Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.189

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.189.1

ततो दुःशासनः क्रुद्धः सहदेवमुपाद्रवत् ।
रथवेगेन तीव्रेण कम्पयन्निव मेदिनीम् ॥ ७.१८९.१ ॥

于是愤怒的难降以战车的猛烈速度冲向偕天,仿佛要震动大地。

7.189.2

तस्यापतत एवाशु भल्लेनामित्रकर्शनः ।
माद्रीपुत्रः शिरो यन्तुः सशिरस्त्राणमच्छिनत् ॥ ७.१८९.२ ॥

他正扑来之时,克敌的玛德莉之子以一支利箭迅速斩下了御者的头颅,连同头盔一起。

7.189.3

नैनं दुःशासनः सूतं नापि कश्चन सैनिकः ।
कृत्तोत्तमाङ्गमाशुत्वात्सहदेवेन बुद्धवान् ॥ ७.१८९.३ ॥

因偕天的迅捷,无论难降还是任何士兵都未察觉这位御者的头颅已被斩断。

7.189.4

यदा त्वसङ्गृहीतत्वात्प्रयान्त्यश्वा यथासुखम् ।
ततो दुःशासनः सूतं बुबुधे गतचेतसम् ॥ ७.१८९.४ ॥

当马匹失去控制,随意奔驰之时,难降这才察觉御者已失去知觉。

7.189.5

स हयान्सन्निगृह्याजौ स्वयं हयविशारदः ।
युयुधे रथिनां श्रेष्ठो लघु चित्रं च सुष्ठु च ॥ ७.१८९.५ ॥

他亲自紧握马缰,作为车战勇士中的翘楚、驭马的高手,在战场上轻捷、奇妙而娴熟地作战。

7.189.6

तदस्यापूजयन्कर्म स्वे परे चापि संयुगे ।
हतसूतरथेनाजौ व्यचरद्यदभीतवत् ॥ ७.१८९.६ ॥

无论己方还是敌方都赞叹他的这一壮举;御者被杀之后,他驾着战车在战场上穿行,仿佛毫无畏惧。

7.189.7

सहदेवस्तु तानश्वांस्तीक्ष्णैर्बाणैरवाकिरत् ।
पीड्यमानाः शरैश्चाशु प्राद्रवंस्ते ततस्ततः ॥ ७.१८९.७ ॥

偕提婆以利箭射向那些马;马被箭所伤,立即四散奔逃。

7.189.8

स रश्मिषु विषक्तत्वादुत्सर्ज शरासनम् ।
धनुषा कर्म कुर्वंस्तु रश्मींश्च पुनरुत्सृजत् ॥ ७.१८९.८ ॥

因缰绳缠绕,他放下了弓;用弓作战时,他又松开了缰绳。

7.189.9

छिद्रेष्वेतेषु तं बाणैर्माद्रीपुत्रोऽभ्यवाकिरत् ।
परीप्संस्त्वत्सुतं कर्णस्तदन्तरमवापतत् ॥ ७.१८९.९ ॥

马德丽之子从这些空隙中向他射出箭雨;迦尔纳想保护你的儿子,便冲入了那个空隙。

7.189.10

वृकोदरस्ततः कर्णं त्रिभिर्भल्लैः समाहितः ।
आकर्णपूर्णैरभ्यघ्नद्बाह्वोरुरसि चानदत् ॥ ७.१८९.१० ॥

于是狼腹专注地以三支拉至耳边的婆罗箭射中迦尔纳,击中他的双臂与胸膛,并发出吼声。

7.189.11

स निवृत्तस्ततः कर्णः सङ्घट्टित इवोरगः ।
भीममावारयामास विकिरन्निशिताञ्छरान्।
ततोऽभूत्तुमुलं युद्धं भीमराधेययोस्तदा ॥ ७.१८९.११ ॥

迦尔纳如被蛇咬一般转身,射出锐利的箭矢阻挡狼腹;于是狼腹与拉陀之子之间爆发了激烈的战斗。

7.189.12

तौ वृषाविव नर्दन्तौ विवृत्तनयनावुभौ ।
वेगेन महताऽन्योन्यं संरब्धावभिपेततुः ॥ ७.१८९.१२ ॥

