Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.192

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.192.1

तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् ।
पाञ्चालराजस्य सुतो धृष्टद्युम्नः समाद्रवत् ॥ ७.१९२.१ ॥

看到他极度惊惶、心神为悲痛所摧,般遮罗王之子猱色多卫那冲上前去。

7.192.2

य इष्ट्वा मनुजेन्द्रेण द्रुपदेन महामखे ।
लब्धो द्रोणविनाशाय समिद्धाद्धव्यवाहनात् ॥ ७.१९२.२ ॥

人主德鲁巴达在大祭祀中行祭,从熊熊燃烧的祭火中得到的那位,为了毁灭德罗纳而生。

7.192.3

स धनुर्जैत्रमादाय घोरं जलदनिःस्वनम् ।
दृढज्यमजरं दिव्यं शरं चाशीविषोपमम् ॥ ७.१९२.३ ॥

他拿起胜利之弓,弓发出如雨云般可怕的轰鸣,弦紧绷;又取了一支不朽的神箭,如毒蛇一般。

7.192.4

सन्दधे कार्मुके तस्मिंस्ततस्तमनलोपमम् ।
द्रोणं जिघांस्तुः पाञ्चाल्यो महाज्वालमिवानलम् ॥ ७.१९२.४ ॥

随即,般遮罗王子想杀死德罗纳,将那如火一般的箭搭在弓上,如同烈焰熊熊的大火。

7.192.5

तस्य रूपं शरस्यासीद्धनुर्ज्यामण्डलान्तरे ।
द्योततो भास्करस्येव घनान्ते परिवेषिणः ॥ ७.१९२.५ ॥

那支箭在弓弦的圆圈之中,其形如同云端边缘被光环环绕的太阳,闪耀夺目。

7.192.6

पार्षतेन परामृष्टं ज्वलन्तमिव तद्धनुः ।
अन्तकालमनुप्राप्तं मेनिरे वीक्ष्य सैनिकाः ॥ ७.१९२.६ ॥

众士兵看见被帕利沙塔之子握住的那张弓,仿佛燃烧起来,便以为死亡之时已经来临。

7.192.7

तमिषुं संहतं तेन भारद्वाजः प्रतापवान् ।
दृष्ट्वाऽमन्यत देहस्य कालपर्यायमागतम् ॥ ७.१९२.७ ॥

威武的婆罗堕遮之子(德罗纳)见到他搭上的那支箭,心想死亡之期已降临自己的身体。

7.192.8

ततः प्रयत्नमातिष्ठदाचार्यस्तस्य वारमे ।
न चास्यास्त्राणि राजेन्द्र पादुरासन्महात्मनः ॥ ७.१९२.८ ॥

于是师尊竭力阻挡他,然而,帝王之主啊,那位大德的神兵却未能显现。

7.192.9

तस्य त्वहानि चत्वारि क्षपा चैकाऽस्यतो गता ।
तस्य चाह्नस्त्रिभागेन क्षयं जग्मुः पतत्रिणः ॥ ७.१९२.९ ॥

他射箭之时,四日一夜已过;在那一日的三分之一里,带羽的箭便已耗尽。

7.192.10

स शरक्षयमासाद्य पुत्रशोकेन चार्दितः ।
विविधानां च दिव्यामानमस्त्राणामप्रसादतः ॥ ७.१९२.१० ॥

箭矢已至耗尽之境,他为爱子之丧所苦,又因诸般神兵失去了庇佑,

7.192.11

उत्स्रष्टुकामः शस्त्राणि ऋषिवाक्यप्रचोदितः ।
तेजसा पूर्यमाणश्च युयुधे न यथा पुरा ॥ ७.१९२.११ ॥

他想放下兵器,受贤者之言所驱使;虽然光芒充盈,他却不再像往日那样作战。

7.192.12

भूयश्चान्यत्समादाय दिव्यमाङ्गिरसं धनुः ।
शरांश्च ब्रह्मदण्डाभान्धृष्टद्युम्नमयोधयत् ॥ ७.१९२.१२ ॥

他又取了另一张天神的安吉罗娑之弓,以及如梵杖般的箭,与持久黄(德里斯塔温那)交战。

7.192.13

ततस्तं शरवर्षेण महता समवाकिरत् ।
व्यशातयच्च सङ्क्रुद्धो धृष्टद्युम्नममर्षणम् ॥ ७.१९२.१३ ॥

于是他愤怒地以大量箭雨将他完全覆盖,并击倒了不甘示弱的德里什塔德尤姆纳。

7.192.14

शरांश्च शतधा तस्य द्रोणश्चिच्छेद सायकैः ।
ध्वजं धनुश्च निशितैः सारथिं चाप्यपातयत् ॥ ७.१९२.१४ ॥

