Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.197

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.197.1

प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे प्रभो ।
प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् ॥ ७.१९७.१ ॥

主啊,那纳罗衍那神箭显现时,无云之处,雷鸣的风夹着水雾吹起。

7.197.2

चचाल पृथिवी चापि चुक्षुभे च महोदधिः ।
प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः ॥ ७.१९७.२ ॥

大地也震动,大海剧烈翻腾;流向大海的河流逆流而上。

7.197.3

शिखराणि व्यशीर्यन्त गिरीणां तत्र भारत ।
अपसव्यं मृगाश्चैव पाण्डुसेनां प्रचक्रिरे ॥ ७.१९७.३ ॥

婆罗多啊,那里山峰崩裂,鹿群在潘杜军周围逆时针绕行,是凶兆。

7.197.4

तमसा तावकीर्यन्त सूर्यश्च कलुषोऽभवत् ।
सम्पतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत् ॥ ७.१९७.४ ॥

天空被黑暗笼罩,太阳变得昏暗;食肉的生灵欢喜地纷纷扑下。

7.197.5

देवदानवगन्धर्वास्त्रस्तास्त्वासन्विशाम्पते ।
कथङ्खथाऽभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत् ॥ ७.१९७.५ ॥

人主啊,天神、檀那婆与乾闼婆都惊恐;见到那巨大的骚乱与猛烈,他们竟如何是好!

7.197.6

व्यथिताः सर्वराजानस्त्रस्ताश्चासन्विशाम्पते ।
तद्दृष्ट्वा घोररूपं वै द्रौणेरस्त्रं भयावहम् ॥ ७.१९७.६ ॥

人主啊,诸王见到德罗纳之子那可怖的、令人恐惧的神箭,都痛苦而惊恐。

7.197.7

निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे ।
भृशं शोकाभितप्तेन पितुर्वधममृष्यता ॥ ७.१९७.७ ॥

在战斗中,德罗纳之子使诸军退却;他因悲痛而深受煎熬,无法忍受父亲之死。

7.197.8

कुरूनापततो दृष्ट्वा धृष्टद्मुम्नस्य रक्षणे ।
को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व सञ्जय ॥ ७.१९७.८ ॥

桑闪耶,看到俱卢人冲来时,般度之子为保护猛光,有何计策?请告诉我。

7.197.9

प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः ।
पुनश्च तुमुलं शब्दं श्रुत्वाऽर्जुनमथाब्रवीत् ॥ ७.१९७.९ ॥

尤提斯提尔见持国之子先已逃散,又听到喧嚣的吼声,便对阿周那说道。

7.197.10

आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे ।
निहते वज्रहस्तेन यथा वृत्रे महासुरे ॥ ७.१९७.१० ॥

导师德罗纳在战斗中被猛光所杀,正如手持金刚杵者杀死大阿修罗弗栗多。

7.197.11

नाशंसन्तो जयं युद्धे दीनात्मानो धनञ्जय ।
आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो रणात् ॥ ७.१९७.११ ॥

财主啊,俱卢人不再期望在战斗中获胜,心灰意懒,决意自保,便从战场逃走了。

7.197.12

केचिद्वान्तै रथैस्तूर्णं निहतैः पाष्णियन्तृभिः ।
विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः ॥ ७.१९७.१२ ॥

有些国王,战车迅速被击毁,御者被杀,旗帜、幢幡和华盖被扯断,车辕折断。

7.197.13

भग्ननीडैराकुलाश्वैः प्रारुह्यान्यान्विचेतसः ।
भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथान् ॥ ७.१९७.१३ ॥

有些人惊慌失措,把他人扶上座位破碎、马匹惊乱的战车,自己徒步催赶马匹和战车。

7.197.14

भग्नाक्षयुगचक्रैश्च व्याकृष्यन्त समन्ततः ।
रथान्विशीर्णानुत्सृज्य पद्भिः केचिच्च विद्रुताः ॥ ७.१९७.१४ ॥

车轴、车轭、车轮断裂的战车四处被拖曳;有些人抛下破碎的战车,徒步逃散。

7.197.15

हयपृष्ठगताश्चान्ये कृष्यन्तेऽर्धच्युतासनाः ।
गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः ॥ ७.१९७.१५ ॥

