Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.194

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.194.1

ततो द्रोणे हते राजन्कुरवः शस्त्रपीडिताः ।
हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः ॥ ७.१९४.१ ॥

大王,德罗纳被杀之后,俱卢族人遭兵器重创,英雄战死,队伍溃散,陷入极度的悲痛之中。

7.194.2

उदीर्णांश्च परान्दृष्ट्वा हर्षमाणान्पुनः पुनः ।
अश्रुपूर्णेक्षणास्त्रस्ता दीनास्त्वासन्विशाम्पते ॥ ७.१९४.२ ॥

看见敌人一再欢呼雀跃,民之主啊,他们满眼含泪,惊恐而沮丧。

7.194.3

विचेतसो हतोत्साहाः कश्मलाभिहतौजसः ।
आर्तस्वरेण महता पुत्रं ते पर्यवारयन् ॥ ७.१९४.३ ॥

他们惶乱失措,士气崩溃,因昏迷而气力衰竭,以悲痛的大声围住了你的儿子。

7.194.4

वेषण्णवदना दीना वीक्षमाणा दिशो दश ।
अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते ॥ ७.१९४.४ ॥

面容憔悴,悲惨无助,望向十方,哽咽落泪,就像往昔希兰耶迦被杀时的达伊提亚们。

7.194.5

स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव ।
अशक्नुवन्नवस्थातुमपायात्तनयस्तव ॥ ७.१९४.५ ॥

国王被他们包围,惊惧如小鹿,无法站稳,你的儿子便逃走了。

7.194.6

क्षुत्पिपासापरिम्लानास्ते योधास्तव भारत ।
आदित्येनेव सन्तप्ता भृशं विमनसोऽभवन् ॥ ७.१९४.६ ॥

婆罗多啊,你的那些战士被饥渴折磨得憔悴,仿佛被太阳灼烧,极度沮丧。

7.194.7

भास्करस्येव पतनं समुद्रस्येव शोषणम् ।
विपर्यासं यथा मेरोर्वासवस्येव निर्जयम् ॥ ७.१९४.७ ॥

如同太阳陨落,大海枯竭,须弥山倒转,因陀罗战败。

7.194.8

अप्रेक्षणीयं तद्दृष्ट्वा भारद्वाजस्य पातनम् ।
त्रस्तरूपतरा राजन्कौरवाः प्राद्रवन्भयात् ॥ ७.१९४.८ ॥

大王啊,看到婆罗堕阇之子倒下令人不忍目睹;俱卢族人惊恐万分,四散逃走。

7.194.9

गान्धारराजः शकुनिस्त्रस्तस्त्रस्ततरैः सह ।
हतं रुक्मरथं श्रुत्वा प्राद्रवत्सहितो रथैः ॥ ७.१९४.९ ॥

犍陀罗王沙constrain夜尼极为惊恐,与同样惊惶的人一起,听闻金车王被杀,便带着战车逃走了。

7.194.10

वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम् ।
परिगृह्य महासेनां सूतपुत्रोऽपयाद्भयात् ॥ ७.१९४.१० ॥

御者之子收拢那支迅疾逃散、旗幡林立的大军,因恐惧而撤退。

7.194.11

रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम् ।
मद्राणामीश्वरः शल्यो वीक्षमाणोऽपयाद्भयात् ॥ ७.१९४.११ ॥

摩德罗国之主沙利耶将充满战车、象与马的大军置于前列,且四处张望,因恐惧而撤退。

7.194.12

हतप्रवीरैर्भूयिष्ठैर्ध्वजैर्बहुपताकिभिः ।
वृतः शारद्वतोऽगच्छत्कष्टङ्कष्टमिति ब्रुवन् ॥ ७.१९४.१२ ॥

被诸多阵亡英雄的旗幡所包围,沙罗堕多之子(克利巴)边走边说:“苦哉,苦哉!”

7.194.13

भोजनीकेन शिष्टेन कलिङ्गारट्टबाह्लिकैः ।
कृतवर्मा वृतो राजन्प्रायात्सुजवनैर्हयैः ॥ ७.१९४.१३ ॥

大王啊,被残余的波阇军以及羯陵伽、阿罗吒和巴利迦人包围的护车(Kṛtavarman),驾着疾驰的骏马前进了。

7.194.14

पदातिगणसंयुक्तस्त्रस्तो राजन्भयार्दितः ।
उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम् ॥ ७.१९४.१४ ॥

