摩诃婆罗多 · 章 7.191
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.191.1
पाञ्चालानां ततो द्रोणोऽप्यकरोत्कदनं महत् ।
यथा क्रुद्धो रणे शक्रो दानवानां क्षयं पुरा ॥ ७.१९१.१ ॥
于是德罗纳也对般遮罗人造成了巨大的杀戮,正如往昔愤怒的因陀罗在战斗中摧毁达那婆。
7.191.2
द्रोणास्त्रेण महाराज वध्यमानाः परे युधि ।
नात्रसन्त रणे द्रोणत्सत्ववन्तो महारथाः ॥ ७.१९१.२ ॥
大王啊,虽然他们在战斗中被德罗纳的武器杀戮,那些勇敢的大车武士并未在战场上感到恐惧。
7.191.3
युध्यमाना महाराज पाञ्चालाः सृञ्जयास्तथा ।
द्रोणमेवाभ्ययुर्युद्धे योधयन्तो महारथाः ॥ ७.१९१.३ ॥
大王啊,作战中的般遮罗人与斯云阇耶人,大车武士们,在战斗中直接冲向德罗纳。
7.191.4
तेषां तु च्छाद्यमानानां पाञ्चालानां समन्ततः ।
अभवद्भैरवो नादो वध्यतां शरवृष्टिभिः ॥ ७.१९१.४ ॥
当般遮罗人从四面八方被箭雨覆盖、遭到杀戮时,发出了可怖的呼喊。
7.191.5
वध्यमानेषु सङ्ग्रामे पाञ्चालेषु महात्मना ।
उदीर्यमाणे द्रोणास्त्रे पाण्डवान्भयमाविशत् ॥ ७.१९१.५ ॥
当般遮罗人在战斗中被这位伟大的人杀戮,德罗纳的武器被发动时,恐惧进入了般度之子们的心中。
7.191.6
दृष्ट्वाऽश्वनरयोधानां विपुलं च क्षयं युधि ।
पाण्डवेया महाराज नाशशंसुर्जयं तदा ॥ ७.१९१.६ ॥
大王啊,看到战斗中马匹、人和战士的巨大毁灭,般度之子们当时便放弃了获胜的希望。
7.191.7
कच्चिद्द्रोणो न नः सर्वान्क्षपयेत्परमास्त्रवित् ।
समिद्धः शिशिरापाये दहन्कक्षमिवानलः ॥ ७.१९१.७ ॥
精通至高武器的德罗纳会否将我们全部毁灭,如同寒季末尾燃烧的烈火焚烧干草?
7.191.8
न चैनं संयुगे कश्चित्समर्थः प्रतिवीक्षितुम् ।
न चैनमर्जुनो जातु प्रतियुध्येत धर्मवित् ॥ ७.१९१.८ ॥
战场上无人能正视他,知法的阿周那也绝不会与他交战。
7.191.9
त्रस्तान्कुन्तीसुतान्दृष्ट्वा द्रोणसायकपीडितान् ।
मतिमाञ्श्रेयसे युक्तः केशवोऽर्जुनमब्रवीत् ॥ ७.१९१.९ ॥
见到被德罗纳箭矢所伤、惶恐不安的贡提之子,智慧的克沙瓦为了善果,对阿周那说道。
7.191.10
नैष युद्धेन सङ्ग्रामे जेतुं शक्यः कथञ्चन ।
सधनुर्धन्विनां श्रेष्ठो देवैरपि सवासवैः ॥ ७.१९१.१० ॥
此人在战斗中无论如何也不可战胜,这位弓手中的第一人,即便诸神与因陀罗同来亦然。
7.191.11
न्यस्तशस्त्रस्तु सङ्गारमे शक्यो हन्तुं भवेन्नृभिः ।
आस्थीयतां जये योगो धर्ममुत्सृज्य पाण्डवाः।
यथा न संयुगे सर्वान्निहन्याद्रुक्मवाहनः ॥ ७.१९१.११ ॥
只有放下武器的人才能被人在战斗中杀死。般度之子们,舍弃法道而采取取胜之策吧,免得金车者在战斗中杀尽你们所有人。
7.191.12
अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम ।
तं हतं संयुगे कश्चिदस्मै शंसतु मानवः ॥ ७.१९१.१२ ॥
我的看法是:若阿什瓦塔曼被杀,他便不会再战。让某人告诉他,阿什瓦塔曼已在战斗中被杀。
7.191.13
एतन्नारोचयद्राजन्कुन्तीपुत्रो धनञ्जयः ।
अन्ये त्वरोचयन्सर्वे कृच्छ्रेण तु युधिष्ठिरः ॥ ७.१९१.१३ ॥
大王啊,昆蒂之子达那闍耶不赞同此议;其他人都赞同,而坚战是勉强同意的。
7.191.14
ततो भीमो महाबाहुरनीकेषु महागजम् ।
जघान गदया राजन्नश्वत्थामानमित्युत।
परप्रमथनं घोरं मालवस्येन्द्रवर्मणः ॥ ७.१९१.१४ ॥
于是臂力强大的毗摩在军阵中,大王啊,用铁杵击倒了一头名叫“马厩”(Aśvatthāman)的大象;那是摩罗王因陀罗跋摩的,能摧毁敌人的可怕之象。
7.191.15
भीमसेनस्तु सव्रीडमुपेत्य द्रोणमाहवे ।
अश्वत्थामा हत इति शब्दमुच्चैश्चकार ह ॥ ७.१९१.१५ ॥
然而毗摩森那心怀羞愧,走到战场上的德罗那面前,大声喊道:“马厩已被杀死!”
7.191.16
अश्वत्थामेति हि गजः ख्यातो नाम्ना हतोऽभवत् ।
कृत्वा मनसि तं भीमो मिथ्या व्याहृतवांस्तदा ॥ ७.१९१.१६ ॥
那头名叫“马厩”的大象确实已被杀死。毗摩心中记着这一点,于是便说了谎话。
7.191.17
भीमसेनवचः श्रुत्वा द्रोणस्तत्परमाप्रियम् ।
मनसा सन्नागात्रोऽभूद्यथा सैकतमम्भसि ॥ ७.१९१.१७ ॥
德罗那听到毗摩森那的话,因那极不愉快的消息而心中震动,四肢瘫软,就像水中的沙洲。
7.191.18
शङ्कमानः स तन्मिथ्या वीर्यज्ञः स्वसुतस्य वै ।
हतः स इति च श्रुत्वा नैव धैर्यादकम्पत ॥ ७.१९१.१८ ॥
德罗那深知儿子的勇力,怀疑那番谎话,即使听到“他已被杀”,也因坚定而未曾颤抖。
7.191.19
स लब्ध्वा चेतनां द्रोणः क्षणेनैव समाश्वसत् ।
अनुचिन्त्यात्मनः पुत्रमविषह्यमरातिभिः ॥ ७.१९१.१९ ॥
德罗纳恢复知觉,片刻之间便重新振作,想起被敌人残忍杀害、令人不堪忍受的儿子。
7.191.20
स पार्षतमभिद्रुत्य जिघांसुर्मृत्युमात्मनः ।
अवाकिरत्सहस्रेण तीक्ष्णानां कङ्कपत्रिणाम् ॥ ७.१९१.२० ॥
他想杀死自己的死亡,冲向般多罗之子(德里什塔迪优姆那),以千支锐利的鹭羽箭将其覆盖。
7.191.21
तं विंशतिसहस्राणि पाञ्चालानां नरर्षभाः ।
यथा चरन्तं सङ्ग्रामे सर्वतोऽवाकिरञ्छरैः ॥ ७.१९१.२१ ॥
般遮罗的二万名人中雄牛,在他于战场中驰骋时从四面八方以箭覆盖了他。
7.191.22
शरैस्तैराचितं द्रोणं नापश्याम महारथम् ।
भास्करं जलदै रुद्धं वर्षास्विव विशाम्पते ॥ ७.१९१.२२ ॥
人主啊,我们没有看见被那些箭覆盖的大车战士德罗纳,就像雨季里太阳被云层遮蔽一样。
7.191.23
विधूय तान्बाणगणान्पाञ्चालानां महारथः ।