坐在马背上的一些人从座位上半摔下来被拖曳;另一些被牢牢绑在象肩上,因铁箭而在座位上摇晃。

7.197.16

शरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश ।
विशस्त्रकवचनाश्चान्ये वाहनेभ्यः क्षितिं गताः ॥ ७.१९७.१६ ॥

一些人被中箭痛苦奔逃的大象载向十方;其余失去兵器与甲胄的人,从坐骑上坠落到地面。

7.197.17

सञ्छिन्ना नेमिभिश्चैव मृदिताश्च हयद्विपैः ।
क्रोशन्तस्तात पुत्रेति पलायन्ते परे भयात् ॥ ७.१९७.१७ ॥

其余的人被车轮边缘砍伤,被马与象践踏,一边哭喊"父亲啊!儿子啊!"一边因恐惧而逃散。

7.197.18

नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः ।
पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान् ॥ ७.१९७.१८ ॥

他们被昏迷所击,气力尽失,彼此不相识;他们抬起伤重的儿子、父亲、朋友和兄弟离去。

7.197.19

जलेन क्लेदयन्त्यन्ये विमुच्य कवचनान्यपि ।
पलायनपराश्चान्ये योधाः शतसहस्रशः ॥ ७.१९७.१९ ॥

有人以水浇身,有人甚至丢弃铠甲;成千上万的武士一心逃亡。

7.197.20

अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम् ।
पुनरावर्तितं केन यदि जानासि शंस मे ॥ ७.१९७.२० ॥

德罗纳被杀、大军陷入如此境地之后,是谁如此迅速地使它重新调转?若你知道,请告诉我。

7.197.21

हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम् ।
रथनेमिस्वनैश्चात्र विमिश्रः श्रूयते महान् ॥ ७.१९७.२१ ॥

马嘶、象吼与此处车轮的轰鸣交织在一起,听来是一片巨大的喧声。

7.197.22

एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे ।
मुमुर्मुहुरुदीर्यन्ते कम्पयन्त्यपि मामकान् ॥ ७.१९७.२२ ॥

这些猛烈的声音在库鲁之海上空剧烈升起;一次又一次地咆哮,连我自己的人也为之颤抖。

7.197.23

य एष तुमुलः शब्दः श्रूयते रोमहर्षणः ।
सेन्द्रानप्येष लोकांस्त्रीन्ग्रसेदिति मतिर्मम ॥ ७.१९७.२३ ॥

这阵令人毛骨悚然的喧嚣之声,依我看,连同因陀罗在内,足以吞没三界。

7.197.24

मन्ये वज्रधरस्यैष निनादो भैरवस्वनः ।
द्रोणे हते कौरवार्यं व्यक्तमभ्येति वासवः ॥ ७.१९७.२४ ॥

我想这是持金刚者可怕的吼声;德罗纳既已被杀,因陀罗显然正向高贵的俱卢者而来。

7.197.25

प्रहृष्टरोमकूपाः स्मः संविग्नरथकुञ्जराः ।
धनञ्जय गुरुं श्रुत्वा तत्र नादं सुभीषणम् ॥ ७.१९७.२५ ॥

达那嘉亚啊,我们听到那里导师那极为可怖的吼声,毛发竖立,战车与象群都受到了惊扰。

7.197.26

क एष कौरवान्दीर्णानवस्थाप्य महारथः ।
निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा ॥ ७.१९७.२६ ॥

这位大车战士是谁?他使溃散的俱卢人重新站稳,让他们为战斗而回返,如同战场上的天神之主?

7.197.27

उद्यम्यात्मानमुग्राय कर्मणे वीर्यमास्थिताः ।
धमन्ति कौरवाः शङ्खान्यस्य वीर्यं समाश्रिताः ॥ ७.१९७.२७ ॥

俱卢人振作自己,为凶猛之事而鼓起勇力,仰赖他的勇力,吹响了海螺。

7.197.28

यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते ।
धार्तराष्ट्रानवस्थाप्य क एष नदतीति हि ॥ ७.१९७.२८ ॥

大王,您所疑惑的是:导师已放下武器被杀,是谁在这里重新扶起持国之子并发出吼声?