大王啊,与步兵群同在的乌卢迦惊恐万分,被恐惧折磨,见到德罗纳倒在那里,便逃跑了。

7.194.15

दर्शनीयो युवा चैव शौर्येण कृतलक्षणः ।
दुःशासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः ॥ ७.१९४.१५ ॥

俊美、年轻、以勇武著称的难降(Duḥśāsana)极为惊惶,被象群围绕着逃走了。

7.194.16

रथानामयुतं गृह्य त्रिसाहस्रं च दन्तिनाम् ।
वृषसेनो ययौ तूर्णं दृष्ट्वा द्रोणं निपातितम् ॥ ७.१९४.१६ ॥

率领一万辆战车和三千头象,见德罗纳倒下,婆利沙私那迅速前往。

7.194.17

गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः ।
दुर्योधनो महाराज प्रायात्तत्र महारथः ॥ ७.१९४.१७ ॥

大王啊,与象、马、车同在并被步兵围绕的大战车手难敌,前往那里了。

7.194.18

संशप्तकगणाद्गृह्य हतशेषान्किरीटिना ।
सुशर्मा प्राद्रावद्राजन्दृष्ट्वा द्रोणं निपातितम् ॥ ७.१९४.१८ ॥

大王啊,苏沙尔曼带着被冠饰者(阿周那)所留下的三二、萨姆沙塔卡部队的残余,见德罗纳倒下便逃走了。

7.194.19

गजान्रथान्समारुह्य व्युदस्य च हयाञ्जनाः ।
प्राद्रवन्सर्वतः सङ्ख्ये दृष्ट्वा रुक्मरथं हतम् ॥ ७.१९४.१९ ॥

众人登上象与车,弃去马匹,在战场上四面奔逃,见金车勇士已被杀死。

7.194.20

त्वरयन्तः पितॄनन्ये भ्रातॄनन्येऽथ मातुलान् ।
पुत्रानन्ये वयस्यांश्च प्राद्रवन्कुरवस्तदा ॥ ७.१९४.२० ॥

有人催促父亲,有人催促兄弟,有人催促舅父,有人催促儿子和朋友,那时俱卢人逃跑了。

7.194.21

चोदयन्तश्च सैन्यानि स्वस्त्रीयांश्च तथाऽपरे ।
सम्बन्धिनस्तथाऽन्ये च प्राद्रवन्त दिशो दश ॥ ७.१९४.२१ ॥

催促军队和姊妹之子,其他亲属也一样,他们向十方奔逃。

7.194.22

प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः ।
नेदमस्तीति मन्वाना हतोत्साहा हतौजसः ॥ ७.१९४.२२ ॥

披头散发,四散奔逃,没有两人同行,心想“这不可能”,丧失了勇气与力量。

7.194.23

उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो ।
अन्योन्यं ते समाक्रोशन्यैनिका भरतर्षभ ॥ ७.१९४.२३ ॥

其他人弃去甲胄而逃,主公啊,您的部下;他们互相辱骂为懦夫,婆罗多族的雄牛啊。

7.194.24

तिष्ठतिष्ठेति न च ते स्वयं तत्रावतस्थिरे ।
धुर्यानुन्मुच्य च रथाद्धतसूतात्स्वलङ्कृतान्।
अधिरुह्य हयान्योधाः क्षिप्रं पद्भिरचोदयन् ॥ ७.१९४.२४ ॥

虽有人喊“站住,站住!”,他们自己却没有停留;воины解开御者已被杀死的战车上装饰华美的驾辕马,骑上马匹飞速驱驰,也有徒步奔逃的。

7.194.25

द्रमाणे तथा सैन्ये त्रस्तरूपे हतौजसि ।
प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात् ॥ ७.१९४.२५ ॥

军队惊恐溃逃,气势尽失之时,德罗纳之子如逆流而上的鳄鱼,向敌人冲去。

7.194.26

तस्यासीत्सुमहद्युद्धं शिखण्डिप्रमुखैर्गणैः ।
प्रभद्रकैश्च पाञ्चालैश्चेदिभिश्च सकेकयैः ॥ ७.१९४.२६ ॥

他与以尸犍底为首的诸部队、般遮罗、般遮罗人、支提人和迦叶人展开了极为激烈的战斗。

7.194.27

हत्वा बहुविधाः सेनाः पाण्डूनां युद्धदुर्मदः ।
कथञ्चित्सङ्कटान्मुक्तो मत्तद्विरदविक्रमः ॥ ७.१९४.२७ ॥

他杀死了般度之子的各种军队,在战争中狂怒,以发情象的勇猛,终于设法脱离了险境。

7.194.28

द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम् ।
दुर्योधनं समासाद्य द्रोणपुत्रोऽब्रवीदिदम् ॥ ७.१९४.२८ ॥

德罗纳之子见军队溃逃、欲待逃散,便走近难敌,说出了这番话。

7.194.29

किमियं द्रवते सेना त्रस्तरूपेव भारत ।
द्रवमाणां च राजेन्द्र नावस्थापयसे रणे ॥ ७.१९४.२९ ॥

婆罗多啊,这支军队为何如惊恐之人般溃逃?王中之王啊,你为何不在战场上阻止溃逃的军队?