प्रादुश्चक्रे ततो द्रोणो ब्राह्ममस्त्रं परन्तपः ॥ ७.१९१.२३ ॥
德罗纳抖落般遮罗人的那些箭群,这位折磨敌人的大车战士随即唤出了梵天神箭。
7.191.24
वधाय तेषां शूराणां पाञ्चालानाममर्षितः ।
ततो व्यरोचत द्रोणो विनिघ्नन्सर्वसैनिकान् ॥ ७.१९१.२४ ॥
为杀戮那些英勇的般遮罗人而愤怒,德罗纳随即光彩耀目,击倒了所有士兵。
7.191.25
शिरांस्यापातयच्चापि पाञ्चालानां महामृधे ।
तथैव परिघाकारान्बाहून्कनकभूषणान् ॥ ७.१९१.२५ ॥
在大战中,他也使般遮罗人的头颅纷纷落地,同样也砍下了那些形如铁杵、饰有金饰的手臂。
7.191.26
ते वध्यमानाः समरे भारद्वाजेन पार्थिवाः ।
मेदिन्यामन्वकीर्यन्त वातनुन्ना इव द्रुमाः ॥ ७.१९१.२६ ॥
那些国王在战场上被婆罗堕遮之子所杀,如被风吹倒的树木般散落在大地上。
7.191.27
कुञ्जराणां च पततां हयौघानां च भारत ।
अगम्यरूपा पृथिवी मांसशोणितकर्दमा ॥ ७.१९१.२७ ॥
婆罗多啊,随着象群与马群的倒下,大地变得无法通行,成为血肉泥沼。
7.191.28
हत्वा विंशतिसाहस्रान्पाञ्चालानां रथव्रजान् ।
अतिष्ठदाहवे द्रोणो विधूमोऽग्निरिव ज्वलन् ॥ ७.१९१.२८ ॥
德罗纳杀死了般遮罗人的两万车队后,在战场上屹立,如同无烟之火熊熊燃烧。
7.191.29
तथैव च पुनः क्रुद्धो भारद्वाजः प्रतापवान् ।
वसुदानस्य भल्लेन शिरः कायादपाहरत् ॥ ७.१९१.२९ ॥
同样,婆罗堕遮之子再次愤怒,用一支钵罗箭将婆苏陀那的头颅从身上斩下。
7.191.30
पुनः पञ्चशतान्मात्स्यान्षट्सहस्रांश्च सृञ्जयान् ।
हस्तिनामयुतं हत्वा जघानाश्वायुतं पुनः ॥ ७.१९१.३० ॥
他又杀死五百马特亚人、六千悉赏遮人,杀死一万头象,然后又击倒一万匹马。
7.191.31
क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम् ।
ऋषयोऽभ्यागतास्तूर्णं हव्यवाहपुरोगमाः ॥ ७.१९१.३१ ॥
众仙人见德罗纳为灭刹帝利而立于阵前,以祭火为先导,迅速前来。
7.191.32
विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः ।
वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः ॥ ७.१९१.३२ ॥
毗舍密多罗、遮摩达格尼、跋罗堕遮、乔达摩、婆悉吒、迦叶波与阿特里前来,欲将他引往梵天界。
7.191.33
सिकताः पृश्नयो गर्गा वालखिल्या मरीचिपाः ।
भृगवोऽङ्गिरसश्चैव सूक्ष्माश्चान्ये महर्षयः ॥ ७.१९१.३३ ॥
悉喀塔、普里希尼、伽尔伽、婆罗希利亚、摩利支饮者、婆利求、安吉罗娑以及其他精微大仙也都来了。
7.191.34
त एनमब्रुवन्सर्वे द्रोणमाहरवशोभिनम् ।
अधर्मतः कृतं युद्धं समयो निधनस्य ते ॥ ७.१९१.३४ ॥
众仙人对战场之饰德罗纳说:"你以非法作战;如今你死亡的时辰已到。"
7.191.35
न्यस्यायुधं रणे द्रोण समीक्षास्मानवस्थितान् ।