7.197.29

हीमन्तं तं महाबाहुं मत्तद्विरदगामिनम् ।
इन्द्रविष्मुसमं वीर्ये कोपेऽन्तकमिव स्थितम् ॥ ७.१९७.२९ ॥

那位谦逊的、臂力强大的、行步如发情象的勇士,勇力与因陀罗、毗湿奴相当,愤怒时屹立如死神。

7.197.30

बृहस्पतिसमं बुद्ध्या नीतिमन्तं महारथम् ।
आख्यास्याम्युग्रकर्माणं कुरूणामभयङ्करम् ॥ ७.१९७.३० ॥

智慧如同布里哈斯帕蒂,精通政略,是行事凶猛、令俱卢人畏惧的大车战士,我要向你说说他。

7.197.31

यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम् ।
ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति ॥ ७.१९७.३१ ॥

在他出生时,德罗纳把一万头牛的财富赠予了值得极大尊敬的婆罗门,此人便是正在咆哮的阿updo 瓦特哈曼。

7.197.32

जातमात्रेण वीरेण येनोच्चैः श्रवसा यथा ।
हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः ॥ ७.१९७.३२ ॥

这位英雄一出生便如乌乞随士(Uccaiḥśravas)般嘶鸣,使大地和一切三界都为之震颤。

7.197.33

तच्छ्रुत्वान्तर्हितं भूतं नाम तस्याकरोत्तदा ।
अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव ॥ ७.१९७.३३ ॥

听到此事后,一个隐形的存在当时为他取名为“阿updo 瓦特哈曼”;哦,般度之子,此刻咆哮的正是这位英雄。

7.197.34

यो ह्यनाथ इवाक्रम्य पार्षतेन हतस्तथा ।
कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः ॥ ७.१९७.३४ ॥

那位像无人庇护者一样遭到攻击、被普利沙塔之子(德里斯塔敦伽)以如此残忍之举杀害的人,如今他的保护者已经站了起来。

7.197.35

गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत् ।
तन्न जातुं क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः
स हि तेनैव नः सर्वान्क्षपयेदिति मे मतिः ॥ ७.१९७.३५ ॥

般遮罗人以揪住我师的头发之举,德罗纳之子绝不会容忍;他深知自身的勇武,必将以此举消灭我们所有人,这是我的看法。

7.197.36

उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात् ।
धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः ॥ ७.१९७.३६ ॥

你为了王国而虚伪地侍奉老师;你这位知晓法义的善人,确实犯下了极大的不义。

7.197.37

चिरं स्थास्यति चाकीर्तिस्त्रैलोक्ये सचराचरे ।
रामे वालिवधाद्यद्वदेवं द्रोणे निपातिते ॥ ७.१९७.३७ ॥

正如因杀死婆梨而使罗摩蒙受的恶名长久留存,同样,德罗纳被击倒之后,这恶名将在包括动与不动之物的三界中长久留存。

7.197.38

सर्वधर्मोपपन्नोऽयं स मे शिष्यश्च पाण्डवः ।
नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि ॥ ७.१९७.३८ ॥

此人具备一切德行,是我的弟子,也是般度之子;他不会说谎——这份信任他已在你心中树立。

7.197.39

स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम् ।
आचार्य उक्तो भवता हतः कुञ्जर इत्युत ॥ ७.१९७.३९ ॥

你以“真实铠甲”之名进入虚妄,于是对老师说:“象已被杀”。

7.197.40

ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः ।
आसीत्सुविह्वलो राजन्यथा दृष्टस्त्वया विभुः ॥ ७.१९७.४० ॥

于是他放下兵器,无所执着,失去知觉,大王啊,那位威猛者极其慌乱,正如你所见。

7.197.41

स तु शोकसमाविष्टो विमुखः पुत्रवत्सलः ।
शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः ॥ ७.१९७.४१ ॥

他被忧愁所笼罩,背过身去,爱子之情深厚;舍弃了永恒的法,导师被弟子杀死。

7.197.42

न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान् ।
रक्षत्विदानीं सामात्यो यदि शक्तोसि पार्षतम् ॥ ७.१९७.४२ ॥

