Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.19

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.19.1

दृष्टा तु सन्निवृत्तांस्तान्संशप्तकगणान्पुनः ।
वासुदेवं महात्मानमर्जुनः समभाषत ॥ ७.१९.१ ॥

阿周那见三摩赊波伽军队再次回转,便对大心的筏素提婆说道。

7.19.2

चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति ।
नैते हास्यन्ति सङ्ग्रामं जीवन्त इति मे मतिः ॥ ७.१९.२ ॥

啊,希瑟可,驱马向三摩赊波伽的军队冲去。我以为,只要他们还活着,就不会放弃战斗。

7.19.3

पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च ।
अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव ॥ ७.१९.३ ॥

看我那可怕的箭力,以及我双臂与弓的力量。今日我要将他们击倒,如同盛怒的楼陀罗击倒牲畜一般。

7.19.4

ततः कृष्णः स्मितं कृत्वा प्रतिनन्द्य शिवेन तम् ।
प्रावेशयत दुर्धर्षो यत्रयत्रैच्छदर्जुनः ॥ ७.१९.४ ॥

于是不可战胜的克里希那微笑,以吉祥之语回应他,并驱车前往阿周那想去的任何地方。

7.19.5

स रथो भ्राजतेऽत्यर्थमुह्यमानो रणे तदा ।
उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः ॥ ७.१९.५ ॥

那时,战场上那辆战车光辉耀眼,由白马拉着,好似天空中被牵引的天界宫车。

7.19.6

मण्डलानि ततश्चक्रे गतप्रत्यागतानि चे ।
यथा शक्ररथो राजन्युद्धे देवासुरे पुरा ॥ ७.१९.६ ॥

随后它来回穿梭,回旋成圈,大王啊,正如往昔天神与阿修罗之战中帝释天的战车所做的那样。

7.19.7

अथ नारायणाः क्रुद्धा विविधायुधपाणयः ।
छादयन्तः शरव्रातैः परिवव्रुर्धनञ्जयम् ॥ ७.१९.७ ॥

于是愤怒的那罗延军手持种种兵器,以成群的箭矢遮蔽,将达难闍耶团团围住。

7.19.8

अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ ।
कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनञ्जयम् ॥ ७.१९.८ ॥

婆罗多族之牡牛啊,他们在顷刻之间使俱卢之子达难闍耶与黑天一同在战斗中隐没不见。

7.19.9

क्रुद्धस्तु फल्गुनः सङ्ख्ये द्विगुणीकृतविक्रमः ।
गाण्डीवं धनुरामृज्य तूर्णं जग्राह संयुगे ॥ ७.१९.९ ॥

然而愤怒的法尔古那使其在战斗中威力倍增,擦拭甘狄拔弓,迅速在战中拿起。

7.19.10

बद्ध्वा च भ्रुकुटिं वक्त्रे क्रोधस्य प्रतिलक्षणम् ।
देवदत्तं महाशङ्खं पूरयामास पाण्डवः ॥ ७.१९.१० ॥

皱起眉头,这是愤怒的标志,般度之子吹响了名为天授的大海螺。

7.19.11

अथास्त्रमरिसङ्घघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः ।
ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक् ॥ ७.१९.११ ॥

于是阿周那施展了摧毁敌众的特瓦什德拉神箭,于是数千个形象各自现出。

7.19.12

अर्जुनप्रतिरूपैस्तैर्नानारूपैर्विमोहिताः ।
अन्योन्येनार्जुनं मत्वा स्वमात्मानं च जघ्निरे ॥ ७.१९.१२ ॥

他们被阿周那的那些替身和种种形象所迷惑,彼此误以为是阿周那,甚至自相残杀。

7.19.13

अयमर्जुनोऽयं गोविन्द इमौ पाण्डवयादवौ ।
इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे ॥ ७.१९.१३ ॥

“这是阿周那,这是哥文达,这两人是般度之子与耶达瓦”——如此说着,他们迷乱中在战场上互相击打。

7.19.14

अन्योन्यं समरे जघ्नुस्तावका भरतर्षभ ।
मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम् ॥ ७.१९.१४ ॥

婆罗多的雄牛啊,你的人在战场上互相击杀;被至上武器迷惑,他们彼此走向毁灭。

7.19.15

रुधिरोक्षितगात्रास्ते प्रेक्षमाणः परस्परम् ।
अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः ॥ ७.१९.१५ ॥