德罗纳将他的箭斩成百段,并以利箭击落了他的旗帜、弓和御者。

7.192.15

धृष्टद्युम्नः प्रहस्यान्यत्पुनरादाय कार्मुकम् ।
शितेन चैनं बाणेन प्रत्यविध्यत्स्तनान्तरे ॥ ७.१९२.१५ ॥

德里什塔德尤姆纳笑着又拿起另一张弓,以利箭射穿了他的胸膛正中。

7.192.16

सोऽतिविद्धो महेष्वासोऽसम्भ्रान्त इव संयुगे ।
भल्लेन शितधारेण चिच्छेदास्य पुनर्धनुः ॥ ७.१९२.१६ ॥

这位大弓手虽然被重创,在战场上却仿佛毫不慌乱;他又用一支锋利的薄刃箭斩断了德里什塔德尤姆纳的弓。

7.192.17

यच्चास्य बाणविकृतं धनूंषि च विशाम्पते ।
सर्वं चिच्छेद दुर्धर्षो गदां खङ्गं च वर्जयन् ॥ ७.१९२.१७ ॥

人主啊!那位不可战胜者斩断了所有被箭损坏的弓,却没有砍断狼牙棒与宝剑。

7.192.18

धृष्टद्युम्नं च विव्याध नवभिर्निशितैः शरैः ।
जीवितान्तकरैः क्रुद्धः शिलाधौतैः परन्तपः ॥ ७.१९२.१८ ॥

这位令敌人苦恼的勇士愤怒地又以九支锐利的箭射穿了德里什塔德尤姆纳;那些箭能夺人性命,经过石头磨砺。

7.192.19

धृष्टद्युम्नोऽथ तस्याश्वान्खरथाश्वैर्महारथः ।
व्यामिश्रयदमेयात्मा ब्राह्ममस्त्रमुदीरयन् ॥ ७.१९२.१९ ॥

于是大车将德利什塔迪优姆那以不可估量的心志,念诵梵天神箭,将他的马与驴形之马混杂在一起。

7.192.20

ते मिश्रा बह्वशोभन्त जवना वातरंहसः ।
पारावतसवर्णाश्च शोणाश्च भरतर्षभ ॥ ७.१९२.२० ॥

那些混杂的疾速之马,快如风,鸽灰色与赤色,光彩甚盛,婆罗多之雄牛啊。

7.192.21

यथा सविद्युतो मेघा नदन्तो जलदागमे ।
तथा रेजुर्महाराज मिश्रिता रणमूर्धनि ॥ ७.१९२.२१ ॥

如雨季来临时,伴着闪电的云层轰鸣闪耀,大王啊,那些混杂在战场前沿的马也这样闪耀。

7.192.22

ईषाबन्धं चक्रबन्धं रथबन्धं तथैव च ।
प्राणाशयदमेयात्मा धृष्टद्युम्नस्य स द्विजः ॥ ७.१९२.२२ ॥

那位再生者,即心志无量的德利什塔迪优姆那,以轭缚、轮缚、车缚,并以止住生气的神箭将其束缚。

7.192.23

स च्छिन्नधन्वा पाञ्चाल्यो निकृत्तध्वजसारथिः ।
उत्तमामापदं प्राप्य गदां वीरः परामृशत् ॥ ७.१९२.२३ ॥

般遮罗英雄弓断、旗与御者皆被斩落,陷入极大的危难,便握起了铁锤。

7.192.24

तामस्य विशिखैस्तीक्ष्णैः क्षिप्यमाणां महारथः ।
निजघानः शरैर्द्रोणः क्रुद्धः सत्यपराक्रमः ॥ ७.१९२.२४ ॥

当他以利箭掷出那铁锤时,大车将德罗纳怒而以真正的勇力,用箭将他射杀。

7.192.25

तां तु दृष्ट्वा नरव्याघ्रो द्रोणेन निहतां शरैः ।
विमलं खङ्गमादत्त शतचन्द्रं च भानुमत् ॥ ७.१९२.२५ ॥

见她被德罗纳的箭射倒,人中之虎拿起明亮的剑和光耀的百月盾。

7.192.26

असंशयं तथाभूतः पाञ्चाल्यः साध्वमन्यत ।
वधमाचार्यमुख्यस्य प्राप्तकालं महात्मनः ॥ ७.१९२.२६ ॥

毫无疑问,处于那种状态的般遮罗王子正确地认为:杀死那位大德、师长中的首位,时机已经到了。

7.192.27

ततः स रथनीडस्थं स्वरथस्य रथेपया ।
अगच्छदसिमुद्यम्य शतचन्द्रं च भानुमत् ॥ ७.१९२.२७ ॥