7.194.30

त्वं चापि न यथा पूर्वं प्रकृतिस्थो नराधिप ।
कर्णप्रभृतयश्चेमे नावतिष्ठन्ति पार्थिव ॥ ७.१९४.३० ॥

人主啊,你也不像从前那样镇定自若;国王啊,迦尔纳等人也站立不住。

7.194.31

अन्येष्वपि च युद्धेषु नैव सेनाऽद्रवत्तदा ।
कच्चित्क्षेमं महाबाहो तव सैन्यस्य भारत ॥ ७.१९४.३१ ॥

哦,大臂的婆罗多后裔,在其他战斗中,你的军队当时也未曾这样溃逃。你的军队平安吗?

7.194.32

कस्पिन्निदं हते राजन्रथसिंहे बलं तव ।
एतामवस्थां संप्राप्तं तन्ममाचक्ष्व कौरव ॥ ७.१९४.३२ ॥

国王啊,哪位车中雄狮被杀之后,你的军队竟落到这般境地?库鲁后裔啊,请告诉我。

7.194.33

तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम् ।
घोरमप्रियमाख्यातुं नाशक्नोत्पार्थिवर्षभः ॥ ७.१९४.३३ ॥

然而,王者中的雄牛难敌听了德罗纳之子那可怖而不悦的话,竟无法说出口。

7.194.34

भिन्ना नौरिव ते पुत्रो मग्नः शोकमहार्णवे ।
बाष्पेणापिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम् ॥ ७.१९४.३४ ॥

你的儿子如破船一般沉入悲伤的大海;他泪流满面,望见德罗纳之子站在战车上。

7.194.35

ततः शारद्वतं राजा सव्रीडमिदमब्रवीत् ।
शंसात्र भद्रं ते सर्वं यथा सैन्यमिदं द्रुतम् ॥ ७.१९४.३५ ॥

于是国王羞愧地对沙罗达瓦塔(克里帕)说:“请在此把一切都告诉我,愿你平安,这支军队是如何如此迅速地覆灭的。”

7.194.36

अथ शारद्वतो राजन्नार्तिमार्च्छन्पुनःपुनः ।
शशंस द्रोणपुत्राय यथा द्रोणो निपातितः ॥ ७.१९४.३६ ॥

于是,国王啊,沙罗达瓦塔(克里帕)一次又一次地感到痛苦,开始向德罗纳之子讲述德罗纳是如何被击倒的。

7.194.37

वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम् ।
प्रावर्तयाम सङ्ग्रामं पाञ्चालैरेव केवलम् ॥ ७.१९४.३७ ॥

我们以大地上最优秀的战车武士德罗纳为先锋,仅与般遮罗人开始了战斗。

7.194.38

ततः प्रवृत्ते सङ्ग्रमे विमिश्राः कुरुसोमकाः ।
अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातयन् ॥ ७.१९४.३८ ॥

战斗开始后,俱卢人与索摩迦人混杂在一起,互相咆哮,用兵器击倒人身。

7.194.39

वर्तमाने तथा युद्धे क्षीयमाणेषु संयुगे ।
धार्तराष्ट्रेषु सङ्क्रुद्धः पिता तेऽस्त्रमुदैरयत् ॥ ७.१९४.३९ ॥

战斗这样进行着,德拉斯特拉的儿子们在战斗中死去之时,你的父亲愤怒地发出了武器。

7.194.40

ततो द्रोणो ब्राह्ममस्त्रं विकुर्वाणो नरर्षभः ।
व्यहनच्छात्रवान्भल्लैः शतशोऽथ सहस्रशः ॥ ७.१९४.४० ॥

于是人中雄牛德罗纳施展梵天武器,以月牙箭成百上千地击杀敌人。

7.194.41

पाण्डवाः केकया मात्स्याः पाञ्चालाश्च विशेषतः ।
सङ्ख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः ॥ ७.१९४.४१ ॥