नातः क्रूरतरं कर्म पुनः कर्तुमिहार्हसि ॥ ७.१९१.३५ ॥
德罗纳啊,在战场上放下你的武器,看看我们站在这里;你不该再在此行更残酷的事了。
7.191.36
वेदवेदाङ्गविदुषः सत्यधर्मरतस्य ते ।
ब्राह्मणस्य विशेषेण तवैतन्नोपपद्यते ॥ ७.१९१.३६ ॥
你精通吠陀及其支分,专注于真理与法,尤其身为婆罗门,此事不相称。
7.191.37
त्यजायुधममोधेषो तिष्ठ वर्त्मनि शाश्वते ।
परिपूर्णश्च कालस्ते वस्तुं लोकेऽद्य मानुषे ॥ ७.१९१.३७ ॥
啊,箭从不落空的你,放下武器,站在永恒之道上吧。今日你在人间的居留之期已满。
7.191.38
ब्रह्मास्त्रेण त्वया दग्धा अनस्त्रज्ञा नरा भुवि ।
यदेतदीदृशं विप्र कृतं कर्म न साधु तत् ॥ ७.१९१.३८ ॥
婆罗门啊,你以梵天神箭焚烧了大地上通晓兵器的人。你所做的这种事并不好。
7.191.39
न्यस्यायुधं रणे विप्र द्रोण मा त्वं चिरं कृथाः ।
मा पापिष्ठतरं कर्म करिष्यसि पुनर्द्विज ॥ ७.१९१.३९ ॥
德罗纳啊,在战场上放下武器,不要久久迟疑。婆罗门啊,不要再做比这更罪恶的事情。
7.191.40
इति तेषां वचः श्रुत्वा भीमसेनवचः स्मरन् ।
धृष्टद्युम्नं च सम्प्रेक्ष्य रणे स विमनाऽभवत् ॥ ७.१९१.४० ॥
听到他们的这些话,回想起怖军的话,并望向猛光,他在战场上神色黯然。
7.191.41
सन्दिह्यमानो व्यथितः कुन्तीपुत्रं युधिष्ठिरम् ।
अहतं वा हतं वेति पप्रच्छ सुतमात्मनः ॥ ७.१९१.४१ ॥
他心怀疑惧、痛苦不堪,问坤蒂之子坚战:自己的儿子是被杀了还是没有?
7.191.42
स्थिरा बुद्धिर्हि द्रोणस्य न पार्थो वक्ष्यतेऽनृतम् ।
त्रयाणामपि लोकानामैश्वर्यार्थे कथञ्चन ॥ ७.१९१.४२ ॥
德罗纳的心志坚定;即使为了三界的主宰,阿周那也绝不会说谎。
7.191.43
तस्मात्तं परिपप्रच्छ नान्यं कञ्छिद्द्विजर्षभः ।
तस्मिंस्तस्य हि सत्याशा बाल्यात्प्रभृति पाण्डवे ॥ ७.१९१.४३ ॥
因此,这位婆罗门中的最优者只问他,不问别人,因为自幼他便对这位般度之子寄托着对真实的希望。
7.191.44
ततो निष्पाण्डवामुर्वीं करिष्यन्तं युधाम्पतिम् ।
द्रोणं ज्ञात्वा धर्मराजं गोविन्दो व्यथितोऽब्रवीत् ॥ ७.१९१.४४ ॥
于是,哥温达知道作为武士之主的德罗纳将使大地失去般度五子,他满怀忧虑地对法王说道。
7.191.45
यद्यर्धदिवसं द्रोणो युध्यते मन्युमास्थितः ।
सत्यं ब्रवीमि ते सेना विनाशं समुपैष्यति ॥ ७.१९१.४५ ॥
若德罗纳怀着愤怒作战半日,我实话告诉你,你的军队将走向毁灭。
7.191.46
स भवांस्त्रातु नो द्रोणात्सत्याज्ज्यायोऽनृतं वचः ।
अनृतं जीवितस्यार्थे वदन्न स्पृश्यतेऽनृतैः ॥ ७.१९१.४६ ॥
你应当保护我们免受德罗纳之害。为求生存而说假话的人,不会被虚妄所沾染,假话胜过真实之言。
7.191.47