身体被血浸透,彼此相望,那些战士在战场上闪耀,如同盛开的金申树。

7.19.16

रुधिरोत्पीडनास्ते तु रुधिरेण समुक्षिताः ।
चन्दनस्य रसेनेव व्यभ्राजन्त रणाजिरे ॥ ७.१९.१६ ॥

被血浸染、被血喷洒,他们在战场上闪耀,仿佛涂抹了檀香膏。

7.19.17

ततः प्रसह्य बीभत्सुर्व्याक्षिपद्गाण्डिवं धनुः ।
न्यहनत्ताञ्छरैस्तीक्ष्णैस्तमः सूर्य इवांशुभिः ॥ ७.१९.१७ ॥

于是阿周那用力拉开甘狄拔神弓,以利箭击杀他们,如太阳以光芒驱散黑暗。

7.19.18

हतावशिष्टास्ते भूयः परिवार्य धनञ्जयम् ।
साश्वध्वजरथं चक्रुरदृश्यं शरवृष्टिभिः ॥ ७.१९.१८ ॥

残存者再次包围了达南嘉亚,在箭雨之下使他连同车马与旗帜一起隐没不见。

7.19.19

ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात् ।
कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम् ॥ ७.१९.१९ ॥

于是,他以神箭将他们射出的千百支箭化为灰烬,并将那些勇士送往阎摩之居。

7.19.20

अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि ।
मावेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः ॥ ७.१९.२० ॥

于是,毗婆叉笑着,也用箭射伤了流离泰人、摩罗婆人、摩韦拉卡人、三伽人和耶陀延人。

7.19.21

ते हन्यमाना वीरेण क्षत्रियाः कालचोदिताः ।
व्यसृजञ्छरजालानि पार्थे नानाविधानि च ॥ ७.१९.२१ ॥

那些被英雄所击伤、又受时运驱使的刹帝利,向般度之子射出了种种箭网。

7.19.22

न ध्वजो नार्जुनस्तत्र न रथो न च केशवः ।
प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः ॥ ७.१९.२२ ॥

那里既看不见旗帜,也看不见阿周那、战车,也看不见毗湿奴(克里希那),他们被可怖的箭雨所遮蔽。

7.19.23

ततस्ते लब्धलक्षत्वादन्योन्यमभिचुक्रुशुः ।
हतौ कृष्णाविति प्रीत्या वासांस्यादुधुवुस्तदा ॥ ७.१९.२३ ॥

于是,他们因达到目的,彼此高声呼喊:“两位克里希那都被杀了!”并欢喜地挥舞衣裳。

7.19.24

भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः ।
सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष ॥ ७.१९.२४ ॥

千百位勇士吹响了鼓、摩陀罗鼓和海螺,哦,王者,他们在那里发出如狮子吼般可怖的声响。

7.19.25

ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत् ।
क्वासि पार्थ न पश्यामि कच्चिज्जीवसि शत्रुहन् ॥ ७.१९.२५ ॥

于是克利须那疲惫不堪、浑身是汗,对阿周那说:"帕尔塔,你在哪里?我看不见你。灭敌者啊,你还活着吗?"

7.19.26

तस्य तद्भाषितं श्रुत्वा त्वरमाणो धनञ्जयः ।
वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् ॥ ७.१९.२६ ॥

丹那阁耶听到他的话,急忙以风神之箭扫除了他们的箭雨。

7.19.27

ततः संशप्तकव्रातान्साश्वद्विपरथायुधान् ।
उवाह भगवान्वायुः शुष्कपर्मचयानिव ॥ ७.१९.२७ ॥

于是圣者风神将三界战士的部队连同他们的马匹、象兵、战车和兵器,像一堆堆枯叶一样卷走了。

7.19.28

उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना ।
प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष ॥ ७.१९.२८ ॥

大王啊,被风吹走的他们显得十分耀眼,尊者啊,就像鸟儿在适当的季节从树上飞起。

7.19.29

तांस्तथा व्याकुलीकृत्य त्वरमाणो धनञ्जयः ।
जघान निशितैर्बाणैः सहस्राणि शतानि च ॥ ७.१९.२९ ॥