二人如公牛般咆哮,目光圆睁,怒火中烧,以巨大的力量彼此扑了上去。

7.189.13

अभिसंश्लिष्टयोस्तत्र तयोराहवशौण्डयोः ।
विच्छिन्नशरपातत्वाद्गदायुद्धमवर्तत ॥ ७.१८९.१३ ॥

当这两位以战斗勇武自豪的人近身搏斗时,箭雨中断,于是展开了一场铁锤之战。

7.189.14

गदया भीमसेनस्तु कर्णस्य रथकूबरम् ।
बिभेद शतधा राजंस्तदद्भुतमिवाभवत् ॥ ७.१८९.१४ ॥

大王,怖军以铁锤将迦尔纳的车辕击碎成百段,那看来竟是一件奇事。

7.189.15

ततो भीमस्य राधेयो गदामाविध्य वीर्यवान् ।
अवासृजद्रथे तां तु बिभेद गदया गदाम् ॥ ७.१८९.१५ ॥

于是勇猛的迦尔纳、罗陀之子旋转怖军的铁锤,掷向战车,并以自己的铁锤将其击碎。

7.189.16

ततो भीमः पुनर्गुर्वीं चिक्षेपाधिरथेर्गदाम् ।
तां गदां बहुभिः कर्णः सुपुङ्खैः सुप्रवेजितैः ॥ ७.१८९.१६ ॥

于是怖军再次向阿提罗陀之子迦尔纳掷出沉重的铁锤;迦尔纳以许多羽翎精美、射得精准的箭将其挡住。

7.189.17

प्रत्यविध्यत्पुनश्चान्यैः सा भीमं पुनराव्रजत् ।
व्यालीव मन्त्राभिहता कर्णबाणैरभिद्रुता ॥ ७.१८९.१७ ॥

他又以其他箭将其打回,那铁锤如同被咒语击中、被迦尔纳之箭追逐的蛇,又返回怖军身边。

7.189.18

तस्याः प्रतिनिपातेन भीमस्य विपुलो ध्वजः ।
पपात सारथिश्चास्य मुमोह च गदाहतः ॥ ७.१८९.१८ ॥

那铁锤回弹落下,怖军的大旗倒下,他的御者也被铁锤击中而昏厥。

7.189.19

स कर्णं सायकानष्टौ व्यसृजत्क्रोधमूर्च्छितः ।
तैस्तस्य निशितैस्तीक्ष्णैर्भीमसेनो महाबलः ॥ ७.१८९.१९ ॥

他怒火攻心,向迦尔纳射出八支箭。大力的毗摩森那以那些锐利的箭回击了他。

7.189.20

चिच्छेद परवीरघ्नः प्रहसन्निव भारत ।
ध्वजं शरासनं चैव शरावापं च भारत ॥ ७.१८९.२० ॥

他是敌方英雄的摧毁者,仿佛含笑一般,斩断了他的旗帜、弓和箭袋,婆罗多啊。

7.189.21

कर्णोऽप्यन्यद्धनुर्गृह्य हेमपृष्ठं दुरासदम् ।
ततः पुनस्तु राधेयो हयानस्य रथेषुभिः।
ऋक्षवर्णाञ्जघानाशु तथोभौ पार्ष्णिसारथी ॥ ७.१८९.२१ ॥

迦尔纳也拿起另一张金背、难以逼近的弓。随后,罗陀之子以战车箭迅速射倒了毗摩的熊色马匹,又同样击杀了两侧的御者。

7.189.22

स विपन्नरथो भीमो नकुलस्याप्लुतो रथम् ।
हरिर्यथा गिरेः शृङ्गं समाक्रमदरिन्दमः ॥ ७.१८९.२२ ॥

战车被毁,降服敌人的毗摩跃上了那恶罗的战车,如同狮子登上山峰。

7.189.23

तथा द्रोणार्जुनौ चित्रमयुध्येतां महारथौ ।
आचार्यशिष्यौ राजेन्द्र कृतप्रतिकृतौ युधि ॥ ७.१८९.२३ ॥