तयोः संवदतोरेवं भीमसेनोऽब्रवीदिदम् ॥ ७.१९१.४७ ॥
当他们二人这样交谈时,毗摩森那说了这番话。
7.191.48
श्रुत्वैवं तु महाराज वधोपायं महात्मनः ।
गाहमानस्य ते सेनां मालवस्येन्द्रवर्मणः ॥ ७.१९१.४८ ॥
大王,听闻了如此杀害那位大德者的方法后,当摩罗婆的因陀罗跋摩冲入你的军队时……
7.191.49
अश्वत्थामेति विख्यातो गजः शक्रगजोपमः ।
निहतो युधि विक्रम्य ततोऽहं द्रोणमब्रुवम् ॥ ७.१९१.४९ ॥
一头名为阿湿婆塔曼的大象,如同因陀罗的象,在战斗中英勇被杀。于是我对德罗纳说。
7.191.50
अश्वत्थामा हतो ब्रह्मन्निवर्तस्वाहवादिति ।
नूनं नाश्रद्दधद्वाक्यमेष मे पुरुषर्षभः ॥ ७.१९१.५० ॥
“婆罗门啊,阿湿婆塔曼已被杀死,请从战场返回。”那位人中雄牛当然不相信我的这番话。
7.191.51
स त्वं गोविन्दवाक्यानि मानयस्व जयैषिणः ।
द्रोणाय निहतं शंस राजञ्शारद्वतीसुतम् ॥ ७.१९१.५१ ॥
你既求胜利,就应尊重戈文达的话语。大王,请告诉德罗纳,沙罗德瓦特之子已被杀死。
7.191.52
त्वयोक्ते नैव युध्येत जातु राजन्द्विजर्षभः ।
सत्यवागिति लोकेऽस्मिन्भवान्ख्यातो जनाधिप ॥ ७.१९१.५२ ॥
若由你说出,那位婆罗门中的雄牛便绝不会再战。大王,人主啊,你在世间以诚实之言而闻名。
7.191.53
तस्य तद्वचनं श्रुत्वा कृष्णवाक्यप्रचोदितः ।
भावित्वाच्च महाराज वक्तुं समुपचक्रमे ॥ ७.१९१.५३ ॥
他听了这番话,受克里希那之言的推动,又因为事当如此,大王,他便开始说话了。
7.191.54
तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः ।
अश्वत्थामा हति शब्दमुच्चैश्चकार ह।
अव्यक्तमब्रवीद्राजन्हतः कुञ्जर इत्युत ॥ ७.१९१.५४ ॥
坚战沉浸于虚妄的恐惧,执着于胜利,大声宣告:“阿湿婆塔曼已被杀。”大王,他又含糊地说:“象已被杀。”
7.191.55
तस्य पूर्वं रथः पृथ्व्याश्चतुरङ्गुलमुच्छ्रितः ।
बभूवैवं च तेनोक्ते तस्य वाहाः स्पृशन्महीम् ॥ ७.१९१.५५ ॥
此前他的战车离地四指而行;他这样说后,他的马便触及了地面。
7.191.56
युधिष्ठिरात्तु तद्वाक्यं श्रुत्वा द्रोणो महारथः ।
पुत्रव्यसनसन्तप्तो निराशो जीवितेऽभवत् ॥ ७.१९१.५६ ॥
德罗纳大车士听了坚战的这番话,因失子之痛而备受煎熬,对生存绝望了。
7.191.57
आगस्कृतमिवात्मानं पाण्डवानां महात्मनाम् ।
ऋषिवाक्येन मन्वानः श्रुत्वा च निहतं सुतम् ॥ ७.१९१.५७ ॥
他依照仙人的话,把自己看作对伟大的般度五子有过的人,又听说儿子已被杀死。
7.191.58
विचेताः परमोद्विग्नो धृष्टद्युम्नमवेक्ष्य च ।
योद्धुं नाशक्नुवद्राजन्यथापूर्वमरिन्दमः ॥ ७.१९१.५८ ॥
大王啊,制敌者德罗纳心神慌乱、极度烦恼,看见德里斯塔德尤姆纳后,竟不能像从前那样作战了。