般度之子、凯克耶人、摩蹉人,尤其是般遮罗人,在战斗中来到德罗纳的战车前,被时间驱使而灭亡。

7.194.42

सहस्रं नरसिंहानां द्विसाहस्रं च दन्तिनाम् ।
द्रोणो ब्रह्मास्त्रयोगेन प्रेषयामास मृत्यवे ॥ ७.१९४.४२ ॥

德罗纳运用梵天武器,将一千名人狮和两千头象送往死亡。

7.194.43

आकर्णपलितश्यामो वयसाऽशीतिपञ्चकः ।
रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ॥ ७.१९४.४३ ॥

鬓发斑白至耳,年已八十五岁的德罗纳在战场上行动如同十六岁的少年。

7.194.44

क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु ।
अमर्षवशमापन्नाः पाञ्चाला विमुखाऽभवन् ॥ ७.१९४.४४ ॥

当军队受困、诸王被杀之时,被愤怒所controlled的般遮罗人转身退去。

7.194.45

तेषु किञ्चित्प्रभग्नेषु विमुखेषु सपत्नजित् ।
दिव्यमस्त्रं विकुर्वाणो बभूवार्क इवोदितः ॥ ७.१९४.४५ ॥

当其中一些人溃散转身之时,征服敌人的德罗纳施展神器,如同升起的太阳。

7.194.46

स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान् ।
मध्यं गत इवादित्यो दुष्प्रेक्ष्यस्ते पिताऽभवत् ॥ ७.१९४.४६ ॥

德罗纳抵达般度之子的中央,以箭为光芒,威力赫赫,对他们而言成了无法直视的父亲,如同正午的太阳。

7.194.47

ते दह्यमाना द्रोणेन सूर्येणेव विराजता ।
दग्धवीर्या निरुत्साहा बभूवुर्गतचेतसाः ॥ ७.१९४.४७ ॥

被如太阳般闪耀的德罗纳焚烧,勇气被烧尽,他们失去了斗志,心神迷乱。

7.194.48

तान्दृष्ट्वा पीडितान्बाणैर्द्रोणेन मधुसूदनः ।
जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत् ॥ ७.१९४.४८ ॥

看到他们被德罗纳的箭所折磨,渴望般度之子获胜的摩图苏陀那说出了这些话。

7.194.49

नैष जातु नरैः शक्यो जेतुं शस्त्रभृतां वरः ।
अपि वृत्रहणा सङ्ख्ये रथयूथपयूथपः ॥ ७.१९४.४९ ॥

即使是持兵器者中最优秀的人,凡人也绝无可能战胜他;即便是杀死弗栗多的因陀罗,也无法在战场上战胜这位战车军队之主的主帅。

7.194.50

ते यूयं धर्ममुत्सृज्य जयं रक्षत पाण्डवाः ।
यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः ॥ ७.१९४.५० ॥

般度之子们,舍弃法义,守住胜利吧,以免那金车之主在战斗中杀死你们所有人。

7.194.51

अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम ।
हतं तं संयुगे कश्चिदाख्यात्वस्मै मृषा नरः ॥ ७.१९४.५१ ॥

我认为,若马嘶之子(阿摩陀摩)被杀,此人便不会再战;应当有人欺骗他,说那人已在战斗中被杀。

7.194.52

एतन्नारोचयद्वाक्यं कुन्तीपुत्रो धनञ्जयः ।
अरोचयंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः ॥ ७.१९४.५२ ॥

贡蒂之子阿周那不赞同此议;其余人都赞同了,但坚战是勉强同意的。

7.194.53

भीमसेनस्तु सव्रीडमब्रवीत्पितरं तव ।
अश्वत्थामा हत इति तं नाबुध्यत ते पिता ॥ ७.१९४.५३ ॥

然而毗摩娑那含羞地对你的父亲说:“马嘶之子已被杀死。”但你的父亲并未明白。

7.194.54

स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत ।
हतं वाऽप्यहतं वाऽऽजौ त्वां पिता पुत्रवत्सलः ॥ ७.१९४.५४ ॥

他怀疑此事是假的,便问法王说:“他在战斗中是被杀了还是没有?”这位慈爱儿子的父亲问了你。

7.194.55

तमतथ्यभये मग्नो जये सक्तो युधिष्ठिरः ।
अश्वत्थामानमायोधे हतं दृष्ट्वा महागजम् ॥ ७.१९४.५५ ॥

坚战沉浸于虚妄的恐惧,执著于胜利,见到战场上大象般的马嘶(阿什瓦塔曼)已被杀死,

7.194.56

भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः ।
उपसृत्य तदा द्रोणमुच्चैरिदमुवाच ह ॥ ७.१९४.५६ ॥