丹那阁耶如此使他们陷入混乱,急忙以锐利的箭射倒了成千上百的人。

7.19.30

शिरांसि भल्लैरहरद्बाहूनपि च सायुधान् ।
हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत् ॥ ७.१९.३० ॥

他用弯月形箭头斩下头颅,连同兵器砍断手臂,又以箭将如象鼻般的大腿射倒于地。

7.19.31

पृष्ठच्छिन्नान्विचरणान्विमस्तकदृगङ्गुलीन् ।
नानाङ्गावयवैर्हीनांश्चकारारीन्धनञ्जयः ॥ ७.१९.३१ ॥

丹亚贾亚使敌人背部断裂,双腿、头颅、眼睛与手指分离,失去了身体的许多肢体与部位。

7.19.32

गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् ।
शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान् ॥ ७.१९.३२ ॥

他以箭将依礼布置的、如乾闥婆城般的战车射碎,使其失去马匹、战车与象。

7.19.33

मुण्डतालवनानीव तत्रतत्र चकाशिरे ।
छिन्ना रथध्वजव्राताः केचित्तत्र क्वचित्क्वचित् ॥ ७.१९.३३ ॥

到处都显现得像被砍去树梢的棕榈林;战车旗幡成束,有些被斩断,散落在这里那里。

7.19.34

सोत्तरायुधिनो नागाः सपताकाङ्कुशध्वजाः ।
पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः ॥ ७.१९.३४ ॥

带着御者与武器的象,连同旗帜、象钩与旌旗,如被因陀罗霹雳击中的有树之山般倒下。

7.19.35

चामरापीडकवचाः स्रस्तान्त्रनयनास्तथा ।
सारोहास्तुरगाः पेतुः पार्तबाणहताः क्षितौ ॥ ७.१९.३५ ॥

带着牦牛尾拂、头饰与甲胄的马匹,肠子与眼睛垂下,连同骑手,被普利塔之子的箭射中,倒卧于地。

7.19.36

विप्रविद्धासिनाराचाश्छिन्नवर्मर्ष्टिशक्तयः ।
पत्तयश्चिन्नवर्माणः कृपणाः शेरते हताः ॥ ७.१९.३६ ॥

刀剑与箭矢被抛弃,甲胄、长矛与枪被斩断;步兵甲胄破碎,悲惨地倒卧被杀。

7.19.37

तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि ।
भ्रमद्भिर्निष्टनद्भिश्च क्रूरमायोधनं बभौ ॥ ७.१९.३७ ॥

被杀者、正被杀者、倒下者、已倒者、徘徊者与呻吟者,使那残酷的战场显得光彩夺目。

7.19.38

रजश्च चाप्यभवद्दुर्गा कबन्धशतसङ्कुला ।
तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे। ॥ ७.१९.३८ ॥

尘土也扬起,那布满数百具无头躯干的难行之地显得可怖而丑恶;战场上,毗跋苏(阿周那)的战车就在那里。

7.19.39

आक्रीडमिव रुद्रस्य घ्नतः कालात्यये पशून् ।
कते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः। ॥ ७.१९.३९ ॥

如同劫末之时楼陀罗戏杀众生,被普利塔之子(阿周那)杀戮的、惊慌失措的马匹、战车与象群便在那里。

7.19.40

तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः ।
सा भूमीर्भरतश्रेष्ठ निहतैस्तैर्महारथैः। ॥ ७.१९.४० ॥

面对他而力竭的人,都成了因陀罗的宾客。婆罗多之杰啊,那些被杀的大车战士使那片土地(布满了尸体)。

7.19.41

आस्तीर्णा सम्बभौ सर्वा प्रेतीभूतैः समन्ततः ।
एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि। ॥ ७.१९.४१ ॥

四周尽是化作鬼魅的死者,整片土地铺满尸身而闪耀。与此同时,当左手能射的阿周那(萨维亚萨钦)疏于防备时,

7.19.42

व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् ।
तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः। ॥ ७.१९.४२ ॥

于是,德罗纳率领列阵的军队冲向坚战。列阵的击打战士们迅速迎击了他。

7.19.43

युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत् ॥ ७.१९.४३ ॥

那时,想要保护坚战的人们之间爆发了巨大的骚乱。