同样,德罗纳与阿周那这两位大战车武士,师徒二人,啊,诸王之主,在战斗中以牙还牙,奇妙地作战。

7.189.24

लघुसन्धानयोगाभ्यां रथयोश्च रणेन च ।
मोहयन्तौ मनुष्याणां चक्षूंषि च मनांसि च ॥ ७.१८९.२४ ॥

凭借他们迅捷的搭箭技艺、两辆战车的疾驰以及战斗本身,二人迷惑了人们的眼睛与心神。

7.189.25

उपारमन्त ते सर्वे योधाऽस्माकं परे तथा ।
विचित्रान्पृतनामध्ये रथमार्गानुदीर्य तौ। ॥ ७.१८९.२५ ॥

二人在军阵之中展示奇妙的战车行进之术,我方与敌方的所有战士都停下了。

7.189.26

अन्योन्यमपसव्यं च कर्तुं वीरौ तदेषतुः ॥ ७.१८९.२६ ॥

那两位英雄努力地以逆行(apasavya)的方向互相环绕。

7.189.27

पराक्रमं तयोर्योधा ददृशुस्ते सुविस्मिताः ॥ ७.१८९.२७ ॥

众战士极为惊讶,目睹了二人的勇武。

7.189.28

तयोः समभवद्युद्धं द्रोणपाण्डवयोर्महत् ।
आमिषार्थे महाराज गगने श्येनयोरिव ॥ ७.१८९.२८ ॥

大王啊,二人之间,德罗纳与般度之子之间,爆发了一场大战,如同天空中两只鹰为肉而争斗。

7.189.29

यद्यच्चकार द्रोणस्तु कुन्तीपुत्रजिगीषया ।
तत्तत्प्रतिजघानाशु प्रहसंस्तस्य पाण्डवः ॥ ७.१८९.२९ ॥

德罗纳为征服贡蒂之子所做的一切,般度之子都笑着立即加以化解。

7.189.30

यदा द्रोणो न शक्नोति पाण्डवं स्म विशेषितुम् ।
ततः प्रादुश्चकारास्त्रमस्त्रमार्गविशारदः ॥ ७.१८९.३० ॥

当德罗纳无法胜过般度之子时,精通兵器之道的他便祭出了一件兵器。

7.189.31

ऐन्द्रं पाशुपतं त्वाष्ट्रं वायव्यमथ वारुणम् ।
मुक्तंमुक्तं द्रोणचापात्तज्जघान धनञ्जयः ॥ ७.१८९.३१ ॥

因陀罗、帕休帕塔、特瓦希阿里、风神与水神之箭——凡从德罗纳之弓射出的,阿周那皆将其一一击落。

7.189.32

अस्त्राण्यस्त्रैर्यदा तस्य विधिवद्धन्ति पाण्डवः ।
ततोऽस्त्रैः परमैर्दिव्यैर्द्रोणः पार्थमवाकिरत् ॥ ७.१८९.३२ ॥

当般度之子依法以兵器抵挡他的兵器时,德罗纳便以至上的神圣兵器向普利塔之子倾泻箭雨。

7.189.33

यद्यदस्त्रं स पार्थाय प्रयुङ्क्ते विजिगीषया ।
तस्यतस्य विघाताय तत्तद्धि कुरुतेऽर्जुनः ॥ ७.१८९.३३ ॥

他若以求胜之心向普利塔之子射出任何兵器,阿周那便用同样的兵器将其化解。

7.189.34

स वध्यमानेष्वस्त्रेषु दिव्येष्वपि यथाविधि ।
अर्जुनेनार्जुनं द्रोणो मनसैवाभ्यपूजयत् ॥ ७.१८९.३४ ॥

尽管他的神圣兵器被阿周那依法一一摧毁,德罗纳仍在心中敬重阿周那。

7.189.35

मेने चात्मानमधिकं पृथिव्यामधि भारत ।
तेन शिष्येण सर्वेभ्यः शस्त्रविद्भ्य परन्तपः ॥ ७.१८९.३५ ॥