他走近被毗摩杀死的、身如山岳的摩罗婆王因陀罗跋摩,随后高声对德罗纳说了这些话。

7.194.57

यस्यार्थे शस्त्रमादत्से यमवेक्ष्य च जीवसि ।
पुत्रस्ते दयितो नित्यं सोश्वत्थामा निपातितः ॥ ७.१९४.५७ ॥

你为了他而拿起武器,见到他才得以活下去——你那永远心爱的儿子阿什瓦塔曼已被击倒。

7.194.58

शेते विनिहतो भूमौ वने सिंहशिशुर्यथा ॥ ७.१९४.५८ ॥

他被击倒在地,好像森林中的狮子幼崽。

7.194.59

जानन्नप्यनृतस्याथ दोषान्स द्विजसत्तमम् ।
अव्यक्तमब्रवीद्राजा हतः कुञ्जर इत्युत ॥ ७.१९४.५९ ॥

国王虽知虚妄的过失,却对那位最优秀的婆罗门含糊地说:“象已被杀。”

7.194.60

स त्वां निहतमाक्रन्दे श्रुत्वा सन्तापतापितः ।
नियम्य दिव्यान्यस्त्राणि नायुध्यत यथा पुरा ॥ ७.१९४.६० ॥

他听到哀号说你已被杀,被忧愁的热火煎熬,于是收起神兵,不再像从前那样作战。

7.194.61

तं दृष्ट्वा परमोद्विग्नं शोकातुरमचेतसम् ।
पाञ्चालराजस्य सुतः क्रुरकर्मा समाद्रवत् ॥ ७.१९४.६१ ॥

般遮罗王的残忍之子见他极度惊慌、悲痛欲绝、神志昏迷,便扑向他。

7.194.62

तं दृष्ट्वा परमोद्विग्नं शोकातुरमचेतसम् ।
दिव्यान्यस्त्राण्यथोत्सृज्य रणे प्रायमुपाविशत् ॥ ७.१९४.६२ ॥

见他极度惊慌、悲痛欲绝、神志昏迷,他便放下神圣的兵器,在战场上坐下,准备绝食至死。

7.194.63

ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा ।
पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः ॥ ७.१९४.६३ ॥

此时,般遮罗之子用左手抓住他的头发,在呼喊的勇士们面前砍下了他的头颅。

7.194.64

न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन् ।
तथैव चार्जुनो वाहादवरुह्यैनमाद्रवत् ॥ ७.१९४.६४ ॥

他们从四面八方喊道:“不要杀他,不要杀他!”然而阿周那也从战车上跳下,向他冲去。

7.194.65

उद्यम्य त्वरितो बाहुं ब्रुवाणश्च पुनःपुनः ।
जीवन्तमानयाचार्यं मावधीरिति धर्मवित् ॥ ७.१९४.६५ ॥

精通法义者急忙举起手臂,反复说道:“把老师活着带来,不要杀他!”

7.194.66

तथा निवार्यमाणेन कौरवैरर्जुनेन च ।
हत एव नृशंसेन पिता तव नरर्षभ ॥ ७.१९४.६६ ॥

尽管俱卢族人和阿周那阻拦,那残忍之人还是杀死了你的父亲,人中雄牛啊。

7.194.67

सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः ।
वयं चापि निरुत्साहा हते पितरि तेऽनघ ॥ ७.१९४.६७ ॥

于是所有士兵因恐惧而逃散;无垢者啊,你的父亲阵亡后,我们也士气低落。

7.194.68

तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे ।
क्रोधमाहारयत्तीव्रं दण्डाहत इवोरगः ॥ ७.१९४.६८ ॥

德罗纳之子听闻父亲在战场上阵亡,便涌起猛烈的愤怒,如同被棍棒击打的毒蛇。

7.194.69

ततः क्रुद्धो रणे द्रौणिर्भृशं जज्वाल मारिष ।
यथेन्धनं महत्प्राप्य प्राज्वलद्धव्यवाहनः ॥ ७.१९४.६९ ॥

于是德罗纳之子在战斗中愤怒至极,猛烈燃烧起来,尊贵的君主啊,犹如大火获得大量柴薪而熊熊燃起。

7.194.70

तलं तलेन निष्पिष्य दन्तैर्दन्तानुपास्पृशत् ।
निःश्वसन्नुरगो यद्वल्लोहिताक्षोऽभवत्तदा ॥ ७.१९४.७० ॥

他双掌相击,牙齿相碰,像一条喘着粗气的毒蛇,那时双眼变得通红。