你以不义使已放下兵器的导师被杀,如今若你有能力,就与大臣一起保护般沙塔之子吧。

7.197.43

ग्रस्तमाचार्य पुत्रेण क्रुद्धेन हतबन्धुना ।
सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम् ॥ ७.१९७.४३ ॥

老师之子愤怒地抓住了他,因亲属被杀,今天我们所有人都无法救出般遮罗之子。

7.197.44

सौहार्दं सर्वभूतेषु यः करोत्यतिमानुषः ।
सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे ॥ ७.१९७.४४ ॥

那位对一切众生心怀善意的超人,听闻父亲被揪住头发后,今日将在战场上焚烧我们。

7.197.45

विक्रोशमाने हि मयि भृशमाचार्यगृद्विनि ।
अपाकीर्य स्वयं धर्मं शिप्येण निहतो गुरुः ॥ ७.१९७.४५ ॥

当我大声呼喊、渴望老师安全时,弟子自己抛弃了法,杀死了老师。

7.197.46

यदा गतं वयो भूयः शिष्टमल्पतरं च नः ।
तस्येदानीं विरोधोऽयमधर्मोऽयं कृतो महान् ॥ ७.१९७.४६ ॥

我们的岁月已逝去,所剩无几,如今与他之间的敌对已经产生;这是一桩大的不义之事。

7.197.47

पितेव नित्यं सौहार्दात्पितेव हि च धर्मतः ।
सोऽल्पकालस्य राज्यस्य कारमाद्वातितो गुरुः ॥ ७.१९७.४७ ॥

他以善意始终如父,以法也如父;那位老师竟为短暂的王国而遭受折磨。

7.197.48

धृतराष्ट्रेण भीष्माय द्रोणाय च विशाम्पते ।
विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः ॥ ७.१९७.४८ ॥

人主啊!持国王将整个大地交给了毗湿摩和德罗纳,以及忠于他们的诸子。

7.197.49

सम्प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः ।
अब्रवीत्सततं पुत्रान्मामेवाभ्यधिकं गुरुः ॥ ७.१९७.४९ ॥

得到这样的生计,不断受到敌人的尊敬,老师常对诸子说,他最偏爱的是我。

7.197.50

अवेक्षमाणस्त्वां मां च न्यस्तास्त्रश्चाहवे हतः ।
न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः ॥ ७.१९७.५० ॥

他注视着你和我,放下兵器,在战斗中被杀;若他仍在战斗,即便因陀罗也不能杀他。

7.197.51

तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः ।
कृतो ह्यनार्यैरस्माभीर राज्यार्थे लुब्धबुद्धिभिः ॥ ७.१९७.५१ ॥

对那位一直施恩于人的年迈老师,犯下了背叛之罪;我们这些心存贪欲的不义之人,为了王国而做了此事。

7.197.52

अहो बत महत्पापं कृतं कर्म सुदारुणम् ।
यद्राज्यसुखलोभेन द्रोणोऽयं साधुघातितः ॥ ७.१९७.५२ ॥

唉!犯下了大罪和极其残忍的行为,为了王权之乐的贪欲,这位善人德罗纳被杀害了。

7.197.53

पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविः ।
त्यजेत्सर्वं मम प्रेम्णा जानात्येवं हि मे गुरुः ॥ ७.१९७.५३ ॥

子嗣、兄弟、父亲、妻子,乃至生命,因陀罗之子都会为了我的爱而舍弃一切;老师正是这样了解我的。

7.197.54

स मया राज्यकामेन हन्यमानो ह्युपेक्षितः ।
तस्मादर्वाक्शिरा राजन्प्राप्तोऽस्मि नरकं प्रभो ॥ ७.१९७.५४ ॥

他被杀害时,我因渴望王国而疏忽了他;因此,大王啊,主啊,我已头朝下堕入地狱。

7.197.55

ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं महामुनिम् ।
घातयित्वाऽद्य राज्यार्थे मृतं श्रेयो न जीवितम् ॥ ७.१९७.५५ ॥

为了王权,今日使一位婆罗门、年迈的师长、已放下武器的大仙被杀,死去胜于活着。