रुद्धो द्रोणानीकं वृकोदरः ।
शरैः पूर्णायतोत्सृष्टौर्द्रावयंस्तव वाहिनीम् ॥ ७.१८७.५४ ॥

说完这些,愤怒的狼腹冲入德罗纳的军中,以全力拉满弓射出的箭矢,驱散了你们的军队。

7.187.55

धृष्टद्युम्नोऽपि पाञ्चाल्यः प्रविश्य महतीं चमूम् ।
आससाद रणे द्रोणं तदासीत्तुमुलं महत् ॥ ७.१८७.५५ ॥

般遮罗王子德里斯塔德尤姆纳也冲入大军,在战场上迎战德罗纳;那时发生了巨大的骚乱。

7.187.56

नैव नस्तादृशं युद्धं दृष्टपूर्वं न च श्रुतम् ।
यथा सूर्योदये राजन्समुत्पिञ्जोऽभवन्महान् ॥ ७.१८७.५६ ॥

大王啊,我们从未见过、也未听说过这样的战斗,就像日出时腾起了巨大的尘土与喧嚣。

7.187.57

संसक्तान्येव चादृश्यन्रथवृन्दानि मारिष ।
हतानि च विकीर्णानि सरीराणि शरीरिणाम् ॥ ७.१८७.५७ ॥

尊者啊,只见战车群相互纠缠,有生命者的尸体被杀后散落各处。

7.187.58

केचिदन्यत्र गच्छन्तः पथि चान्यैरुपद्रुताः ।
विमुखाः पृष्ठतश्चान्ये ताड्यन्ते पार्श्वतः परे ॥ ७.१८७.५८ ॥

有些人向别处逃去,在路上又被他人追击;有些人转身背对敌人,另一些人则从侧面被击打。

7.187.59

तथा संसक्तयुद्धं तदभवद्भृशदारुणम् ।
अथ सन्ध्यागतः सूर्यः क्षणेन समपद्यत ॥ ७.१८७.५९ ॥

如此激烈的战斗变得极其可怕;那时太阳到了黄昏,转瞬间便落下了。