婆罗多之子啊,德罗纳因那位弟子而自认为在大地上胜过所有精通兵器者,你这敌人的烧灼者。

7.189.36

वार्यमाणस्तु पार्थेन तथा मध्ये महात्मनाम् ।
यतमानोऽर्जुनं प्रीत्या प्रीयते स्मार्जुनेन सः ॥ ७.१८९.३६ ॥

尽管在众大德之中被普利塔之子如此阻挡,他仍奋力前行,却因爱而欣喜于阿周那。

7.189.37

ततोऽन्तरिक्षे देवाश्च गन्धर्वाश्च सहस्रशः ।
ऋषयः सिद्धसङ्घाश्च व्यतिष्ठन्त दिदृक्षया ॥ ७.१८९.३७ ॥

于是天空中,成千上万的天神与乾闼婆,以及仙人和悉陀众,因想要观看而停立。

7.189.38

तदप्सरोभिराकीर्णं यक्षगन्धर्वसङ्कुलम् ।
श्रीमदाकाशमभवद्भूयो मेघाकुलं यथा ॥ ७.१८९.३८ ॥

那片布满阿普萨拉斯、挤满夜叉与乾闼婆的天空,再次变得壮丽,仿佛被云雾所笼罩。

7.189.39

तत्रास्मान्तर्हिता वाचो व्यचरन्त पुनः पुनः ।
द्रोणपार्थस्तवोपेता व्यश्रूयन्त नराधिप ॥ ७.१८९.३९ ॥

在那里,隐形的声音在我们之间反复回荡,伴随着对德罗纳与阿周那的赞颂,被人听见,啊人主。

7.189.40

विसृज्यमानेष्वस्त्रेषु ज्वालयस्तु दिशो दश ।
अब्रुवंस्तत्र सिद्धाश्च ऋषयश्च समागताः ॥ ७.१८९.४० ॥

当兵器射出,照亮十方之时,聚集在那里的悉陀与仙人说道。

7.189.41

नैवेदं मानुषं युद्धं नासुरं न च राक्षसम् ।
न दैवं न च गान्धर्वं ब्राह्मणं ध्रुवमिदं परम् ॥ ७.१८९.४१ ॥

这场战斗既非人类之战,也非阿修罗或罗刹之战;既非天神之战,也非乾闼婆之战;这确实是至高的婆罗门(神圣智慧)之战。

7.189.42

विचित्रमिदमाश्चर्यं न नो दृष्टं न च श्रुतम् ।
अति पाण्डवमाचार्यो द्रोणं चाप्यति पाण्डवः ॥ ७.१८९.४२ ॥

这样奇异的景象,我们从未见过,也从未听闻:阿阇梨德罗纳胜过般度之子,而般度之子也胜过德罗纳。

7.189.43

नानयोरन्तरं शक्यं द्रष्टुमन्येन केनचित् ॥ ७.१८९.४३ ॥

这二人之间的差别,无人能够看清。

7.189.44

यदि रुद्रो द्विधाकृत्य युध्येतात्मानमात्मना ।
तत्र शक्योपमा कर्तुमन्यत्र तु न विद्यते ॥ ७.१८९.४४ ॥

若楼陀罗将自身一分为二,与自己交战,才可作比;此外别无可比。

7.189.45

ज्ञानमेकस्थमाचार्ये ज्ञानं योगश्च पाण्डवे ।
शौर्यमेकस्थमाचार्ये बलं शौर्यं च पाण्डवे। ॥ ७.१८९.४५ ॥

知识集中于师尊一人;知识与瑜伽则在般度之子身上。勇武集中于师尊一人;力量与勇武则在般度之子身上。

7.189.46

नेमौ शक्यौ महेष्वासौ युद्धे क्षपयितुं परैः ।
इच्छमानौ पुनरिमौ हन्येतां सामरं जगत् ॥ ७.१८९.४६ ॥