于是他举剑,持百月盾与光耀之盾,朝站在自己战车座位上的德罗纳走去,想要夺取那辆战车。

7.192.28

चिकीर्षुर्दुष्करं कर्म धृष्टद्युम्नो महारथः ।
इयेष वक्षो भेत्तुं स भारद्वाजस्य संयुगे ॥ ७.१९२.२८ ॥

大车士德里斯塔俄姆那想要完成艰难之事,在战斗中刺穿婆罗堕遮之子德罗纳的胸膛。

7.192.29

सोऽतिष्ठद्युगमध्ये वै युगसन्नहनेषु च ।
जघनार्धेषु चाश्वानां तत्सैन्याः समपूजयन् ॥ ७.१९२.२९ ॥

他站在车轭中央、车轭的挽具上以及马的臀部上;他的士兵向他致敬。

7.192.30

तिष्ठतो युगपालीपु शोणानप्यधितिष्ठतः ।
नापश्यदन्तरं द्रोणस्तदद्भुतमिवाभवत् ॥ ७.१९२.३० ॥

虽然他站在车轭护卫和红色的马上,德罗纳却看不到任何空隙;那情景仿佛奇迹一般。

7.192.31

क्षिप्रं श्येनस्य चरतो यथैवामिषगृद्धिनः ।
तद्वदासीदभीसारो द्रोमपार्षतयो रणे ॥ ७.१९२.३१ ॥

如贪食肉的鹰隼疾速扑下,德罗纳与般沙塔之子在战场上也如此相互猛冲。

7.192.32

तस्य पारावतानश्वान्रथशक्त्या पराभिनत् ।
सर्वानेकैकशो द्रोणो रक्तानश्वान्विवर्जयन् ॥ ७.१९२.३२ ॥

德罗纳用战车长矛将他所有鸽灰色的马一一击倒,只放过红色的马。

7.192.33

ते हता न्यपतन्भूमौ धृष्टद्युम्नस्य वाजिनः ।
शोणास्तु पर्यमुच्यन्त रथबन्धाद्विशाम्पते ॥ ७.१९२.३३ ॥

德里湿陀衍那的那些马被杀倒在地;但红色的马被从战车的挽具上解下,人民之主啊。

7.192.34

तान्हयान्निहतान्दृष्ट्वा द्विजाग्र्येण स पार्षतः ।
नामृष्यत युधां श्रेष्ठो याज्ञसेनिर्महारथः ॥ ७.१९२.३४ ॥

看见那些马被婆罗门中最优秀者杀死,战士中最杰出的大车战士、祭祀王之子般沙塔之子无法忍受。

7.192.35

विरथः स गृहीत्वा तु खङ्गं खङ्गभृतां वरः ।
द्रोणमभ्यपतद्राजन्वैनतेय इवोरगम् ॥ ७.१९२.३५ ॥

他失去战车,作为剑士中最优秀者,拿起剑,大王啊,如金翅鸟扑向蛇一般冲向德罗纳。

7.192.36

तस्य रूपं बभौ राजन्भारद्वाजं जिघांसतः ।
यथा रूपं पुरा विष्णोर्हिरण्यकशिपोर्वधे ॥ ७.१९२.३६ ॥

大王啊,他想杀死婆罗堕阇之子德罗纳时,形貌焕发光彩,正如往昔毗湿奴诛杀金床魔时形貌焕发光彩一般。

7.192.37

स तदा विविधान्मर्गान्प्रवरांश्चैकविंशतिम् ।
दर्शयामास कौरव्य पार्षतो विचरन्रणे ॥ ७.१९२.३७ ॥

那时,他展示了二十一种多样而卓越的步法,俱卢的后裔啊,普利沙塔之子在战场上奔走时如此做。

7.192.38

भ्रान्तुमुद्धान्तमाविद्धमाप्लुतं प्रसृतं सृतम् ।
परिवृत्तं निवृत्तं च खङ्गं चर्म च धारयन् ॥ ७.१९२.३८ ॥

手持剑与盾,他旋转、回绕、掷击、跃起、前进、后退、转身、折返。

7.192.39

सम्पातं समुदीर्णं च दर्शयामास पार्षतः ।
भारतं कौशिकं चैव सात्वतं चैव शिक्षया। ॥ ७.१९२.३९ ॥

普利沙塔之子展示了俯冲与跃起之势,并依其所学展示了婆罗多、憍尸迦与萨低婆多的各式。

7.192.40

दर्शयन्व्यचरद्युद्धे द्रोणस्यान्तचिकीर्षया ।
चरतस्तस्य तान्मर्गान्विचित्रान्खङ्गचर्मिणः।
व्यस्मयन्त रणे योधा देवताश्च समागताः ॥ ७.१९२.४० ॥