这两位大弓箭手,敌人无法在战斗中将其消灭;若他们愿意,便能与诸天一同毁灭世界。

7.189.47

इत्यब्रुवन्महाराज दृष्ट्वा तौ पुरुषर्षभौ ।
अन्तर्हितानि भूतानि प्रकाशानि च सर्वशः ॥ ७.१८९.४७ ॥

大王啊,见到那二位人中雄牛,人们如此说;无论隐形还是显形的众生,处处都如此说。

7.189.48

यदा द्रोणं महाराज विशेषयति पाण्डवः ।
ततो द्रोणो ब्राह्ममस्त्रं प्रादुश्चक्रे महामतिः ॥ ७.१८९.४८ ॥

大王啊,当般度之子开始胜过德罗纳时,智慧广大的德罗纳便显出了梵天之箭。

7.189.49

तदस्त्रं संहितं राजन्धोररूपं महाहवे ।
सन्तापयद्रणे पार्थं भूतान्यन्तर्हितानि च ॥ ७.१८९.४९ ॥

大王啊,在大战中,那件可怖形状、凝聚起来的兵器,在战场上灼烧着阿周那,也灼烧着隐藏的众生。

7.189.50

ततश्चचाल पृथिवी सपर्वतवनद्रुमा ।
सरितश्च प्रतिस्रोतः प्रवहुर्वै क्षणान्तरम्।
ववौ च विषमो वायुः सागराश्चापि चुक्षुभुः ॥ ७.१८९.५० ॥

于是大地连同山岳、森林与树木都震动起来;河流在一瞬间逆流而行;狂乱的风刮起,大海也翻腾起来。

7.189.51

ततस्त्रासो महानासीत्कुरुपाण्डवसेनयोः ।
सर्वेषां चैव भूतानामुद्यतेऽस्त्रे महात्मना ॥ ७.१८९.५१ ॥

当那位大德者举起兵器时,库卢与般度的军队中,以及一切众生之中,都生起了巨大的恐惧。

7.189.52

ततः पार्थोऽप्यसम्भ्रान्तस्तदस्त्रं प्रतिजघ्निवान् ।
ब्रह्मास्त्रेणैव राजेन्द्र ततः सर्वमशीशमत् ॥ ७.१८९.५२ ॥

于是阿周那毫不慌乱,以梵天之箭本身抵挡了那件兵器,王中之王啊;随后他平息了一切。

7.189.53

यदा न गम्यते पारं तयोरन्यतरस्य वा ।
ततः सङ्कुलयुद्धेन तद्युद्धं व्याकुलीकृतम् ॥ ७.१८९.५३ ॥

当二者之中任何一方都无法取得胜利时,那场战斗便因混乱激烈的厮杀而陷入了混乱。

7.189.54

नाज्ञायत ततः किञ्चित्पुनरेव विशाम्पते ।
प्रवृत्ते तुमुले युद्धे द्रोणपाण्डवयोर्नृप ॥ ७.१८९.५४ ॥

人主啊,那时便再也分辨不出什么了;国王啊,德罗纳与般度之子之间的激烈大战已经展开。

7.189.55

द्रोणो मुक्त्वा रणे पार्थं पाञ्चालानन्वधावत ।
अर्जुनोपि रणे द्रोणं त्यक्त्वा प्राद्रवयत्कुरून् ॥ ७.१८९.५५ ॥

德罗纳在战场上撇下帕尔特ha,追赶般遮罗人;阿周那也在战场上舍弃德罗纳,使俱卢人奔逃。

7.189.56

शरौघैरथ ताभ्यां तु छायाभूतं महामृधे ।
तुमलं प्रबभौ राजन्सर्वस्य जगतो भयम् ॥ ७.१८९.५६ ॥

于是,二人箭雨纷纷,那场大战仿佛被阴影笼罩;大王啊,它对整个世界显现为一种恐怖。

7.189.57

शरजालैः समाकीर्णे मेघजालैरिवाम्बरे ।
नापतच्च ततः कश्चिदन्तरिक्षचरस्तदा ॥ ७.१८९.५७ ॥

天空布满箭网,仿佛布满云网,那时没有任何飞行于空中的生灵能够飞过。