他在战场上展示那些奇妙的步法,怀着终结德罗纳的意愿而行动,手持剑与盾;战场上的勇士们以及聚集而来的天神都惊叹不已。

7.192.41

ततः शरसहस्रेण शतचन्द्रमपातयत् ।
चर्म खङ्गं च सम्बाधे धृष्टद्युम्नस्य स द्विजः ॥ ७.१९२.४१ ॥

那位再生者(德罗纳)在拥挤中以千箭射落了德里斯塔迪优姆那的百月盾与剑。

7.192.42

ये तु वैतस्तिका नाम शरा आसन्नयोधिनः ।
निकृष्टयुद्धे द्रोणस्य नान्येषां सन्ति ते शराः ॥ ७.१९२.४२ ॥

名为“维塔斯蒂卡”的箭,在近身战中属于德罗纳;这些箭别人并没有。

7.192.43

ऋते शारद्वतात्पर्थाद्द्रौणेर्वैकर्तनात्तथा ।
प्रद्युम्नयुयुधानाभ्यामभिमन्योश्च भारत ॥ ७.१९२.४३ ॥

婆罗多啊,除了沙罗德婆多之子克里帕、德罗那之子、毗迦尔坦之子迦尔纳,以及普拉笛尤姆纳、尤尤达那和阿毗曼纽之外——

7.192.44

अथास्येषु समाधत्त दृढं परमसम्मतम् ।
अन्तेवासिनमाचार्यो जिघांसुः पुत्रसम्मितम् ॥ ७.१९२.४४ ॥

于是老师德罗那,想要杀死那位如同儿子般极为珍爱的弟子,坚定地瞄准了他的箭矢。

7.192.45

तं शरैर्दशभिस्तीक्ष्णैश्चिच्छेद शिनिपुङ्गवः ।
पश्यतस्तव पुत्रस्य कर्णस्य च महात्मनः।
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् ॥ ७.१९२.४५ ॥

系尼族中最优秀的萨提亚基以十支锐利的箭将其射断;在你的儿子和大德迦尔纳注视之下,他救出了被诸师之长德罗那擒获的德里斯塔德尤姆纳。

7.192.46

चरन्तं रथमार्गेषु सात्यकिं सत्यविक्रमम् ।
द्रोणकर्मान्तरगतं कृपस्यापि च भारत।
अपश्येतां महात्मानौ विष्वक्सेनधनञ्जयौ ॥ ७.१९२.४६ ॥

婆罗多啊,那两位大德,毗湿伐塞那(克里希那)与财胜(阿周那),看见了真勇的萨提亚基在战车道上驰骋,已深入德罗那与克里帕的战事之中。

7.192.47

अपूजयेतां वार्ष्णेयं ब्रुवाणौ साधुसाध्विति ।
दिव्यान्यस्त्राणि सर्वेषां युधि निघ्न्तमच्युतम् ॥ ७.१९२.४७ ॥

二人同声说道:“善哉!善哉!”,既赞美了婆利世尼之后(萨提亚基),也敬重了在战场上摧毁众人神兵的阿017丘多(克里希那)。

7.192.48

धनञ्जयस्ततः कृष्णमब्रवीत्पश्य केशव ।
आचार्यरथमुख्यानां मध्ये क्रीडन्मधूद्वहः ॥ ७.१९२.४८ ॥

于是财胜对克里希那说:“毗湿伐塞那啊,你看,那持守摩图家族的人,正在诸师的主要车战者之中嬉戏!”

7.192.49

आनन्दयति मां भूयः सात्यकिः परवीरहा ।
माद्रीपुत्रौ च भीमं च राजानं च युधिष्ठिरम् ॥ ७.१९२.४९ ॥

击杀敌方勇士的萨提亚基再次令我欢喜,还有摩德丽的两个儿子、毗摩和国王坚战也是如此。

7.192.50

यच्छिक्षयाऽनुद्धतः सन्रणे चरति सात्यकिः ।
महारथानुपक्रीडन्वृष्णीनां कीर्तिवर्धनः ॥ ७.१९२.५० ॥

得益于其教导,萨提亚基在战场上谦逊地行进,在大战车武士之间游刃有余,增添了毗瑞尼族的荣耀。

7.192.51

तमेते प्रतिनन्दन्ति सिद्धाः सैन्याश्च विस्मिताः ।
अजय्यं समरे दृष्ट्वा साधुसाध्विति सात्यकिम्।
योधाश्चोभयतः सर्वे कर्मभिः समपूजयन् ॥ ७.१९२.५१ ॥

成就者与双方军队都惊叹地赞美他;见萨提亚基在战场上不可战胜,他们连声称赞"善哉,善哉!";双方所有战士都以他的功绩向他致敬。